बुधवार, 27 मार्च 2024

गोरक्षशतकम्- 1,2

 

गोरक्षशतकम् १

ॐ परमगुरवे गोरक्षनाथाय नमः । ॐ गोरक्षशतकं वक्ष्ये भवपाशविमुक्तये । आत्मबोधकरं पुंसां विवेकद्वारकुञ्चिकाम् ॥ १॥ एतद्विमुक्तिसोपानमेतत्कालस्य वञ्चनम् । यद्व्यावृत्तं मनो मोहादासक्तं परमात्मनि ॥ २॥ द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजति सज्जनः ॥ ३॥ आसनं प्राणसंयामः प्रत्याहारोऽथ धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ४॥ आसनानि तु तावन्ति यावत्यो जीवजातयः । एतेषामखिलान्भेदान्विजानाति महेश्वरः ॥ ५॥ चतुराशीतिलक्षाणां एकमेकमुदाहृतम् । ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥ ६॥ आसनेभ्यः समस्तेभ्यो द्वयमेव विशिष्यते । एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥ ७॥ योनिस्थानकमंघ्रिमूलघटितं कृत्वा दृढं विन्यसे- न्मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरं एतन्मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ८॥ वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये- देतद्व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ॥ ९॥ आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ॥ १०॥ आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ॥ ११॥ योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् । मस्तके मणिवद्भिन्नं यो जानाति स योगवित् ॥ १२॥ तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् । चतुरस्रं पुरं वह्नेरधोमेढ्रात्प्रितिष्ठितम् ॥ १३॥ स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः । स्वाधिष्ठानाख्यया तस्मान्मेढ्रवाभिधीयते ॥ १४॥ तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया । तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ॥ १५॥ ऊर्ध्वं मेढ्रादधो नाभेः कन्दयोनिः स्वगाण्डवत् । तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥ १६॥ तेषु नाडिसहस्रेषु द्विसप्ततिरुदाहृताः । प्राधान्यात्प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ॥ १७॥ इडा च पिङ्गला चैव सुषुम्णा च तृतीयका । गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ १८॥ अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता । एतन्नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा ॥ १९॥ इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा । सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि ॥ २०॥ दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे । यशस्विनी वामकर्णे चासने वाप्यलम्बुषा ॥ २१॥ कूहुश्च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी । एवं द्वारमुपाश्रित्य तिष्ठन्ति दश नाडिकाः ॥ २२॥ सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः । इडापिङ्गलासुषुम्णा च तिस्रो नाड्य उदाहृताः ॥ २३॥ प्राणापानौ समानश्च ह्युदानो व्यान एव च । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ २४॥ नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः । एते नाडिसहस्रेषु वर्तन्ते जीवरूपिणः ॥ २५॥ प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति । वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥ २६॥ आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवोऽनुकृष्यते ॥ २७॥ रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते । गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते ॥ २८॥ अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति । ऊर्ध्वाधः संस्थितावेतौ यो जानाति स योगवित् ॥ २९॥ कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलीकृता । ब्रह्मद्वारमुखं नित्यं मुखेनावृत्य तिष्ठति ॥ ३०॥ प्रबुद्धा वह्नियोगेन मनसा मारुता हता । प्रजीवगुणमादाय व्रजत्यूर्ध्वं सुषुम्णया ॥ ३१॥ महामुद्रां नमोमुद्रामुड्डियानं जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी सिद्धिभाजनम् ॥ ३२॥ वक्षोन्यस्तहनुर्निपीड्य सुचिरं योनिं च वामांघ्रिणा हस्ताभ्यामवधारितं प्रसरितं पादं तथा दक्षिणम् । आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनै रेचयेद् एषा पातकनाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥ ३३॥ कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ३४॥ ऊर्ध्वं मेढ्रादधो नाभेरुड्डियानं प्रचक्षते । उड्डियानजयो बन्धो मृत्युमातङ्गकेसरी ॥ ३५॥ जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ३६॥ पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धो निगद्यते ॥ ३७॥ यतः कालभयात् ब्रह्मा प्राणायामपरायणः । योगिनो मुनयश्चैव ततः प्राणं निबन्धयेत् ॥ ३८॥ चले वाते चलं सर्वं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निबन्धयेत् ॥ ३९॥ षट्त्रिंशदङ्गुलं हंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते ॥ ४०॥ बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम् । नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥ ४१॥ प्राणो देहस्थितो वायुरायामस्तन्निबन्धनम् । एकश्वासमयी मात्रा तद्योगो गगनायते ॥ ४२॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ ४३॥ अमृतोदधिसङ्काशं क्षीरोदधवलप्रभम् । ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेत् ॥ ४४॥ प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । कुम्भयित्वा विधानेन भूयश्चन्द्रेण रेचयेत् ॥ ४५॥ प्रज्वलज्ज्वलन ज्वाला पुञ्जमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ॥ ४६॥ रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः । प्राणायामो भवेत्त्रेधा मात्रा द्वादशसंयुतः ॥ ४७॥ द्वादशाधमके मात्रा मध्यमे द्विगुणास्ततः । उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ॥ ४८॥ अधमे च घनो घर्मः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तमे योगी बद्धपद्मासनो मुहुः ॥ ४९॥ अङ्गानां मर्दनं शस्तं श्रमसंजातवारिणा । कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥ ५०॥ मन्दं मन्दं पिबेद्वायुं मन्दं मन्दं वियोजयेत् । नाधिकं स्तम्भयेद्वायुं न च शीघ्रं विमोचयेत् ॥ ५१॥ ऊर्ध्वमाकृष्य चापानं वातं प्राणे नियोजयेत् । मूर्धानं नीयते शक्त्या सर्वपापैः प्रमुच्यते ॥ ५२॥ प्राणायामो भवत्येवं पातकेन्धनपातकः । एनोम्बुधिमहासेतुः प्रोच्यते योगिभिः सदा ॥ ५३॥ आसनेन रुजो हन्ति प्राणायामेन पातकम् । विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥ ५४॥ चन्द्रामृतमयीं धारां प्रत्याहारति भास्करः । तत्प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ॥ ५५॥ एका स्त्री भुज्यते द्वाभ्यामागता सोममण्डलात् । तृतीयो यो भवेत्ताभ्यां स भवत्यजरामरः ॥ ५६॥ नाभिदेशे भवत्येको भास्करो दहनात्मकः । अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥ ५७॥ वर्षत्यधोमुखश्चन्द्रो ग्रसत्यूर्ध्वमुखो रविः । ज्ञातव्यं करणं तत्र येन पीयूषमाप्यते ॥ ५८॥ ऊर्ध्वनाभिरधस्तालु ऊर्ध्वभानुरधः शशी । करणं विपरीताख्यं गुरुवक्त्रेण लभ्यते ॥ ५९॥ त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनम् । अनाहतं च तच् चक्रं हृदये योगिनो विदुः ॥ ६०॥ अनाहतमतिक्रम्य चाक्रम्य मणिपूरकम् । प्राप्ते प्राणं महापद्मं योगित्वममृतायते ॥ ६१॥ विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते । अतः कण्ठे विशुद्धाख्ये चक्रं चक्रविदो विदुः ॥ ६२॥ विशुद्धे परमे चक्रे धृत्वा सोमकलाजलम् । मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ॥ ६३॥ सम्पीड्य रसनाग्रेण राजदन्तबिलं महत् । ध्यात्वामृतमयीं देवीं षण्मासेन कविर्भवेत् ॥ ६४॥ अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात् । ऊर्ध्वं प्रवर्तते रेतोऽप्यणिमादिगुणोदयः ॥ ६५॥ इन्धनानि यथा वह्निस्तैलवर्ति च दीपकः । तथा सोमकलापूर्णं देही देहं न मुञ्चति ॥ ६६॥ आसनेन समायुक्तः प्राणायामेन संयुतः । प्रत्याहारेण संयुक्तो धारणां च समभ्यसेत् ॥ ६७॥ हृदये पञ्चभूतानां धारणाश्च पृथक् पृथक् । मनसो निश्चलत्वेन धारणा च विधीयते ॥ ६८॥ या पृथ्वी हरितालदेशरुचिरा पीता लकारान्विता संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद् एषा स्तम्भकरी सदा क्षितिजयं कुर्याद्भुवो धारणा ॥ ६९॥ अर्धेन्दुप्रतिमं च कुन्दधवलं कण्ठेऽम्बुतत्तवं स्थितं यत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद् एषा दुर्वहकालकूटजरणा स्याद्वारिणी धारणा ॥ ७०॥ यत्तालस्थितमिन्द्रगोपसदृशं तत्त्वं त्रिकोणोज्ज्वलं तेजोरेफमयं प्रवालरुचिरं रुद्रेण यत्सङ्गतम् । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारये एषा वह्निजयं सदा विदधते वैश्वानरी धारणा ॥ ७१॥ यद्भिन्नाञ्जनपुञ्जसान्निभमिदं तत्त्वं भ्रुवोरन्तरे वृत्तं वायुमयं यकारसहितं यत्रेश्वरो देवता । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद् एषा खे गमनं करोति यमिनां स्याद्वायवी धारणा ॥ ७२॥ आकाशं सुविशुद्धवारिसदृशं यद्ब्रह्मरन्ध्रे स्थितं तत्राद्येन सदाशिवेन सहितं शान्तं हकाराक्षरम् । प्राणं तत्र विनीय पञ्चघटिकाश्चित्तान्वितं धारयेद् एषा मोक्षकवाटपाटनपटुः प्रोक्ता नभोधारणा ॥ ७३॥ स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा । शोषणी च भवन्त्येवं भूतानां पञ्चधारणाः ॥ ७४॥ कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः । विधाय सततं योगी सर्वपापैः प्रमुच्यते ॥ ७५॥ सर्वं चिन्तासमावर्ति योगिनो हृदि वर्तते । यत्तत्त्वे निश्चितं चेतस्तत्तु ध्यानं प्रचक्षते ॥ ७६॥ द्विधा भवति तद्ध्यानं सगुणं निर्गुणं तथा । सगुणं वर्णभेदेन निर्गुणं केवलं विदुः ॥ ७७॥ आधारं प्रथमं चक्रं तप्तकाञ्चनसन्निभम् । नासाग्रे दृष्टिमादाय ध्यात्वा मुञ्चति किल्बिषम् ॥ ७८॥ स्वाधिष्ठानं द्वितीयं तु सन्माणिक्यसुशोभनम् । नासाग्रे दृष्टिमादाय ध्यात्वा मुञ्चति पातकम् ॥ ७९॥ तरुणादित्यसंकाशं चक्रं च मणिपूरकम् । नासाग्रे दृष्टिमादाय ध्यात्वा संक्षोभयेज्जगत् ॥ ८०॥ [verse missing] विद्युत्प्रभावं हृत्पद्मे प्राणायामविभेदनैः । नासाग्रे दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ॥ ८२॥ सन्ततं घण्टिकामध्ये विशुद्धं चामृतोद्भवम् । नासाग्रे दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ॥ ८३॥ भ्रुवोर्मध्ये स्थितं देवं स्निग्धमौक्तिकसन्निभम् । नासाग्रे दृष्टिमादाय ध्यात्वाऽनन्दमयो भवेत् ॥ ८४॥ निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम् । नासाग्रे दृष्टिमादाय ध्यात्वा दुःखाद्विमुच्यते ॥ ८५॥ गुदं मेढ्रं च नाभिं च हृत्पद्मे च तदूर्ध्वतः । घण्टिकां लम्पिकास्थानं भ्रूमध्ये परमेश्वरम् ॥ ८६॥ निर्मलं गगनाकारं मरीचिजलसन्निभम् । आत्मानं सर्वगं ध्यात्वा योगी योगमवाप्नुयात् ॥ ८७॥ कथितानि यथैतानि ध्यानस्थानानि योगिनाम् । उपाधितत्त्वयुक्तानि कुर्वन्त्यष्टगुणोदयम् ॥ ८८॥ उपाधिश्च तथा तत्त्वं द्वयमेवमुदाहृतम् । उपाधिः प्रोच्यते वर्णस्तत्त्वमात्माभिधीयते ॥ ८९॥ उपाधिरन्यथाज्ञानं तत्त्वं संस्थितमन्यथा । समस्तोपाधिविध्वंसि सदाभ्यासेन योगिनाम् ॥ ९०॥ आत्मवर्णेन भेदेन दृश्यते स्फाटिको मणिः । मुक्तो यः शक्तिभेदेन सोऽयमात्मा प्रशस्यते ॥ ९१॥ निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयम् । निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥ ९२॥ शब्दाद्याः पञ्च या मात्रा यावत् कर्णादिषु स्मृताः । तावदेव स्मृतं ध्यानं तत्समाधिरतः परम् ॥ ९३॥ यदा संक्षीयते प्राणो मानसं च विलीयते । तदा समरसैकत्वं समाधिरभिधीयते ॥ ९४॥ [verse missing] धारणाः पञ्चनाड्यस्तु ध्यानं च षष्ठिनाडिकाः । दिनद्वादशकेनैव समाधिः प्राणसंयमः ॥ ९६॥ न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनम् । आत्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ ९७॥ खाद्यते न च कालेन बाध्यते न च कर्मणा । साध्यते न च केनापि योगी युक्तः समाधिना ॥ ९८॥ निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत् । व्योमविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः ॥ ९९॥ दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः । अद्वयत्वं व्रजेन्नित्यं योगवित्परमे पदे ॥ १००॥ भवभयवने वह्निर्मुक्तिसोपानमार्गतः । अद्वयत्वं व्रजेन्नित्यं योगवित्परमे पदे ॥ १०१॥ ॥ इति श्री गोरक्षनाथप्रणीतः गोरक्षशतकं समाप्तम् ॥

गोरक्षशतकम् २

श्रीगुरुं परमानन्दं वन्दे स्वानन्दविग्रहम् । यस्य सन्निध्यमात्रेण चिदानन्दायते तनुः ॥ १॥ अन्तर्निश्चलितात्मदीपकलिकास्वाधारबन्धादिभिः यो योगी युगकल्पकालकलनात् त्वं जजेगीयते । ज्ञानामोदमहोदधिः समभवद्यत्रादिनाथः स्वयं व्यक्ताव्यक्तगुणाधिकं तमनिशं श्रीमीननाथं भजे ॥ २॥ नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानमुत्तमम् । अभीष्टं योगिनां ब्रूते परमानन्दकारकम् ॥ ३॥ गोरक्षः शतकं वक्ति योगिनां हितकाम्यया । ध्रुवं यस्यावबोधेन जायते परमं पदम् ॥ ४॥ एतद्विमुक्तिसोपानमेतत् कालस्य वञ्चनम् । यद्व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥ ५॥ द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजति सज्जनः ॥ ६॥ आसनं प्राणसंयामः प्रत्याहारोऽथ धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ७॥ आसनानि तु तावन्ति यावत्यो जीवजातयः । एतेषामखिलान्भेदान्विजानाति महेश्वरः ॥ ८॥ चतुराशीतिलक्षाणां एकमेकमुदाहृतम् । ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥ ९॥ आसनेभ्यः समस्तेभ्यो द्वयमेव विशिष्यते । एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥ १०॥ योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे न्मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरम् एतन् मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ११॥ वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये देतद्व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ॥ १२॥ षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् । स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः ॥ १३॥ एकस्तम्भं नवद्वारं गृहं पञ्चाधिदैवतम् । स्वदेहं ये न जानन्ति कथं सिध्यन्ति योगिनः ॥ १४॥ चतुर्दलं स्यादाधारः स्वाधिष्ठानं च षट्दलम् । नाभौ दशदलं पद्मं सूर्यसङ्ख्यदलं हृदि ॥ १५॥ कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्विदलं तथा । सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे ॥ १६॥ आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ॥ १७॥ आधाराख्यं गुदस्थानं पङ्कजं च चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाक्षा सिद्धवन्दिता ॥ १८॥ योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् । मस्तके मणिवद्बिम्बं यो जानाति स योगवित् ॥ १९॥ तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् । त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात् प्रतिष्ठितम् ॥ २०॥ यत्समाधौ परं ज्योतिरनन्तं विश्वतोमुखम् । तस्मिन् दृष्टे महायोगे यातायातं न विद्यते ॥ २१॥ स्वशब्देन भवेत् प्राणः स्वाधिष्ठानं तदाश्रयः । स्वाधिष्ठानात् पदादस्मान्मेढ्रमेवाभिधीयते ॥ २२॥ तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया । तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ॥ २३॥ द्वादशारे महाचक्रे पुण्यपापविवर्जिते । तावज् जीवो भ्रमत्येव यावत् तत्त्वं न विन्दति ॥ २४॥ ऊर्ध्वं मेढ्राद् अधो नाभेः कन्दयोनिः खगाण्डवत् । तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥ २५॥ तेषु नाडिसहस्रेषु द्विसप्ततिरुदाहृताः । प्रधानं प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ॥ २६॥ इडा च पिङ्गला चैव सुषुम्णा च तृतीयका । गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ २७॥ अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता । एतन् नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा ॥ २८॥ इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा । सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि ॥ २९॥ दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे । यशस्विनी वामकर्णे चासने वाप्यलम्बुषा ॥ ३०॥ कुहूश्च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी । एवं द्वारमुपाश्रित्य तिष्ठन्ति दशनाडिकाः ॥ ३१॥ इडापिङ्गलासुषुम्णा च तिस्रो नाड्युदाहृताः । सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ॥ ३२॥ प्राणोऽपानः समानश् चोदानो व्यानौ च वायवः । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ३३॥ हृदि प्राणो वसेन् नित्यं अपानो गुदमण्डले । समानो नाभिदेशे स्यादुदानः कण्ठमध्यगः ॥ ३४॥ उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुतकृज्ज्ञेयो देवदत्तो विजृम्भणे ॥ ३५॥ न जहाति मृतं चापि सर्वव्यापि धनञ्जयः । एते सर्वासु नाडीषु भ्रमन्ते जीवरूपिणः ॥ ३६॥ आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति ॥ ३८॥ प्राणापानवशो जीवो ह्यधश् चोर्ध्वं च धावति । वामदक्षिणमार्गेण चञ्चलत्वान् न दृश्यते ॥ ३९॥ रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते । गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते ॥ ४०॥ अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति । ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित् ॥ ४१॥ हकारेण बहिर्याति सकारेण विशेत्पुनः । हंसहंसेत्यमुम मन्त्रं जीवो जपति सर्वदा ॥ ४२॥ षट्शतानित्वहोरात्रे सहस्राण्येकविंशतिः । एतत्सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ॥ ४३॥ अजपा नाम गायत्री योगिनां मोक्षदायिनी । अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ ४४॥ अनया सदृशी विद्या अनया सदृशो जपः । अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥ ४५॥ कुन्दलिन्याः समुद्भूता गायत्री प्राणधारिणी । प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ॥ ४६॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृति । ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥ ४७॥ येन द्वारेण गन्तव्यं ब्रह्मस्थानमनामयम् । मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ॥ ४८॥ प्रबुद्धा वह्नियोगेन मनसा मारुता हता । सूचीवद् गुणमादाय व्रजत्यूर्ध्वं सुषुम्णया ॥ ४९॥ प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा । प्रबुद्धा वह्नियोगेन व्रजति ऊर्ध्वं सुषुम्णया ॥ ५०॥ उद्घटयेत्कपातं तु यथा कुञ्चिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत् ॥ ५१॥ कृत्वा सम्पुटितौ करौ दृढतरं बद्धवातु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा तत्प्रेक्षितम् । वारं वारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रबोधान्नरः ॥ ५२॥ अङ्गानां मर्दनं कुर्याच्छ्रमजातेन वारिणा । कट्वाम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥ ५३॥ ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादुर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ ५४॥ सुस्निग्धं मधुराहारं चतुर्थांशविवर्जितम् । भुज्यते सुरसम्प्रीत्यै मिताहारः स उच्यते ॥ ५५॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृतिः । बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ॥ ५६॥ महामुद्रां नमोमुद्रामुड्डियानं जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी सिद्धिभाजनम् ॥ ५७॥ शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राभिधीयते ॥ ५८॥ वक्षोन्यस्तहनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्यामवधारितं प्रसरितं पादं तथा दक्षिणम् । आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनै रेचयेद् एषा पातकनाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥ ५९॥ चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः । यावत् तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ६०॥ न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि मुक्तं विषं घोरं पीयूषमपि जीर्यते ॥ ६१॥ क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । रोगास्तस्य क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ६२॥ कथितेयं महामुद्रा महासिद्धिकरा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ६३॥ कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ६४॥ न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ६५॥ पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ ६६॥ चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ ६७॥ बिन्दुमूलं शरीरं तु शिरास्तत्र प्रतिष्ठिताः । भावयन्ति शरीरं या आपादतलमस्तकम् ॥ ६८॥ खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ॥ ६९॥ यावद्बिन्दुः स्थितो देहे तावत्कालभयं कुतः । यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ॥ ७०॥ चलितोऽपि यदा बिन्दुः सम्प्राप्तश्च हुताशनम् । व्रजत्यूर्ध्वं हृतः शक्त्या निरुद्धो योनिमुद्रया ॥ ७१॥ स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा । पाण्डुरं शुक्रमित्याहुर्लोहितं तु महाराजः ॥ ७२॥ सिन्दूरद्रवसङ्काशं रविस्थाने स्थितं रजः । शशिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम् ॥ ७३॥ बिन्दुः शिवो रजः शक्तिर्बिन्दुमिन्दू रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ७४॥ वायुना शक्तिचारेण प्रेरितं तु महारजः । बिन्दुनैति सहैकत्वं भवेद्दिव्यं वपुस्तदा ॥ ७५॥ शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् । तयोः समरसैकत्वं योजानाति स योगवित् ॥ ७६॥ उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ ७७॥ उदरात्पश्चिमे भागे ह्यधो नाभेर्निगद्यते । उड्डीयानस्य बन्धोऽयं तत्र बन्धो विधीयते ॥ ७८॥ बध्नाति हि सिराजालमधोगामि शिरोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥ ७९॥ जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । पीयूषं न पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ८०॥ पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥ ८१॥ अपानप्राणयोरैक्यात् क्षयान्मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ८२॥ पद्मासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् ॥ ८३॥ भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः । यस्या मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ ८४॥ त्रयःकालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वेराः । त्रयोदेवाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८५॥ क्रिया चेच्छा तथा ज्ञानाब्राह्मीरौद्रीश्च वैष्णवी । त्रिधाशक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८६॥ आकाराश्च तथोकारोमकारो बिन्दुसंज्ञकः । तिस्रोमात्राः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८७॥ वचसा तज्जयेद्बीजं वपुषा तत्समभ्यसेत् । मनसा तत्स्मरेन्नित्यं तत्परं ज्योतिरोमिति ॥ ८८॥ शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ८९॥ चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ ९०॥ यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ ९१॥ यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ ९२॥ अतः कालभयाद् ब्रह्मा प्राणायामपरायणः । योगिनो मुनयश्चैव ततो वायुं निरोधयेत् ॥ ९३॥ षट्त्रिंशदङ्गुलोहंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते ॥ ९४॥ शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ ९५॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ ९६॥ अमृतं दधिसङ्काशं गोक्षीररजतोपमम् । ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ॥ ९७॥ दक्षिणो श्वासमाकृष्य पूरयेदुदरं शनैः । कुम्भयित्वा विधानेन पुरश्चन्द्रेण रेचयेत् ॥ ९८॥ प्रज्वलज्ज्वलनज्वालापुञ्जमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ॥ ९९॥ प्राणं चोदिडया पिबेन्परिमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यमिनो मासत्रयादूर्ध्वतः ॥ १००॥ यथेष्ठं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ १०१॥ ॥ इति श्री गोरक्षनाथप्रणीतः गोरक्षशतकं सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

Dr. Balavant Singh