बुधवार, 27 मार्च 2024

तत्त्वबोधः

 

तत्त्वबोधः

श्रीशङ्करभगवत्पादाचार्यप्रणीतः INVOCATION वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते ॥ साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः । १ SADHANA CHATUSHTAYA (The four-fold qualifications) साधनचतुष्टयं किम् ? नित्यानित्यवस्तुविवेकः । इहामुत्रार्थफलभोगविरागः । शमादिषट्कसम्पत्तिः । मुमुक्षुत्वं चेति । १.१ VIVEKA (Discrimination) नित्यानित्यवस्तुविवेकः कः ? नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् । अयमेव नित्यानित्यवस्तुविवेकः । १.२ VAIRAGYA (Dispassion) विरागः कः ? इहस्वर्गभोगेषु इच्छाराहित्यम् । १.३ SHATKA SAMPATTI शमादिसाधनसम्पत्तिः का ? शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति । १.३.१ SAMA शमः कः ? मनोनिग्रहः । १.३.२ DAMA दमः कः ? चक्षुरादिबाह्येन्द्रियनिग्रहः । १.३.३ UPARAMA OR UPARATI उपरमः कः ? स्वधर्मानुष्ठानमेव । १.३.४ TITIKSHA तितिक्षा का ? शीतोष्णसुखदुःखादिसहिष्णुत्वम् । १.३.५ SHRADDHA श्रद्धा कीदृशी ? गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा । १.३.६ SAMADHANA समाधानं किम् ? चित्तैकाग्रता । १.४ MUMUKSHUTVAM मुमुक्षुत्वं किम् ? मोक्षो मे भूयाद् इति इच्छा । एतत् साधनचतुष्टयम् । ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति । २ TATTVA VIVEKA (Enquiry into Truth) तत्त्वविवेकः कः ? आत्मा सत्यं तदन्यत् सर्वं मिथ्येति । आत्मा कः ? स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन् अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन् यस्तिष्ठति स आत्मा । २.१ THE FIVE SHEATHS (Pancha Kosa) २.२ SHARIRA TRAYA (The Three Bodies) २.३ AVASTHA TRAYA (The Three States) २.४ SATCHIDANANDA SVARUPA (Existence-Knowledge-Bliss) ३ STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya) ३.१ STHULA SHARIRA स्थूलशरीरं किम् ? पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्विकारवदेतत्स्थूलशरीरम् । ३.२ SUKSHMA SHARIRA सूक्ष्मशरीरं किम् ? अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् । ३.२.१ ~nANA INDRIYAS (Organs of Perception) श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि । श्रोत्रस्य दिग्देवता । त्वचो वायुः । चक्षुषः सूर्यः । रसनाया वरुणः । घ्राणस्य अश्विनौ । इति ज्ञानेन्द्रियदेवताः । श्रोत्रस्य विषयः शब्दग्रहणम् । त्वचो विषयः स्पर्शग्रहणम् । चक्षुषो विषयः रूपग्रहणम् । रसनाया विषयः रसग्रहणम् । घ्राणस्य विषयः गन्धग्रहणम् इति । ३.२.२ KARMA INDRIYAS (Organs of Action) वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि । वाचो देवता वह्निः । हस्तयोरिन्द्रः । पादयोर्विष्णुः । पायोर्मृत्युः । उपस्थस्य प्रजापतिः । इति कर्मेन्द्रियदेवताः । वाचो विषयः भाषणम् । पाण्योर्विषयः वस्तुग्रहणम् । पादयोर्विषयः गमनम् । पायोर्विषयः मलत्यागः । उपस्थस्य विषयः आनन्द इति । ३.३ KARANA SHARIRA कारणशरीरं किम् ? अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् । ४ AVASTHA TRAYA (The Three States) अवस्थात्रयं किम् ? जाग्रत्स्वप्नसुषुप्त्यवस्थाः । ४.१ JAGRAT AVASTHAA (Waking State) जाग्रदवस्था का ? श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत् सा जाग्रदावस्था । स्थूल शरीराभिमानी आत्मा विश्व इत्युच्यते । ४.२ SVAPNA AVASTHA (Dream State) स्वप्नावस्था केति चेत् ? जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम् तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा स्वप्नावस्था । सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते । ४.३ SUSHUPTI AVASTHA (Deep-sleep State) अतः सुषुप्त्यवस्था का ? अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति सुषुप्त्यवस्था । कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते । ५ PANCHA KOSHAS पञ्च कोशाः के ? अन्नमयः प्राणमयः मनोमयः विज्ञानमयः आनन्दमयश्चेति । ५.१ ANNAMAYA KOSHA (Food Sheath) अन्नमयः कः ? अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् । ५.२ PRANAMAYA KOSHA (Vital Air Sheath) प्राणमयः कः ? प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः । ५.३ MANOMAYA KOSHA (Mental Sheath) मनोमयः कोशः कः ? मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः । ५.४ VI~nANAMAYA KOSHA (Intellectual Sheath) विज्ञानमयः कः ? बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः । ५.५ ANANDAMAYA KOSHA (Bliss Sheath) आनन्दमयः कः ? एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः । एतत्कोशपञ्चकम् । ५.६ PANCHAKOSHATITA मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम् मदीयत्वेन ज्ञातमात्मा न भवति ॥ ६ ATMAN आत्मा तर्हि कः ? सच्चिदानन्दस्वरूपः । सत्किम् ? कालत्रयेऽपि तिष्ठतीति सत् । चित्किम् ? ज्ञानस्वरूपः । आनन्दः कः ? सुखस्वरूपः । एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् । ७ JAGAT (The Universe) अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः । ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति । ७.१ BRAHMAN ७.२ MAYA ७.३ CREATION ७.३.१ EVOLUTION OF THE FIVE ELEMENTS ततः आकाशः सम्भूतः । आकाशाद् वायुः । वायोस्तेजः । तेजस आपः । अभ्धयः पृथिवी । ७.३.२ EVOLUTION OF THE SATTVA ASPECT ७.३.२.१ ORGANS OF PERCEPTION एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् । वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् । अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् । जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् । पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् । ७.३.२.२ ANTAHKARANA (Mind) एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात् मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि । सङ्कल्पविकल्पात्मकं मनः । निश्चयात्मिका बुद्धिः । अहंकर्ता अहंकारः । चिन्तनकर्तृ चित्तम् । मनसो देवता चन्द्रमाः । बुद्धे ब्रह्मा । अहंकारस्य रुद्रः । चित्तस्य वासुदेवः । ७.३.३ EVOLUTION OF THE RAJAS ASPECT एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् । वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् । वन्हेः राजसांशात् पादेन्द्रियं सम्भूतम् । जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् । पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् । एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः । ७.३.४ EVOLUTION OF THE TAMASIC ASPECT एतेषां पञ्चतत्त्वानां तामसांशात् पञ्चीकृतपञ्चतत्त्वानि भवन्ति । पञ्चीकरणं कथम् इति चेत् । एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक् तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् । तदा पञ्चीकरणं भवति । एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति । एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् । ८ ISHVARA AND THE ADHISHTHANA DEVATAS ९ JIVA AND ISHVARA स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति । स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति । अविद्योपाधिः सन् आत्मा जीव इत्युच्यते । मायोपाधिः सन् ईश्वर इत्युच्यते । एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते । तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या । १० TAT TWAMASI (That Thou Art) ननु साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः विरुद्धधर्माक्रान्तत्वात् । इति चेन्न । स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः । उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं त्वंपदलक्ष्यार्थः । एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः । उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः । एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः । ११ JIVANMUKTA एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः । ननु जीवन्मुक्तः कः ? यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः ॥ ११.१ ASANGA (Unattached) ११.२ SATCHIDANANDA (Existence-Knowledge-Bliss) ११.३ SARVANTARYAMI (The Indweller of All) ११.४ CHIDAKASARUPA (Formless Consciousness) ११.५ APAROKSHA ~nANA ११.६ FREEDOM FROM BONDAGE ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् । कर्माणि कतिविधानि सन्तीति चेत् आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति । ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म यदस्ति तदागामीत्यभिधीयते । सञ्चितं कर्म किम् ? अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं तिष्ठति तत् सञ्चितं ज्ञेयम् । प्रारब्धं कर्म किमिति चेत् । इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति । १२ KARMA १३ FREEDOM FROM BONDAGE सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति । आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति । किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति ज्ञानिकृतं आगामि पुण्यं गच्छति । ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति । सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णन्ति । तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति । तरति शोकमात्मवित् इति श्रुतेः । तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा । ज्ञानसम्प्राप्तिसमये मुक्ताऽसौ विगताशयः । इति स्मृतेश्च । इति श्रीशङ्करभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् ।

विविधदेवतानां गायत्र्यादिमन्त्राः

 

गायत्रीमन्त्राः

सूर्य ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॥ ॐ अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ ॐ आदित्याय विद्महे सहस्रकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ ॐ आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नो भानुः प्रचोदयात् ॥ ॐ आदित्याय च विद्महे मार्तण्डाय च धीमहि तन्नो भानुः प्रचोदयात् ॥ ॐ प्रभाकराय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ ॐ भास्कराय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ ॐ भास्कराय विद्महे महातेजाय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ ॐ भास्कराय विद्महे महाद्द्युतिकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ चन्द्र ॐ निशाकराय विद्महे कलानाथाय धीमहि तन्नः सोमः प्रचोदयात् ॥ ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥ ॐ क्षीरपुत्राय विद्महे महाकालाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥ ॐ सोमात्मजाय विद्महे अमृततत्त्वाय धीमहि तन्नः सोमः प्रचोदयात् ॥ ॐ अत्रिपुत्राय विद्महे सागरोद्भवाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥ अंगारक, भौम, मङ्गल, कुज ॐ वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ॥ ॐ अंगारकाय विद्महे भूमिपालाय धीमहि तन्नः कुजः प्रचोदयात् ॥ ॐ चित्रिपुत्राय विद्महे लोहितांगाय धीमहि तन्नो भौमः प्रचोदयात् ॥ ॐ अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ॥ ॐ क्षितिपुत्राय विद्महे लोहिताङ्गाय धीमहि तन्नो भौमः प्रचोदयात् ॥ बुध ॐ गजध्वजाय विद्महे सुखहस्ताय धीमहि तन्नो बुधः प्रचोदयात् ॥ ॐ चन्द्रपुत्राय विद्महे रोहिणीप्रियाय धीमहि तन्नो बुधः प्रचोदयात् ॥ ॐ सौम्यरूपाय विद्महे वाणेशाय धीमहि तन्नो बुधः प्रचोदयात् ॥ ॐ सोमात्मजाय विद्महे सिंहरूपाय धीमहि तन्नः बुधः प्रचोदयात् ॥ गुरु ॐ गुरुदेवाय विद्महे परब्रह्माय धीमहि तन्नो गुरुः प्रचोदयात् ॥ ॐ वृषभध्वजाय विद्महे क्रुनिहस्ताय धीमहि तन्नो गुरुः प्रचोदयात् ॥ ॐ सुराचार्याय विद्महे सुरश्रेष्ठाय धीमहि तन्नो गुरुः प्रचोदयात् ॥ ॐ सुराचार्याय विद्महे वाचस्पतये च धीमहि तन्नो गुरुः प्रचोदयात् ॥ ॐ अङ्गिरसाय विद्महे दण्डायुधाय धीमहि तन्नो जीवः प्रचोदयात् ॥ ॐ अङ्गिरोजाताय विद्महे वाचस्पतये धीमहि तन्नो गुरुः प्रचोदयात् ॥ शुक्र ॐ अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ ॐ रजदाभाय विद्महे भृगुसुताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ ॐ भृगुसुताय विद्महे दिव्यदेहाय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ ॐ भार्गवाय च विद्महे दानवार्चिताय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ ॐ भृगुवंशजाताय विद्महे श्वेतवाहनाय धीमहि तन्नः शुक्रः (कविः) प्रचोदयात् ॥ शनीश्वर, शनैश्चर, शनी ॐ काकध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ॥ ॐ शनैश्चराय विद्महे सूर्यपुत्राय धीमहि तन्नो मन्दः प्रचोदयात् ॥ ॐ सूर्यपुत्राय विद्महे मृत्युरूपाय धीमहि तन्नः सौरिः प्रचोदयात् ॥ ॐ नीलाञ्जनाय विद्महे सूर्यपुत्राय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥ ॐ भगभवाय विद्महे मृत्युरूपाय धीमहि तन्नः शनैश्चरः प्रचोदयात् ॥ ॐ कृष्णाङ्गाय विद्महे रविपुत्राय धीमहि तन्नः सौरिः प्रचोदयात् ॥ राहु ॐ नागध्वजाय विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ॥ ॐ शिरोरूपाय विद्महे अमृतेशाय धीमहि तन्नो राहुः प्रचोदयात् ॥ ॐ नीलाम्बराय च विद्महे शूलधराय धीमहि तन्नो राहुः प्रचोदयात् ॥ ॐ नीलवर्णाय विद्महे सैंहिकेयाय धीमहि तन्नो राहुः प्रचोदयात् ॥ केतु ॐ अश्वध्वजाय विद्महे शूलहस्ताय धीमहि तन्नः केतुः प्रचोदयात् ॥ ॐ चित्रवर्णाय विद्महे सर्परूपाय धीमहि तन्नः केतुः प्रचोदयात् ॥ ॐ गदाहस्ताय विद्महे अमृतेशाय धीमहि तन्नः केतुः प्रचोदयात् ॥ ॐ धूम्रवर्णाय विद्महे विकृताननाय धीमहि तन्नः केतुः प्रचोदयात् ॥ ॐ पद्मपुत्राय विद्महे अमृतेशाय धीमहि तन्नः केतुः प्रचोदयात् ॥ ॐ अत्रवाय (धूम्राय) विद्महे कपोतवाहनाय धीमहि तन्नः केतुः प्रचोदयात् ॥ पृथ्वी ॐ पृथ्वी देव्यै विद्महे सहस्रमर्त्यै च धीमहि तन्नः पृथ्वी प्रचोदयात् ॥ ब्रह्मा ॐ चतुर्मुखाय विद्महे हंसारूढाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥ ॐ वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥ ॐ चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥ ॐ परमेश्वराय विद्महे परमतत्त्वाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥ विष्णु ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ नारायण ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ वेंकटेश्वर ॐ निरंजनाय विद्महे निरपाशाय (?) धीमहि तन्नः श्रीनिवासः प्रचोदयात् ॥ राम ॐ रघुवंश्याय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ॥ ॐ दाशरथाय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ॥ ॐ भरताग्रजाय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ॥ ॐ भरताग्रजाय विद्महे रघुनन्दनाय धीमहि तन्नो रामः प्रचोदयात् ॥ कृष्ण ॐ देवकीनन्दनाय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥ ॐ दामोदराय विद्महे रुक्मिणीवल्लभाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥ ॐ गोविन्दाय विद्महे गोपीवल्लभाय धीमहि तन्नः कृष्णः प्रचोदयात् । गोपाल ॐ गोपालाय विद्महे गोपीजनवल्लभाय धीमहि तन्नो गोपालः प्रचोदयात् ॥ पाण्डुरंग ॐ भक्तवरदाय विद्महे पाण्डुरंगाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥ नृसिंह ॐ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि तन्नो नारसिꣳहः प्रचोदयात् ॥ ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि तन्नः सिंहः प्रचोदयात् ॥ परशुराम ॐ जामदग्न्याय विद्महे महावीराय धीमहि तन्नः परशुरामः प्रचोदयात् ॥ इन्द्र ॐ सहस्रनेत्राय विद्महे वज्रहस्ताय धीमहि तन्न इन्द्रः प्रचोदयात् ॥ हनुमान ॐ आंजनेयाय विद्महे महाबलाय धीमहि तन्नो हनूमान् प्रचोदयात् ॥। ॐ आंजनेयाय विद्महे वायुपुत्राय धीमहि तन्नो हनूमान् प्रचोदयात् ॥ मारुती ॐ मरुत्पुत्राय विद्महे आंजनेयाय धीमहि तन्नो मारुतिः प्रचोदयात् ॥ दुर्गा ॐ कात्यायनाय विद्महे कन्यकुमारी च धीमहि तन्नो दुर्गा प्रचोदयात् ॥ ॐ महाशूलिन्यै विद्महे महादुर्गायै धीमहि तन्नो भगवती प्रचोदयात् ॥ ॐ गिरिजायै च विद्महे शिवप्रियायै च धीमहि तन्नो दुर्गा प्रचोदयात् ॥ शक्ति ॐ सर्वसंमोहिन्यै विद्महे विश्वजनन्यै च धीमहि तन्नः शक्तिः प्रचोदयात् ॥ काली ॐ कालिकायै च विद्महे श्मशानवासिन्यै च धीमहि तन्न अघोरा प्रचोदयात् ॥ ॐ आद्यायै च विद्महे परमेश्वर्यै च धीमहि तन्नः कालीः प्रचोदयात् ॥ देवी ॐ महाशूलिन्यै च विद्महे महादुर्गायै धीमहि तन्नो भगवती प्रचोदयात् ॥ ॐ वाग्देव्यै च विद्महे कामराज्ञै च धीमहि तन्नो देवी प्रचोदयात् ॥ गौरी ॐ सुभगायै च विद्महे काममालिन्यै च धीमहि तन्नो गौरी प्रचोदयात् ॥ लक्ष्मी ॐ महालक्ष्मी च विद्महे विष्णुपत्नीश्च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥ ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥ सरस्वती ॐ वाग्देव्यै च विद्महे विरिंचिपत्न्यै च धीमहि तन्नो वाणी प्रचोदयात् ॥ सीता ॐ जनकनन्दिन्यै विद्महे भूमिजायै च धीमहि तन्नः सीता प्रचोदयात् ॥ राधा ॐ वृषभानुजायै विद्महे कृष्णप्रियायै धीमहि तन्नो राधा प्रचोदयात् ॥ अन्नपूर्णा ॐ भगवत्यै च विद्महे माहेश्वर्यै च धीमहि तन्न अन्नपूर्णा प्रचोदयात् ॥ तुलसी ॐ तुलसीदेव्यै च विद्महे विष्णुप्रियायै च धीमहि तन्नो वृन्दः प्रचोदयात् ॥ महादेव ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ रुद्र ॐ पुरुषस्य विद्महे सहस्राक्षस्य धीमहि तन्नो रुद्रः प्रचोदयात् ॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ शंकर ॐ सदाशिवाय विद्महे सहस्राक्ष्याय धीमहि तन्नः साम्बः प्रचोदयात् ॥ नन्दिकेश्वर ॐ तत्पुरुषाय विद्महे नन्दिकेश्वराय धीमहि तन्नो वृषभः प्रचोदयात् ॥ गणेश ॐ तत्कराटाय विद्महे हस्तिमुखाय धीमहि तन्नो दन्ती प्रचोदयात् ॥ ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् ॥ ॐ तत्पुरुषाय विद्महे हस्तिमुखाय धीमहि तन्नो दन्ती प्रचोदयात् ॥ ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् ॥ ॐ लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्तिः प्रचोदयात् ॥ ॐ महोत्कटाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ षण्मुख ॐ षण्मुखाय विद्महे महासेनाय धीमहि तन्नः स्कन्दः प्रचोदयात्॥ ॐ षण्मुखाय विद्महे महासेनाय धीमहि तन्नः षष्ठः प्रचोदयात् ॥ सुब्रह्मण्य ॐ तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् ॥ ॐ ॐ ॐकाराय विद्महे डमरुजातस्य धीमहि तन्नः प्रणवः प्रचोदयात् ॥ अजपा ॐ हंस हंसाय विद्महे सोऽहं हंसाय धीमहि तन्नो हंसः प्रचोदयात् ॥ दक्षिणामूर्ति ॐ दक्षिणामूर्तये विद्महे ध्यानस्थाय धीमहि तन्नो धीशः प्रचोदयात् ॥ गुरु ॐ गुरुदेवाय विद्महे परब्रह्मणे धीमहि तन्नो गुरुः प्रचोदयात् ॥ हयग्रीव ॐ वागीश्वराय विद्महे हयग्रीवाय धीमहि तन्नो हंसः प्रचोदयात् ॥ अग्नि ॐ सप्तजिह्वाय विद्महे अग्निदेवाय धीमहि तन्न अग्निः प्रचोदयात् ॥ ॐ वैश्वानराय विद्महे लालीलाय धीमहि तन्न अग्निः प्रचोदयात् ॥ ॐ महाज्वालाय विद्महे अग्निदेवाय धीमहि तन्नो अग्निः प्रचोदयात् ॥ यम ॐ सूर्यपुत्राय विद्महे महाकालाय धीमहि तन्नो यमः प्रचोदयात् ॥ वरुण ॐ जलबिम्बाय विद्महे नीलपुरुषाय धीमहि तन्नो वरुणः प्रचोदयात् ॥ वैश्वानर ॐ पावकाय विद्महे सप्तजिह्वाय धीमहि तन्नो वैश्वानरः प्रचोदयात् ॥ मन्मथ ॐ कामदेवाय विद्महे पुष्पवनाय धीमहि तन्नः कामः प्रचोदयात् ॥ हंस ॐ हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् ॥ ॐ परमहंसाय विद्महे महत्तत्त्वाय धीमहि तन्नो हंसः प्रचोदयात् ॥ नन्दी ॐ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् ॥ गरुड ॐ तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् ॥ सर्प ॐ नवकुलाय विद्महे विषदन्ताय धीमहि तन्नः सर्पः प्रचोदयात् ॥ पांचजन्य ॐ पांचजन्याय विद्महे पावमानाय धीमहि तन्नः शंखः प्रचोदयात् ॥ सुदर्शन ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रः प्रचोदयात् ॥ अग्नि ॐ रुद्रनेत्राय विद्महे शक्तिहस्ताय धीमहि तन्नो वह्निः प्रचोदयात् ॥ ॐ वैश्वानराय विद्महे लाललीलाय धीमहि तन्नोऽग्निः प्रचोदयात् ॥ ॐ महाज्वालाय विद्महे अग्निमथनाय धीमहि तन्नोऽग्निः प्रचोदयात् ॥ आकाश ॐ आकाशाय च विद्महे नभोदेवाय धीमहि तन्नो गगनं प्रचोदयात् ॥ अन्नपूर्णा ॐ भगवत्यै च विद्महे माहेश्वर्यै च धीमहि तन्नोऽन्नपूर्णा प्रचोदयात् ॥ बगलामुखी ॐ बगलामुख्यै च विद्महे स्तम्भिन्यै च धीमहि तन्नो देवी प्रचोदयात् ॥ ॐ ऐं बगलामुखि विद्महे ॐ क्लीं कान्तेश्वरि धीमहि । ॐ सौः तन्नः प्रह्लीं प्रचोदयात् ॥ बटुकभैरव ॐ तत्पुरुषाय विद्महे आपदुद्धारणाय धीमहि तन्नो बटुकः प्रचोदयात् ॥ भैरवी ॐ त्रिपुरायै च विद्महे भैरव्यै च धीमहि तन्नो देवी प्रचोदयात् ॥ भुवनेश्वरी ॐ नारायण्यै च विद्महे भुवनेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् ॥ ब्रह्मा ॐ पद्मोद्भवाय विद्महे देववक्त्राय धीमहि तन्नः स्रष्टा प्रचोदयात् ॥ ॐ वेदात्मने च विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥ ॐ परमेश्वराय विद्महे परतत्त्वाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥ चन्द्र ॐ क्षीरपुत्राय विद्महे अमृततत्त्वाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥ छिन्नमस्ता ॐ वैरोचन्यै च विद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् ॥ दक्षिणामूर्ति ॐ दक्षिणामूर्तये विद्महे ध्यानस्थाय धीमहि तन्नो धीशः प्रचोदयात् ॥ देवी ॐ देव्यैब्रह्माण्यै विद्महे महाशक्त्यै च धीमहि तन्नो देवी प्रचोदयात् ॥ धूमावती ॐ धूमावत्यै च विद्महे संहारिण्यै च धीमहि तन्नो धूमा प्रचोदयात् ॥ दुर्गा ॐ कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि तन्नो दुर्गा प्रचोदयात् ॥ ॐ महादेव्यै च विद्महे दुर्गायै च धीमहि तन्नो देवी प्रचोदयात् ॥ गणेश ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ॥ ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ॥ गरुड ॐ वैनतेयाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात् ॥ ॐ तत्पुरुषाय विद्महे सुवर्णपर्णाय (सुवर्णपक्षाय) धीमहि तन्नो गरुडः प्रचोदयात् ॥ गौरी ॐ गणाम्बिकायै विद्महे कर्मसिद्ध्यै च धीमहि तन्नो गौरी प्रचोदयात् ॥ ॐ सुभगायै च विद्महे काममालायै धीमहि तन्नो गौरी प्रचोदयात् ॥ गोपाल ॐ गोपालाय विद्महे गोपीजनवल्लभाय धीमहि तन्नो गोपालः प्रचोदयात् ॥ गुरु ॐ गुरुदेवाय विद्महे परब्रह्माय धीमहि तन्नो गुरुः प्रचोदयात् ॥ हनुमत् ॐ रामदूताय विद्महे कपिराजाय धीमहि तन्नो हनुमान् प्रचोदयात् ॥ ॐ अञ्जनीजाय विद्महे वायुपुत्राय धीमहि तन्नो हनुमान् प्रचोदयात् ॥ हयग्रीव ॐ वागीश्वराय विद्महे हयग्रीवाय धीमहि तन्नो हंसः प्रचोदयात् ॥ इन्द्र, शक्र ॐ देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नः शक्रः प्रचोदयात् ॥ ॐ तत्पुरुषाय विद्महे सहस्राक्षाय धीमहि तन्न इन्द्रः प्रचोदयात् ॥ जल ॐ ह्रीं जलबिम्बाय विद्महे मीनपुरुषाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ ॐ जलबिम्बाय विद्महे नीलपुरुषाय धीमहि तन्नस्त्वम्बु प्रचोदयात् ॥ जानकी ॐ जनकजायै विद्महे रामप्रियायै धीमहि तन्नः सीता प्रचोदयात् ॥ जयदुर्गा ॐ नारायण्यै विद्महे दुर्गायै च धीमहि तन्नो गौरी प्रचोदयात् ॥ काली ॐ कालिकायै विद्महे श्मशानवासिन्यै धीमहि तन्नोऽघोरा प्रचोदयात् ॥ काम ॐ मनोभवाय विद्महे कन्दर्पाय धीमहि तन्नः कामः प्रचोदयात् ॥ ॐ मन्मथेशाय विद्महे कामदेवाय धीमहि तन्नोऽनङ्गः प्रचोदयात् ॥ ॐ कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयात् ॥ कामकलाकाली ॐ अनङ्गाकुलायै विद्महे मदनातुरायै धीमहि तन्नः कामकलाकाली प्रचोदयात् ॥ कृष्ण ॐ दामोदराय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥ ॐ देवकीनन्दनाय विद्महे वासुदेवाय धीमहि तन्नः कृष्णः प्रचोदयात् ॥ ॐ श्रीकृष्णाय विद्महे दामोदराय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ लक्ष्मण ॐ दाशरथाय विद्महे अलबेलया धीमहि तन्नो लक्ष्मणः प्रचोदयात् ॥ लक्ष्मी ॐ महाम्बिकायै विद्महे कर्मसिद्ध्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥ ॐ महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि तन्नो देवी प्रचोदयात् ॥ ॐ महालक्ष्म्यै च विद्महे सार्वशक्त्यै च धीमहि तन्नो देवी प्रचोदयात् ॥ ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॥ ॐ महालक्ष्म्यै च विद्महे महाश्रियै च धीमहि तन्नः श्रीः प्रचोदयात् ॥ महिषामर्दिनि ॐ महिषमर्दिन्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् ॥ मातङ्गी ॐ मातङ्ग्यै च विद्महे उच्छिष्टचाण्डाल्यै च धीमहि तन्नो देवी प्रचोदयात् ॥ नन्दी ॐ हरिवक्त्राय विद्महे रुद्रवक्त्राय धीमहि तन्नो नन्दी प्रचोदयात् ॥ ॐ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दी प्रचोदयात् ॥ नारायण ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो नारायणः प्रचोदयात् ॥ निरृति ॐ निशाचराय विद्महे खड्गहस्ताय धीमहि तन्नो निरृतिः प्रचोदयात् ॥ नृसिम्ःअ ॐ वज्रनखाय विद्महे तीक्ष्णदंष्ट्राय धीमहि तन्नो नरसिंहः प्रचोदयात् ॥ ॐ उग्रनृसिंहाय विद्महे वज्रनखाय धीमहि तन्नो नृसिंहः प्रचोदयात् ॥ परमहंसः ॐ पद्मोद्भवाय विद्महे वेदवक्त्राय धीमहि तन्नः स्रष्टा प्रचोदयात् ॥ परशुराम ॐ जामदग्न्याय विद्महे महावीराय धीमहि तन्नः परशुरामः प्रचोदयात् ॥ पृथिवी ॐ समुद्धृताय विद्महे विष्णुनैकेन धीमहि तन्नो धरा प्रचोदयात् ॥ ॐ पृथिवीदेव्यै च विद्महे सहस्रमूर्त्यै च धीमहि तन्नो मही प्रचोदयात् ॥ राधिका ॐ वृषभानुजायै विद्महे कृष्णप्रियायै धीमहि तन्नो राधिका प्रचोदयात् ॥ राम ॐ दाशरथाय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् ॥ रुद्र ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ ॐ सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्रः प्रचोदयात् ॥ सरस्वती ॐ ऐं वाग्देव्यै च विद्महे कामराजायै धीमहि तन्नो देवी प्रचोदयात् ॥ शक्ति ॐ ऐं वागीश्वरि विद्महे क्लीं कामेश्वरि धीमहि सौस्तन्नः शक्तिः प्रचोदयात् ॥ ॐ सर्वसंमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ षण्मुख ॐ तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् ॥ शिव ॐ तत्पुरुषाय विद्महे वाग्विशुद्धाय धीमहि तन्नः शिवः प्रचोदयात् ॥ ॐ महादेवाय विद्महे रुद्रमूर्तये धीमहि तन्नः शिवः प्रचोदयात् ॥ षोडशी ॐ ऐं त्रिपुरादेव्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौस्तन्नः प्रचोदयात् ॥ ॐ क्लीं त्रिपुरादेव्यै विद्महे कामेश्वरी धीमहि तन्नः क्लिन्ने प्रचोदयात् ॥ ॐ ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौस्तन्नः प्रचोदयात् ॥ स्कन्द, षण्मुख ॐ महासेनाय विद्महे वाग्विशुद्धाय धीमहि तन्नः स्कन्दः प्रचोदयात् ॥ ॐ तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात् ॥ तारा ॐ तारायै च विद्महे महोग्रायै धीमहि तन्नो देवी प्रचोदयात् ॥ तुलसी ॐ श्रीत्रिपुराय विद्महे तुलसीपत्राय धीमहि तन्नस्तुलसी प्रचोदयात् ॥ त्वरित ॐ त्वरितादेव्यै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् ॥ वडवानल ॐ शोचिष्लेशाय विद्महे वडवामुखाय धीमहि तन्नः शुक्रः प्रचोदयात् ॥ वाणी ॐ ब्रह्मजायायै विद्महे देवरूपायै धीमहि तन्नो वाचा प्रचोदयात् ॥ वरुण ॐ शुद्धहस्ताय विद्महे पाशहस्ताय धीमहि तन्नो वरुणः प्रचोदयात् ॥ वायु ॐ सर्वप्राणाय विद्महे यष्टिहस्ताय धीमहि तन्नो वायुः प्रचोदयात् ॥ ॐ पवनपुरुषाय विद्महे सहस्रमूर्तये च धीमहि तन्नो वायुः प्रचोदयात् ॥ विष्णु ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ ॐ श्रीविष्णवे च विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ ॐ त्रैलोक्यमोहनाय विद्महे आत्मारामाय धीमहि तन्नो विष्णुः प्रचोदयात् ॥ वृष ॐ तीक्ष्णदंष्ट्राय विद्महे वेदपादाय धीमहि तन्नो वृषः प्रचोदयात् ॥ यम ॐ वैवस्वताय विद्महे दण्डहस्ताय धीमहि तन्नो यमः प्रचोदयात् ॥ यक्ष ॐ यक्षेश्वराय विद्महे गदाहस्ताय धीमहि तन्नो यक्षः प्रचोदयात् ॥ शरभ ॐ पक्षिसाल्वाय विद्महे वज्रतुण्डाय धीमहि तन्नः शरभः प्रचोदयात् ॥ वाचा ॐ शिवास्यजायै विद्महे देवरूपायै धीमहि तन्नो वाचा प्रचोदयात् ॥

ज्ञानसङ्कलिनीतन्त्रम्

 

ज्ञानसङ्कलिनीतन्त्रम्

॥ ॐ श्रीगणेशाय नमः ॥ अथ ज्ञानसङ्कलिनीतन्त्र योगशासन । कैलासशिखरासीनं देवदेवं जगद्गुरुम् । पृच्छति सा महादेवी ब्रूहि ज्ञानं महेश्वर ॥ १॥ (स्म) देव्युवाच - कुतः सृष्टिर्भवेदेव कथं सृष्टिर्विनश्यति । (सृष्टिर्भवेद्देव) ब्रह्मज्ञानं कथं देव सृष्टिसंहारवर्जितम् ॥ २॥ शिवोवाच - अव्यक्ताच्च भवेत्सृष्टिरव्यक्ताच्च च विनश्यति । अव्यक्तं ब्रह्मणो ज्ञानं सृष्टिसंहारवर्जितम् ॥ ३॥ ओङ्कारादक्षरा सर्वास्त्वेता विद्याश्चतुर्दश । (ओङ्कारादक्षरात्) मन्त्रपूजातपोध्यानं कर्माकर्मौ तथैव च ॥ ४॥ (कर्माकर्म) षडङ्गं वेदाश्चत्वारि मीमांसा न्यायविस्तरः । (वेदाश्चत्वारो) धर्मशास्त्रपुराणानि एता विद्याश्चतुर्दश ॥ ५॥ तावद्विज्ञा भवेत्सर्वा यावद्ज्ञानं न जायते । (तावद् विद्या) ब्रह्मज्ञानपदङ्गत्वा सर्वविद्या: स्थिरा भवेत् ॥ ६॥ (ब्रह्मज्ञानं पदं ज्ञात्वा सर्वविद्या) वेदशास्त्रपुराणानि सामान्यगणिका इव । या पुनः शाम्भवी विद्या गुप्ता कुलवधूरिव ॥ ७॥ देहस्थाः सर्वविद्याश्च देहस्थाः सर्वदेवताः । देहस्थ सर्वतीर्थानि गुरुवाक्येन लभ्यते ॥ ८॥ (देहस्थाः) अध्यात्मविद्या हि नृणां सौख्यमोक्षकरी भवेत् । धर्म कर्म तथा जप्यमेतत्सर्वं निवर्तते ॥ ९॥ काष्ठमध्ये यथा वह्निः पुष्पे गन्धः पयोऽमृतम् । देहमध्ये तथा देवः पुण्यपापविवर्जितम् ॥ १०॥ (पुण्यपापविवर्जितः) इडा भगवती गङ्गा पिङ्गला यमुना नदी । (जमुना) इडापिङ्गलयोर्मध्ये सुषुम्ना च सरस्वती ॥ ११॥ त्रिवेणीसङ्गमो यत्र तीर्थराजो स उच्यते । (तीर्थराजः) तत्र स्नानं प्रकुर्वीत सर्वपापैः प्रमुच्यते ॥ १२॥ देव्युवाच - कीदृशी खेचरी मुद्रा विद्या च शाम्भवी पुनः । कीदृश्यध्यात्मविद्या च तन्मे ब्रूहि महेश्वर ॥ १३॥ शिवोवाच - मनः स्थिरं यस्य विनावलम्बनं वायुः स्थिरं यस्य विनानिरोधनम् । (वायुः स्थिरो) दृष्टिस्स्थिरा यस्य विनावलोकनं सा एव मुद्रा विचरन्ती खेचरी ॥ १४॥ बालस्य मूर्खस्य यथैव चेतः स्वप्नेन हीनोऽपि करोति निद्रा । (निद्राम्) ततो गतः पथो निरावलम्बः सा एव विद्या विचरन्ती शाम्भवी ॥ १५॥ (यथो) (निद्रावलम्ब ?) देव्युवाच - देवदेव जगन्नाथ ब्रूहि मे परमेश्वर । दर्शनानि कथं देव भवन्ति च पृथक्पृथक् ॥ १६॥ शिवोवाच - त्रिदण्डी च भवेद्भक्तो वेदाभ्यासरतः सदा । प्रकृतिवादरत: सक्तो बौध्य: शून्येतिवादिनः ॥ १७॥ (प्रकृतिवादरताः शाक्ता बौद्धा शून्यातिवादिनः) अतोर्ध्वं गमिनो जीवाः तत्त्वज्ञोऽपि तादृशः । (अतोर्ध्वं गामिनो ये वा तत्त्वज्ञा अपि तादृशाः) सर्वं नास्तीति चार्वाका जल्पन्ति विषयाश्रिताः ॥ १८॥ (विषयेस्थिताः) उमा पृच्छति हे देव पिण्डब्रह्माण्डलक्षणम् । पञ्चभूत कथं देव गुणाः के पञ्चविंशतिः ॥ १९॥ (पञ्चभूतं) शिवोवाच - अस्थि मांसं नखं चैव त्वग्लोमानि च पञ्चमम् । (त्वङ्लोमानि? नखं चैव च पञ्चमम्) पृथ्वी पञ्चगुणा प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २०॥ शुक्रशोणितमज्जा च मल मूत्रं च पञ्चमम् । (मलं) अपां पञ्चगुणा प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २१॥ (पञ्चगुणाः) निद्रा तृषा क्षुधा चैव क्लान्तिरायुष्य पञ्चकम् । (क्षुधा तृषा) (क्लान्तिरालस्यपञ्चमम्) तेजः पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २२॥ धारणं चालनं क्षेपं सङ्कोचं प्रसरं तथा । वायो पञ्चगुणाः प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २३॥ (वायोः) कामं क्रोधं तथा मोहं लज्जा लोभञ्च पञ्चमम् । नभः पञ्चगुणः प्रोक्ता ब्रह्मज्ञानेन भासते ॥ २४॥ (पञ्चगुणाः) आकाशाज्जायते वायुर्वायोरुत्पद्यते रविः । रवेरुत्पद्यते तोयं तोयादुत्पद्यते मही ॥ २५॥ मही विलीयते तोयं रवौ तोयं विलीयते । (मही विलीयते तोये तोयं विलीयते रवौ) रविर्विलीयते वायौ वायुर्विलीयते तु खे ॥ २६॥ पञ्चतत्त्वाद्भवेत्सृष्टिस्तत्त्वात्तत्त्वे वीलीयते । (पञ्चतत्त्वाद्भवेत्सृष्टिस्तत्त्वात्तत्त्वं) पञ्चतत्त्वात्परं तत्त्वं तत्त्वातीतं निरञ्जनम् ॥ २७॥ स्पर्शनं रसनं चैव घ्राणं चक्षुश्च श्रोत्तरम् । (श्रोत्रकम्) पञ्चेन्द्रियमिदं तत्त्वं मनोसाधनमिन्द्रियम् ॥ २८॥ (मनः साधकमिन्द्रियम्) ब्रह्माण्डलक्षणं सर्वं देहमध्ये व्यवस्थितम् । साकारास्य विनश्यन्ति निराकारो न नश्यति ॥ २९॥ (साकाराश्च) निराकारो मनो यस्य निराकारो शमो भवेत् । (निराकारं मनो यस्य निराकारसमो भवेत्) तस्मात्सर्वप्रयत्नेन साकारं तु परित्यजेत् ॥ ३०॥ देव्युवाच - आदिनाथ मयि ब्रूहि सप्तधातुः कथं भवेत् । आत्मा चैवान्तरात्मा च परमात्मा कथं भवेत् ॥ ३१॥ शिवोवाच - शुक्रशोणितमज्जा च मेदो मांसं च पञ्चमम् । अस्थि त्वक्चैव सप्तै ते शरीरेषु व्यवस्थिताः ॥ ३२॥ शरीरं चैवमात्मानमन्तरात्मा मनोभवेत् । परमात्मा भवेच्छून्यं मनो यत्र विलीयते ॥ ३३॥ रक्तधातुर्भवेन्माता शुक्रधातुर्भवेत्पिता । शून्यधातोर्भवेत्प्राणो गर्भपिण्डं प्रजायते ॥ ३४॥ (शून्यधातुर्भवेत्प्राणो) देव्योवाच - कथमुत्पद्यते वाचा कथं वाचा विलीयते । वाक्यस्य निर्णयं ब्रूहि पश्य ज्ञानंमुदाहर ॥ ३५॥ (ज्ञानमुदाहर) शिवोवाच - अव्यक्ताज्जायते प्राणः प्राणादुत्पद्यते मनः । मनसोत्पद्यते वाचा मनो वाचि विलीयते ॥ ३६॥ (वाचा) देव्युवाच - कस्मिन्स्थाने वसेत्सूर्यो कस्मिन्स्थाने वसेच्छशिः । (वसेत्सूर्यः) (वसेच्छशी) कस्मिन्स्थाने वसेद्वायुः कस्मिन्स्थाने वसेन्मनः ॥ ३७॥ शिवोवाच - तालुमूले स्थितश्चन्द्रो नाभिमूले दिवाकरः । सूर्याग्रे वसते वायुश्चन्द्राग्रे वसते मनः ॥ ३८॥ सूर्याग्रे वसते चित्तं चन्द्राग्रे जीवितं प्रिये । एतद्युक्तिर्महादेवि गुरुवाक्येन लभ्यते ॥ ३९॥ (एतद्युक्तं महादेवि) देव्योवाच - कस्मिन्स्थाने वसेच्छक्तिः कस्मिन्स्थाने वसेच्छिवः । कस्मिन्स्थाने वसेत्कालो जरा केन प्रजायते ॥ ४०॥ शिवोवाच - पाताले वसते शक्तिर्ब्रह्माण्डे वसते शिवः । अन्तरिक्षे वसेत्कालो जरा तेन प्रजायते ॥ ४१॥ देव्युवाच - आहारं काङ्क्षते कोसौ भुञ्जते पिबते कथम् । (कोऽसौ) जाग्रत्स्वप्नसुषुप्तौ च को वासौ प्रतिबुध्यते ॥ ४२॥ (वाऽसौ) (प्रतिबुध्यति) शिवोवाच - आहारं काङ्क्षते प्राणो भुञ्जतेऽपि हुताशनः । जाग्रत्स्वप्नसुषुप्तौ च वायु: स्वपितिबुध्यते ॥ ४३॥ (वायुश्च प्रतिबुध्यति) देव्युवाच - को वा करोति कर्माणि को वा लिप्यते पातकैः । (लिप्येत) को वा करोति पापानि को वा पापैः प्रमुच्यते ॥ ४४॥ शिवोवाच - मनः करोति पापानि मनो लिप्यते पातकैः । मनश्च तन्मनो भूत्वा न पुण्यैर्न च पातकैः ॥ ४५॥ (तन्मना, तन्मया) देव्युवाच - जीवः केन प्रकारेण शिवो भवति कश्चु स: । (कस्य च) कार्यस्य कारणं ब्रूहि कथं किञ्च प्रसाधनम् ॥ ४६॥ (प्रसादनम्) शिवोवाच - भ्रान्तिबद्धो भवेज्जीवो भ्रान्तिमुक्तः सदाशिवः । कार्यं हि करणं तं च पुनर्बोध विशिष्यते ॥ ४७॥ (कारणं) (त्वञ्च पुनर्बोधो) मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः । / ॥ ४८॥ इदं तीर्थमिदं तीर्थं भ्रमन्ति तामसा जनाः ॥ ४८॥ / । आत्मतीर्थं न जानन्ति कथं मोक्षो वरानने ॥ ४९/४८॥ (जानाति) न वेदो वेदमित्याह वेद ब्रह्म सनातनम् । (न वेदं वेदमित्याहुर्वेदो) ब्रह्मविद्यारतो यस्तु स विप्रो वेदपारगः ॥ ५०/४९॥ मन्थित्वा चतुरो वेदान्सर्वशास्त्राणि चैव हि । (मथित्वा) सारं तु योगिनो पीत्वा तक्रं पिवन्ति पण्डिताः ॥ ५१/५०॥ (योगिभिः पीतं तक्रं पिबन्ति) उच्छीष्टं सर्वशास्त्राणि सर्वा विद्या मुखे मुखे । नोच्छिष्टं ब्रह्मणो ज्ञानमव्यक्तं चिदनामयम् ॥ ५२/५१॥ (चेतनामयम्) न तपस्तप इत्याहुर्ब्रह्मचर्यं तपोत्तमम् । ऊर्ध्वरेता भवेद्यस्तु स देवो न तु मानुषः ॥ ५३/५२॥ न ध्यानं ध्यानमित्याहुर्ध्यानं शून्यगतं मनः । तस्य ध्यानप्रसादेन सौख्यं मोक्षं न संशयः ॥ ५४/५३॥ न होमं होममित्याहु समाधौ तत्तु भूयते । (होममित्याहुः) ब्रह्माग्नौ हूयते प्राणं होमकर्म तदुच्यते ॥ ५५/५४॥ पापकर्म भवेद्भव्यं पुण्यं चैव प्रवर्तते । तस्मात्सर्वप्रयत्नेन तद्द्रव्यं च त्यजेद्बुधः ॥ ५६/५५॥ (ताद्रूप्यं) यावद्वर्णं कुलं सर्वं तावज्ज्ञानं न जायते । ब्रह्मज्ञानपदं गत्वा सर्ववर्णविवर्जितः ॥ ५७/५६॥ (ज्ञात्वा) देव्युवाच - यत्त्वया कथितं ज्ञानं नाहं जानामि शङ्कर । निश्चयं ब्रूहि देवेश मनो यत्र विलीयते ॥ ५८/५७॥ शिवोवाच - मनो वाक्यं तथा कर्म त्रितयं यत्र लीयते । (तृतीयं?) विना स्वप्नं यथा निद्रा ब्रह्मज्ञानं तदुच्यते ॥ ५९/५८॥ एकाकी निस्पृहः शान्तश्चिन्तानिद्राविवर्जितः । (शान्तश्चिन्ताविवर्जितः) बालभावस्तथा भाव ब्रह्मज्ञानं तदुच्यते ॥ ६०/५९॥ (भावो) श्लोकार्धं तु प्रवक्ष्यामि तदुक्तं तत्त्वदर्शिभिः । (यदुक्तं) सर्वचिन्तापरित्यागो निश्चिन्तो योग उच्यते ॥ ६१/६०॥ निमिषं निमिषार्द्धं वा समाधिमधिगच्छति । शतजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ ६२/६१॥ (तत्क्षणात्देवि) देव्युवाच - कस्या नाम भवेच्छक्तिः कस्य नाम भवेच्छिवः । (कस्य नाम भवेच्छक्तिः) एतन्मे ब्रूहि भो देव पश्यज्ञानं प्रकाशय ॥ ६३॥ (पश्चाज्ज्ञानं) शिवोवाच - चलच्चित्ते वसेच्छक्तिः स्थिरचित्ते वसेच्छिवः । स्थिरचित्ते भवेद्देवि स देहस्थोऽपि सिध्यति ॥ ६४॥ (स्थिरचित्तो) देव्युवाच - कस्मिन्स्थाने त्रिधा शक्तिः षट्चक्रं च तथैव च । एकविंशतिब्रह्माण्डं सप्तपातालमेव च ॥ ६५॥ शिवोवाच - ऊर्ध्वशक्तिर्भवेत्कण्ठः अधशक्तिर्भवेत्गुदः । मध्यशक्तिर्भवेन्नाभिः शक्त्यतीतं निरञ्जनम् ॥ ६६॥ आधारं गुह्यचक्रं तु स्वाधिष्ठानं च लिङ्गकम् । चक्रभेदं मयाख्यातं चक्रातीतं नमो नमः ॥ ६७॥ कायोर्ध्वं च ब्रह्मलोकस्वधः पातालमेव च । (ब्रह्मलोकः स्वाधः, ब्रह्मलोकः स्वाधाः) ऊर्ध्वमूलमधःशाखं वृक्षाकारं कलेवरम् ॥ ६८॥ (ऊर्ध्वमूलमधःसाग्रं ?) देव्युवाच - शिव शङ्कर ईशान ब्रूहि मे परमेश्वर । दशवायु कथं देव दशद्वाराणि चैव हि ॥ ६९॥ (दशवायुः) शिवोवाच - हृदि प्राणः स्थितो वायुरपानो गुदसंस्थितः । समानो नाभिदेशे तु उदानः कण्ठसंस्थितः ॥ ७०॥ (कण्ठमाश्रितः) व्यानः सर्वगतो देहे सर्वागात्रेषु संस्थितः । नाग ऊर्ध्वोगतो वायुः कूर्मस्तीर्थानि कूर्म्मोस्तीर्थानि संस्थितः ॥ ७१॥ (ऊर्ध्वगतो) (कूर्म्मोस्थीनि, कूर्म तीर्थानि) कृकरः क्षोभिते चैव देवदत्तोऽपि जृम्भणे । (क्रकरः) धनञ्जयो नादघोषे निविशेच्चैव सन्मतिः॥ ७२॥ (शाम्यति) एते वायुनिरालम्ब योगिनां योगसम्मतः । (एष, एवं) (वायुर्निरालम्बो) नवद्वारं च प्रात्यक्षं दशमं मन उच्यते ॥ ७३॥ देव्युवाच - नाडीभेदं च मे ब्रूहि सर्वगात्रेषु संस्थितम् । शक्तिः कुण्डलिनी चैव प्रसूते दशनाडिका ॥ ७४॥ (प्रसूता) शिवोवाच - ईडा च पिङ्गला चैव सुषुम्ना चोर्ध्वगामिनी । गान्धारी हस्तिजिह्वा च प्रसवा गमनायता: ॥ ७५॥ (गमनायता) अलम्बुषायशा चैव दक्षिणाङ्गे च संस्थिताः । (अलम्बुसा) कुलश्च शङ्खिनी चैव वामाङ्गे च वपो:स्थिता ॥ ७६॥ (व्यवस्थिताः) एतासु दशनाडीषु नानानाडीप्रसूतिका: । (नानानाडीप्रसूतिका) द्विसप्ततिसहस्राणि शरीरे नाडिकाः स्मृताः ॥ ७७॥ एता यो विन्दते देवी स योगी योगलक्षणः । ज्ञाननाडी भवेद्देवी योगिनां सिद्धिदायिनी ॥ ७८॥ देव्युवाच - भूतनाथ महादेव ब्रूहि मे परमेश्वर । त्रयो देवा: कथं देव त्रयो भावास्त्रयो गुणाः ॥ ७९॥ (त्रयो देवा, त्रयदेवा:) शिवोवाच - रजोभावस्थितो ब्रह्मा सत्त्वभावस्थितो हरिः । (सत्वभावस्थितो) क्रोधभावेस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः ॥ ८०॥ (क्रोधभावस्थितो) एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । नानाभावं मनो यस्य तस्य मुक्तिर्न जायते ॥ ८१॥ वीर्यरूपी भवेद्ब्रह्मा वायुरूपः स्थितो हरिः । मनोरूपी स्थिता रुद्रस्त्रयो देवास्त्रयो गुणाः ॥ ८२॥ (मनोरूपः स्थितो) दयाभावेस्थितो ब्रह्मा शुद्धभावस्थितो हरिः । (दयाभावस्थितो) अग्निभावस्थितो रुद्रस्त्रयो देवास्त्रयो गुणाः ॥ ८३॥ एकं भूतं परं ब्रह्म जगत्सर्वं चराचरम् । नानाभावे मनो यस्य तस्य मुक्तिर्न जायते ॥ ८४॥ (नानाभावं मनो) अहं सृष्टिरहं कालोऽप्यहं ब्रह्माऽप्यहं हरिः । अहं रुद्रोऽप्यहं शून्यमहं व्यापी निरंतरम् ॥ ८५॥ (निरञ्जनम्) अहं सर्वात्मकं देवि निष्कामो गगनोपमाः । (सर्वात्मको) स्वभावो निर्मलं शान्तं सैवाहं न संशयः ॥ ८६॥ (स्वभाव) (स्वान्तं) (स एवाहं) जितेन्द्रियो भवेच्छूरो ब्रह्मचारी स पण्डितः । (भवेत् सुरो) (सुपण्डितः) सत्यवादी भवेद्भक्तो दाता धीरो हितेरतः ॥ ८७॥ ब्रह्मचर्यं तपोमूलं धर्ममूला दया स्मृता । (ब्रह्मचर्य्यं) तस्मात्सर्वप्रयत्नेन दयाधर्मं समाश्रयेत् ॥ ८८॥ देव्युवाच - योगेश्वर जगन्नाथ उमायाः प्राणवल्लभ । वेदसन्ध्या तपो ध्यानं होमकर्म कुलं कथम् ॥ ८९॥ शिवोवाच - अश्वमेधसहस्राणि वाजपेयशतानि च । ब्रह्मज्ञानसमं पुण्यं कलां नार्हंति षोडशीम् ॥ ९०॥ (नार्हति) सर्वदा सर्वतीर्थेषु यत्फलं लभते शुचिः । ब्रह्मज्ञानसमं पुण्यं कलां नार्हंति षोडशीम् ॥ ९१॥ (नार्हति) न मित्रं न च पुत्रश्च न पिता न च बान्धवाः । (पुत्राश्च) न स्वामी च गुरोस्तुल्यं यद्दृष्टं परमं पदम् ॥ ९२॥ (नयश्यामी ?) न च विद्यागुरोस्तुल्या ना तीर्थं न च देवताः । (विद्यागुरोस्तुल्यं न) (नातिथ्यं ?) गुरोस्तुल्यं न वै कोऽपि यद्दृष्टं परमं पदम् ॥ ९३॥ एकमप्यक्षरं यस्तु गुरु शिष्ये निवेदनम् । (गुरुः) (निवेदयेत्) पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चा नृणो भवेत् ॥ ९४॥ (चानृणी) यस्य कस्य न दातव्यं ब्रह्मज्ञानं सुगोपितम् । यस्य कस्यापि भक्तस्य सद्गुरुस्तस्य धीयते ॥ ९५॥ (दीयते) मन्त्रं पूजां तपो ध्यानं होमं जप्यं बलिक्रिया । (बलिक्रियाम्) संन्यासं सर्वकर्माणि लौकिकीनी त्यजेद्बुधः ॥ ९६॥ (लौकिकानि) संसर्गाद्बहवो दोषा: निःसङ्गाद्बहवो गुणाः । (दोषा) तस्मात्सङ्गप्रयत्नेन यति सङ्गं परित्यजेत् ॥ ९७॥ (तस्मात् सर्वप्रयत्नेन) (यतिः) अकारः सात्त्विको ज्ञेय उकारो राजसः स्मृतः । मकारस्तामसः प्रोक्तस्त्रिभिः प्रकृतिरुच्यते ॥ ९८॥ अक्षरा प्रकृतिः प्रोक्ता अक्षरः स्वयमीश्वरः । (रक्षरः ?) ईश्वरानिर्गता सा हि प्रकृतिर्गुणबन्धना ॥ ९९॥ (ईश्वरान्निर्गता) सा माया पालिनी शक्तिः सृष्टिसंहारकारिणी । अविद्या मोहिनी या सा शब्दरूपा यशस्विनी ॥ १००॥ अकारश्चैव ऋग्वेद उकारो यजुरुच्यते । मकारः सामवेदस्तु त्रिषु युक्तोऽप्यथर्वणः ॥ १०१॥ ओङ्कारस्तु प्लुतो ज्ञेयस्त्रिनाद इति संज्ञितः । अकारस्त्वथ भूर्लोक उकारो भुवरुच्यते ॥ १०२॥ (भुव उच्यते) सव्यञ्जन मकारस्तु स्वर्लोकस्तु विधीयते । (सव्यञ्जनो) अक्षरैस्त्रिभिरेतैश्च भवेदात्मा व्यवस्थितः ॥ १०३॥ अकारः पृथिवी ज्ञेया पीतवर्णेन संयुता । (संयुतः) अन्तरिक्ष उकारस्तु विद्युद्वर्ण इहोच्यते ॥ १०४॥ (अन्तरीक्षं ?) मकारः स्वरिति ज्ञेया शुक्लवर्णेन संयुतः । (ज्ञेयः) ध्रुवमेकाक्षरं ब्रह्म ॐ इत्येवं व्यवस्थितम् ॥ १०५॥ (स्थिरासनो भवेन्नित्यं चिन्तानिद्राविवर्जितः । (चिन्तानिद्राव्यवस्थितः) आसु सञ्जायते योगी नान्यथा शिवभाषिते ॥ १०६॥ (स जायते) (शिवभाषितम्) य इदं पठते नित्यं श‍ृणोति च दिने दिने । सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ १०७॥) देव्युवाच - स्थूलस्य लक्षणं ब्रूहि कथं मनो विलीयते । परमार्थं च निर्वाणं स्थूलसूक्ष्मस्य लक्षणम् ॥ १०८/१०६॥ शिवोवाच - येन ज्ञानेन हे देवि विद्यते न च किल्बिषम् । (किल्बिषी) पृथिव्यापस्तथा तेजो वायुराकाशमेव च । / ॥ १०८/१०७॥ स्थूलरूपी स्थितोऽयं च सूक्ष्मं च अन्यथा स्थितिः ॥ १०९/१०८॥ (स्थितः) (स्थिरासनो भवेन्नित्यं चिन्तानिद्राविवर्जितः । आशु स जायते योगी नान्यथा शिवभाषितम् ॥ १०९॥ य इदं पठते नित्यं श‍ृणोति च दिने दिने । सर्वपापविशुद्धात्मा शिवलोकं स गच्छति ॥ ११०॥) ॥ इति योगशास्त्रे हरगौरीसंवादे ज्ञानसङ्कलिनीतन्त्रं समाप्तम् ॥

हस्तामलकसंवादस्तोत्रम्

 

हस्तामलकस्तोत्रम्

(हस्तामलकीय) (इन्द्रवज्रा छन्द -) कस्त्वं शिशो कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि । एतन्मयोक्तं वद चार्भक त्वं मत्प्रीतये प्रीति विवर्धनोऽसि ॥ १॥ हस्तामलक उवाच । नाहं मनुष्यो न च देव-यक्षौ न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः । न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोध रूपः ॥ २॥ (भुजङ्गप्रयात छन्द -) निमित्तं मनश्चक्षुरादि प्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३॥ यमग्न्युष्णवन्नित्यबोध स्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तन्त आश्रित्य निष्कम्पमेकं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४॥ मुखाभासको दर्पणे दृश्यमानो मुखत्वात् पृथक्त्वेन नैवास्ति वस्तु । चिदाभासको धीषु जीवोऽपि तद्वत् स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५॥ यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । तथा धी वियोगे निराभासको यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६॥ मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूपः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७॥ य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८॥ यथाऽनेकचक्षुः-प्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम् । अनेका धियो यस्तथैकः प्रबोधः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ९॥ विवस्वत् प्रभातं यथा रूपमक्षं प्रगृह्णाति नाभातमेवं विवस्वान् । यदाभात आभासयत्यक्षमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १०॥ यथा सूर्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्यद्विभाव्यस्वरूपः । चलासु प्रभिन्नः सुधीष्वेक एव (प्रभिन्नासु धीष्वेवमेकः) स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ११॥ घनच्छन्नदृष्टिर्घनच्छन्नमर्कम् यथा निष्प्रभं मन्यते चातिमूढः । तथा बद्धवद्भाति यो मूढ-दृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १२॥ समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यन्न स्पृशन्ति । वियद्वत्सदा शुद्धमच्छस्वरूपं स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १३॥ उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । यथा चन्द्रिकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो ॥ १४॥ ॥ इति श्रीहस्तामलकाचार्यरचितं हस्तामलकसंवादस्तोत्रं सम्पूर्णम् ॥

अनुभवनिवेदनम्

 

अनुभवनिवेदनम्

अन्तर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते दृष्ट्या निश्चलतारया बहिरसौ पश्यन्नपश्यन्नपि । मुद्रेयं खलु शाम्भवी भवति सा युष्मत्प्रसादाद्गुरो शून्याशून्यविवर्जितं भवति यत् तत्त्वं पदं शाम्भवम् ॥ १॥ अर्धोद्धाटितलोचनः स्थिरमना नासाग्रदत्तेक्षण- श्चन्द्रार्कावपि लीनतामुपगतौ त्रिस्पन्दभावान्तरे । ज्योतीरूपमशेषबाह्यरहितं चैकं पुमांसं परं तत्त्वं तत्पदमेति वस्तु परमं वाच्यं किमत्राधिकम् ॥ २॥ शब्दः कश्चन यो मुखादुदयते मन्त्रः स लोकोत्तरः संस्थानं सुखदुःखजन्मवपुषो यत्कापि मुद्रैव सा । प्राणस्य स्वरसेन यत्प्रवहणं योगः स एवाद्भुतः शाक्तं धाम परं ममानुभवतः किन्नाम न भ्राजते ॥ ३॥ मन्त्रः स प्रतिभाति वर्णरचना यस्मिन्न संलक्ष्यते मुद्रा सा समुदेति यत्र गलिता कृत्स्ना क्रिया कायिकी । योगः स प्रथते यतः प्रवहणं प्राणस्य संक्षीयते त्वद्धामाधिगमोत्सवेषु सुधियां किं किं न नामाद्भुतम् ॥ ४॥ ॥ इति श्रीअभिनवगुप्तपादाचार्यकृतं अनुभवनिवेदनं सम्पूर्णम् ॥

योगरहस्यं श्रीदत्तात्रेयविरचितम्

 

योगरहस्यं श्रीदत्तात्रेयविरचितम्

योगाध्यायः ज्ञानपूर्वो वियोगो योः ज्ञानेन सह योगिनः । सा मुक्तिर्ब्रह्मणा च ऐक्यमनैक्यं प्राकृतैर्गुणैः ॥ १.१॥ मुक्तिर्योगात्तथा योगः सम्यग्ज्ञानान्महीपते । ज्ञानं दुःखोद्भवं दुःखं ममतासक्तचेतसाम् ॥ १.२॥ तस्मात्सङ्गं प्रयत्नेन मुमुक्षुः सन्त्यजेन्नरः । सङ्गाभावे ममेत्यस्याः ख्यातेर्हाबिः प्रजायते ॥ १.३॥ निर्ममत्वं सुखायैव वैराग्याद्दोषदर्शनम् । ज्ञानादेव च वैराग्यं ज्ञानं वैराग्यपूर्वकम् ॥ १.४॥ तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति । यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ॥ १.५॥ उपभोगेन पुण्यानामपुण्यानाञ्च पार्थिव । कर्त्तव्यानाञ्च नित्यानामकामकरणात्तथा ॥ १.६॥ असञ्चयादपूर्वस्य क्षयात्पूर्वार्ज्जितस्य च । कर्मणो बन्धमाप्नोति शरीरं न पुनः पुनः ॥ १.७॥ एतत्ते कथितं राजन्योगं चेमं निबोध मे । यं प्राप्य ब्रह्मणो योगी शाश्वतान्नान्यतां व्रजेत् ॥ १.८॥ प्रागेवात्मात्मना जेयो योगिनां स हि दुर्जयः । कुर्वीत तज्जये यत्नं तस्योपायं श‍ृणुस्व मे ॥ १.९॥ प्राणायामैर्दहेद्दोषान्धारणाभिः च किल्विषम् । प्रत्याहारेण विषयान्ध्यानेनानीश्वराङ्गुणान् ॥ १.१०॥ यथा पर्वतधातूनां दोषाः दह्यन्ति धाम्यताम् । तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिग्रहात् ॥ १.११॥ प्रथमं साधनं कुर्यात्प्राणायामस्य योगवित् । प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥ १.१२॥ लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः । तस्य प्रमाणं वक्ष्यामि तदलर्क श‍ृनुष्व मे ॥ १.१३॥ लघुः द्वादशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिस्तु मात्राभिः उत्तमः परिकीर्तितः ॥ १.१४॥ निमेषोन्मेषणो मात्राकालो लघ्वक्षरस्तथा । प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रिकः ॥ १.१५॥ प्रथमेन जयेत्स्वेदम्मध्यमेन च वेपथुम् । विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥ १.१६॥ मृदुत्वं सेव्यमानस्तु सिंहशार्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥ १.१७॥ वश्यं नत्तं यथेच्छातो नागं नयति हस्तिपः । तथैव योगी स्वच्छन्दः प्राणं नयति साधितम् ॥ १.१८॥ यथा हि साधितः सिंहो मृगान् हस्ति न मानवान् । तद्वन्निषिद्धपवनः किल्विषं न नृणाः तनुम् ॥ १.१९॥ तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । श्रूयतां मुक्तिफलद तस्यावस्थाचतुष्टयम् ॥ १.२०॥ धवस्तिः प्राप्तिः तथा संवित्प्रसादश्च महीपते । स्वरुपं श‍ृणु चैतेषां कथ्यमानमनुक्रमात् ॥ १.२१॥ कर्मणामिष्टदुष्टानां जायते फलसंक्षयः । चेतसो अपकषायत्व यत्र सा धवस्तिरच्यते ॥ १.२२॥ ऐहिकामुष्मिकान् कामान् लोभमोहात्मकान् स्वयम् । निरुध्यास्ते यदा योगी प्राप्तिः सा सार्वकालिकी ॥ १.२३॥ अतीतानागतानर्थान्विप्रकृष्टतिरोहितान् । विजानातीन्दुसूर्यर्क्षग्रहाणां ज्ञानसम्पदा ॥ १.२४॥ तुल्यप्रभावस्तु सदा योगी प्राप्नोति सम्पदम् । तदा संविदिति ख्याता प्राणायामस्य संस्थितिः ॥ १.२५॥ यान्ति प्रसादं येनास्य मनः पञ्च च बायवः । इन्द्रियानीन्द्रियार्थाश्च स प्रसाद् इति स्मृतः ॥ १.२६॥ श‍ृणूस्व च महीपाल प्राणायामस्य लक्षणम् । युञ्जतश्च सदा योगं यादृग्विहितमासनम् ॥ १.२७॥ पद्मर्द्धासनं चापि तथा स्वस्तिकमासनम् । आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ॥ १.२८॥ समः समासनो भूत्वा संहृत्य चरणावूभौ । संवृतास्यः तथैवोरु सम्यग्विष्टभ्य चाग्रतः ॥ १.२९॥ पाष्णिभ्यां लिङ्गवृषणावस्पृशन्प्रयतः स्थितः । किञ्चिदुनमितशिरा दन्तैः दन्तान्न संस्पृशेत् ॥ १.३०॥ सम्पश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् । रजसा तमसौ वृत्तिं सत्त्वेन रजसस्तथा । स आद्य निर्मले तत्त्वे स्थितो युञ्जीत योगवित् ॥ १.३१॥ इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च । निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ १.३२॥ यस्तु प्रत्याहरेत्कामान्सर्वाङ्गानीव कच्छपः । सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ॥ १.३३॥ स बाह्याभ्यन्तरं शौचं निपाद्याकण्ठनाभितः । पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ॥ १.३४॥ तथा वै योगयुक्तस्य योगिनो नियतात्मनः । सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ॥ १.३५॥ वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान्पृथक् । व्योमादिपरमाणुञ्च तथात्मानमकल्मषम् ॥ १.३६॥ इत्थं योगी यताहारः प्राणायामपरायणः । जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ॥ १.३७॥ दोषान्व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता । विवर्धयति नारोहेत्तस्माद्भूमिमनिर्जिताम् ॥ १.३८॥ प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः । धारणेत्युव्यते चेयं धार्य्यते यन्मनो यया ॥ १.३९॥ शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः । प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ॥ १.४०॥ उपायश्चात्र कथितो योगिभिः परमर्षिभिः । येन ब्याध्यादयो दोषा न जायन्ते हि योगिनः ॥ १.४१॥ यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः । आपिबेयूस्तथा वायुं पिबेद्योगी जितश्रमः ॥ १.४२॥ प्राण्नाभ्यां हृदये चात्र तृतीये च तथोरसि । कण्ठे मुखे नासिकाग्रे नेत्रभ्रुमध्यमूर्द्धसु ॥ १.४३॥ किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता । दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् ॥ १.४४॥ तस्य नो जायते मृत्युर्न जरान च वै क्लमः । न श्रान्तिरवसादोत्थ तुरीये सततं स्थितिः ॥ १.४५॥ इयं वै योगभूमिः स्यात् सप्तैव परिकीर्त्तितः । यत्र स्थिते ब्रह्मस्थितिं लभते नात्र संशयः ॥ १.४६॥ नाध्मातः क्षूधितः श्रान्तो न च व्याकुलचेतनः । युञ्जीत योगं राजेन्द्र! योगी सिद्ध्यर्थमादृतः ॥ १.४७॥ नातिशीते न चोण्षे वै न द्वन्द्वेनानिलात्मके । कालेस्वेतेषु युञ्जीत न योगं ध्यानतत्परः ॥ १.४८॥ सशब्दाग्निजलाभ्यासे जीर्णगोष्ठे चतुष्पथे । शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ॥ १.४९॥ सभये कूपतीरे वा चैत्यवल्मीकसंचये । देषेष्वेतेषु तत्त्वज्ञो योगाब्यासं विवर्जयेत् ॥ १.५०॥ सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत् । नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् ॥ १.५१॥ दृळ्हता चित्तशुद्धिश्च जयते नात्र संशयः । स्थानकालप्रभावेण निश्चयं विद्धि भूमिप । तन्मयस्य कुतश्चिन्ता देशकालमयी तथा ॥ १.५२॥ देशानिताननादृत्य मूळ्हत्वाद्यो युनक्ति वै । विघ्नाय तस्य वै दोषा जायन्ते तन्निबोध मे ॥ १.५३॥ भाधिर्यं जळता लोपः स्मृतेर्मूकत्त्वमान्धता । ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः ॥ १.५४॥ प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम् । तेषां नाशाय कर्त्तव्यं योगिनां तन्निबोध मे ॥ १.५५॥ स्निग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् । वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे ॥ १.५६॥ यबागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् । तद्वत् कल्पे महाशैलं स्थिरं मनस् धारयेत् ॥ १.५७॥ विघाते वचनो वाचं वाधिर्य्यं श्रवणेन्द्रियम् । यथैवाम्रफलं ध्यायेत्तृष्णार्त्तो रसनेन्द्रिये ॥ १.५८॥ यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम् । धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् ॥ १.५९॥ कीलं शिरसि संस्थाप्य काष्थं काष्ठेन ताडयेत् । लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ॥ १.६०॥ द्यावापृथिव्यौ वाय्वग्नी व्यापिनावपि धारयेत् । अमानुषात्सस्त्वजाद्वा वाधास्त्वेताश्चिकित्सिताः ॥ १.६१॥ अमानुयं सत्त्वमन्तर्योगिनं प्रविशेद्यदि । वाय्वग्निधारणेनैनं देहसंस्थं विनिर्द्दहेत ॥ १.६२॥ एवं सर्वात्मना रक्षा कार्य्या योगविदा नृप!। धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥ १.६३॥ प्रवृत्तिलक्षणाख्यानादेयागिनो विस्मयात् तथा । विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः ॥ १.६४॥ अलोल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वासौम्यता च योगप्रवृत्तेः प्रथमं हि चिहुम् ॥ १.६५॥ अनुरागी जनो याति परोक्षे गुणकीर्त्तनम् । न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥ १.६६॥ शीतोष्णादिभिरत्युग्रैर्यस्य वाधा न विद्यते । न भीतिमेति चान्यभ्यस्तस्य सिद्धिरुपस्थिता ॥ १.६७॥ इति योगाध्यायः ॥ योगसिद्धिः उपसर्गाः प्रवर्त्तन्ते दृष्टे ह्यात्मनि योगिनः । ये तांस्ते सम्प्रवक्ष्यामि समासेन निबोध मे ॥ २.१॥ काम्याः क्रियास्तथा कामान् मानुषानभिवाज्ञति । स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥ २.२॥ देवत्वममरेशत्वं रसायनचयः क्रियाः । मरुत्प्रपतनं यञ्जं जलाग्न्यावेशनं तथा । श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ॥ २.३॥ तथोपवासात्पूर्त्ताच्च देवताभ्यर्च्चनादपि । तेभ्यश्चेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्चति ॥ २.४॥ चित्तमिथं वर्त्तमानं यत्नादेयागी निवर्त्तयेत् । ब्रह्मसङ्गि मनः कुर्व्वन्नुपसर्गात्प्रमुच्यते ॥ २.५॥ उपसर्गैर्जितैरेभिरूपसर्गास्तुतः पुनः । योगिनः सम्प्रवर्त्तन्ते सात्त्वराजसतामसाः ॥ २.६॥ प्रातिभः श्रावणो दैवो भ्रमावर्त्तौ तथापरौ । पञ्चैते योगिनां योगविघ्नाय कटुकोदया ॥ २.७॥ वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः । प्रतिभान्ति यदस्त्येति प्रातिभः स तु योगिनः ॥ २.८॥ शब्दार्थानखिलान् वेत्ति शब्दं गृह्नति चैव यत् । योजनानां सहस्रेभ्यः श्रावणः सोऽभिधीयते ॥ २.९॥ समन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः । उपसर्गं तमप्यान्थर्दैवमुन्मत्तवद्बुधाः ॥ २.१०॥ भ्राम्यते यन्निरालम्बं सनो दोषेण योगिनः । समस्ताचारविभ्रंशाद्भ्रमः स परिकीर्त्तितः ॥ २.११॥ आवर्त्त इव तोयस्य ज्ञानावत्तो यदाकुलः । नाशयेच्चित्तमावर्त्त उपसर्गः स उच्यते ॥ २.१२॥ एतैर्नाशितयोगास्तु सकला देवयोनयः । उपसर्गैर्महाघोरैरावर्त्तन्ते पुनः पुनः ॥ २.१३॥ प्रावृत्य कन्वलं शुल्कं योगी तस्मान्मनोमयम् । चिन्तयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ॥ २.१४॥ योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः । सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्द्ध्न धारयेत् ॥ २.१५॥ धरित्रीं धारयेद्योगी तत्सौख्यं प्रतिपद्यते । आत्मानं मन्यते चोर्व्विं तद्बन्धञ्च जहाति सः ॥ २.१६॥ तथैवाप्सुरसं सूक्ष्मं तद्वद्रूपञ्च तेजसि । स्पर्शं वायौ तथा तद्वद्विभ्रतस्तस्य धारणाम् । व्योम्नः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः ॥ २.१७॥ मनसा सर्वभूतानां मनस्याविशते यदा । मानसीं धारणां विभ्रन्मनः सूक्ष्मञ्च जायते ॥ २.१८॥ तद्वद्बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् । परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुतमम् ॥ २.१९॥ परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् । सम्यग्विज्ञाय योऽलर्क! तस्यावृत्तिर्न विद्यते ॥ २.२०॥ एतासां धारणानन्तु सप्तानां सौक्ष्म्यमात्मवान् । दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परं व्रजेत् ॥ २.२१॥ यस्मिन् यस्मिंश्च कुरुते भुते रागं महीपते!। तस्मिंस्तस्मिन् समासक्तिं सम्प्राप्य स विनश्यति ॥ २.२२॥ तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् । परित्यजति यो देही स परं प्राप्नुयात्पदम् ॥ २.२३॥ एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव । भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये ॥ २.२४॥ गद्धादिषु समासक्तिं सम्प्राप्य स विनश्यति । पुनरावर्त्तते भूप! स ब्रह्मापरमानुषम् ॥ २.२५॥ सप्तैता धारणा योगी समतीत्य यदिच्छति । तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर!॥ २.२६॥ देवानामसुराणां वा गन्धर्व्वोरगरक्षसाम् । देहेषु लयमायाति सङ्गं नाप्नोति च क्वचित् ॥ २.२७॥ अणिमा लघिमा चैव महिमा प्राप्तिरेव च । प्राकाम्यञ्च तथेशित्वं वशित्वञ्च तथापरम् ॥ २.२८॥ यत्र कामावसायित्वं गुणानेतांस्तथैश्वरान् । प्राप्नोत्यष्टौ नरव्याघ्र! परं निर्व्वाणसूचकान् ॥ २.२९॥ सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः । महिमाऽशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यतः ॥ २.३०॥ प्राकाम्यस्य च व्यापित्वादीशित्वञ्चेश्वरो यतः । वशित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ॥ २.३१॥ यत्रेच्चास्थानमप्युक्तं यत्र कामावसायिता । त्रैश्वर्य्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥ २.३२॥ मुक्तिसंसूचकं भूप! परं निर्वाणमात्मनः । ततो न जायते नैव वर्द्धते न विनश्यति ॥ २.३३॥ नापि क्षयमवाप्नोति परिणामं न गच्छति । छेदं क्लेदं तथा दाहं शोषं भुयादितो न च ॥ २.३४॥ भुतवर्गादवाप्नोति शब्दाद्यैर्ह्रियते न च । न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते ॥ २.३५॥ यथा हि कनकं खन्तमपद्रव्यवदग्निना । दग्धदोषं द्वितीयेन खन्तेनैक्यं व्रजेन्नृप!॥ २.३६॥ न विशेषमवाप्नोति तद्वद्योगाग्निना यतिः । निर्द्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ॥ २.३७॥ यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तदाख्यस्तन्मयो भुतो न गृह्येत विशेषतः ॥ २.३८॥ परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः । योगी याति पृथग्भावं न कदाचिन्महीपते!॥ २.३९॥ यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति । तथात्मा साम्यमभ्येति योगिनः परमात्मनि ॥ २.४०॥ इति योगसिद्धिः ॥ योगिचर्य्या अलर्क उवाच । भगवन्! योगिनश्चर्य्यं श्रोतुमिच्छामि तत्त्वतः । ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति ॥ ३.१॥ दत्तात्रेय उवाच । मानापमानौ यावेतौ प्राप्त्युद्वेगकरौ नृणाम् । तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ ॥ ३.२॥ मानापमानौ यावेतौ तावेवान्थर्विषामृते । अपमानोऽमृतं तत्र मानस्तु विषमं विषम् ॥ ३.३॥ चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥ ३.४॥ आतित्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च । म्हाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित् क्वचित् ॥ ३.५॥ व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्रवर्जने । अदेत योगविद्भैक्ष्यं न तु त्रिष्वेव नित्यशः ॥ ३.६॥ यथैवमवमन्यन्ते जनाः परिभवस्ति च । तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन् ॥ ३.७॥ भैक्ष्यं चरेद्गृहस्थेषु यायावरगृहेषु च । श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदृश्यते ॥ ३.८॥ अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः । श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ ३.९॥ अत ऊर्द्धं पुनश्चापि अदुष्ठापतितेषु च । भैक्ष्यचर्य्या विवर्णेषु जघन्या वृत्तिरिष्यते ॥ ३.१०॥ भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा । फलं मूलं प्रियङ्गुं वा कणपिण्याकशक्तवः ॥ ३.११॥ इत्येते च शुभाहारा योगिनः सिद्धिकारकाः । तत्प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना ॥ ३.१२॥ अपः पूर्वं सकृत् प्राश्य तुष्णीन्भूत्वा समाहितः । प्राणारेति ततस्तस्य प्रथमा ह्यान्थतिः स्मृता ॥ ३.१३॥ अपानाय द्वितीया तु समानायेति चापरा । उदानाय चतुर्थी स्यात् व्यानायेति च पञ्चमी ॥ ३.१४॥ प्राणायामैः पृथक् कृत्वा शेषं भुञ्जीत कामतः । अपः पुनः सकृत् प्राश्य आचम्य हृदयं स्पृशेत् ॥ ३.१५॥ अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च । व्रतानि पञ्च भिक्षुणामहिंसापरमाणि वै ॥ ३.१६॥ अक्रोधो गुरुशुश्रुषा शौचमाहारलाघवम् । नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्त्तिताः ॥ ३.१७॥ सारभूतमुपासीत ज्ञानं यत् कार्य्यसाधकम् । ज्ञानानां व धा षेयं योगविघ्नकरा हिन्सा ॥ ३.१८॥ इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् । अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥ ३.१९॥ त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः । विधाय बुद्ध्ह्या द्वाराणि मनो ध्याने निवेशयेत् ॥ ३.२०॥ शून्येष्वेवावकाशेषु गुहासु च वनेषु च । नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ ३.२१॥ वाग्दन्तः कर्मदन्तश्च मनोदन्तश्च ते त्रयः । यस्मैते नियता दन्ताः स त्रिदन्ती महायतिः ॥ ३.२२॥ सर्वमात्ममयं यस्य सदसज्जगदीदृशम् । गुणागुणमयं तस्य कः प्रियः को नृपाप्रियः ॥ ३.२३॥ विशुद्धबुद्धिः समलोष्ठ्रकाञ्चनः समस्तभूतेषु च तत्समाहितः । स्थानं परं शाश्वतमव्यञ्च परं हि गत्वा न पुनः प्रजायते ॥ ३.२४॥ वेदाः श्रेष्ठाः सर्वयज्ञक्रियाश्च यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् । ज्ञानाद्ध्यानं सङ्गरागव्यपेतं तस्मिन्प्राप्ते शाश्वतस्योपलब्धिः ॥ ३.२५॥ समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकान्तरतिर्यतेन्द्रियः । समाप्नुयाद्योगमिमं महात्मा विमुक्तिमाप्नोति ततः स्वयोगतः ॥ ३.२६॥ इति योगिचर्य्या

योगविषयः

 

योगविषयः

गुरुश्च गुरुपुत्रश्च ये चान्ये गुरुबान्धवाः । अन्येषाञ्च क्रमाज्ज्येष्ठास्तेषां पादौ नमाम्यहम् ॥ १॥ यादृशी ? भावनातीतं तं गुरुं प्रणमाम्यहम् । भ्रान्तश्च भ्रमते लोको निर्भ्रान्तः कृतनिश्चयः ॥ २॥ तस्य सिध्यन्ति पुरुषा आदिनाथे व्यवस्थिताः । कुलजातिसमायुक्तः सुचरित्रगुणान्वितः ॥ ३॥ गुरुभक्तियुतो धीमान् स शिष्य इति कथ्यते । अकुलेनादिनाथेन केजापूपीनवासिना ॥ ४॥ कृपयैव परं तत्त्वं मीननाथोऽपि बोधितः । मीननाथोऽपि सच्छिष्यं प्रत्युवाच समाहितः ॥ ५॥ त्वं गुरुस्त्वञ्च शिष्यश्च शिष्यस्य च गुरोरपि । नानयोरपि भेदोऽत्र समसिद्धिः प्रजायते ॥ ६॥ उमाशङ्करपुत्रोऽहं मीननाथो मुनीश्वरः । कथयामि परं तत्त्वं कुलाकुलविबोधकम् ॥ ७॥ आधारः स्वाधिष्ठानञ्च मणिपूरमनाहतम् । विशुद्धिराज्ञा कौलानि षट् चक्राणि शुभानि च ॥ ८॥ आधारश्च गुदे तस्थौ स्वाधिष्ठानञ्च लिङ्गके । मणिपूरं नाभिगतं हृदये चाप्यनाहतम् ॥ ९॥ विशुद्धिः कण्ठदेशे च आज्ञाचक्रं भ्रुवोर्मुखम् । चक्रभेदमिति ज्ञात्वा चक्रातीतं निरञ्जनम् ॥ १०॥ इडा वहति वामे च पिङ्गला वहति दक्षिणे । इडापिङ्गलयोर्मध्ये सुषुम्ना सुखरूपिणी ॥ ११॥ आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे । द्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्धे चतुष्के नासान्ते बालमध्ये डफकठसहिते कण्ठदेशे स्वराणाम् हं क्षं तत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ १२॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । पञ्चकर्मेन्द्रियैर्युक्ताः क्रियाशक्तिसमुद्यताः ॥ १३॥ नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः । पञ्चज्ञानेन्द्रियैर्युक्ताः बुद्धिशक्तिसमन्विताः ॥ १४॥ पावकश्शक्तिमध्यस्थो नाभिचक्रे रविः स्थितः । बन्धमुद्रा कृतास्सर्वे नासाग्रे तु सुलोचनम् ॥ १५॥ अकारो वह्निदेशे च उकारो हृदि संस्थितः । मकारश्चः भ्रुवोर्मध्ये वचनाच्च निबोधयेत् ॥ १६॥ ब्रह्मग्रन्थिरधष्कारे विष्णुग्रन्थिर्हृदि स्थितः । रुद्रग्रन्थिर्भ्रुवोर्मध्ये विमुच्यन्ते त्रयस्तथा ॥ १७॥ अकारो ब्रह्म इत्याहुः उकारो विष्णुरुच्यते । मकारो च शिवं साक्षाच्छान्तेश्शान्ततरं परम् ॥ १८॥ कण्ठसङ्कोचनं कृत्वा द्वे नाड्यौ स्तम्भयेद् दृढम् । रसना पिड्यमाना तु षोडशश्चोर्ध्वगामिनी ॥ १९॥ त्रिकूटं त्रिहठं चैव कोल्हाटं शिखरं तथा । त्रिशिखं वज्रमोङ्कार मूर्ध्वनासं भ्रुवोर्मुखम् ॥ २०॥ आकुञ्चयेद्रविञ्चैव पश्चान्नाडी प्रवर्तते । भेदे त्रिहठसङ्घट्टमुभयोश्शशिदर्शनम् ॥ २१॥ प्रणवा गुदनाला च नलिनी सर्पिणी तथा । बङ्कनालि क्षया शौरी कुण्डली कुण्डलाः स्मृताः ॥ २२॥ कुण्डलीं चालयेत् प्राणो भेदिते शशिमण्डले । var कुण्डली चालयेत् प्राणान् सिध्यन्ति वज्रगुम्फानि नव द्वाराणि बन्धयेत् ॥ २३॥ सुमनः पावनारूढः स गाढं निर्गुणस्तथा । ब्रह्मस्थाननिनादेन शङ्खिन्यामृतवर्षिणी ॥ २४॥ षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् । सर्वेषां स्नापनं देहे क्रियते देवतार्चनम् ॥ २५॥ चन्द्रामृतेन चिद्रुपमीश्वरं स्नाप्य भक्तितः । मनःपुष्पं तथा देयमर्चतेत्परमं शिवम् ॥ २६॥ आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् । दृश्यते देहरूपेण सर्वव्यापी निरञ्जनः ॥ २७॥ हंस हंस पदे वाक्यं प्राणिनां देहमाश्रितः । सम्प्राणापानयोर्ग्रन्थिरूपे ? ऽत्यभिधीयते ॥ २८॥ सहस्रमेकञ्च युतं षट्छतं चैव सर्वदा । उच्चारपदतो हंसः सोऽहमित्यभिधीयते ॥ २९॥ पूर्वभागे अधो लिङ्गं शङ्खिन्यां चैव पश्चिमम् । ज्योतिर्लिङ्गं भ्रुवोर्मध्ये रक्तशुक्लात्मकं शिवम् ॥ ३०॥ पूर्वपश्चिमदिग्भागे वज्रदण्डे व्यवस्थिते । द्वौ षष्टिभोगिनी स्थानं पश्चाल्लिङ्गं प्रकाशयेत् ॥ ३१॥ शीताशीतं परं स्थानं मेदोमज्जाभिपूरितम् । स्रवति ब्रह्मणः स्थानात् सिञ्चते भुवनत्रयम् ॥ ३२॥ सर्वव्याधिक्रियाकर्म वातपित्तसमन्वितम् । दशाष्टदोषरहितं मीननाथेन कथ्यते ॥ ३३॥ ॥ इति मत्स्येन्द्रनाथविरचितं भक्तिसं ? सम्पूर्णम् ॥

श्रीयोगयाज्ञवल्क्ये

 

श्रीयोगयाज्ञवल्क्य

॥ अथ प्रथमोऽध्यायः ॥ याज्ञवल्क्यं मुनिश्रेष्ठं सर्वज्ञं ज्ञाननिर्मलम् । सर्वशास्त्रार्थतत्त्वज्ञं सदा ध्यानपरायणम् ॥ १॥ वेदवेदाङ्गतत्त्वज्ञं योगेषु परिनिष्ठितम् । जितेन्द्रियं जितक्रोधं जिताहारं जितामयम् ॥ २॥ तपस्विनं जितामित्रं ब्रह्मण्यं ब्राह्मणप्रियम् । तपोवनगतं सौम्यं सन्ध्योपासनतत्परम् ॥ ३॥ ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैश्च समावृतम् । सर्वभूतसमं शान्तं सत्यसन्धं गतक्लमम् ॥ ४॥ गुणज्ञं सर्वभूतेषु परार्थैकप्रयोजनम् । ब्रुवन्तं परमात्मानमृषीणामुग्रतेजसाम् ॥ ५॥ तमेवं गुणसम्पन्नं नारीणामुत्तमा वधूः । मैत्रेयी च महाभागा गार्गी च ब्रह्मविद्वरा ॥ ६॥ सभामध्यगता चेयमृषीणामुग्रतेजसाम् । प्रणम्य दण्डवद्भूमौ गार्ग्येतद्वाक्यमब्रवीत् ॥ ७॥ var गर्गी तद् गार्ग्युवाच - भगवन्सर्वशास्त्रज्ञ सर्वभूतहिते रत । योगतत्त्वं मम ब्रूहि साङ्गोपाङ्गं विधानतः ॥ ८॥ एवं पृष्टः स भगवान्सभामध्ये स्त्रिया तया । ऋषीनालोक्य नेत्राभ्यां वाक्यमेतदभाषत ॥ ९॥ याज्ञवल्क्य उवाच - उत्तिष्ठोत्तिष्ठ भद्रं ते गार्गि ब्रह्मविदां वरे । वक्ष्यामि योगसर्वस्वं ब्रह्मणा कीर्तितं पुरा ॥ १०॥ समाहितमना गार्गि शॄणु त्वं गदतो मम । इत्युक्त्वा ब्रह्मविच्छ्रेष्ठो याज्ञवल्क्यस्तपोनिधिः ॥ ११॥ नारायणं जगन्नाथं सर्वभूतहृदि स्थितम् । वासुदेवं जगद्योनिं योगिध्येयं निरञ्जनम् ॥ १२॥ आनन्दममृतं नित्यं परमात्मानमीश्वरम् । ध्यायन्हृदि हृषीकेशं मनसा सुसमाहितः ॥ १३॥ नेत्राभ्यां तां समालोक्य कृपया वाक्यमब्रवीत् । एह्येहि गार्गि सर्वज्ञे सर्वशास्त्रविशारदे ॥ १४॥ योगं वक्ष्यामि विधिवद्धात्रोक्तं परमेष्ठिना । मुनयः श्रूयतामत्र गार्ग्या सह समाहिताः ॥ १५॥ पद्मासने समासीनं चतुराननमव्ययम् । चराचराणां स्रष्टारं ब्रह्माणं परमेष्ठिनम् ॥ १६॥ कदाचित्तत्र गत्वाहं स्तुत्वा स्तोत्रैः प्रणम्य च । पृष्टवानिममेवार्थं यन्मां त्वं परिपृच्छसि ॥ १७॥ देवदेव जगन्नाथ चतुर्मुख पितामह । येनाहं यामि निर्वाणं कर्मणा मोक्षमव्ययम् ॥ १८॥ ज्ञानं च परमं गुह्यं यथावद्ब्रूहि मे प्रभो । मयैवमुक्तो द्रुहिणः स्वयम्भूर्लोकनायकः ॥ १९॥ मामालोक्य प्रसन्नात्मा ज्ञानकर्माण्यभाषत । ज्ञानस्य द्विविधौ ज्ञेयौ पन्थानौ वेदचोदितौ ॥ २०॥ अनुष्ठितौ तौ विद्वद्भिः प्रवर्तकनिवर्तकौ । वर्णाश्रमोक्तं यत्कर्म कामसङ्कल्पपूर्वकम् ॥ २१॥ प्रवर्तकं भवेदेतत्पुनरावृत्तिहेतुकम् । कर्तव्यमिति विध्युक्तं कर्म कामविवर्जितम् ॥ २२॥ येन यत्क्रियते सम्यक् ज्ञानयुक्तं निवर्तकम् । निवर्तकं हि पुरुषं निवर्तयति जन्मनः ॥ २३॥ प्रवर्तकं हि सर्वत्र पुनरावृत्तिहेतुकम् । वर्णाश्रमोक्तं कर्मैव विध्युक्तं कामवर्जितम् ॥ २४॥ विधिवत्कुर्वतस्तस्य मुक्तिर्गार्गि करे स्थिता । वर्णाश्रमोक्तं कर्मैव विधिवत्कामपूर्वकम् ॥ २५॥ येन यत्क्रियते तस्य गर्भवासः करे स्थितः । संसारभीरुभिस्तस्मात्विध्युक्तं कामवर्जितम् ॥ २६॥ विधिवत् कर्म कर्तव्यं ज्ञानेन सह सर्वदा । जाताश्च त्रिषु लोकेषु आनुलोम्येन मानवाः ॥ २७॥ ते देवानामृषीणां च पितॄणामृणिनस्तथा । ऋषिभ्यो ब्रह्मचर्येण पितृभ्यश्च सुतैस्तथा ॥ २८॥ कुर्याद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरन् । चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुतिचोदिताः ॥ २९॥ क्षत्रियस्य त्रयः प्रोक्ता द्वावेकौ वैश्यशूद्रयोः । अधीत्य वेदं वेदार्थं साङ्गोपाङ्गं विधानतः ॥ ३०॥ स्नायाद्विध्युक्तमार्गेण ब्रह्मचर्यव्रतं चरन् । संस्कृतायां सवर्णायां पुत्रमुत्पादयेत्ततः ॥ ३१॥ यजेदग्नौ तु विधिवत्भार्यया सह वा विना । कान्तारे विजने देशे फलमूलोदकान्विते ॥ ३२॥ तपश्चरन्वसेन्नित्यं साग्निहोत्रः समाहितः । आत्मन्यग्नीन्समारोप्य सन्न्यसेद्विधिना ततः ॥ ३३॥ संन्यासाश्रमसंयुक्तो नित्यं कर्म समाचरन् । यावत्क्षेत्री भवेत्तावत् यजेदात्मानमात्मनि ॥ ३४॥ क्षत्रियश्च चरेदेवमासंन्यासाश्रमात्सदा । वानप्रस्थाश्रमादेवं चरेद्वैश्यः समाहितः ॥ ३५॥ शूद्रः शुश्रूषया नित्यं गृहस्थाश्रमं आचरेत् । शूद्रस्य ब्रह्मचर्यं च मुनिभिः कैश्चिदिष्यते ॥ ३६॥ आनुलोम्यप्रसूतानां त्रयाणामाश्रमास्त्रयः । शूद्रवच्छूद्रजातानं आचारः कीर्तितो बुधैः ॥ ३७॥ चतुर्णामाश्रमस्थानामहन्यहनि नित्यशः । विध्युक्तं कर्म कर्तव्यं कामसङ्कल्पवर्जितम् ॥ ३८॥ तस्मात्त्वमपि योगीन्द्र स्वाश्रमं धर्माचरन् । श्रद्धया विधिवत्सम्यक् ज्ञानकर्म समाचर ॥ ३९॥ इति मे कर्मसर्वस्वं योगरूपं च तत्त्वतः । उपदिश्य ततो ब्रह्मा योगनिष्ठोऽभवत्स्वयम् ॥ ४०॥ श्रुत्वैतद्याज्ञवल्क्योक्तं वाक्यं गार्गी मुदान्विता । पुनः प्राह मुनिश्रेष्ठमृषीमध्ये वरानना ॥ ४१॥ गार्ग्युवाच - ज्ञानेन सह योगीन्द्र विध्युक्तं कर्म कुर्वतः । त्वयोक्तं मुक्तिरस्तीति तयोर्ज्ञानं वद प्रभो ॥ ४२॥ भार्यया त्वेवमुक्तस्तु याज्ञवल्क्यस्तपोनिधिः । तां समालोक्य कृपया ज्ञानरूपमभाषत ॥ ४३॥ याज्ञवल्क्य उवाच - ज्ञानं योगात्मकं विद्धि योगश्चाष्टाङ्गसंयुतः । संयोगो योग इत्युक्तो जीवात्मपरमत्मनोः ॥ ४४॥ वक्ष्याम्यङ्गानि ते सम्यग्यथा पूर्वं मया श्रुतम् । समाहितमना गार्गी ऋषिभिः सह संश‍ृणु ॥ ४५॥ यमश्च नियमश्चैव आसनं च तथैव च । प्राणायामस्तथा गार्गि प्रत्यहारश्च धारणा ॥ ४६॥ ध्यानं समाधिरेतानि योगाङ्गानि वरानने । यमश्च नियमश्चैव दशधा सम्प्रकीर्तितः ॥ ४७॥ आसनान्युत्तमान्यष्टौ त्रयं तेषूत्तमोत्तमम् । प्रणायामस्त्रिधा प्रोक्तः प्रत्याहारश्च पञ्चधा ॥ ४८॥ धारणा पञ्चधा प्रोक्ता ध्यानं षोढा प्रकीर्तितम् । त्रयं तेषूत्तमं प्रोक्तं समाधिस्त्वेकरूपकः ॥ ४९॥ बहुधा केचिदिच्छन्ति विस्तरेण पॄथक् श‍ृणु । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥ ५०॥ क्षमाधृतिर्मिताहारः शौचं त्वेते यमा दश । कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ॥ ५१॥ अक्लेशजननं प्रोक्तमहिंसासात्वेन योगिभिः । विध्युक्तं चेदहिंसा स्यात्क्लेशजन्मैव जन्तुषु ॥ ५२॥ वेदेनोक्तेऽपि हिंसास्यादभिचारादि कर्म यत् । सत्यं भूतहितं प्रोक्तं नियतार्थाभिभाषणम् ॥ ५३॥ कर्मणा मनसा वाचा परद्रव्येषु निःस्पृहा । अस्तेयमिति सा प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः ॥ ५४॥ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यगो ब्रह्मचर्यं प्रचक्षते ॥ ५५॥ ब्रह्मचर्याश्रमस्थानां यतीनां नैष्ठिकस्य च । ब्रह्मचर्यं तु तत्प्रोक्तं तथैवा रण्यवासिनाम् ॥ ५६॥ ऋतावृतौ स्वदारेषु सङ्गतिर्या विधानतः । ब्रह्मचर्यं तु तत्प्रोक्तं गृहस्थाश्रमवासिनम् ॥ ५७॥ राज्ञश्चैव गॄहस्थस्य ब्रह्मचर्यं प्रकीर्तितम् । विशां वृत्तवतां चैव केचिदिच्छन्ति पण्डिताः ॥ ५८॥ शुश्रूषैव तु शूद्रस्य ब्रह्मचर्यं प्रकीर्तितम् । शुश्रूषा वा गुरोर्नित्यं ब्रह्मचर्यमुदाहृतम् ॥ ५९॥ गुरवः पञ्च सर्वेषां चतुर्णां श्रुतिचोदिताः । माता पिता तथाचार्यो मातुलः श्वशुरस्तथा ॥ ६०॥ एषु मुख्यास्त्र्यः प्रोक्ता आचार्यः पितरौ तथा । एषु मुख्यतमस्त्वेक आचार्यः परमार्थवित् ॥ ६१॥ तमेवं ब्रह्मविच्छ्रेष्ठं नित्यकर्मपरायणम् । शुश्रूषयार्चयेन्नित्यं तुष्टोऽभूद्येन वा गुरुः ॥ ६२॥ दया च सर्वभूतेषु सर्वत्रानुग्रहः स्मृतः । विहितेषु तदन्येषु मनोवाक्कायकर्मणाम् ॥ ६३॥ प्रवृतौ वा निवृतौ वा एकरूपत्वमार्जवम् । प्रियाप्रियेषु सर्वेषु समत्वं यच्छरीरिणाम् ॥ ६४॥ क्षमा सैवेति विद्वद्भिर्गदिता वेदवादिभिः । अर्थहानौ च बन्धूनां वियोगेष्वपि सम्पदाम् ॥ ६५॥ तयोः प्राप्तो च सर्वत्र चित्तस्य स्थापनं धृतिः । अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनम् ॥ ६६॥ द्वात्रिंशच्च गृहस्थानां यथेष्टं ब्रह्मचारिणाम् । एषामयं मिताहारो ह्यन्येषामल्पभोजनम् ॥ ६७॥ शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिस्तथान्तरम् ॥ ६८॥ मनःशुद्धिश्च विज्ञेया धर्मेणाध्यात्मविध्यया । आत्मविद्या च धर्मश्च पित्राचार्येण वानघे ॥ ६९॥ तस्मात्सर्वेषु कालेषु सर्वैर्निःश्रेयसार्थिभिः । गुरवः श्रुतसम्पन्ना मान्या वाङ्ग्मनसादिभिः ॥ ७०॥ ॥ इति श्रीयोगयाज्ञवल्क्ये प्रथमोऽध्यायः ॥
॥ अथ द्वितीयोऽध्यायः ॥ याज्ञवल्क्य उवाच - तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ १॥ एते तु नियमाः प्रोक्तास्तांश्च सर्वान्पृथक् श‍ृणु । विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः ॥ २॥ शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् । यदृच्छा लाभतो नित्यमलं पुंसो भवेदिति ॥ ३॥ ?? या धीस्तामृषयः प्राहुः सन्तोषं सुखलक्षणम् । धर्माधर्मेषु विश्वासो यस्तदास्तिक्यमुच्यते ॥ ४॥ न्यायार्जितं धनं चान्नमन्यद्वा यत्प्रदीयते । अर्थिभ्यः श्रद्धया युक्तं दानमेतदुदाहृतम् ॥ ५॥ यत्प्रसन्नत्वभावेन विष्णुं वाऽप्यन्यमेव वा । यथाशक्त्यर्चनं भक्त्या ह्येतदीश्वरपूजनम् ॥ ६॥ रागाद्यपेतं हृदयं वागदुष्टानृतादिना । हिंसादिरहितः काय एतदीश्वरपूजनम् ॥ ७॥ सिद्धान्तश्रवणं प्रोक्तं वेदान्तश्रवणं बुधैः । द्विजवत्क्षत्रियस्योक्तं सिद्धान्तश्रवणं बुधैः ॥ ८॥ विशां च केचिदिच्छन्ति शीलवृत्तवतां सताम् । शूद्राणां च स्त्रियैश्चैव स्वधर्मस्थतपस्विनाम् ॥ ९॥ सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः । वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ॥ १०॥ तस्मिन्भवति या लज्जा ह्रीस्तु सैवेति कीर्तिता । विहितेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥ ११॥ गुरुणा चोपदिष्टोऽपि वेदबाह्यविवर्जितः । विधिनोक्तेन मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥ १२॥ अधीत्य वेदं सूत्रं वा पुराणं सेतिहासिकम् । एतेष्वभ्यसनं यच्च तदभ्यासो जपः स्मृतः ॥ १३॥ जपश्च द्विविधः प्रोक्तो वाचिको मानसस्तथा । वाचिक उपांशुरुच्चैश्च द्विविधः परिकीर्तितः ॥ १४॥ मानसो मननध्यानभेदाद् द्वैविध्यमास्थितः । उच्चैर्जपादुपांशुश्च सहस्रगुण उच्यते ॥ १५॥ मानसस्तु तथोपांशोः सहस्रगुण उच्यते । मानसाच्च तथा ध्यानं सहस्रगुणमुच्यते ॥ १६॥ उच्चैर्जपस्तु सर्वेषां यथोक्तफलदो भवेत् । नीचैः श्रुतो न चेत्सोऽपि श्रुतश्चेन्निष्फलो भवेत् ॥ १७॥ ऋषिं छन्दोऽधिदैवं ध्यायन्मन्त्रं च सर्वदा । यस्तु मन्त्रजपो गार्गि स एव हि फलप्रदः ॥ १८॥ प्रसन्नगुरुणा पूर्वमुपदिष्टं त्वनुज्ञया । धर्मार्थमात्मसिद्ध्यर्थमुपायग्रहणं व्रतम् ॥ १९॥ ॥ इति श्रीयोगयाज्ञवल्क्ये द्वितीयोऽध्यायः ॥
॥ अथ तृतीयोऽध्यायः ॥ याज्ञवल्क्य उवाच - आसनान्यधुना वक्ष्ये श‍ृणु गार्गि तपोधने । स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथा ॥ १॥ भद्रं मुक्तासनं चैव मयूरासनमेव च । तथैतेषां वरारोहे पृथग्वक्ष्यामि लक्षणम् ॥ २॥ जानोर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते ॥ ३॥ सीवन्यास्त्वात्मनः पार्श्वे गुल्फौ निक्षिप्य पादयोः । सव्ये दक्षिणगुल्फं तु दक्षिणे दक्षिणेतरम् ॥ ४॥ एतच्च स्वस्तिकं प्रोक्तं सर्वपापप्रणाशनम् । सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे निवेशयेत् ॥ ५॥ दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा । अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ ६॥ ऊर्वोरुपरि विप्रेन्द्रे कृत्वा पादतले उभे । पद्मासनं भवेदेतत्सर्वेषामपि पूजितम् ॥ ७॥ एकं पादमथैकस्मिन्विन्यस्योरुणि संस्थितम् । इतरस्मिंस्तथा चोरुं वीरासनमुदाहृतम् ॥ ८॥ गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरम् ॥ ९॥ हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीश्च प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ १०॥ सिंहासनं भवेदेतत्पूजितं योगिभिः सदा । गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥ ११॥ पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविषापहम् ॥ १२॥ सम्पीड्य सीवनीं सूक्ष्मां गुल्फेनैव तु सव्यतः । सव्यं दक्षिणगुल्फेन मुक्तासनमितीरितम् ॥ १३॥ मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य मुक्तासनमिदं तु वा ॥ १४॥ अवष्टभ्य धरां सम्यक् तलाभ्यां तु करद्वयोः । हस्तयोः कूर्परौ चापि स्थापयन्नाभिपार्श्वयोः ॥ १५॥ समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः । मयूरासनमेतत्तु सर्वपापप्रणाशनम् ॥ १६॥ सर्वे चाभ्यन्तरा रोगा विनश्यन्ति विषाणि च । यमैश्च नियमैश्चैव आसनैश्च सुसंयुता ॥ १७॥ नाडीशुद्धिं च कृत्वा तु प्राणायामं ततः कुरु ॥ १८॥ ॥ इति श्रीयोगयाज्ञवल्क्ये तृतीयोऽध्यायः ॥
॥ अथ चतुर्थोऽध्यायः ॥ श्रुत्वैतद्भाषितं वाक्यं याज्ञवल्क्यस्य धीमतः । पुनः प्राह महाभागा सभामध्ये तपस्विनी ॥ १॥ गार्ग्युवाच - भगवन्ब्रूहि मे स्वामिन्नाडीशुद्धिं विधानतः । केनोपायेन शुद्धाः स्युर्नाडयः सर्वदेहिनाम् ॥ २॥ उत्पत्तिं चापि नाडीनां चारणं च यथाविधि । कन्दं च कीदृशं प्रोक्तं कति तिष्ठन्ति वायवः ॥ ३॥ स्थानानि चैव वायूनां कर्माणि च पृथक्पृथक् । विज्ञातव्यानि यान्यस्मिन्देहे देहभृतां वर ॥ ४॥ वक्तुमर्हसि तत्सर्वं त्वत्तो वेत्ता न विद्यते । इत्युक्तो भार्यया तत्र सम्यक् तद्गतमानसः ॥ ५॥ गार्गीं तां सुसमालोक्य तत्सर्वं समभाषत । याज्ञवल्क्य उवाच - शरीरं तावदेवं हि षण्णवत्यङ्गुलात्मकम् ॥ ६॥ विध्येतत्सर्वजन्तूनां स्वाङ्गुलीभिरिति प्रिये । शरीरादधिकः प्राणो द्वादशाङ्गुलमानतः ॥ ७॥ चतुर्दशाङ्गुलं केचिद्वदन्ति मुनिसत्तमाः । द्वादशाङ्गुल एवेति वदन्ति ज्ञानिनो नराः ॥ ८॥ आत्मस्थमनिलं विद्वानात्मस्थेनैव वह्निना । योगाभ्यासेन यः कुर्यात्समं वा न्यूनमेव वा ॥ ९॥ स एव ब्रह्मविच्छ्रेष्ठः स सम्पूज्यो नरोत्तमः । आत्मस्थवह्निनैव त्वं योगजेन द्विजोत्तमे ॥ १०॥ आत्मस्थं मातरिश्वानं योगाभ्यासेन निर्जय । देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥ ११॥ त्रिकोणं मनुजानां च चतुरस्रं चतुष्पदाम् । मण्डलं तत्पतङ्गानां सत्यमेतद्ब्रवीमि ते ॥ १२॥ तन्मध्ये तु शिखा तन्वी सदा तिष्ठति पावकी । देहमध्यं च कुत्रेति श्रोतुमिच्छसि चेच्छृणु ॥ १३॥ गुदात्तु द्व्यङ्गुलादूर्ध्वमधो मेढ्राच्च द्व्यङ्गुलात् । देहमध्यं तयोर्मध्यं मनुष्याणामितीरितम् ॥ १४॥ चतुष्पदां तु हृन्मध्यं तिरश्चां तुन्दमध्यमम् । द्विजानां तु वरारोहे तुन्दमध्यमितीरितम् ॥ १५॥ कन्दस्थानं मनुष्याणां देहमध्यान्नवाङ्गुलम् चतुरङ्गुलमुत्सेधमायामश्च तथाविधः ॥ १६॥ अण्डाकृतिवदाकारं भूषितं तत्त्वगादिभिः । चतुष्पदां तिरश्चां च द्विजानां तुन्दमध्यमे ॥ १७॥ तन्मध्यं नाभिरित्युक्तं नाभौ चक्रसमुद्भवः । द्वादशारयुतं तच्च तेन देहः प्रतिष्ठितः ॥ १८॥ चक्रेऽस्मिन्भ्रमते जीवः पापपुण्यप्रचोदितः । तन्तुपञ्जरमध्यस्था यथा भ्रमति लूतिका ॥ १९॥ जीवस्य मूलचक्रेऽस्मिन्नधः प्राणश्चरत्यसौ । प्राणारूढो भवेज्जीवः सर्वभूतेषु सर्वदा ॥ २०॥ तस्योर्ध्वं कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः । अष्टप्रकृतिरूपा सा अष्टधा कुण्डलीकृता ॥ २१॥ यथावद्वायुसञ्चारं जलान्नादीनि नित्यशः । परितः कन्दपार्श्वेषु निरुद्ध्यैव सदा स्थिता ॥ २२॥ मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा । योगकाले त्वपानेन प्रबोधं याति साग्निना ॥ २३॥ स्फुरन्ती हृदयाकाशे नागरूपा महोज्ज्वला । वायुर्वायुसखेनैव ततो याति सुषुम्णया ॥ २४॥ कन्दमध्ये स्थिता नाडी सुषुम्णेति प्रकीर्तिता । तिष्ठन्ति परितः सर्वाश्चक्रेऽस्मिन्नाडीसञ्ज्ञकाः ॥ २५॥ नाडीनामपि सर्वासां मुख्यास्त्वेताश्चतुर्दश । इडा च पिङ्गला चैव सुषुम्णा च सरस्वती ॥ २६॥ वारुणी चैव पूषा च हस्तिजिह्वा यशस्विनी । विश्वोदरा कुहूश्चैव शङ्खिनी च पयस्विनी ॥ २७॥ अलम्बुषा च गान्धारी मुख्याश्चैताश्चतुर्दश । आसां मुख्यतमास्तिस्त्रस्तिसृष्वेकोत्तमोत्तमा ॥ २८॥ मुक्तिमार्गेति सा प्रोक्ता विश्वधारिणी । कन्दस्य मध्यमे गार्गि सुषुम्णा सुप्रतिष्ठिता ॥ २९॥ पृष्ठमध्ये स्थिता नाडी सा हि मूर्ध्नि व्यवस्थिता॥ मुक्तिमार्गं सुषुम्णा सा ब्रह्मरन्ध्रेति कीर्तिता ॥ ३०॥ अव्यक्ता सैव विज्ञेया सूक्ष्मा वैष्णवी स्मृता । इडा च पिङ्गला चैव तस्याः सव्ये च दक्षिणे ॥ ३१॥ इडा तस्याः स्थिता सव्ये दक्षिणे पिङ्गला स्थिता । इडायां पिङ्गलायां च चरतश्चन्द्रभास्करौ ॥ ३२॥ इडायां चन्द्रमा ज्ञेयः पिङ्गलायां रविः स्मृतः । चन्द्रस्तामस इत्युक्तः सूर्यो राजस उच्यते ॥ ३३॥ विषभागो रवेर्भागः सोमभागोऽमृतं स्मृतम् । तावेव धत्तः सकलं कालं रात्रिदिवात्मकम् ॥ ३४॥ भोक्त्री सुषुम्णा कालस्य गुह्यमेतदुदाहृतम् । सरस्वती कुहूश्चैव सुषुम्णापार्श्वयोः स्थिते ॥ ३५॥ गान्धारी हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः । कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरा स्थिता ॥ ३६॥ यशस्विन्याः कुहोर्मध्ये वारुणी च प्रतिष्ठिता । पूषायाश्च सरस्वत्याः स्थिता मध्ये पयस्विनी ॥ ३७॥ गान्धार्याश्च सरस्वत्याःस्थिता मध्ये च शङ्खिनी । अलम्बुषा च विप्रेन्द्रे कन्दमध्यादधः स्थिता ॥ ३८॥ पूर्वभागे सुषुम्णाया आमेढ्रान्ते कुहूः स्थिता । अधश्चोर्ध्वं च कुण्डल्या वारुणी सर्वगामिनी ॥ ३९॥ यशस्विनी च याम्यस्था पादाङ्खष्ठान्तमिष्यते । पिङ्गला चोर्ध्वगा याम्ये नासान्तं विद्धि मे प्रिये ॥ ४०॥ याम्ये पूषा च नेत्रान्तं पिङ्गलायास्तु पृष्ठतः । पयस्विनी तथा गार्गि याम्यकर्णान्तमिष्यते ॥ ४१॥ सरस्वती तथा चोर्ध्वमाजिह्वायाः प्रतिष्ठिता । आसव्यकर्णाद्विप्रेन्द्रे शङ्खिनी चोर्ध्वगा मता ॥ ४२॥ गान्धारी सव्यनेत्रान्तमिडायाः पृष्ठतः स्थिता । इडा च सव्यनासान्तं सव्यभागे व्यवस्थिता ॥ ४३॥ हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते । विष्वोदरा तु या नाडी तुन्दमध्ये व्यवस्थिता ॥ ४४॥ अलम्बुषा महाभागे पायुमूलादधोगता । एतास्त्वन्याः समुत्पन्नाः शिराश्चान्याश्च तास्वपि ॥ ४५॥ यथाश्वत्थदले तद्वदब्जपत्रेषु वा शिराः । नाडीष्वेतासु सर्वासु विज्ञातव्यास्तपोधने ॥ ४६॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । नागः क्रूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ४७॥ एते नाडीषु सर्वासु चरन्ति दश वायवः । एतेषु वायवः पञ्च मुख्याः प्राणादयः स्मृताः ॥ ४८॥ तेषु मुख्यतमावेतौ प्राणापानौ नरोत्तमे । प्राण एवैतयोर्मुख्यः सर्वप्राणभृतां सदा ॥ ४९॥ आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यमे । प्राणालय इति प्राहुः पादाङ्गुष्टेऽपि केचन ॥ ५०॥ अधश्चोर्ध्वं च कुण्डल्याः परीतः प्राणसञ्ज्ञकः । तिष्ठन्नेतेषु सर्वेषु प्रकाशयति दीपवत् ॥ ५१॥ अपाननिलयं केचिद् गुदमेढ्रोरुजानुषु । उदरे वृषणे कट्यां जङ्घे नाभौ वदन्ति हि ॥ ५२॥ गुदाग्न्यागारयोस्तिष्ठन्मध्येऽपानः प्रभञ्जनः । अधश्चोर्ध्वं च कुण्डल्याः प्रकाशयति दीपवत् ॥ ५३॥ व्यानः श्रोत्राक्षिमध्ये च कृकट्यां गुल्फयोरपि । घ्राणे गले स्फिजोर्देशे तिष्ठत्यत्र न संशयः ॥ ५४॥ उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि । समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थितः ॥ ५५॥ भुक्तं सर्वरसं गात्रे व्यापयन्वह्निना सह । द्विसप्ततिसहस्रेषु नाडीमार्गेषु सञ्चरेत् ॥ ५६॥ समानवायुरेवैकः साग्निर्व्याप्य व्यवस्थितः । अग्निभिः सह सर्वत्र साङ्गोपाङ्गकलेवरे ॥ ५७॥ नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः । तुन्दस्थे जलमन्नं च रसानि च समीकृतम् ॥ ५८॥ तुन्दमध्यगतः प्राणस्तानि कुर्यात्पृथक्पृथक् । पुनरग्नौ जलं स्थाप्य त्वन्नादीनि जलोपरि ॥ ५९॥ स्वयं ह्यपानं सम्प्राप्य तेनैव सह मारुतः । प्रवाति ज्वलनं तत्र देहमध्यगतं पुनः ॥ ६०॥ वायुना वातितो वह्निरपानेन शनैः शनैः । तदा ज्वलति विप्रेन्द्रे स्वकुले देहमध्यमे ॥ ६१॥ ज्वालाभिर्ज्वलनस्तत्र प्राणेन प्रेरितस्ततः । जलमत्युष्णमकरोत्कोष्टमध्यगतं तदा ॥ ६२॥ अन्नं व्यञ्जनसंयुक्तं जलोपरि समर्पितम् ततः सुपक्वमकरोद्वह्निः सन्तप्तवारिणा ॥ ६३॥ स्वेदमूत्रे जलं स्यातां वीर्यरूपं रसो भवेत् । पूरीषमन्नं स्याद्गार्गि प्राणः कुर्यात्पृथक्पृथक् ॥ ६४॥ समानवायुना सार्धं रसं सर्वासु नाडीषु । व्यापयञ्चछ्वासरूपेण देहे चरति मारुतः ॥ ६५॥ व्योमरन्ध्रैश्च नवभिः विण्मूत्रादिविसर्जनम् कुर्वन्ति वायवः सर्वे शरीरेषु निरन्तरम् ॥ ६६॥ निःश्वासोच्छ्वासकासाश्च प्राणकर्मेति कीर्त्यते । अपानवायोः कर्मैतद्विण्मूत्रादिविसर्जनम् ॥ ६७॥ हानोपादानचेष्टादि व्यानकर्मेति चेष्यते । उदानकर्म तत्प्रोक्तं देहस्योन्नयनादि यत् ॥ ६८॥ पोषणादि समानस्य शरीरे कर्म कीर्तितम् । उद्गारादि गुणो यस्तु नागकर्मेति कीर्त्यते ॥ ६९॥ निमीलनादि कूर्मस्य क्षुतं वै कृकरस्य च । देवदत्तस्य विप्रेन्द्रे तन्द्रीकर्मेति कीर्तितम् ॥ ७०॥ धनञ्जयस्य शोफादि सर्वं कर्म प्रकीर्तितम् ज्ञात्वैवं नाडीसंस्थानं वायूनां स्थानकर्मणी ॥ ७१॥ विधिनोक्तेन मार्गेण नाडीसंशोधनं कुरु ॥ ७२॥ ॥ इति श्रीयोगयाज्ञवल्क्ये चतुर्थोऽध्यायः ॥
॥ अथ पञ्चमोऽध्यायः ॥ गार्ग्युवाच - भगवन्ब्रह्मविच्छ्रेष्ठ सर्वशास्त्रविशारद । केनोपायेन शुद्धाः स्युर्नाड्यो मे त्वं वद प्रभो ॥ १॥ इत्युक्तो ब्रह्मवादिन्या ब्रह्मविद्ब्राह्मणस्तदा । तां समालोक्य कृपया नाडीशुद्धिमभाषत ॥ २॥ याज्ञवल्क्य उवाच - विध्युक्तकर्मसंयुक्तः कामसङ्कल्पवर्जितः । यमैश्च नियमैर्युक्तः सर्वसङ्गविवर्जितः ॥ ३॥ कृतविद्यो जितक्रोधः सत्यधर्मपरायणः । गुरुशुश्रूषणरतः पितृमातृपरायणः ॥ ४॥ स्वाश्रमस्थः सदाचारः विद्वद्भिश्च सुशिक्षितः । तपोवनं सुसम्प्राप्य फलमूलोदकान्वितम् ॥ ५॥ तत्र रम्ये शुचौ देशे ब्रह्मघोषसमन्विते । स्वधर्मनिरतैः शान्तैर्ब्रह्मविद्भिः समावृते ॥ ६॥ वारिभिश्च सुसम्पूर्णे पुष्पैर्नानाविधैर्युते । फलमूलैश्च सम्पूर्णे सर्वकामफलप्रदे ॥ ७॥ देवालये वा नद्यां वा ग्रामे वा नगरेऽथवा । सुशोभनं मठं कृत्वा सर्वरक्षासमन्वितम् ॥ ८॥ त्रिकालस्नानसंयुक्तः स्वधर्मनिरतः सदा । वेदान्तश्रवणं कुर्वंस्तस्मिन्योगं समभ्यसेत् ॥ ९॥ केचिद्वदन्ति मुनयस्तपःस्वाध्यायसंयुताः । स्वधर्मनिरताः शान्तास्तन्त्रेषु च सदा रताः ॥ १०॥ निर्जने निलये रम्ये वातातपविवर्जिते । विध्युक्तकर्मसंयुक्तः शुचिर्भूत्वा समाहितः ॥ ११॥ मन्त्रैर्न्यस्ततनुर्धीरः सितभस्मधरः सदा । मृद्वासनोपरि कुशान्समास्तीर्य ततोऽजिनम् ॥ १२॥ विनायकं सुसम्पूज्य फलमूलोदकादिभिः । इष्टदेवं गुरुं नत्वा तत आरुह्य चासनम् ॥ १३॥ प्राङ्मुखोदङ्मुखो वापि जितासनगतः स्वयम् । समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ १४॥ नासाग्रदृक् सदा सम्यक् सव्ये न्यस्येतरं करम् । नासाग्रे शशभृद्बिम्बं ज्योत्स्नाजालवितानितम् ॥ १५॥ सप्तमस्य तु वर्गस्य चतुर्थं बिन्दुसंयुतम् । स्रवन्तममृतं पश्यन्नेत्राभ्यां सुसमाहितः ॥ १६॥ इडया वायुमारोप्य पूरयित्वोदरस्थितम् । ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ १७॥ रेफं च बिन्दुसंयुक्तमग्निमण्डलसंस्थितम् । ध्यायन्विरेचयेत्पश्चान्मन्दं पिङ्गलया पुनः ॥ १८॥ पुनः पिङ्गलयापूर्य प्राणं दक्षिणतः सुधीः । पुनर्विरेचयेद्धीमानिडया तु शनैः शनैः ॥ १९॥ त्रिचतुर्वत्सरं वाथ त्रिचतुर्मासमेव वा । षट्कृत्व आचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ २०॥ नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षिताम् । शरीरलघुता दीप्तिर्वह्नेर्जठरवर्तिनः ॥ २१॥ नादाभिव्यक्तिरित्येते चिह्नं तत्सिद्धिसूचकम् । यावदेतानि सम्पश्येत्तावदेव समाचरेत् ॥ २२॥ ॥ इति श्रीयोगयाज्ञवल्क्ये पञ्चमोऽध्यायः ॥
॥ अथ षष्ठोऽध्यायः ॥ याज्ञवल्क्य उवाच - प्राणायाममथादीनां प्रवक्ष्यामि विधानतः । समाहितमनास्त्वं च श‍ृणु गार्गि वरानने ॥ १॥ प्राणापानसमायोगः ``प्राणायामः'' इतीरितः । ``प्राणायामः'' इति प्रोक्तो रेचकपूरककुम्भकैः ॥ २॥ वर्णत्रयात्मका ह्येते रेचकपूरककुम्भकाः । स एष प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ॥ ३॥ इडया वायुमारोप्य पूरयित्वोदरस्थितम् । शनैः षोडशभिर्मात्रैर्कारं तत्र संस्मरेत् ॥ ४॥ ?? धारयेत्पूरितं पश्चाच्चतुःषष्ठ्या तु मात्रया । उकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत् ॥ ५॥ ?? यावद्वा शक्यते तावद्धारणं जपसंयुतम् । पूरितं रेचयेत् पश्चात्प्राणं बाह्यानिलान्वितम् ॥ ६॥ शनैः पिङ्गलया गार्गि द्वात्रिंशन्मात्रया पुनः । मकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत् ॥ ७॥ प्राणायामो भवेदेषः पुनश्चैवं समभ्यसेत् । ततः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ॥ ८॥ उकारमूर्तिमत्रापि संस्मरन्सुसमाहितः । ?? पूरितं धारयेत्प्राणं प्रणवं विंशतिद्वयम् ॥ ९॥ जपेदत्र स्मरन्मूर्तिं मकाराख्यं महेश्वरम् । यावद्वा शक्यते पश्चाद्रेचयेतिडयानिलम् ॥ १०॥ ?? एवमेव पुनः कुर्यादिडयापूर्य पूर्ववत् । नाड्या प्राणं समारोप्य पूरयित्वोदरस्थितम् ॥ ११॥ प्रणवेन सुसंयुक्तां व्याहृतीभिश्च संयुताम् । गायत्रीं च जपेद्विप्रः प्राणसम्यमने त्रयः ॥ १२॥ पुनश्चैवं त्रिभिः कुर्यात्पुनश्चैव त्रिसन्धिषु । यद्वा समभ्यसेन्नित्यं वैदिकं लौकिकं तु वा ॥ १३॥ प्राणसंयमने विद्वान्जपेत्तद्विंशतिद्वयम् । ब्राह्मणः श्रुतसम्पन्नः स्वधर्मनिरतः सदा ॥ १४॥ स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन । केचिद्भूतहितार्थाय जपमिच्छन्ति लौकिकम् ॥ १५॥ द्विजवत्क्षात्रस्योक्तः प्राणसंयमने जपः । ?? syoktashcha वैश्यानां धर्मयुक्तानां स्त्रीशूद्राणां तपस्विनाम् ॥ १६॥ प्राणसंयमने गार्गि मन्त्रं प्रणववर्जितम् । नमोन्तं शिवमन्त्रं वा वैष्णवं वेष्यते बुधैः ॥ १७॥ यद्वा समभ्यसेच्छूद्रो लौकिकं विधिपूर्वकम् । प्राणसंयमने स्त्री च जपेत्तद्विंशतिद्वयम् ॥ १८॥ न वैदिकं जपेच्छूद्रः स्त्रियश्च न कदाचन । स्वाश्रमस्थस्य वैश्यस्य केचिदिच्छन्ति वैदिकम् ॥ १९॥ सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन वा । प्राणसंयमनं कुर्यात् ब्राह्मणो वेदपारगः ॥ २०॥ नित्यमेव प्रकुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ २१॥ ऋतुत्रयात्पुनन्त्येनं जन्मान्तरकृतादघात् । वत्सराद्ब्रह्महा शुद्ध्येत्तस्मान्नित्यं समभ्यसेत् ॥ २२॥ योगाभ्यासरतास्त्वेवं स्वधर्मनिरताश्च ये । प्राणसंयमनेनैव सर्वे मुक्ता भवन्ति हि ॥ २३॥ बाह्यादापूरणं वायोरुदरे पूरको हि सः । सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् ॥ २४॥ बहिर्यद्रेचनं वायोरुदराद्रेचकः स्मृतः । प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ॥ २५॥ कम्पको मध्यमः प्रोक्त उत्थानश्चोत्तमो भवेत् । पूर्वं पूर्वं प्रकुर्वीत यावदुत्तमसम्भवः ॥ २६॥ सम्भवत्युत्तमे गार्गि प्राणायामे सुखी भवेत् । प्राणो लयति तेनैव देहस्यान्तस्ततोऽधिकः ॥ २७॥ देहश्चोत्तिष्ठते तेन कृतासनपरिग्रहा । निःर्श्वासोच्छ्वासकौ तस्य न विद्येते कथञ्चन ॥ २८॥ देहे यद्यपि तौ स्यातां स्वाभाविकगुणावुभौ॥ तथापि नश्यतस्तेन प्राणायामोत्तमेन हि ॥ २९॥ तयोर्नाशे समर्थः स्यात्कर्तुं केवलकुम्भकम् । रेचकं पूरकं मुक्त्त्वा सुखं यद्वायुधारणम् ॥ ३०॥ प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । रेच्य चापूर्य यः कुर्यात्स वै सहितकुम्भकः ॥ ३१॥ सहितं केवलं चाथ कुम्भकं नित्यमभ्यसेत् । यावन्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥ ३२॥ केवले कुम्भके सिद्धे रेचपूरणवर्जिते । न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ॥ ३३॥ मनोजवत्वं लभते पलितादि च नश्यति । मुक्तेरयं महामार्गो मकराख्यान्तरात्मनः ॥ ३४॥ नादं चोत्पादयत्येषः कुम्भकः प्राणसंयमः । प्राणसंयमनं नाम देहे प्राणस्य धारणम् ॥ ३५॥ एषः प्राणजयोपायः सर्वमृत्यूपघातकः । किञ्चित्प्राणजयोपायं तव वक्ष्यामि तत्त्वतः ॥ ३६॥ बाह्यात्प्राणं समाकृष्य पूरयित्वोदरस्थितम् । नाभिमध्ये च नासाग्रे पादाङ्गुष्ठे च यत्नतः ॥ ३७॥ धारयेन्मनसा प्राणं सन्ध्याकालेषु सर्वदा । सर्वरोगविनिर्मुक्तो जीवेद्योगी गतक्लमः ॥ ३८॥ नासाग्रे धारणं गार्गि वायोर्विजयकारणम् । सर्वरोगविनाशः स्यान्नाभिमध्ये च धारणात् ॥ ३९॥ शरीरं लघुतां याति पादाङ्गुष्ठे च धारणात् । रसनावायुमाकृष्य यःपिबेत्सततं नरः ॥ ४०॥ श्रमदाहौ न तस्यास्तां नश्यन्ति व्याधयस्तथा॥ सन्ध्ययोर्ब्राह्मकाले वा वायुमाकृष्य यः पिबेत् ॥ ४१॥ त्रिमासात्तस्य कल्याणि जग्यते वाक्सरस्वती । षण्मासाभ्यासयोगेन महारोगैः प्रभुच्यते ॥ ४२॥ आत्मन्यात्मानमारोप्य कुण्डल्यां यस्तु धारयेत् । क्षयरोगादयस्तस्य नश्यन्तीत्यपरे विदुः ॥ ४३॥ जिह्वया वायुमानीय जिह्वामूले निरोधयन् । यः पिबेदमृतं विद्वान्सकलं भद्रमश्नुते ॥ ४४॥ आत्मन्यात्मानमिडया समानीय भ्रुवोऽन्तरे ।var भ्रुवोऽन्तरात् पिबेद्यस्त्रिदशाहारं व्याधिभिः स विमुच्यते ॥ ४५॥ नाडीभ्यां वायुमारोप्य नाभौ वा तुन्दपार्श्वयोः । घटिकैकां वहेद्यस्तु व्याधिभिः सोऽभिमुच्यते ॥ ४६॥ मासमेकं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् । पिबेद्यस्त्रिदशाहारं धारयेत्तुन्दमध्यमे ॥ ४७॥ गुल्माष्ठीला प्लीहा चान्ये त्रिद्रोषजनितास्तथा । तुन्दमध्यगता रोगाः सर्वे नश्यन्ति तस्य वै ॥ ४८॥ ज्वराः सर्वे विनश्यन्ति विषाणि विविधानि च । बहुनोक्तेन किं गार्गि पलितादि च नश्यति ॥ ४९॥ एवं वायुजयोपायः प्राणस्य तु वरानने । शक्यमासनमास्थाय समाहितमनास्तथा ॥ ५०॥ करणानि वशीकृत्य विषयेभ्यो बलात्सुधीः । ?? भ्यः अपानमूर्ध्वमाकृष्य प्रणवेन समाहितः ॥ ५१॥ हस्ताभ्यां बन्धयेत्सम्यक्कर्णादि करणानि च । अङ्गुष्टाभ्यामुमे श्रोत्रे तर्जनीभ्यां च चक्षुषी ॥ ५२॥ नासापुटौ मध्यमाभ्यां प्रच्छाद्य करणानि वै । आनन्दानुभवं यावत्तावन्मूर्द्धनि धारयेत् ॥ ५३॥ प्राणः प्रयात्यनेनैव ततस्त्वायुर्विघातकृत् । ब्रह्मरन्ध्रे सुषुम्णायां मृणालान्तरसूत्रवत् ॥ ५४॥ नादोत्पत्तिस्त्वनेनैव शुद्धस्फटिकसन्निभा । आमूर्ध्नो वर्तते नादो वीणादण्डवदुत्थितः ॥ ५५॥ शङ्खध्वनिनिभस्त्वादौ मध्ये मेघध्वनिर्यथा । व्योमरन्ध्रगते नादे गिरिप्रस्रवणं यथा ॥ ५६॥ व्योमरन्ध्रगते वायौ चित्ते चात्मनि संस्थिते । तदानन्दी भवेद्देही वायुस्तेन जितो भवेत् ॥ ५७॥ योगिनस्त्वपरे ह्यत्र वदन्ति समचेतसः । प्राणायामपराः पूता रेचपूरणवर्जिताः ॥ ५८॥ दक्षिणेतरगुल्फेन सीवनीं पीडयेत्शिराम् अधस्ताद्दण्डयो सूक्ष्मां सव्योपरि च दक्षिणम् ॥ ५९॥ var दण्डवत्सूक्ष्मां जङ्घोर्वोरन्तरं गार्गि निश्छिद्रं बन्धयेत्दृढम् । समग्रीवशिरस्कन्धः समपृष्ठः समोदरः ॥ ६०॥ नेत्राभ्यां दक्षिणं गुल्फं लोकयन्नुपरिस्थितम् । धारयन्मनसा सार्धं व्याहरन्प्रणवाक्षरम् ॥ ६१॥ आसने नान्यधीरास्ते द्विजो रहसि नित्यशः । क्षत्रियश्च वरारोहे व्याहरन्प्रणवाक्षरम् ॥ ६२॥ आसने नान्यधीरस्ते रहस्येव जितेन्द्रियः । वैश्याः शूद्राः स्त्रियश्चान्ये योगाभ्यासरताः नराः ॥ ६३॥ शैवं वा वैष्णवं वाथ व्याहरन्नन्यमेव वा । आसने नान्यधीरस्ते दीपं हस्ते विलोकयन् ॥ ६४॥ आयुर्विघातकृत्प्राणस्त्वनेनाग्निकुलं गतः । धूमध्वजजयं यावन्नान्यधीरेवमभ्यसेत् ॥ ६५॥ धारणं कुर्वतस्तस्य शक्तिं स्यादिष्टभोजने । देहश्च लघुतां याति जठराग्निश्च वर्धते ॥ ६६॥ दृष्टचिह्नस्ततस्तस्मान्मनसारोप्य मारुतम् । मन्त्रमुच्चारयन्दीर्घं नाभिमध्ये निरोधयेत् ॥ ६७॥ यावन्मनोलयत्यस्मिन्नाभौ सवितृमण्डले । तावत्समभ्यसेद्विद्वान्नियतो नियतासनः ॥ ६८॥ एतेन नाभिमध्यस्थधारणेनैव मारुतः । कुण्डलीं याति वह्निश्च दहत्यत्र न संशयः ॥ ६९॥ सन्तप्ता वह्निना तत्र वायुना चालिता स्वयम् । प्रसार्य फणभृद्भोगं प्रबोधं याति सा तदा ॥ ७०॥ प्रबुद्धे संसरत्यस्मिन्नाभिमूले तु चक्रिणि । ब्रह्मरन्ध्री सुषुम्णायां प्रयाति प्राणसञ्ज्ञकः ॥ ७१॥ सम्प्राप्ते मारुते तस्मिन्सुषुम्णायां वरानने । मन्त्रमुच्चार्य मनसा हृन्मध्ये धारयेत्पुनः ॥ ७२॥ हृदयात्कण्ठकूपे च भ्रुवोर्मध्ये च धारयेत् । तस्मादारोप्य मनसा साग्निं प्राणमनन्यधीः ॥ ७३॥ धारयेद्व्योम्नि विप्रेन्द्रे व्याहरन्प्रणवाक्षरम् । वायुना पूरिते व्योम्नि साङ्गोपाङ्गे कलेवरे ॥ ७४॥ तदात्मा राजते तत्र यथा व्योम्नि विकर्तनः । var भजते शरीरं विसिसृक्षुश्चेदेवं सम्यक् समाचरन् ॥ ७५॥ एकाक्षरं परं ब्रह्म ध्यायन्प्रणवमीश्वरम् । सम्भिद्य मनसा मूर्ध्नि ब्रह्मरन्ध्रं सवायुना ॥ ७६॥ प्राणमुन्मोचयेत्पश्चान्महाप्राणे खमध्यमे॥ देहातीते जगत्प्राणे शून्ये नित्ये ध्रुवे पदे ॥ ७७॥ आकाशे परमानन्दे स्वात्मानं योजयेद्धिया । ब्रह्मैवासौ भवेद्गार्गि न पुनर्जन्मभाग्भवेत् ॥ ७८॥ तस्मात्त्वं च वरारोहे नित्यं कर्म समाचार । सन्ध्याकालेषु वा नित्यं प्राणसंयमनं कुरु ॥ ७९॥ प्राणायामपराः सर्वे प्राणायामपरायणाः । प्राणायामविशुद्धा ये ते यान्ति परमां गतिम् ॥ ८०॥ प्राणायामादृते नान्यत्तारकं नरकादमि । संसारार्णवमग्नानां तारकः प्राणसंयमः ॥ ८१॥ तस्मात् त्वं विधिमार्गेण नित्यं कर्म समाचर । विधिनोक्तेन मार्गेण प्राणसंयमनं कुरु ॥ ८२॥ नासाग्रे दृक् सदा सम्यक् सव्ये न्यस्येतरं करम् । नासाग्रे शशभृद्बिम्बे ज्योत्स्नाजालवितानके ॥ ८३॥ अम्बोमा सहितं शुभ्रं सोमसूर्याग्निलोचनम् । पञ्चवक्रं महादेवं चन्द्रशेखरमीश्वरम् ॥ ८४॥ नन्दिवाहनसंयुक्तं सर्वदेवसमन्वितम् । प्रसन्नं सर्ववरदं ध्यायेत्सर्वायुधं शिवम् ॥ ८५॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । अकारमूर्तिरेतेषां रक्ताङ्गी हंसवाहिनी ॥ ८६॥ दण्डहस्ता सती वाला गायत्रीत्यवधार्यताम् । उकारमूर्तिरेतेषां कृष्णाङ्गी वृषवाहनी ॥ ८७॥ चक्रहस्ता सती चैव सावित्रीत्यवधार्यताम् । मकारमूर्तिरेतेषां श्वेताङ्गी तार्क्ष्यवाहिनी ॥ ८८॥ शूलानन्दमयी वृद्धा सरस्वत्यवधार्यताम् । माहेश्वरीति सा प्राज्ञैः पश्चिमा परिकीर्तिता ॥ ८९॥ सृष्टिस्थित्यन्तकालाद्या मकारोऽप्यन्तकात्मकः । अक्षरत्रयमेवैतत्कारणत्रयमिष्यते ॥ ९०॥ त्रयाणां कारणं ब्रह्म सद्रूपं सर्वकारणम् । एकाक्षरं परं ज्योतिस्तमाहुः प्रणवं बुधाः ॥ ९१॥ एवं ज्ञात्वा विधानेन प्रणवेन समन्वितम् । प्राणायामं ततः कुर्याद्रेचपूरककुम्भकैः ॥ ९२॥ ॥ इति श्रीयोगयाज्ञवल्क्ये षष्ठोऽध्यायः ॥
॥ अथ सप्तमोऽध्यायः ॥ याज्ञवल्क्य उवाच - उक्तान्येतानि चत्वारि योगाङ्गानि द्विजोत्तमे । प्रत्याहारादि चत्वारि श‍ृणुष्वाभ्यन्तराणि च ॥ १॥ इन्द्रियाणां विचरतां विषयेषु स्वभावतः । बलादाहरणं तेषां प्रत्याहारः स उच्यते ॥ २॥ यद्यत्पश्यसि तत्सर्वं पश्येदात्मवदात्मनि । प्रत्याहारः स च प्रोक्तो योगविद्भिर्महात्मभिः ॥ ३॥ कर्माणि यानि नित्यानि विहितानि शरीरिणाम् । तेषामात्मन्यनुष्ठानं मनसा यद्बहिर्विना ॥ ४॥ प्रत्याहारो भवेत्सोऽपि योगसाधनमुत्तमम् । प्रत्याहारः प्रशस्तोऽयं सेवितो योगिभिः सदा ॥ ५॥ अष्टादशसु यद्वायोर्मर्मस्थानेषु धारणम् । स्थानात्स्थानात्समाकृष्य प्रत्याहारो निगद्यते ॥ ६॥ अश्विनौ च तथा ब्रूतां गार्गि देवभिषग्वरौ । मर्मस्थानानि सिद्ध्यर्थं शरीरे योगमोक्षयोः ॥ ७॥ तानि सर्वाणि वक्ष्यामि यथावच्छुणु सुव्रते । पादाङ्गुष्ठौ च गुल्फौ च जङ्घामध्ये तथैव च ॥ ८॥ चित्योर्मूलं च जान्वोश्च मध्ये चोरुद्वयस्य च । पायुमूलं ततः पश्चाद्देहमध्यं च मेढ्रकम् ॥ ९॥ नाभिश्च हृदयं गार्गि कण्ठकूपस्तथैव च । तालुमूलं च नासाया मूलं चाक्ष्णोश्च मण्डले ॥ १०॥ भ्रुवोर्मध्यं ललाटं च मूर्धा च मुनिसत्तमे । मर्मस्थानानि चैतानि मानं तेषां पृथक् श‍ृणु ॥ ११॥ पादान्मानं तु गुल्फस्य सार्धाङ्गुलचतुष्टयम् । गुल्फाज्जङ्घस्य मध्यं तु विज्ञेयं तद्दशाङ्गुलम् ॥ १२॥ जङ्घमध्याच्चित्योर्मूलं यत्तदेकादशाङ्गुलम् चित्योर्मूलाद्वरारोहे जानुः स्यादङ्गुलिद्वयम् ॥ १३॥ जान्वोर्नवाङ्गुलं प्राहुरूरुमध्यं मुनीश्वराः । ऊरुमध्यात्तथा गार्गि पायुमूलं नवाङ्गुलम् ॥ १४॥ देहमध्यं तथा पायोर्मूलादर्धाङ्गुलद्वयम् । देहमध्यात्तथा मेढ्र तद्वत्सार्धाङ्गुलद्वयम् ॥ १५॥ मेढ्रान्नभिश्च विज्ञेया गार्गि सार्धदशाङ्गुलम् । चतुर्दशाङ्गुलं नाभेर्हृन्मध्यं च वरानने ॥ १६॥ षडङ्गुलं तु हृन्मध्यात्कण्ठकूपं तथैव च । कण्ठकूपाच्च जिह्वाया मूलं स्याच्चतुरङ्गुलम् ॥ १७॥ नासामूलं तु जिह्वाया मूलाच्च चतुरङ्गुलम् । नेत्रस्थानं तु तन्मूलादर्धाङ्गुलमितीष्यते ॥ १८॥ तस्मादर्धाङ्गुलं विद्धि भ्रुवोरन्तरमात्मनः । ललाटाख्यं भ्रुवोर्मध्यादूर्ध्वं स्यादङ्गुलद्वयम् ॥ १९॥ ललाटाद्व्योमसञ्ज्ञं स्यादङ्गुलित्रयमेव हि । स्थानेषु एतेषु मनसा वायुमारोप्य धारयेत् ॥ २०॥ स्थानात्स्थानात्समाकृष्य प्रत्याहारं प्रकुर्वतः । सर्वे रोगा विनश्यन्ति योगाः सिध्यन्ति तस्य वै ॥ २१॥ वदन्ति योगिनः केचिद्योगेषु कुशला नराः । प्रत्याहारं वरारोहे श‍ृणु त्वं तद्वदाम्यहम् ॥ २२॥ सम्पूर्णकुम्भवद्वायुमङ्गुष्ठान्मूर्धमध्यतः । धारयेदनिलं बुद्ध्या प्राणायामप्रचोदितः ॥ २३॥ व्योमरन्ध्रात्समाकृष्य ललाटे धारयेत्पुनः । ललाटाद्वाउमाकृष्य भ्रुवोर्मध्ये निरोधयेत् ॥ २४॥ भ्रुवोर्मध्यात्समाकृष्य नेत्रमध्ये निरोधयेत् । नेत्रात्प्राणं समाकृष्य नासामूले निरोधयेत् ॥ २५॥ नासामूलात्तु जिह्वाया मूले प्राणं निरोधयेत् । जिह्वामूलात्समाकृष्य कण्ठमूले निरोधयेत् ॥ २६॥ कण्ठमूलात्तु हृन्मध्ये हृदयात् नाभिमध्यमे । नाभिमध्यात्पुनर्मेढ्रे मेढ्राद्वह्न्यालये ततः ॥ २७॥ देहमध्याद्गुदे गार्गि गुदादेवोरुमूलके । ऊरुमूलात्तयोर्मध्ये तस्माज्जान्वोर्निरोधयेत् ॥ २८॥ चितिमूले ततस्तस्माज्जङ्घयोर्मध्यमे तथा । जङ्घामध्यात्समाकृष्य वायुं गुल्फे निरोधयेत् ॥ २९॥ गुल्फादङ्गुष्ठयोर्गार्गि पादयोस्तन्निरोधयेत्॥ स्थानात्स्थानात्समाकृष्य यस्त्वेवं धारयेत् सुधीः ॥ ३०॥ सर्वपापविशुद्धात्मा जीवेदाचन्द्रतारकम् । एतत्तु योगसिद्ध्यर्थमगस्त्येनापि कीर्तितम् ॥ ३१॥ प्रत्याहारेषु सर्वेषु प्रशस्तमिति योगिभिः । नाडीभ्यां वायुमापूर्य कुण्डल्याः पार्श्वयोः क्षिपेत् ॥ ३२॥ धारयेद्युगपत्सोऽपि भवरोगाद्विमुच्यते । पूर्ववद्वायुमारोप्य हृदयव्योम्नि धारयेत् ॥ ३३॥ सोऽपि याति वरारोहे परमात्मपदं नरः । व्याधयः किं पुनस्तस्य बाह्याभ्यन्तरवर्तिनः ॥ ३४॥ नासाभ्यां वायुमारोप्य पूरयित्वोदरस्थितम् । भ्रुवोर्मध्यादृशोः पश्चात्समारोप्य समाहितः ॥ ३५॥ धारयेत्क्षणमात्रं वा सोऽपि याति परां गतिम् । किं पुनर्बहुनोक्तेन नित्यं कर्म समाचरन् ॥ ३६॥ आत्मनः प्राणमारोप्य भ्रुवोर्मध्ये सुषुम्णया । यावन्मनोलयत्यस्मिन्स्तावत्संयमनं कुरु ॥ ३७॥ ॥ इति श्रीयोगयाज्ञवल्क्ये सप्तमोऽध्यायः ॥
॥ अथ अष्टमोऽध्यायः ॥ याज्ञवल्क्य उवाच - अथेदानीं प्रवक्ष्यामि धारणा पञ्च तत्त्वतः । समाहितमनास्त्वं च श‍ृणु गार्गि तपोधने ॥ १॥ यमादिगुणयुक्तस्य मनसः स्थितिरात्मनि । धारणेत्युच्यते सद्भिः शास्त्रतात्पर्यवेदिभिः ॥ २॥ अस्मिन्ब्रह्मपुरे गार्गि यदिदं हृदयाम्बुजम् । तस्मिन्नेवान्तराकाशे यद्बाह्याकाशधारणम् ॥ ३॥ एषा च धारणेत्युक्ता योगशास्त्रविशारदैः । तान्त्रिकैर्योगशास्त्रज्ञैर्विद्वद्भिश्च सुशिक्षितैः ॥ ४॥ धारणाः पञ्चधा प्रोक्तास्ताश्च सर्वाः पृथक् श‍ृणु॥ भूमिरापस्तथा तेजो वायुराकाशमेव च ॥ ५॥ एतेषु पञ्चदेवानां धारणं पञ्चधोच्यते । पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते ॥ ६॥ आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् । आपायोर्हृदयान्तं यद्वह्निस्थानं तदुच्यते ॥ ७॥ आहृन्मध्याद्भ्रुवोर्मध्यं यावद्वायुकुलं स्मृतम् । आभ्रूमध्यात्तु मूर्धान्तमाकाशमिति चोच्यते ॥ ८॥ अत्र केचिद्वदन्त्यन्ये योगपण्डितमानिनः । आजानोर्नाभिपर्यन्तमपांस्थानमिति द्विजाः ॥ ९॥ नाभिमध्याद्गलान्तं यद्वह्निस्थानं तदुच्यते । आगलात्तु ललाटान्तं वायुस्थानमितीरितम् ॥ १०॥ ललाटाद्रन्ध्रपर्यन्तमाकाशस्थानमुच्यते॥ अयुक्तमेतदित्युक्तं शास्त्रतात्पर्यवेदिभिः ॥ ११॥ यदि स्याज्ज्वलनस्थानं देहमध्ये वरानने । अयुक्ता कारणे वह्नौ कार्यरूपस्य संस्थितिः ॥ १२॥ कार्यकारणसंयोगे कार्यहानिः कथं भवेत् । दृष्टं तत्कार्यरूपेषु मृदात्मकघटादिषु ॥ १३॥ पृथिव्यां धारयेद्गार्गि ब्रह्माणं परमेष्ठिनम् । विष्णुमप्स्वनले रुद्रमीश्वरं वायुमण्डले ॥ १४॥ सदाशिवं तथा व्योम्नि धारयेत्सुसमाहितः । पृथिव्यां वायुमास्थाय लकारेण समन्वितम् ॥ १५॥ ध्यायन् चतुर्भुजाकारं ब्रह्माणं सृष्टिकारणम् । धारयेत्पञ्च घटिकाः पृथिवीजयमाप्नुयात् ॥ १६॥ वारुणे वायुमारोप्य वकारेण समन्वितम् । स्मरन्नारायणं सौम्यं चतुर्बाहुं किरीटिनम् ॥ १७॥ शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् । धारयेत्पञ्च घटिकाः सर्वरोगैः प्रमुच्यते ॥ १८॥ वहौ चानिलमारोप्य रेफाक्षरसमन्वितम् । त्र्यक्षं वरप्रदं रुद्रं तरुणादित्यसन्निभम् ॥ १९॥ भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् । धारयेत्पञ्च घटिकाः वह्निनासौ न दह्यते ॥ २०॥ मारुतं मारुतस्थाने यकारेण समन्वितम् । धारयेत्पञ्च घटिकाः वायुवद्व्योमगो भवेत् ॥ २१॥ आकाशे वायुमारोप्य हकारोपरि शकरम् । बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ॥ २२॥ शुद्धस्फटिकसङ्काशं बालेन्दुघृतमौलिनम् । पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् ॥ २३॥ सर्वायुधोद्यतकरं सर्वाभरणभूषितम् । उमार्धदेहं वरदं सर्वकारणकारणम् ॥ २४॥ मनसा चिन्तयनत्तु मुहूर्तमपि धारयेत् । स एव मुक्त इत्युक्तस्तान्त्रिकेषु सुशिक्षितैः ॥ २५॥ एतदुक्तं भवत्यत्र गार्गि ब्रह्मविदां वरे । ब्रह्मादिकार्यरूपाणि स्वे स्वे सम्हृत्य कारणे ॥ २६॥ तस्मिन्सदाशिवे प्राणं चित्तं चानीय कारणे । युक्तचित्तस्तदात्मानं योजयेत्परमेश्वरे ॥ २७॥ अस्मिन्नर्थे वदन्त्यन्ये योगिनो व्रह्मविद्वराः । प्रणवेनैव कार्याणि स्वे स्वे संहृत्य कारणे ॥ २८॥ प्रणवस्य तु नादान्ते परमानन्दविग्रहम् । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ २९॥ चेतसा सम्प्रपश्यन्ति सन्तः संसारभेषजं त्वं तस्मात् प्रणवेनैव प्राणायामैस्त्रिभिस्त्रिभिः ॥ ३०॥ ब्रह्मादि कार्यरूपाणि स्वे स्वे सम्हृत्य कारणे । विशुद्धचेतसा पश्य नादान्ते परमेश्वरम् ॥ ३१॥ अस्मिन्नर्थे वदन्त्यन्ये योगिनो ब्रह्मविद्वराः । भिषग्वरा वरारोहे योगेषु परिनिष्ठिताः ॥ ३२॥ शरीरं तावदेवं तु पञ्चभूतात्मकं खलु । तदेतत्तु वरारोहे वातपित्तकफात्मकम् ॥ ३३॥ वातात्मकानां सर्वेषां योगेष्वभिरतात्मनाम् । प्राणसंयमनेनैव शोषं याति कलेवरम् ॥ ३४॥ पित्तात्मकानां त्वचिरान्न शुष्यति कलेवरम् । कफात्मकानां कायश्च सम्पूर्णस्त्वचिराद्भवेत् ॥ ३५॥ धारणं कुर्वतस्त्वाग्नौ सर्वे नश्यन्ति वातजाः । पार्थिवांशे जलांशे च धारणं कुर्वतः सदा ॥ ३६॥ नश्यन्ति श्लेष्मजा रोगा वातजाश्चाचिरात्तथा । व्योमांशे मारुतांशे च धारणं कुर्वतः सदा ॥ ३७॥ त्रिदोषजनिता रोगा विनश्यन्ति न संशयः । अस्मिन्नर्थे तथा ब्रूतामश्विनौ च भिषग्वरौ ॥ ३८॥ प्राणसंयमनेनैव त्रिदोषशमनं नृणाम् । तस्मात्त्वं च वरारोहे नित्यं कर्म समाचर ॥ ३९॥ यमादिभिश्च सम्युक्ता विधिवद्धारणां कुरु ॥ ४०॥ ॥ इति श्रीयोगयाज्ञवल्क्ये अष्टमोऽध्यायः ॥
॥ अथ नवमोऽध्यायः ॥ याज्ञवल्क्य उवाच - अथ ध्यानं प्रवक्ष्यामि श‍ृणु गार्गि वरानने । ध्यानमेव हि जन्तूनां कारणं बन्धमोक्षयोः ॥ १॥ ध्यानमात्मस्वरूपस्य वेदनं मनसा खलु । सगुणं निर्गुणं तच्च सगुणं बहुशः स्मृतम् ॥ २॥ पञ्चोत्तमानि तेष्वाहुर्वैदिकानि द्विजोत्तमाः । त्रीणि मुख्यतमान्येषामेकमेव हि निर्गुणम् ॥ ३॥ मर्मस्थानानि नाडीनां संस्थानं च पृथक्पृथक् । वायूनां स्थानकर्माणि ज्ञात्वा कुर्वात्मवेदनम् ॥ ४॥ एकं ज्योतिर्मयं शुद्धं सर्वगं व्योमवलुदम् । अव्यक्तमचलं नित्यमादिमघ्यान्तवर्जितम् ॥ ५॥ स्थूलं सूक्ष्ममनाकारमसंस्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनौपमम् ॥ ६॥ आनन्दमजरं नित्यं सदसत्सर्वकारणम् । सर्वाधारं जगद्रूपममूर्तमजमव्ययम् ॥ ७॥ अदृश्यं दृश्यमन्तःस्थं बहिर्स्थं सर्वतोमुखम् । सर्वदृक्सर्वतःपादं सर्वस्पृक् सर्वतःशिरः ॥ ८॥ ब्रह्म ब्रह्ममयोऽहं स्यामिति यद्वेदनं भवेत्॥ तदेतन्निर्गुणं ध्यानमिति ब्रह्मविदो विदुः ॥ ९॥ अथवा परमात्मानं परमानन्दविग्रहम् । गुरूपदेशाद्विज्ञाय पुरुषं कृष्णपिङ्गलम् ॥ १०॥ ब्रह्म ब्रह्मपुरे चास्मिन्दहराम्बुजमध्यमे॥ अभ्यासात्सम्प्रपश्यन्ति सन्तं संसारभेषजम् ॥ ११॥ ह्रृत्पद्मेऽष्टदलोपेते कन्दमध्यात्समुत्थिते । द्वादशाङ्गुलनालेऽस्मिश्चतुरङ्गुलमुन्मुखे ॥ १२॥ प्राणायामैर्विकासिते केसरान्वितकर्णिके । वासुदेवं जगन्नाथं नारायणमजं हरिम् ॥ १३॥ चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् । किरीटकेयूरधरं पद्मपत्रनिभेक्षणम् ॥ १४॥ श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम् । पद्मोदरदलाभोष्ठं सुप्रसन्नं शुचिस्मितम् ॥ १५॥ शुद्धस्फटिकसङकाशं पीतवाससमच्युतम् । पद्मच्छविपदद्वन्द्वं परमात्मानमव्ययम् ॥ १६॥ प्रभाभिर्भासयद्रूपं परितः पुरुषोत्तमम् । मनसालोक्य देवेशं सर्वभूतहृदि स्थितम् ॥ १७॥ सोऽहमात्मेति विज्ञानं सगुणं ध्यानमुच्यते । हृत्सरोरुहमध्येऽस्मिन्प्रकृत्यात्मककर्णिके ॥ १८॥ अष्टैश्वर्यदलोपेते विद्याकेसरसंयुते । ज्ञाननाले बृहत्कन्दे प्राणायामप्रबोधिते ॥ १९॥ विश्वार्चिषं महावह्निं ज्वलन्तं विश्वतोमुखम् । वैश्वानरं जगद्योनिं शिखातन्विनमीश्वरम् ॥ २०॥ तापयन्तं स्वकं देहमापादतलमस्तकम् । निर्वातदीपवत्तस्मिन्दीपितं हव्यवाहनम् ॥ २१॥ दृष्ट्वा तस्य शिखामध्ये परमात्मानमक्षरम् । नीलतोयदमध्यस्थविद्युल्लेखेव भास्वरम् ॥ २२॥ नीवारशूकवद्रूपं पीताभं सर्वकारणम् । ज्ञात्वा वैश्वानरं देवं सोऽहमात्मेति या मतिः ॥ २३॥ सगुणेषूत्तमं ह्येतद्ध्यानं योगविदो विदुः । वैश्वानरत्वं सम्प्राप्य मुक्तिं तेनैव गच्छति ॥ २४॥ अथवा मण्डले पश्येदादित्यस्य महाद्युतेः । आत्मानं सर्वजगतः पुरुषं हेमरूपिणम् ॥ २५॥ हिरण्यश्मश्रुकेशं च हिरण्यमयनखं हरिम् । कनकाम्बुजवद्वक्त्रं सृष्ठिस्थित्यन्तकारणम् ॥ २६॥ पद्मासनस्थितं सौम्यं प्रबुद्धाब्जनिभाननम् । पद्मोदरदलाभाक्षं सर्वलोकाभयप्रदम् ॥ २७॥ जानन्तं सर्वदा सर्वमुन्नयन्तं च धार्मिकान् । भासयन्तं जगत्सर्वं दृष्ट्वा लोकैकसाक्षिणम् ॥ २८॥ सोऽहमस्मीति या बुद्धिः स च ध्यानेषु शस्यते । एष एव तु मोक्षस्य महामार्गस्तपोधने ॥ २९॥ घ्यानेनानेन सौरेण मुक्तिं यास्यन्ति सूरयः । भ्रूवोर्मध्येऽन्तरात्मानं भारूपं सर्वकारणम् ॥ ३०॥ स्थाणुवन्मूर्धपर्यन्तं मध्यदेहात्मसमुत्थितम् । जगत्कारणमव्यक्तं ज्वलन्तममितौजसम् ॥ ३१॥ मनसालोक्य सोऽहं स्यामित्येतध्यानमुत्तमम् । अथवा बद्धपर्यङ्के शितिलीकृतविग्रहे ॥ ३२॥ शिव एव स्वयं भूत्वा नासाग्रारोपितेक्षणः । निर्विकारं परं शान्तं परमात्मानमीश्वरम् ॥ ३३॥ भारूपममृतं ध्यायेद्भ्रुवोर्मध्ये वरानने । सोऽहमेवेति या बुद्धिः सा च ध्यानेषु शस्यते ॥ ३४॥ अथवाष्टदलोपेते कर्णिकाकेसरान्विते । उन्निद्रहृदयाम्भोजे सोममण्डलमध्यमे ॥ ३५॥ स्वात्मानमर्भकाकरं भोक्तृरूपिणमव्ययम् । सुधारसं विमुञ्चद्भिः शशिरश्मिभिरावृतम् ॥ ३६॥ षोडशच्छदसंयुक्ताशिरः पद्मादधोमुखात् । निर्गतामृतधाराभिः सहस्राभिः समन्ततः ॥ ३७॥ प्लावितं पुरुषं तत्र चिन्तयित्वा समाहितः । तेनामृतरसेनैव साङ्गोपाङ्गकलेवरे ॥ ३८॥ अहमेव परं ब्रह्म परमात्माहमव्ययः । एवं यद्वेदनं तच्च सगुणं ध्यानमुच्यते ॥ ३९॥ एवं घ्यानामृतं कुर्वन् षण्मासान्मृत्युजिद्भवेत् । वत्सरान्मुक्त एव स्याज्जीवन्नेव न संशयः ॥ ४०॥ जीवन्मुक्तस्य न क्वापि दुःखावाप्तिः कथञ्चन । किं पुनर्नित्यमुक्तस्य मुक्तिरेव हि दुर्लभा ॥ ४१॥ तस्मात्त्वं च वरारोहे फलं त्यक्त्वेव नित्यशः । विधिवत्कर्म कुर्वाणा ध्यानमेव सदा कुरु ॥ ४२॥ अन्यानपि बहून्याहुर्ध्यानानि मुनिसत्तमाः । मुख्यान्युक्तानि चैतेभ्यो जघन्यानीतराणि तु ॥ ४३॥ सगुणं गुणहीनं वा विज्ञायात्मानमात्मनि । सन्तः समाधिं कुर्वन्ति त्वमप्येवं सदा कुरु ॥ ४४॥ ॥ इति श्रीयोगयाज्ञवल्क्ये नवमोऽध्यायः ॥
॥ अथ दशमोऽध्यायः ॥ याज्ञवल्क्य उवाच - समाधिमधुना वक्ष्ये भवपाशविनाशनम् । भवपाशनिबद्धस्य यथावच्छ्रोतुमर्हसि ॥ १॥ समाधिः समतावस्था जीवात्मपरमात्मनोः । ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः ॥ २॥ ध्यायेद्यथा यथात्मानं तत्समाधिस्तथा तथा । ध्यायैवात्मनि संस्थाप्यो नान्यथात्मा यथा भवेत् ॥ ३॥ एवमेव तु सर्वत्र यत्प्रपन्नस्तु यो नरः । तदात्मा सोऽपि तत्रैव समाधिं समवाप्नुयात् ॥ ४॥ सारित्पतौ निविष्टाम्बु यथाभिन्नतयान्वियात् । तथात्माभिन्न एवात्र समाधिं समवाप्नुयात् ॥ ५॥ एतदुक्तं भवत्यत्र गार्गि ब्रह्मविदां वरे । कर्मैव विधिवत्कुर्वन्कामसङ्कल्पवर्जितम् ॥ ६॥ वेदान्तेष्वर्थशास्त्रेषु सुशिक्षितमनाः सदा । गुरुणा तूपदिष्टार्थं युक्त्युपेतं वरानने ॥ ७॥ विद्वद्भिर्धर्मशास्त्रज्ञैर्विचार्य च पुनः पुनः । तस्मिन् सुनिश्चितार्थेषु सुशिक्षितमनाः सदा ॥ ८॥ योगमेवाभ्यसेन्नित्यं जीवात्मपरमात्मनोः । ततस्त्वाभ्यन्तरैस्चिह्नैर्बाह्यैर्वा कालसूचकैः ॥ ९॥ विनिश्चित्यात्मनः कालमन्यैर्वा परमार्थवित् । निर्भयः सुप्रसन्नात्मा मर्त्यस्तु विजितेन्द्रियः ॥ १०॥ स्वकर्मनिरतः शान्तः सर्वभूतहिते रतः । प्रदाय विद्यां पुत्रस्य मन्त्रं च विधिपूर्वकम् ॥ ११॥ संस्कारमात्मनः सर्वमुपदिश्य तदानघे । पुण्यक्षेत्रे शुचौ देशे विद्वद्भिश्च समावृते ॥ १२॥ भूमौ कुशान्समास्तीर्य कृष्णाजिनमथापि वा । तस्मिन्सुबद्धपर्यङ्को मन्त्रैर्बद्धकलेवरः ॥ १३॥ आसने नान्यधीरास्ते प्राङ्मुखो वाप्युदङ्मुखः । नवद्वाराणि संयम्य गार्ग्यस्मिन्ब्रह्मणः पुरे ॥ १४॥ उन्निद्रहृदयाम्भोजे प्राणायामैः प्रबोधिते । व्योम्नि तस्मिन्प्रभारूपे स्वरूपे सर्वकारणे ॥ १५॥ मनोवृत्तिं सुसंयम्य परमात्मनि पण्डितः । मूर्ध्न्याधायात्मनः प्राणं भ्रुवोर्मध्येऽथवानधे ॥ १६॥ कारणे परमानन्दे आस्थितो योगधारणाम् । ओमित्येकाक्षरं बुद्ध्या व्याहरन्सुसमाहितः ॥ १७॥ शरीरं सन्त्यजेद्विद्वानात्मैवाभून्नरोत्तमः । यस्मिन्समभ्यसेद्विद्वान्योगेनैवात्मदर्शनम् ॥ १८॥ तदेव संस्मरञ्चिद्वांस्त्यजेदन्ते कलेवरम् । यं यं सम्यक्स्मरन्भावं त्यजत्यन्ते कलेवरम् ॥ १९॥ तं तमेवैत्यसौ भावमिति योगविदो विदुः । त्वं चैवं योगमास्थाय ध्यायन्स्वात्मानमात्मनि ॥ २०॥ स्वधर्मनिरता शान्ता त्यजान्ते देहमात्मनः । ज्ञानेनैव सहैतेन नित्यकर्माणि कुर्वतः ॥ २१॥ निवृत्तफलसङ्गस्य मुक्तिर्गार्गि करे स्थिता । यदुक्तं ब्रह्मणा पूर्वं कर्मयोगसमुच्चयम् ॥ २२॥ तदेतत्कीर्तितं सर्वं साङ्गोपाङ्गं विधानतः । त्वं चैव योगमभ्यस्य यमाद्यष्टाङ्गसंयुतम् ॥ २३॥ निर्वाणं पदमासाद्य प्रपञ्चं सम्परित्यज । ॥ इति श्रीयोगयाज्ञवल्क्ये दशमोऽध्यायः ॥
॥ अथ एकादशोऽध्यायः ॥ इत्येवमुक्ता मुनिना याज्ञवल्क्येन धीमता । ऋषिमध्ये वरारोहा वाक्यमेतदभाषत ॥ १॥ गार्ग्युवाच - योगयुक्तो नरः स्वामिन्सन्ध्ययोर्वाथवा सदा । वैधं कर्म कथं कुर्यान्निष्कृतिः का त्वकुर्वतः ॥ २॥ इत्युक्तो ब्रह्मवादिन्या ब्रह्मविद्ब्राह्मणस्तदा । तां समालोक्य भगवानिदमाह नरोत्तमः ॥ ३॥ याज्ञवल्क्य उवाच - योगयुक्तमनुष्यस्य सन्ध्ययोर्वाथवा निशि । यत्कर्तव्यं वरारोहे योगेन खलु तत्कृतम् ॥ ४॥ आत्माग्निहोत्रवह्नौ तु प्राणायामैर्विवर्धिते । विशुद्धचित्तहविषा विध्युक्तं कर्म जुह्वतः ॥ ५॥ निष्कृतिस्तस्य किं बाले कृतकृत्यस्तदा खलु । वियोगे सति सम्प्राप्ते जीवात्मपरमात्मनोः ॥ ६॥ विध्युक्तं कर्म कर्तव्यं ब्रह्मविद्भिश्च नित्यशः । वियोगकाले योगी च दुःखमित्येव यस्त्यजेत् ॥ ७॥ कर्माणि तस्य निलयः निरयः परिकीर्तितः । न देहिनां यतः शक्यं त्यक्तुं कर्माण्यशेषतः ॥ ८॥ तस्मादामरणाद्वैधं कर्तव्यं योगिभिः सदा । त्वं चैव मात्यया गार्गि वैधं कर्म समाचर ॥ ९॥ योगेन परमात्मानं यजंस्त्यज कलेवरम् । इत्येवमुक्त्वा भगवान् याज्ञवल्क्यस्तपोनिधिः ॥ १०॥ ऋषीनालोक्य नेत्राभ्यां वाक्यमेतदभाषत । सन्ध्यामुपास्य विधिवत्पश्चिमां सुसमाहिताः ॥ ११॥ गच्छन्तु साम्प्रतं सर्वे ऋषयः स्वाश्रमं प्रति । इत्येवमुक्ता मुनिना मुनयः संश्रितव्रताः ॥ १२॥ विश्वामित्रो वसिष्ठश्च गौतमश्चाङ्गिरास्तथा । अगस्त्यो नारदश्चैव वाल्मीकिर्बादरायणः ॥ १३॥ पैङ्गिर्दीर्घतमा व्यासः शौनकश्च तपोधनः । भार्गवः काश्यपश्चैव भरद्वाजस्तथैव च ॥ १४॥ तपस्विनस्तथा चान्ये वेदवेदाङ्गवेदिनः । याज्ञवल्क्यं सुसम्पूज्य गीर्भिराशीर्मिंरुत्तमैः ॥ १५॥ ते यान्ति मुनयः सर्वे स्वाश्रमेषु यथागतम् । गतेषु स्वाश्रमेष्वेषु तापसेषु तपोधना ॥ १६॥ प्रणम्य दण्डवद्भूमौ वाक्यमेतदभाषत । गार्ग्युवाच - भगवन्सर्वशास्त्रज्ञ सर्वभूतहिते रत ॥ १७॥ भवमोक्षाय योगीन्द्र भवद्भिर्भाषितं तु यत् । यमाद्यष्टाङ्गसहितो योगो मुक्तेस्तु साधनम् ॥ १८॥ तदेतद्विस्मृतं सर्वं सर्वज्ञ तव सन्निधौ । योगं ममोपदिश्याद्य साङ्गं सङ्क्षेपरूपतः ॥ १९॥ त्रातुमर्हसि सर्वज्ञ जन्मसंसारसागरात् । इत्युक्तो ब्रह्मवादिन्या ब्रह्मविद्ब्राह्मणस्तदा ॥ २०॥ आलोक्य कृपया दीनां स्मितपृर्वमभाषत । उत्तिष्ठोत्तिष्ठ किं शेषे भूमौ गार्गि वरानने ॥ २१॥ वक्ष्यामि ते समासेन योगं सम्प्रति तं श‍ृणु॥ ॥ इति श्रीयोगयाज्ञवल्क्ये एकादशोऽध्यायः ॥
॥ अथ द्वादशोऽध्यायः ॥ सव्येन गुल्फेन गुदं निपीड्य सव्येतरेणैव निपीड्य सन्धिम् । सव्येतरं न्यस्य करेतरेऽस्मिंशिखां समालोक्य पावकस्य ॥ १॥ आयुर्विघातकृत्प्राणो निरुद्धस्त्वासनेन वै । याति गार्गि तदापानात्कुलं वह्नेः शनैः शनैः ॥ २॥ वायुना वातितो वह्निरपानेन शनैः शनैः ततो ज्वलति सर्वेषां स्वकुले देहमध्यमे ॥ ३॥ प्रातःकाले प्रदोषे च निशीथे च समाहितः मुहूर्तमभ्यसेदेवं यावत् पञ्चदिनद्वयम् ॥ ४॥ ततस्वात्मनि विप्रेन्दे प्रत्ययाश्च पृथक्पृथक् । सम्भवन्ति तदा तस्य जितो येन समीरणः ॥ ५॥ शरीरलघुता दीप्तिर्वह्नेर्जठरवर्तिनः । नादाभिव्यक्तिरित्येते चिह्नान्यादौ भवन्ति हि ॥ ६॥ अल्पमूत्रपुरीषः स्यात्षण्मासे वत्सरेऽपि वा । आसने वाहने पश्चान्न भेतव्यं त्रिवत्सरात् ॥ ७॥ ततोऽनिलं वायुसखेन सार्धं धिया समारोप्य निरोधयेत्तम् । ध्यायन्सदा चक्रिणमप्रबुद्धं नाभौ सदा कुण्डलिनीनिविष्टम् ॥ ८॥ शिरां समावेष्ट्य मुखेन मध्यामन्याश्च भोगेन शिरास्तथैव । स्वपुच्छमास्येन निगृह्य सम्यक्पथश्च संयम्य मरुद्गणानाम् ॥ ९॥ प्रसुप्तनागेन्द्रवदुच्छ्वसन्ती सदा प्रबुद्धा प्रभया ज्वलन्ती । नाभौ सदा तिष्ठति कुण्डली सा तिर्यक्षु देहेषु तथेतरेषु ॥ १०॥ वायुना विहृतवह्निशिखाभिः कन्दमध्यगतनाडीषु संस्थाम् । कुण्डलीं दहति यस्त्वहिरूपां संस्मरन्नरवरस्तु स एव ॥ ११॥ सन्तप्ता वह्निना तत्र वायुना च प्रचालिता । प्रसार्य फणभृद्भोगं प्रबोधं याति सा तदा ॥ १२॥ बोधं गते चक्रिणि नाभिमध्ये प्राणाः सुसम्भूय कलेवरेऽस्मिन् । चरन्ति सर्वे सह वह्निनैव यथा पटे तन्तुगतिस्तथैव ॥ १३॥ जित्वैवं चक्रिणः स्थानं सदा ध्यानपरायणः । ततो नयेदपानं तु नाभेरूर्ध्वमिदं स्मरन् ॥ १४॥ वायुर्यथा वायुसखेन सार्धं नाभिं त्वतिक्रम्य गतः शरीरे । रोगाश्च नश्यन्ति बलाभिवृद्धिः कान्तिस्तदानीमभवत्प्रबुद्धे ॥ १५॥ ब्रह्मरन्ध्रमुखमत्र वायवः पावकेन सह यान्ति समूह्य । केनचिदिह वदामि तवाहं वीक्षणाद् हृदि सुदीपशिखायाः ॥ १६॥ निरोधितः स्याद् हृदि तेन वायुः मध्ये यदा वायुसखेन सार्धम् । सहस्रपत्रस्य मुखं प्रविश्य कुर्यात्पुनस्तूर्ध्वमुखं द्विजेन्द्रे ॥ १७॥ प्रबुद्धहृदयाम्भोजे गार्ग्यस्मिन्ब्रह्मणः पुरे । बालाकाश्रेणिवद्व्योम्नि विरराज समीरणः ॥ १८॥ हृन्मध्यात्तु सुषुम्नायां संस्थितो हुतभुक्तदा । सजलाम्बुदमालासु विद्युल्लेखेव राजते ॥ १९॥ प्रबुद्धहृत्पद्मनि संस्थितेऽग्नौ प्राणे च तस्मिन्विनिवेशिते च । चिह्नानि बाह्यानि तथान्तराणि दीपादि दृश्याणि भवन्ति तस्य ॥ २०॥ वायुमुन्नय ततस्तु सवह्निं व्याहरन्प्रणवमत्र सबिन्दुम् । बालचन्द्रसदृशे तु ललाटे बालचन्द्रमवलोकय बुद्ध्या ॥ २१॥ सवह्निं बायुमारोप्य भ्रुवोर्मध्ये धिया तदा । ध्यायेदनन्यधीः पश्चादन्तरात्मानमन्तरे ॥ २२॥ मध्यमेऽपि हृदये च ललाटे स्थाणुवज्वलति लिङ्गमदृश्यम् । अस्ति गार्गि परमार्थमिदं त्वं पश्य पश्य मनसा रुचिरूपम् ॥ २३॥ ललाटमध्ये हृदयाम्बुजे च यः पश्यति ज्ञामयीं प्रभां तु । शक्तिं सदा दीपवदुज्ज्वलन्तीं स पश्यति ब्रह्मविदेकदृष्ट्या ॥ २४॥ मनोलयं यदा याति भ्रूमध्ये योगिनां नृणाम् । जिह्वामूलेऽमृतस्रावो भ्रूमध्ये चात्मदर्शनम् ॥ २५॥ कम्पनं च तथा मूर्ध्नः मनसैवात्मदर्शनम् । देवोद्यानानि रम्याणि नक्षत्राणि च चन्द्रमाः । ऋषयः सिद्धगन्धर्वाः प्रकाशं यान्ति योगिनाम् ॥ २६॥ भ्रुवोऽन्तरे विष्णुपदे ऋचौ तु मनोलयं यावदियात्प्रबुद्धे । तावत्समभ्यस्प पुनः खमध्ये सुखं सदा संस्मर पूर्णरूपम् ॥ २७॥ समीरणे विष्णुपदे निविष्टे जीवे च तस्मिन्नमृते च संस्थे । तस्मिन्स्तदा याति मनोलयं चेन्मुक्तेः समीपं तदिति ब्रुवन्ति ॥ २८॥ समीरणे विष्णुपदे निविष्टे विशुद्धबुद्धौ च तदात्मनिष्ठे । आनन्दमत्यद्भुतमस्ति सत्यं त्वं गार्गि पश्याद्य विशुद्धबुद्ध्या ॥ २९॥ एवं समभ्यस्य सूदीर्घकालं यमादिभिर्युक्ततनुर्मिताशी । आत्मानमासाद्य गुहां प्रविष्टां मुक्तिं व्रज ब्रह्मपुरे पुनस्त्वम् ॥ ३०॥ भूतानि यस्मात्प्रभवन्ति गार्गि येनैव जीवन्ति चराचराणि । जातानि यस्मिन् विलयं प्रयान्ति तद्ब्रह्म विद्धीति वदन्ति सर्वे ॥ ३१॥ हृत्पङ्कजे व्योम्नि यदेकरूपं सत्यं सदानन्दमयं सुसूक्ष्मम् । तद्ब्रह्म निर्भासमयं गुहायामिति श्रुतिश्चेति समामनन्ति ॥ ३२॥ अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्य विशुद्धबुद्ध्या प्रयाणकाले च विहीनशोकाः ॥ ३३॥ प्रभञ्जनं मूर्ध्निगतं सवह्निं धिया समासाद्य गुरूपदेशात् । मूर्धानमुद्भिद्य पुनः खमध्ये प्राणास्त्यजोङ्कारमनुस्मरंस्त्वम् ॥ ३४॥ ईप्सया यदि शरीरविसर्गं ज्ञातुमिच्छसि सखे तव वक्ष्ये । व्याहरन्प्रणवमुन्नय मूर्ध्नि भिद्य योजय तमात्मनि कायम् ॥ ३५॥ एतत्पवित्रं परमं योगमष्टाङ्गसंयुतम् । ज्ञानं गुह्यतमं पुण्यं कीर्तितं ते वरानने ॥ ३६॥ य इदं श्रणुयान्नित्यं योगाख्यानं नरोत्तमः । सर्वपापविनिर्मुक्तः सम्यग्ज्ञानी भविष्यति ॥ ३७॥ यस्त्वेतच्छ्रावयेद्विद्वान्नित्यं भक्तिसमन्वितः । एकजन्मकृतं पापं दिनेनैकेन नश्यति ॥ ३८॥ श‍ृणुयाद्यः सकृद्वापि योगाख्यानमिदं नरः । अज्ञानजनितं पापं सर्वं तस्य प्रणश्यति ॥ ३९॥ अनुतिष्ठन्ति ये नित्यमात्मज्ञानसमन्वितम् । नित्यकर्माणि तान्दृष्ट्वा देवाश्च प्रणमन्ति हि ॥ ४०॥ तस्माज्ज्ञानेन देहान्तं नित्यं कर्म यथाविधि । कर्तव्यं देहिभिर्गार्गि योगश्च भवभीरुभिः ॥ ४१॥ इत्येवमुक्त्वा भगवान्रहस्ये रहस्यजं मुक्तिकरं तु तस्याः । योगामृतं बन्धविनाशहेतुं समाधिमास्ते रहसि द्विजेन्द्रः ॥ ४२॥ सा तं तु सम्पूज्य मुनिं ब्रुवन्तं विद्यानिधिं ब्रह्मविदां वांरेष्ठम् । गीर्भीः प्रणामैश्च सतां वरिष्ठं सदा मुदं प्राप वरां विशुद्धाम् ॥ ४३॥ योगं सुसङ्ग्रृह्य तदा रहस्ये रहस्यजं मुक्तिकरं च जन्तोः । संसारमुत्सृज्य सदा मुदान्विता वने रहस्यावसथे विवेश ॥ ४४॥ येन प्रपञ्चं परिपूर्णमेतद्येनैव विश्वं प्रतिभाति सर्वम् । तं वासुदेवं श्रुतिमूर्ध्नि जातं पश्यन्सदास्ते हृदि मूर्ध्नि चान्वहम् ॥ ४५॥ यदेकमव्यक्तमनन्तमच्युतं प्रपञ्चजन्मादिकृदप्रमेयम् । तं वासुदेवं श्रुतिमूर्ध्निजातं पश्यन्सदास्ते हृदि मूर्ध्नि चान्वहम् ॥ ४६॥ ॥ इति श्रीयोगयाज्ञवल्क्ये द्वादशोऽध्यायः ॥ ॥ समाप्तमिदं योगशास्त्रम् ॥

Dr. Balavant Singh