शिवसंहिता
प्रथमपटलः
अथ लयप्रकरणम् ।
एकं ज्ञानं नित्यमाद्यन्तशून्यं
नान्यत् किञ्चिद्वर्तते ते वस्तु सत्यम् । (किञ्चिद्वत्ते)
यद्भेदोस्मिन्निन्द्रियोपाधिना वै
ज्ञानस्यायं भासते नान्यथैव ॥ १.१॥
अथ भक्तानुरक्तोऽहं वक्ष्ये योगानुशासनम् । (वक्ति)
ईश्वरः सर्वभूतानामात्ममुक्तिप्रदायकः ॥ १.२॥
त्यक्त्वा विवादशीलानां मतं दुर्ज्ञानहेतुकम् ।
आत्मज्ञानाय भूतानामनन्यगतिचेतसाम् ॥ १.३॥
सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे ।
क्षमां केचित्प्रशंसन्ति तथैव सममार्ज्जवम् ॥ १.४॥
केचिद्दानं प्रशंसन्ति पितृकर्म तथापरे ।
केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्तमम् ॥ १.५॥
केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः ।
अग्निहोत्रादिकं कर्म तथा केचित् परं विदुः ॥ १.६॥
मन्त्रयोगं प्रशंसन्ति किचित्तिर्थानुसेवनम् ।
एवं बहूनुपायांस्तु प्रवदन्ति हि मुक्तये ॥ १.७॥ (विमुक्तये)
एवं व्यवसिता लोके कृत्याकृत्यविदो जनाः ।
व्यामोहमेव गच्छन्ति विमुक्ताः पापकर्मभिः ॥ १.८॥
एतन्मतावलम्बी यो लब्ध्वा दुरितपुण्यके ।
भ्रमतीत्यवशः सोऽत्र जन्ममृत्युपरम्पराम् ॥ १.९॥
अन्यैर्मतिमतां श्रेष्ठैर्गुप्तालोकनतत्परैः ।
आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा ॥ १.१०॥
यद्यत्प्रत्यक्षविषयं तदन्यन्नास्ति चक्षते ।
कुतः स्वर्गादयः सन्तीत्यन्ये निश्चितमानसाः ॥ १.११॥
ज्ञानप्रवाह इत्यन्ये शून्यं केचित्परं विदुः ।
द्वावेव तत्त्वं मन्यन्तेऽपरे प्रकृतिपूरुषौ ॥ १.१२॥
अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः ।
एवमन्ये तु सञ्चिन्त्य यथामति यथाश्रुतम् ॥ १.१३॥
निरीश्वरमिदं प्राहुः सेश्वरञ्च तथापरे ।
वदन्ति विविधैर्भेदैः सुयुक्त्या स्थितिकातराः ॥ १.१४॥
एते चान्ये च मुनयः संज्ञाभेदा पृथग्विधाः ।
शास्त्रेषु कथिता ह्येते लोकव्यामोहकारकाः ॥ १.१५॥
एतद्विवादशीलानां मतं वक्तुं न शक्यते ।
भ्रमन्त्यस्मिञ्जनाः सर्वे मुक्तिमार्गबहिष्कृताः ॥ १.१६॥
आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं योगशास्त्रं परं मतम् ॥ १.१७॥
यस्मिन्ज्ञाते सर्वमिदं यातं भवति निश्चितम् ।
तस्मिन्परिश्रमः कार्यः किमन्यच्छास्त्रभाषितम् ॥ १.१८॥
योगशास्त्रमिदं गोप्यमस्माभिः परिभाषितम् ।
सुभक्ताय प्रदातव्यं त्रैलोक्ये च महात्मने ॥ १.१९॥
कर्मकाण्डं ज्ञानकाण्डमिति वेदो द्विधा मतः ।
भवति द्विविधो भेदो ज्ञानकाण्डस्य कर्मणः ॥ १.२०॥
द्विविधः कर्मकाण्डः स्यान्निषेधविधिपूर्वकः ।
निषिद्धकर्मकरणे पापं भवति निश्चितम् ।
विधिना कर्मकरणे पुण्यं भवति निश्चितम् ॥ १.२१॥
त्रिविधो विधिकूटः स्यान्नित्यनैमित्तकाम्यतः ।
नित्येऽकृते किल्विषं स्यात्काम्ये नैमित्तिके फलम् ॥ १.२२॥
द्विविधन्तु फलं ज्ञेयं स्वर्गो नरक एव च ।
स्वर्गो नानाविधश्चैव नरकोपि तथा भवेत् ॥ १.२३॥
पुण्यकर्माणि वै स्वर्गो नरकः पापकर्माणि । (पुण्यकर्मणि, पापकर्मणि)
कर्मबन्धमयी सृष्टिर्नान्यथा भवति ध्रुवम् ॥ १.२४॥
जन्तुभिश्चानुभूयन्ते स्वर्गे नानासुखानि च ।
नानाविधानि दुःखानि नरके दुःसहानि वै ॥ १.२५॥
पापकर्मवशाद्दुःखं पुण्यकर्मवशात्सुखम् ।
तस्मात्सुखार्थी विविधं पुण्यं प्रकुरुते ध्रुवम् ॥ १.२६॥
पापभोगावसाने तु पुनर्जन्म भवेत्खलु ।
पुण्यभोगावसाने तु नान्यथा भवति ध्रुवम् ॥ १.२७॥
स्वर्गेऽपि दुःखसम्भोगः परस्त्रीदर्शनाद्धुवम् ।
ततो दुःखमिदं सर्वं भवेन्नास्त्यत्र संशयः ॥ १.२८॥
तत्कर्मकल्पकैः प्रोक्तं पुण्यं पापमिति द्विधा ।
पुण्यपापमयो बन्धो देहिनां भवति क्रमात् ॥ १.२९॥
इहामुत्र फलद्वेषी सफलं कर्म सन्त्यजेत् ।
नित्यनैमित्तिकं सङ्गं त्यक्त्वा योगे प्रवर्तते ॥ १.३०॥
कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगी त्यजेत्सुधीः ।
पुण्यपापद्वयं त्यक्त्वा ज्ञानकाण्डे प्रवर्तते ॥ १.३१॥
आत्मा वाऽरेतु द्रष्टव्यः श्रोतव्येत्यादि यच्छ्रुतिः । (वा रे च) (श्रोतव्यो मन्तव्य इति)
सा सेव्या तत्प्रयत्नेन मुक्तिदा हेतुदायिनी ॥ १.३२॥
दुरितेषु च पुण्येषु यो धीर्वृत्तिं प्रचोदयात् ।
सोऽहं प्रवर्तते मत्तो जगत्सर्वं चराचरम् ॥ १.३३॥
सर्वं च दृश्यते मत्तः सर्वं च मयि लीयते ।
न तद्भिन्नोऽहमस्मीह मद्भिन्नो न तु किञ्चन ॥ १.३४॥
जलपूर्णेष्वसङ्ख्येषु शरावेषु यथा भवेत् ।
एकस्य भात्यसङ्ख्यत्वं तद्वेदोऽत्र न दृश्यते ॥ १.३५॥
उपाधिषु शरावेषु या सङ्ख्या वर्तते परा ।
सा सङ्ख्या भवति यथा रवौ चात्मनि तत्तथा ॥ १.३६॥
यथैकः कल्पकः स्वप्ने नानाविधितयेष्यते ।
जागरेऽपि तथाप्येकस्तथैव बहुधा जगत् ॥ १.३७॥
सर्पबुद्धिर्यथा रज्जौ शुक्तौ वा रजतभ्रमः ।
तद्वदेवमिदं विश्वं विवृतं परमात्मनि ॥ १.३८॥
रज्जुज्ञानाद्यथा सर्पो मिथ्यारूपो निवर्तते ।
आत्मज्ञानात्तथा याति मिथ्याभूतमिदं जगत् ॥ १.३९॥
रौप्यभ्रान्तिरियं याति शुक्तिज्ञानाद्यथा खलु ।
जगद्भ्रान्तिरियं याति चात्मज्ञानात्सदा तथा ॥ १.४०॥ (चात्मज्ञानाद्यथा)
यथा वंशो रगभ्रान्तिर्भवेद्भेकवसाञ्जनात् ।
(यथा रज्जूगभ्रान्तिर्भवेद्भेदवशाज्जगत्)
तथा जगदिदं भ्रान्तिरध्यासकल्पनाज्जगत् । (भ्रान्तिरभ्यासकल्पनाञ्जनात्)
आत्मज्ञानाद्यथा नास्ति रज्जुज्ञानाद्भुजङ्गमः ॥ १.४१॥
यथा दोषवशाच्छुक्लः पीतो भवति नान्यथा ।
अज्ञानदोषादात्मापि जगद्भवति दुस्त्यजम् ॥ १.४२॥
दोषनाशे यथा शुक्लो गृह्यते रोगिणा स्वयम् ।
शुक्लज्ञानात्तथाज्ञाननाशादात्मा तथा कृतः ॥ १.४३॥
कालत्रयेऽपि न यथा रज्जुः सर्पो भवेदिति ।
तथात्मा न भवेद्विश्वं गुणातीतो निरञ्जनः ॥ १.४४॥
आगमाऽपायिनोऽनित्यानाश्यत्वेनेश्वरादयः ।
आत्मबोधेन केनापि शास्त्रादेतद्विनिश्चितम् ॥ १.४५॥
यथा वातवशात्सिन्धावुत्पन्नाः फेनबुद्बुदाः ।
तथात्मनि समुद्भूतं संसारं क्षणभङ्गुरम् ॥ १.४६॥
अभेदो भासते नित्यं वस्तुभेदो न भासते ।
द्विधात्रिधादिभेदोऽयं भ्रमत्वे पर्यवस्यति ॥ १.४७॥
यद्भूतं यच्च भाव्यं वै मूर्तामूर्तं तथैव च ।
सर्वमेव जगदिदं विवृतं परमात्मनि ॥ १.४८॥
कल्पकैः कल्पिता विद्या मिथ्या जाता मृषात्मिका ।
एतान्मूलं जगदिदं कथं सत्यं भविष्यति ॥ १.४९॥ (एतन्मूलं)
चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् ।
तस्मात्सर्वं परित्यज्य चैतेन्यं तु समाश्रयेत् ॥ १.५०॥ (तं)
घटस्याभ्यन्तरे बाह्ये यथाकाशं प्रवर्तते ।
तथात्माभ्यन्तरे बाह्ये ब्रह्माण्डस्य प्रवर्तते ॥ १.५१॥
(तथात्माभ्यन्तरे बाह्ये कार्यवर्गेषु नित्यशः)
सततं सर्वभूतेषु यथाकाशं प्रवर्तते ।
तथात्माभ्यन्तरे बाह्ये ब्रह्माण्डस्य प्रवर्तते ॥ १.५२॥
वर्तते सर्वभूतेषु यथाकाशं समन्ततः ।
तथात्माभ्यन्तरे बाह्ये कार्यवर्गेषु नित्यशः ॥ १.५३॥
असंलग्नं यथाकाशं मिथ्याभूतेषु पञ्चसु ।
असंलग्नस्तथात्मा तु कार्यवर्गेषु नान्यथा ॥ १.५४॥
ईश्वरादिजगत्सर्वमात्मव्याप्तं समन्ततः । (व्याप्यं)
एकोऽस्ति सच्चिदानन्दः पूर्णो द्वैतविवर्जितः ॥ १.५५॥
यस्मात्प्रकाशको नास्ति स्वप्रकाशो भवेत्ततः ।
स्वप्रकाशो यतस्तस्मादात्मा ज्योतिः स्वरूपकः ॥ १.५६॥
अवच्छिन्नो यतो नास्ति दशकालस्वरूपतः । (अवछिन्नो)
आत्मनः सर्वथा तस्मादात्मा पूर्णो भवेत्खलु ॥ १.५७॥
यस्मान्न विद्यते नाशः पञ्चभूतैर्वृथात्मकैः ।
तस्मादात्मा भवेन्नित्यस्तन्नाशो न भवेत्खलु ॥ १.५८॥
यस्मात्तदन्यो नास्तीह तस्मादेकोऽस्ति सर्वदा ।
यस्मात्तदन्यो मिथ्या स्यादात्मा सत्यो भवेत्खलु ॥ १.५९॥
अविद्याभुतसंसारे दुःखनाशे सुखं यतः ।
ज्ञानादाद्यन्तशून्यं स्यात्तस्मादात्मा भवेत्सुखम् ॥ १.६०॥
यस्मान्नाशितमज्ञानं ज्ञानेन विश्वकारणम् ।
तस्मादात्मा भवेज्ज्ञानं ज्ञानं तस्मात्सनातनम् ॥ १.६१॥
कालतो विविधं विश्वं यदा चैव भवेदिदम् ।
तदेकोऽस्ति स एवात्मा कल्पनापथवर्जितः ॥ १.६२॥
बाह्यानि सर्वभूतानि विनाशं यान्ति कालतः ।
यतो वाचो निवर्तन्ते आत्मा द्वैतविवर्जितः ॥ १.६३॥
न खं वायुर्न चाग्निश्च न जलं पृथिवी न च ।
नैतत्कार्यं नेश्वरादि पूर्णैकात्मा भवेत्खलु ॥ १.६४॥ (र्नैतत्कायै / नैर्तत्कायै) (पूर्णेकात्मा)
आत्मानमात्मनो योगी पश्यत्यात्मनि निश्चितम् ।
सर्वसङ्कल्पसंन्यासी त्यक्तमिथ्याभवग्रहः ॥ १.६५॥
आत्मानात्मनि चात्मानं दृष्ट्वानन्तं सुखात्म्कम् ।
विस्मृत्य विश्वं रमते समाधेस्तीव्रतस्तथा ॥ १.६६॥
मायैव विश्वजननी नान्या तत्त्वधियापरा ।
यदा नाश समायाति विश्वं नास्ति तदा खलु ॥ १.६७॥
हेयं सर्वमिदं यस्य मायाविलसितं यतः ।
ततो न प्रीतिविषयस्तनुवित्तसुखात्मकः ॥ १.६८॥
अरिर्मित्रमुदासीनस्त्रिविधं स्यादिदं जगत् ।
व्यवहारेषु नियतं दृश्यते नान्यथा पुनः ॥ १.६९॥
प्रियाप्रियादिभेदस्तु वस्तुषु नियतस्फुटम् ।
आत्मोपाधिवशादेवं भवेत्पुत्रादि नान्यथा ॥ १.७०॥
मायाविलसितं विश्वं ज्ञात्वैवं श्रुतियुक्तितः ।
अध्यारोपापवादाभ्यां लयं कुर्वन्ति योगिनः ॥ १.७१॥
कर्मजन्यं विश्वमिदं नत्वकर्मणि वेदना ।
निखिलोपाधिहीनो वै यदा भवति पूरुषः ।
तदा विजयतेऽखण्डज्ञानरूपी निरञ्जनः ॥ १.७२॥ (विवक्षतेऽखण्डज्ञानरूपी)
स हि कामयते पुरुषः सृजते च प्रजाः स्वयम् । (सो कामयतः)
अविद्या भासते यस्मात्तस्मान्मिथ्या स्वभावतः ॥ १.७३॥
शुद्धे ब्रह्मणि सम्बद्धो विद्यया सहजो भवेत् ।
(शुद्धे ब्रह्मत्व सम्बद्धो विद्यया सहितो भवेत् ।)
ब्रह्मतेजोंऽशतो याति तत आभासते नभः ॥ १.७४॥
(ब्रह्मतेनसती याति यत आभासते नभः)
तस्मात्प्रकाशते वायुर्वायोरग्निस्ततो जलम् ।
प्रकाशते ततः पृथ्वीकल्पनेयं स्थिता सति ॥ १.७५॥
आकाशाद्वायुराकाशः पवनादग्निसम्भवः ।
खेवाताग्नेर्जलं व्योमवाताग्नेर्वारितो मही ॥ १.७६॥
(खवाताग्नेर्जलं व्योमवाताग्निवारितो मही)
खं शब्दलक्षणं वायुश्चञ्चलः स्पर्शलक्षणः ।
स्याद्रूपलक्षणं तेजः सलिलं रसलक्षणम् ॥ १.७७॥
गन्धलक्षणिका पृथ्वी नान्यथा भवति ध्रुवम् ।
विषेशगुणाः स्फुरति यतः शास्त्रादिनिर्णयः ॥ १.७८॥
शब्दैकगुण्माकाशं द्विगुणो वायुरुच्यते । (स्यादेकगुणमाकाशं)
तथैव त्रिगुणं तेजो भवन्त्यापश्चतुर्गुणाः ॥ १.७९॥
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
एतत्पञ्चगुणा पृथ्वी कल्पकैः कल्प्यतेऽधुना ॥ १.८०॥
चक्षुषा गृह्यते रूपं गन्धो घ्राणेन गृह्यते ।
रसो रसनया स्पर्शस्त्वचा सङ्गृह्यते परम् ।
श्रोत्रेण गृह्यते शब्दो नियतं भाति नान्यथा ॥ १.८१॥
चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् ।
अस्ति चेत्कल्पनेयं स्यान्नास्ति चेदस्ति चिन्मयम् ॥ १.८२॥
पृथ्वी शीर्णा जलं मग्ना जलं मग्नं च तेजसि ।
लीनं वायौ तथा तेजो व्योम्नि वातो लयं ययौ ।
अविद्यायां महाकाशो लीयते परमे पदे ॥ १.८३॥
विक्षेपावरणाशक्तिर्दुरन्ता दुःखरूपिणी ।
जडरूपा महामाया रजःसत्त्वतमोगुणा ॥ १.८४॥
सा मायावरणाशक्त्यावृताविज्ञानरूपिणी ।
दर्शयेज्जगदाकारं तं विक्षेपस्वभावतः ॥ १.८५॥
तमोगुणात्मिका विद्या या सा दुर्गा भवेत्स्वयम् । (तमो गुणाधिका) (दूर्गा)
ईश्वरं तदुपहितं चैतन्यं तदभूद्ध्रुवम् ॥ १.८६॥
सत्त्वाधिका च या विद्या लक्ष्मीः स्याद्दिव्यरूपिणी ।
चैतन्यं तदुपहितं विष्णुर्भवति नान्यथा ॥ १.८७॥
रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती ।
कश्चित्स्वरूपो भवति ब्रह्मा तदुपधारकः ॥ १.८८॥ (यश्चित्स्वरूपो)
ईशाद्याः सकला देवा दृश्यन्ते परमात्मनि ।
शरीरादिजडं सर्वं सा विद्या तत्तथा तथा ॥ १.८९॥
एवंरूपेण कल्पन्ते कल्पका विश्वसम्भवम् ।
तत्त्वातत्त्वं भवन्तीह कल्पनान्येन नोदिता ॥ १.९०॥ (चोदिता)
प्रमेयत्वादिरूपेण सर्वं वस्तु प्रकाश्यते ।
तथैव वस्तुनास्त्येव भासको वर्तकः परः ॥ १.९१॥
स्वरूपत्वेन रूपेण स्वरूपं वस्तु भाष्यते ।
विशेषशब्दोपादाने भेदो भवति नान्यथा ॥ १.९२॥
एकः सत्तापूरितानन्दरूपः पूर्णो व्यापी वर्तते नास्ति किञ्चित् ।
एतज्ज्ञानं यः करोत्येव नित्यं मुक्तः स स्यान्मृत्युसंसारदुःखात् ॥ १.९३॥
यस्यारोपापवादाभ्यां यत्र सर्वे लयं गताः ।
स एको वर्तते नान्यत्तच्चित्तेनावधार्यते ॥ १.९४॥
पितुरन्नमयात्कोषाज्जायते पूर्वकर्मणः ।
तच्छरीरंविर्दुदुःखं स्वप्राग्भोगाय सुन्दरम् ॥ १.९५॥ (शरीरं वै जडं दुःखं)
मांसास्थिस्नायुमज्जादिनिर्मितं भोगमन्दिरम् ।
केवलं दुःखभोगाय नाडी सन्ततिगुम्फितम् ॥ १.९६॥
पारमैष्ठ्यमिदं गात्रं पञ्चभूतविनिर्मितम् ।
ब्रह्माण्डसंज्ञकं दुःखसुखभोगाय कल्पितम् ॥ १.९७॥
बिन्दुः शिवो रजः शक्तिरुभयोर्मिलनात्स्वयम् ।
स्वप्नभूतानि जायन्ते स्वशक्त्या जडरूपया ॥ १.९८॥
तत्पञ्चीकरणात्स्थूलान्यसङ्ख्यानि चराचरम् । (समासतः)
ब्रह्माण्डस्थानि वस्तूनि यत्र जीवोऽस्ति कर्मभिः ॥ १.९९॥
तद्भूतपञ्चकात्सर्वं भोगाय जीवसंज्ञिता ।
पूर्वकर्मानुरोधेन करोमि घटनामहम् ॥ १.१००॥
अजडः सर्वभूतान्वै जडस्थित्या भुनक्तितान् । (सर्वभूतस्था)
जडात्स्वकर्मभिर्बद्धो जीवाख्यो विविधो भवेत् ॥ १.१०१॥
भोगायोत्पद्यते कर्म ब्रह्माण्डाख्ये पुनः पुनः ।
जीवश्च लीयते भोगावसाने च स्वकर्मणः ॥ १.१०२॥
इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
लयप्रकरणे प्रथमः पटलः समाप्तः । १।
द्वितीयपटलः
अथ तत्त्वज्ञानोपदेश ।
देहेऽस्मिन्वर्तते मेरुः सप्तद्वीपसमन्वितः ।
सरितः सागराः शैलाः क्षेत्राणि क्षेत्रपालकाः ॥ २.१॥
ऋषयो मुनयः सर्वे नक्षत्राणि ग्रहास्तथा ।
पुण्यतीर्थानि पीठानि वर्तन्ते पीठदेवताः ॥ २.२॥
सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ ।
नभो वायुश्च वह्निश्च जलं पृथ्वी तथैव च ॥ २.३॥
त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः ।
मेरुं संवेष्ट्य सर्वत्र व्यवहारः प्रवर्तते ।
जानाति यः सर्वमिदं स योगी नात्र संशयः ॥ २.४॥
ब्रह्माण्डसंज्ञके देहे यथादेशं व्यवस्थितः ।
मेरुशृङ्गे सुधारश्मिर्बहिरष्टकलायुतः ॥ २.५॥
वर्ततेऽहर्निशं सोऽपि सुधां वर्षत्यधोमुखः ।
ततोऽमृतं द्विधाभूतं याति सूक्ष्मं यथा च वै ॥ २.६॥
इडामार्गेण पुष्ट्यर्थं याति मन्दाकिनीजलम् ।
पुष्णाति सकलन्देहमिडामार्गेण निश्चितम् ॥ २.७॥
एष पीयूषरश्मिर्हि वामपार्श्वे व्यवस्थितः ॥ २.८॥
अपरः शुद्धदुग्धाभो हठात्कर्षति मण्डलात् ।
रन्ध्रमार्गेण सृष्ट्यर्थं मेरौ संयाति चन्द्रमाः ॥ २.९॥ (मध्यमार्गेण)
मेरुमूले स्थितः सूर्यः कलाद्वादशसंयुतः ।
दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्वं प्रजापतिः ॥ २.१०॥
पीयूषरश्मिनिर्यासं धातूंश्च ग्रसति ध्रुवम् ।
समीरमण्डले सूर्यो भ्रमते सर्वविग्रहे ॥ २.११॥
एषा सूर्यपरामूर्तिर्निर्वाणं दक्षिणे पथि ।
वहते लग्नयोगेन सृष्टिसंहारकारकः ॥ २.१२॥
सार्धलक्षत्रयं नाड्यः सन्ति देहान्तरे नृणाम् ।
प्रधानभूता नाड्यस्तु तासु मुख्याश्चतुर्दशः ॥ २.१३॥
सुषुम्णेडा पिङ्गला च गान्धारी हस्तिजिह्विका ।
कुहूः सरस्वती पूषा शङ्खिनी च पयस्वनी ॥ २.१४॥
वारुण्यलम्बुसा चैव विश्वोदरी यशस्विनी ।
एतासु तिस्रो मुख्याः स्युः पिङ्गलेडा सुषुम्णिका ॥ २.१५॥
तिस्रष्वेका सुषुम्णैव मुख्या सा योगिवल्लभा । (तिसृष्वेका)
अन्यास्तदाश्रयं कृत्वा नाड्यः सन्ति हि देहिनाम् ॥ २.१६॥
नाड्यस्तु ता अधोवक्त्राः पद्मतन्तुनिभाः स्थिताः । (अधोवदनाः)
पृष्ठवंशं समाश्रित्य सोमसूर्याग्निरूपिणी ॥ २.१७॥
तासां मध्ये गता नाडी चित्रा सा मम वल्लभा ।
ब्रह्मरन्ध्रं च तत्रैव सूक्ष्मात्सूक्ष्मतरं शुभम् ॥ २.१८॥
पञ्चवर्णोज्ज्वला शुद्धा सुषुम्णा मध्यचारिणी । (मध्यरूपिणी)
देहस्योपाधिरूपा सा सुषुम्णा मध्यरूपिणी ॥ २.१९॥ (देहस्थोपाधिरूपा)
दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम् ।
ध्यानमात्रेण योगीन्द्रो दुरितौघं विनाशयेत् ॥ २.२०॥
गुदात्तुद्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः ।
चतुरङ्गगुलविस्तारमाधारं वर्तते समम् ॥ २.२१॥
तस्मिन्नाधारपद्मे च कर्णिकायां सुशोभना ।
त्रिकोणा वर्तते योनिः सर्वतन्त्रेषु गोपिता ॥ २.२२॥
तत्र विद्युल्लताकारा कुण्डली परदेवता ।
सार्द्धत्रिकरा कुटिला सुषुम्णामार्गसंस्थिता ॥ २.२३॥
जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता ।
वाचामवाच्या वाग्देवी सदा देवैर्नमस्कृता ॥ २.२४॥ (देवैनमस्कृता)
इडानाम्नी तु या नाडी वाममार्गे व्यवस्थिता ।
सुषुम्णायां समाश्लिष्य दक्षनासापुटे गता ॥ २.२५॥
पिङ्गला नाम या नाडी दक्षमार्गे व्यवस्थिता ।
मध्यनाडीं समाश्लिष्य वामनासापुटे गता ॥ २.२६॥ (सुष्मणा सा)
इडापिङ्गलयोर्मध्ये सुषुम्णा या भवेत्खलु ।
षट्स्थानेषु च षट्शक्तिं षट्पद्मं योगिनो विदुः ॥ २.२७॥
पञ्चस्थानं सुषुम्णाया नामानि स्युर्बहूनि च ।
प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त्रतः ॥ २.२८॥
अन्या याऽस्त्यपरा नाडी मूलाधारात्समुत्थिता ।
रसनामेढ्रनयनं पादाङ्गुष्ठे च श्रोत्रकम् ॥ २.२९॥
कुक्षिकक्षाङ्गुष्ठकर्णं सर्वाङ्गं पायुकुक्षिकम् ।
लब्ध्वा तां वै निवर्तन्ते यथादेशसमुद्भवाः ॥ २.३०॥ (लब्धान्ता)
एताभ्य एव नाडीभ्यः शाखोपशाखतः क्रमात् ।
सार्धं लक्षत्रयं जातं यथाभागं व्यवस्थितम् ॥ २.३१॥ (सार्धलक्षत्रयं)
एता भोगवहा नाड्यो वायुसञ्चारदक्षकाः ।
ओतप्रोताभिसंव्याप्य तिष्ठन्त्यस्मिन्कलेवरे ॥ २.३२॥ (ओतप्रोत्राः सुसंव्याप्य)
सूर्यमण्डलमध्यस्थः कलाद्वादशसंयुतः ।
वस्तिदेशे ज्वलद्वह्निर्वर्तते चान्नपाचकः ॥ २.३३॥ (बस्तिदेशे)
एष वैश्वानरोग्निर्वै मम तेजोंशसम्भवः । (वैश्वानराग्निरेषो वै)
करोति विविधं पाकं प्राणिनां देहमास्थितः ॥ २.३४॥
आयुः प्रदायको वह्निर्बलं पुष्टिं ददाति सः ।
शरीरपाटवञ्चापि ध्वस्तरोगसमुद्भवः ॥ २.३५॥ (शरीर पाटवं चारि)
तस्माद्वैश्वानराग्निञ्च प्रज्वाल्य विधिवत्सुधीः ।
तस्मिन्नन्नं हुनेद्योगी प्रत्यहं गुरुशिक्षया ॥ २.३६॥
ब्रह्माण्डसंज्ञके देहे स्थानानि स्युर्बहूनि च ।
मयोक्तानि प्रधानानि ज्ञातव्यानीह शास्त्रके ॥ २.३७॥
नानाप्रकारनामानि स्थानानि विविधानि च ।
वर्तन्ते विग्रहे तानि कथितुं नैव शक्यते ॥ २.३८॥
इत्थं प्रकल्पिते देहे जीवो वसति सर्वगः ।
अनादिवासनामालाऽलङ्कृतः कर्मशृङ्खलः ॥ २.३९॥
नानाविधगुणोपेतः सर्वव्यापारकारकः ।
पूर्वार्जितानि कर्माणि भुनक्ति विविधानि च ॥ २.४०॥
यद्यत्सन्दृश्यते लोके सर्वं तत्कर्मसम्भवम् ।
सर्वा कर्मानुसारेण जन्तुर्भोगान्भुनक्ति वै ॥ २.४१॥ (सर्वः)
ये ये कामादयो दोषाः सुखदुःखप्रदायकाः ।
ते ते सर्वे प्रवर्तन्ते जीवकर्मानुसारतः ॥ २.४२॥
पुण्योपरक्तचैतन्ये प्राणान्प्रीणाति केवलम् ।
बाह्ये पुण्यमयं प्राप्य भोज्यवस्तु स्वयम्भवेत् ॥ २.४३॥
ततः कर्मबलात्पुंसः सुखं वा दुःखमेव च ।
पापोपरक्तचैतन्यं नैव तिष्ठति निश्चितम् ॥ २.४४॥
न तद्भिन्नो भवेत्सोऽपि तद्भिन्नो न तु किञ्चन ।
मायोपहितचैतन्यात्सर्वं वस्तु प्रजायते ॥ २.४५॥
यथाकालेऽपि भोगाय जन्तूनां विविधोद्भवः । (यथाकालेपि)
यथा दोषवशाच्छुक्तौ रजतारोपणं भवेत् ।
तथा स्वकर्मदोषाद्वै ब्रह्मण्यारोप्यते जगत् ॥ २.४६॥
स वासनाभ्रमोत्पन्नोन्मूलनातिसमर्थनम् ।
उत्पन्नञ्चेदीदृशं स्याज्ज्ञानं मोक्षप्रसाधनम् ॥ २.४७॥
साक्षाद्वैशेषदृष्टिस्तु साक्षात्कारिणि विभ्रमे ।
कारणं नान्यथा युक्त्या सत्यं सत्यं मयोदितम् ॥ २.४८॥
साक्षात्कारिभ्रमे साक्षात्साक्षात्कारिणि नाशयेत् ।
स हि नास्तीति संसारे भ्रमो नैव निवर्तते ॥ २.४९॥ (सो)
मिथ्याज्ञाननिवृत्तिस्तु विशेषदर्शनाद्भवेत् ।
अन्यथा न निवृत्तिः स्याद्दृश्यते रजतभ्रमः ॥ २.५०॥ (स्यादृश्ये)
यावन्नोत्पद्यते ज्ञानं साक्षात्कारे निरञ्जने ।
तावत्सर्वाणि भूतानि दृश्यन्ते विविधानि च ॥ २.५१॥
यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत् ।
तदा शरीरवहनं सफलं स्यान्न चान्यथा ॥ २.५२॥
यादृशी वासना मूला वर्तते जीवसङ्गिनी । (वर्त्तते)
तादृशं वहते जन्तुः कृत्याकृत्यविधौ भ्रमम् ॥ २.५३॥
संसारसागरं तर्तुं यदीच्छेद्योगसाधकः ।
कृत्वा वर्णाश्रमं कर्म फलवर्जं तदाचरेत् ॥ २.५४॥
विषयासक्तपुरुषा विषयेषु सुखेप्सवः ।
वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि ॥ २.५५॥
आत्मानमात्मना पश्यन्न किञ्चिदिह पश्यति ।
तदा कर्मपरित्यागे न दोषोऽस्ति मतं मम ॥ २.५६॥
कामादयो विलीयन्ते ज्ञानादेव न चान्यथा ।
अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रकाशते ॥ २.५७॥
इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
योगप्रकथने तत्त्वज्ञानोपदेशो नाम द्वितीयः पटलः समाप्तः । २।
तृतीयपटलः
अथ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णनम् ।
हृद्यस्ति पङ्कजं दिव्यं दिव्यलिङ्गेन भूषितम् । (हृदयस्ति)
कादिठान्ताक्षरोपेतं द्वादशार्णविभूषितम् ॥ ३.१॥
प्राणो वसति तत्रैव वासनाभिरलङ्कृतः ।
अनादिकर्मसंश्लिष्टः प्राप्याहङ्कारसंयुतः ॥ ३.२॥
प्राणस्य वृत्तिभेदेन नामानि विविधानि च ।
वर्तन्ते तानि सर्वाणि कथितुं नैव शक्यते ॥ ३.३॥
प्राणोऽपानः समानश्चोदानो व्यानश्च पञ्चमः ।
नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ॥ ३.४॥ (कृकरो)
दश नामानि मुख्यानि मयोक्तानीह शास्त्रके ।
कुर्वन्ति तेऽत्र कार्याणि प्रेरितानि स्वकर्मभिः ॥ ३.५॥
अत्रापि वायवः पञ्च मुख्याः स्युर्दशतः पुनः । (स्युर्दर्शिताः)
तत्रापि श्रेष्ठकर्तारौ प्राणापानौ मयोदितौ ॥ ३.६॥ (श्रेष्ठकर्त्तारौ)
हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले ।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ ३.७॥
नागादिवायवः पञ्च ते कुर्वन्ति च विग्रहे ।
उद्गारोन्मीलनं क्षुतृड्जृम्भा हिक्का च पञ्चमः ॥ ३.८॥
अनेन विधिना यो वै ब्रह्माण्डं वेत्ति विग्रहम् ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ३.९॥
अधुना कथयिष्यामि क्षिप्रं योगस्य सिद्धये ।
यज्ज्ञात्वा नावसीदन्ति योगिनो योगसाधने ॥ ३.१०॥
भवेद्वीर्यवती विद्या गुरुवक्त्रसमुद्भवा ।
अन्यथा फलहीना स्यान्निर्वीर्याप्यतिदुःखदा ॥ ३.११॥
गुरुं सन्तोष्य यत्नेन ये वै विद्यामुपासते ।
अवलम्बेन विद्यायास्तस्याः फलमवाप्नुयात् ॥ ३.१२॥ (फलमवाप्नुयुः)
गुरुः पिता गुरुर्माता गुरुर्देवो न संशयः ।
कर्मणा मनसा वाचा तस्मात्सर्वैः प्रसेव्यते ॥ ३.१३॥
गुरुप्रसादतः सर्वं लभ्यते शुभमात्मनः ।
तस्मात्सेव्यो गुरुर्नित्यमन्यथा न शुभं भवेत् ॥ ३.१४॥
प्रदक्षिणात्रयं कृत्वा स्पृष्ट्वा सव्येन पाणिना ।
अष्टाङ्गेन नमस्कुर्याद्गुरुपादसरोरुहम् ॥ ३.१५॥
श्रद्धयात्मवतां पुंसां सिद्धिर्भवति निश्चिता । (नान्यथा)
अन्येषाञ्च न सिद्धिः स्यात्तस्माद्यत्नेन साधयेत् ॥ ३.१६॥
न भवेत्सङ्गयुक्तानां तथाऽविश्वासिनामपि ।
गुरुपूजाविहीनानां तथा च बहुसङ्गिनाम् ॥ ३.१७॥
मिथ्यावादरतानां च तथा निष्ठुरभाषिणाम् ।
गुरुसन्तोषहीनानां न सिद्धिः स्यात्कदाचन ॥ ३.१८॥
फलिष्यतीति विश्वासः सिद्धेः प्रथमलक्षणम् ।
द्वितीयं श्रद्धया युक्तं तृतीयं गुरुपूजनम् ॥ ३.१९॥
चतुर्थं समताभावं पञ्चमेन्द्रियनिग्रहम् ।
षष्ठं च प्रमिताहारं सप्तमं नैव विद्यते ॥ ३.२०॥
योगोपदेशं सम्प्राप्य लब्ध्वा योगविदं गुरुम् ।
गुरूपदिष्टविधिना धिया निश्चित्य साधयेत् ॥ ३.२१॥
सुशोभने मठे योगी पद्मासनसमन्वितः ।
आसनोपरि संविश्य पवनाभ्यासमाचरेत् ॥ ३.२२॥
समकायः प्राञ्जलिश्च प्रणम्य च गुरून् सुधीः ।
दक्षे वामे च विघ्नेशं क्षेत्रपालाम्बिकां पुनः ॥ ३.२३॥
ततश्च दक्षाङ्गुष्ठेन निरुद्ध्य पिङ्गलां सुधीः ।
इडया पूरयेद्वायुं यथाशक्त्या तु कुम्भयेत् ॥ ३.२४॥
ततस्त्यक्त्वा पिङ्गलयाशनैरेव न वेगतः ।
पुनः पिङ्गलयापूर्य यथाशक्त्या तु कुम्भयेत् ॥ ३.२५॥ (यथाशक्ति)
इडया रेचयेद्वायुं न वेगेन शनैः शनैः ।
इदं योगविधानेन कुर्याद्विंशतिकुम्भकान् ।
सर्वद्वन्द्वविनिर्मुक्तः प्रत्यहं विगतालसः ॥ ३.२६॥
प्रातःकाले च मध्याह्ने सूर्यास्ते चार्द्धरात्रके ।
कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकान् ॥ ३.२७॥
इत्थं मासत्रयं कुर्यादनालस्यो दिने दिने । (मासद्वयं)
ततो नाडीविशुद्धिः स्यादविलम्बेन निश्चितम् ॥ ३.२८॥
यदा तु नाडीशुद्धिः स्याद्योगिनस्तत्त्वदर्शिनः ।
तदा विध्वस्तदोषश्च भवेदारम्भसम्भवः ॥ ३.२९॥
चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धितः ।
कथ्यन्ते तु समस्तान्यङ्गानि सङ्क्षेपतो मया ॥ ३.३०॥
समकायः सुगन्धिश्च सुकान्तिः स्वरसाधकः ॥ ३.३१॥
आरम्भघटकश्चैव यथा परिचयस्तदा ।
निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ताः ॥ ३.३२॥
आरम्भः कथितोऽस्माभिरधुना वायुसिद्धये ।
अपरः कथ्यते पश्चात् सर्वदुःखौघनाशनः ॥ ३.३३॥
प्रौढवह्निः सुभोगी च सुखीसर्वाङ्गसुन्दरः ।
सम्पूर्णहृदयो योगी सर्वोत्साहबलान्वितः ।
जायते योगिनोऽवश्यमेतत्सर्वं कलेवरे ॥ ३.३४॥ (योगिनोऽवश्यमेते सर्वकलेवरे)
अथ वर्ज्यं प्रवक्ष्यामि योगविघ्नकरं परम् ।
येन संसारदुःखाब्धिं तीर्त्वा यास्यन्ति योगिन ॥ ३.३५॥
आम्लं रूक्षं तथा तीक्ष्णं लवणं सार्षपं कटुम् । (कक्षं)
बहुलं भ्रमणं प्रातः स्नानं तैलविदाहकम् ॥ ३.३६॥
स्तेयं हिंसां जनद्वेषञ्चाहङ्कारमनार्जवम् ।
उपवासमसत्यञ्च मोहञ्च प्राणिपीडनम् ॥ ३.३७॥ (मोक्षञ्च)
स्त्रीसङ्गमग्निसेवां च बह्वालापं प्रियाप्रियम् ।
अतीव भोजनं योगी त्यजेदेतानि निश्चितम् ॥ ३.३८॥
उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये ।
गोपनीयं साधकानां येन सिद्धिर्भवेत्खलु ॥ ३.३९॥
घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम् ।
कर्पूरं निष्ठुरं मिष्टं सुमठं सूक्ष्मरन्ध्रकम् ॥ ३.४०॥ (निस्तुषं) (सूक्ष्मवस्त्रकम्)
सिद्धान्तश्रवणं नित्यं वैराग्यगृहसेवनम् ।
नामसङ्कीर्तनं विष्णोः सुनादश्रवणं परम् ॥ ३.४१॥ (सुसादश्रवणे)
धृतिः क्षमा तपः शौचं ह्रीर्मतिर्गुरुसेवनम् ।
सदैतानि परं योगी नियमानि समाचरेत् ॥ ३.४२॥ (सदैतांश्च) (नियमांश्च)
अनिलेऽर्कप्रवेशे च भोक्तव्यं योगिभिः सदा ।
वायौ प्रविष्टे शशिनि शयनं साधकोत्तमैः ॥ ३.४३॥
सद्यो भुक्तेऽपि क्षुधिते नाभ्यासः क्रियते बुधैः ।
अभ्यासकाले प्रथमं कुर्यात्क्षीराज्यभोजनम् ॥ ३.४४॥
ततोऽभ्यासे स्थिरीभूते न तादृङ्नियमग्रहः ।
अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा ॥ ३.४५॥
पूर्वोक्तकाले कुर्यात्तु कुम्भकान्प्रतिवासरे ।
ततो यथेष्टा शक्तिः स्याद्योगिनो वायुधारणे ॥ ३.४६॥
यथेष्टं धारणाद्वायोः कुम्भकः सिध्यति ध्रुवम् ।
केवले कुम्भके सिद्धे किं न स्यादिह योगिनः ॥ ३.४७॥
स्वेदः सञ्जायते देहे योगिनः प्रथमोद्यमे ॥ ३.४८॥
यदा सञ्जायते स्वेदो मर्दनं कारयेत्सुधीः ।
अन्यथा विग्रहे धातुर्नष्टो भवति योगिनः ॥ ३.४९॥
द्वितीये हि भवेत्कम्पो दार्दुरी मध्यमे मतः । (मता)
ततोऽधिकतराभ्यासाद्गगनेचरसाधकः ॥ ३.५०॥
योगी पद्मासनस्थोऽपि भुवमुत्सृज्य वर्तते ।
वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी ॥ ३.५१॥
तावत्कालं प्रकुर्वीत योगोक्तनियमग्रहम् ।
अल्पनिद्रा पुरीषं च स्तोकं मूत्रं च जायते ॥ ३.५२॥
अरोगित्वमदीनत्वं योगिनस्तत्त्वदर्शिनः ।
स्वेदो लाला कृमिश्चैव सर्वथैव न जायते ॥ ३.५३॥
कफपित्तानिलाश्चैव साधकस्य कलेवरे ।
तस्मिन्काले साधकस्य भोज्येष्वनियमग्रहः ॥ ३.५४॥
अत्यल्पं बहुधा भुक्त्वा योगी न व्यथते हि सः ।
अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नुयात् ।
यथा दर्दुरजन्तूनां गतिः स्यात्पाणिताडनात् ॥ ३.५५॥
सन्त्यत्र बहवो विघ्ना दारुणा दुर्निवारणाः ।
तथापि साधयेद्योगी प्राणैः कण्ठगतैरपि ॥ ३.५६॥
ततो रहस्युपाविष्टः साधकः संयतेन्द्रियः ।
प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे ॥ ३.५७॥
पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम् ।
नाशयेत्साधको धीमानिहलोकोद्भवानि च ॥ ३.५८॥
पूर्वाजितानि पापानि पुण्यानि विविधानि च ।
नाशयेत्षोडशप्राणायामेन योगि पुङ्गवः ॥ ३.५९॥
पापतूलचयानाहो प्रलयेत्प्रलयाग्निना । (प्रदहेत्प्रलयाग्निना)
ततः पापविनिर्मुक्तः पश्चात्पुण्यानि नाशयेत् ॥ ३.६०॥
प्राणायामेन योगीन्द्रो लब्ध्वैश्वर्याष्टकानि वै ।
पापपुण्योदधिं तीर्त्वा त्रैलोक्यचरतामियात् ॥ ३.६१॥
ततोऽभ्यासक्रमेणैव घटिकात्रितयं भवेत् ।
येन स्यात्सकलासिद्धिर्योगिनः स्वेप्सिता ध्रुवम् ॥ ३.६२॥
वाक्सिधिः कामचारित्वं दूरदृष्टिस्तथैव च ।
दूरश्रुतिः सूक्ष्मदृष्टिः परकायप्रवेशनम् ॥ ३.६३॥
विण्मूत्रलेपने स्वर्णमदृश्यकरणं तथा ।
भवन्त्येतानि सर्वाणि खेचरत्वं च योगिनाम् ॥ ३.६४॥
यदा भवेद्धटावस्था पवनाभ्यासने परा ।
तदा संसारचक्रेऽस्मिन्नास्ति यन्न साधयेत् ॥ ३.६५॥ (सधारयेत्)
प्राणापाननादबिन्दु जीवात्मपरमात्मनः ।
(प्राणापाननादबिन्दू जीवात्मपरमात्मनोः)
मिलित्वा घटते यस्मात्तस्माद्वै घट उच्यते ॥ ३.६६॥
याममात्रं यदा धर्तुं समर्थः स्यात्तदाद्भुतः ।
प्रत्याहारस्तदैव स्यान्नान्तरा भवति ध्रुवम् ॥ ३.६७॥
यं यं जानाति योगीन्द्रस्तं तमात्मेति भावयेत् ।
यैरिन्द्रियैर्यद्विधानस्तदिन्द्रियजयो भवेत् ॥ ३.६८॥
याममात्रं यदा पूर्णं भवेदभ्यासयोगतः ।
एकवारं प्रकुर्वीत तदा योगी च कुम्भकम् ॥ ३.६९॥ (प्रकुर्तीत)
दण्डाष्टकं यदा वायुर्निश्चलो योगिनो भवेत् ।
स्वसामर्थ्यात्तदाङ्गुष्ठे तिष्ठेद्वातुलवत्सुधीः ॥ ३.७०॥
ततः परिचयावस्था योगिनोऽभ्यासतो भवेत् ।
यदा वायुश्चन्द्रसूर्यं त्यक्त्वा तिष्ठति निश्चलम् ।
वायुः परिचितो वायुः सुषुम्णा व्योम्नि सञ्चरेत् ॥ ३.७१॥ (सुषुम्ना)
क्रियाशक्तिं गृहीत्वैव चक्रान्भित्त्वा सुनिश्चितम् ॥ ३.७२॥
यदा परिचयावस्था भवेदभ्यासयोगतः ।
त्रिकूटं कर्मणां योगी तदा पश्यति निश्चितम् ॥ ३.७३॥
ततश्च कर्मकूटानि प्रणवेन विनाशयेत् ।
स योगी कर्मभोगाय कायव्यूहं समाचरेत् ॥ ३.७४॥
अस्मिन्काले महायोगी पञ्चधा धारणं चरेत् ।
येन भूरादिसिद्धिः स्यात्ततो भूतभयापहा ॥ ३.७५॥
आधारे घटिकाः पञ्च लिङ्गस्थाने तथैव च ।
तदूर्ध्वं घटिकाः पञ्च नाभिहृन्मध्यके तथा ॥ ३.७६॥
भ्रूमध्योर्ध्वं तथा पञ्च घटिका धारयेत्सुधीः ।
तथा भूरादिना नष्टो योगीन्द्रो न भवेत्खलु ॥ ३.७७॥
मेधावी सर्वभूतानां धारणां यः समभ्यसेत् ।
शतब्रह्ममृतेनापि मृत्युस्तस्य न विद्यते ॥ ३.७८॥
ततोऽभ्यासक्रमेणैव निष्पत्तिर्योगिनो भवेत् ।
अनादिकर्मबीजानि येन तीर्त्वाऽमृतं पिबेत् ॥ ३.७९॥
यदा निष्पत्तिर्भवति समाधेः स्वेनकर्मणा ।
जीवन्मुक्तस्य शान्तस्य भवेद्धीरस्य योगिनः ॥ ३.८०॥
यदा निष्पत्तिसम्पन्नः समाधिः स्वेच्छया भवेत् ॥ ३.८१॥
गृहीत्वा चेतनां वायुः क्रियाशक्तिं च वेगवान् ।
सर्वान्चक्रान्विजित्वा च ज्ञानशक्तौ विलीयते ॥ ३.८२॥ (सर्वांश्चक्रान्विजित्वा)
इदानीं क्लेशहान्यर्थं वक्तव्यं वायुसाधनम् ।
येन संसारचक्रेऽस्मिन् रोगहानिर्भवेद्ध्रुवम् ॥ ३.८३॥ (संसारचक्रेस्मिन्)
रसनां तालुमूले यः स्थापयित्वा विचक्षणः ।
पिबेत्प्राणानिलं तस्य रोगाणां सङ्क्षयो भवेत् ॥ ३.८४॥
काकचञ्च्वा पिबेद्वायुं शीतलं यो विचक्षणः ।
प्राणापानविधानज्ञः स भवेन्मुक्तिभाजनः ॥ ३.८५॥
सरसं यः पिबेद्वायुं प्रत्यहं विधिना सुधीः ।
नश्यन्ति योगिनस्तस्य श्रमदाहजरामयाः ॥ ३.८६॥
रसनामूर्ध्वगां कृत्वा यश्चन्द्रे सलिलं पिबेत् ।
मासमात्रेण योगीन्द्रो मृत्युञ्जयति निश्चितम् ॥ ३.८७॥
राजदन्तबिलं गाढं सम्पीड्य विधिना पिबेत् ।
ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत् ॥ ३.८८॥
काकचञ्च्वा पिबेद्वायुं सन्ध्ययोरुभयोरपि ।
कुण्डलिन्या मुखे ध्यात्वा क्षयरोगस्य शान्तये ॥ ३.८९॥
अहर्निशं पिबेद्योगी काकचञ्च्वा विचक्षणः ।
पिबेत्प्राणानिलं तस्य रोगाणां सङ्क्षयो भवेत् । (रोगानां)
दूरश्रुतिर्दूरदृष्टिस्तथा स्याद्दर्शनं खलु ॥ ३.९०॥
दन्तैर्दन्तान्समापीड्य पिबेद्वायुं शनैः शनैः । (दन्तेदन्तान्समापीड्य)
ऊर्ध्वजिह्वः सुमेधावी मृत्युञ्जयति सोऽचिरात् ॥ ३.९१॥ (मृत्युं जयति सोचिरात्)
षण्मासमात्रमभ्यासं यः करोति दिने दिने ।
सर्वपापविनिर्मुक्तो रोगान्नाशयते हि सः ॥ ३.९२॥
संवत्सरकृताभ्यासान्मृत्युञ्जयति जयति निश्चितम् ।
(संवत्सरकृताभ्यासाद्भैरवो भवति ध्रुवम् ।)
तस्मादतिप्रयत्नेन साधयेद्योगसाधकः ॥ ३.९३॥
वर्षत्रयकृताभ्यासाद्भैरवो भवति ध्रुवम् ।
अणिमादिगुणान्लब्ध्वा जितभूतगणः स्वयम् ॥ ३.९४॥
रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति । (रसनामूर्ध्द्वगां)
क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभिः ॥ ३.९५॥
रसनां प्राणसंयुक्तां पीड्यमानां विचिन्तयेत् ।
न तस्य जायते मृत्युः सत्यं सत्यं मयोदितम् ॥ ३.९६॥
एवमभ्यासयोगेन कामदेवो द्वितीयकः ।
न क्षुधा न तृषा निद्रा नैव मूर्च्छा प्रजायते ॥ ३.९७॥
अनेनैव विधानेन योगीन्द्रोऽवनिमण्डले ।
भवेत्स्वच्छन्दचारी च सर्वापत्परिवर्जितः ॥ ३.९८॥
न तस्य पुनरावृत्तिर्मोदते ससुरैरपि ।
पुण्यपापैर्न लिप्येत एतदाचरेणन सः ॥ ३.९९॥ (एतदाक्षरणेन)
चतुरशीत्यासनानि सन्ति नानाविधानि च ।
तेभ्यश्चतुष्कमादाय मयोक्तानि ब्रवीम्यहम् ।
सिद्धासनं ततः पद्मासनञ्चोग्रं च स्वस्तिकम् ॥ ३.१००॥
सिद्धासनकथनम् ।
योनिं सम्पीड्य यत्नेन पादमूलेन साधकः ।
मेढ्रोपरि पादमूलं विन्यसेद्योगवित्सदा ॥ ३.१०१॥
ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चलः संयतेन्द्रियः ।
विशेषोऽवक्रकायश्च रहस्युद्वेगवर्जितः ॥ ३.१०२॥
एतत्सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् ।
येनाभ्यासवशाच्छीघ्रं योगनिष्पत्तिमाप्नुयात् ॥ ३.१०३॥
सिद्धासनं सदासेव्यं पवनाभ्यासिना परम् ।
येन संसारमुत्सृज्य लभते परमां गतिम् ॥ ३.१०४॥
नातः परतरं गुह्यमासनं विद्यते भुवि ।
येनानुध्यानमात्रेण योगी पापाद्विमुच्यते ॥ ३.१०५॥
पद्मासनकथनम् ।
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा तु तादृशौ ॥ ३.१०६॥
नासाग्रे विन्यसेद्दृष्टिं दन्तमूलञ्च जिह्वया ।
उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः ॥ ३.१०७॥
यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः ।
यथा शक्त्यैव पश्चात्तु रेचयेदविरोधतः ॥ ३.१०८॥
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते परम् ॥ ३.१०९॥
अनुष्ठाने कृते प्राणः समश्चलति तत्क्षणात् ।
भवेदभ्यासने सम्यक्साधकस्य न संशयः ॥ ३.११०॥
पद्मासने स्थितो योगी प्राणापानविधानतः ।
पूरयेत्स विमुक्तः स्यात्सत्यं सत्यं वदाम्यहम् ॥ ३.१११॥
उग्रासनकथनम् ।
प्रसार्य चरणद्वन्द्वं परस्परमसंयुतम् ।
स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरोन्यसेत् ॥ ३.११२॥
आसनोग्रमिदं प्रोक्तं भवेदनिलदीपनम् ।
देहावसानहरणं पश्चिमोत्तानसंज्ञकम् ॥ ३.११३॥
य एतदासनं श्रेष्ठं प्रत्यहं साधयेत्सुधीः ।
वायुः पश्चिममार्गेण तस्य सञ्चरति ध्रुवम् ॥ ३.११४॥
एतदभ्यासशीलानां सर्वसिद्धिः प्रजायते ।
तस्माद्योगी प्रयत्नेन साधयेत्सिद्धमात्मनः ॥ ३.११५॥
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् ।
येन शीघ्रं मरुत्सिद्धिर्भवेद्दुःखौघनाशिनी ॥ ३.११६॥
स्वस्तिकासनकथनम् ।
जानूर्वोरन्तरे सम्यग्धृत्वा पादतले उभे ।
समकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते ॥ ३.११७॥
अनेन विधिना योगी मारुतं साधयेत्सुधीः ।
देहे न क्रमते व्याधिस्तस्य वायुश्च सिद्ध्यति ॥ ३.११८॥
सुखासनमिदं प्रोक्तं सर्वदुःखप्रणाशनम् ।
स्वस्तिकं योगिभिर्गोप्यं स्वस्तीकरणमुत्तमम् ॥ ३.११९॥
इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
योगाभ्यासतत्त्वकथनं नाम तृतीयपटलः समाप्तः । ३।
चतुर्थपटलः
अथ मुद्राकथनम् ।
आदौ पूरक योगेन स्वाधारे पूरयेन्मनः ।
गुदमेढ्रान्तरे योनिस्तामाकुञ्च्य प्रवर्तते ॥ ४.१॥
योनिमुद्राकथनम् ।
ब्रह्मयोनिगतं ध्यात्वा कामं कन्दुकसन्निभम् ।
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ४.२॥
तस्योर्ध्वं तु शिखासूक्ष्मा चिद्रूपा परमाकला ।
तया सहितमात्मानमेकीभूतं विचिन्तयेत् ॥ ४.३॥
गच्छति ब्रह्ममार्गेण लिङ्गत्रयक्रमेण वै ।
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ४.४॥
अमृतं तद्धि स्वर्गस्थं परमानन्दलक्षणम् ।
श्वेतरक्तं तेजसाढ्यं सुधाधाराप्रवर्षिणम् ।
पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम् ॥ ४.५॥
पुनरेव कुलं गच्छेन्मात्रायोगेन नान्यथा ।
सा च प्राणसमाख्याता ह्यस्मिंस्तन्त्रे मयोदिता ॥ ४.६॥
पुनः प्रलीयते तस्यां कालाग्न्यादिशिवात्मकम् ।
योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः ॥ ४.७॥
तस्यास्तु बन्धामत्रेण तन्नास्ति यन्न साधयेत् ॥ ४.८॥
छिन्नरूपास्तु ये मन्त्राः कीलिताः स्तम्भिताश्च ये ।
दग्धामन्त्राः शिरोहीना मलिनास्तु तिरस्कृताः ॥ ४.९॥
मन्दा बालास्तथा वृद्धाः प्रौढा यौवनगर्विताः ।
भेदिनो भ्रमसंयुक्ताः सप्ताहं मूर्च्छिताश्चये ॥ ४.१०॥
अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः ।
तथा सत्त्वेन हीनाश्च खण्डिताः शतधाकृताः ॥ ४.११॥
विधिनानेन च संयुक्तः प्रभवन्त्यचिरेण तु । (विधानेन च संयुक्ताः)
सिद्धिमोक्षप्रदाः सर्वे गुरुणा विनियोजिताः ॥ ४.१२॥
यद्युच्चरते योगी मन्त्ररूपं शुभाशुभम् ।
तत्सिद्धिं समवाप्नोति योनिमुद्रानिबन्धनात् ॥ ४.१३॥
दीक्षयित्वा विधानेन अभिषिञ्च्य सहस्रधा ।
ततो मन्त्राधिकारार्थमेषा मुद्रा प्रकीर्तिता ॥ ४.१४॥
ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् ।
नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात् ॥ ४.१५॥
गुरुहा च सुरापी च स्तेयी च गुरुतल्पगः ।
एतैः पापैर्न बध्येत योनिमुद्रानिबन्धनात् ॥ ४.१६॥
तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकाङ्क्षिभिः ।
अभ्यासाज्जायते सिद्धिरभ्यासान्मोक्षमाप्नुयात् ॥ ४.१७॥
संविदं लभतेऽभ्यासाद्योगोभ्यासात्प्रवर्तते ।
मुद्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम् ॥ ४.१८॥
कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् ।
वाक्सिद्धिः कामचारित्वं भवेदभ्यासयोगतः ॥ ४.१९॥
योनिमुद्रा परं गोप्या न देया यस्य कस्यचित् ।
सर्वथा नैव दातव्या प्राणैः कण्ठगतैरपि ॥ ४.२०॥
अधुना कथयिष्यामि योगसिद्धिकरं परम् ।
गोपनीयं सुसिद्धानां योगं परमदुर्लभम् ॥ ४.२१॥
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली ।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोपि च ॥ ४.२२॥
तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् ।
ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ४.२३॥
महामुद्रा महाबन्धो महावेधश्च खेचरी ।
जालन्धरो मूलबन्धो विपरीतकृतिस्तथा ॥ ४.२४॥
उड्डानं चैव वज्रोणी दशमे शक्तिचालनम् ।
इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम् ॥ ४.२५॥
महामुद्राकथनम् ।
महामुद्रां प्रवक्ष्यामि तन्त्रेऽस्मिन्ममवल्लभे ।
यां प्राप्य सिद्धाः सिद्धिं च कपिलाद्याः पुरागताः ॥ ४.२६॥
अपसव्येन सम्पीड्य पादमूलेन सादरम् ।
गुरूपदेशतो योनिं गुदमेढ्रान्तरालगाम् ॥ ४.२७॥
सव्यं प्रसारितं पादं धृत्वा पाणियुगेन वै । (प्रसारित पाद)
नवद्वाराणि संयम्य चिबुकं हृदयोपरि ॥ ४.२८॥
चित्तं चित्तपथे दत्त्वा प्रभवेद्वायुसाधनम् ।
महामुद्राभवेदेषा सर्वतन्त्रेषु गोपिता ॥ ४.२९॥
वामाङ्गेन समभ्यस्य दक्षाङ्गेनाभ्यसेत् पुनः ।
प्राणायामं समं कृत्वा योगी नियतमानसः ॥ ४.३०॥
अनेन विधिना योगी मन्दभाग्योऽपि सिध्यति ।
सर्वासामेव नाडीनां चालनं बिन्दुमारणम् ॥ ४.३१॥
जीवनन्तु कषायस्य पातकानां विनाशनम् ।
कुण्डालीतापनं वायोर्ब्रह्मरन्ध्रप्रवेशनम् ॥ ४.३२॥
सर्वरोगोपशमनं जठराग्निविवर्धनम् ।
वपुषा कान्तिममलां जरामृत्युविनाशनम् ॥ ४.३३॥
वाञ्छितार्थफलं सौख्यमिन्द्रियाणाञ्च मारणम् ।
एतदुक्तानि सर्वाणि योगारूढस्य योगिनः ।
भवेदभ्यासतोऽवश्यं नात्र कार्या विचारणा ॥ ४.३४॥
गोपनीया प्रयत्नेन मुद्रेयं सुरपूजिते ।
यान्तु प्राप्य भवाम्भोधेः पारं गच्छन्ति योगिनः ॥ ४.३५॥
मुद्रा कामदुघा ह्येषा साधकानां मयोदिता ।
गुप्ताचारेण कर्तव्या न देया यस्य कस्यचित् ॥ ४.३६॥
महाबन्धकथनम् ।
ततः प्रसारितः पादो विन्यस्य तमुरूपरि ॥ ४.३७॥
गुदयोनिं समाकुञ्च्य कृत्वा चापानमूर्ध्वगम् ।
योजयित्वा समानेन कृत्वा प्राणमधोमुखम् ॥ ४.३८॥
बन्धयेदूर्ध्वगत्यर्थं प्राणापानेन यः सुधीः ।
कथितोऽयं महाबन्धः सिद्धिमार्गप्रदायकः ॥ ४.३९॥
नाडीजालाद्रसव्यूहो मूर्धानं याति योगिनः ।
उभाभ्यां साधयेत्पद्भ्यामेकैकं सुप्रयत्नतः ॥ ४.४०॥
भवेदभ्यासतो वायुः सुषुम्णामध्यसङ्गतः ।
अनेन वपुषः पुष्टिर्दृढबन्धोऽस्थिपञ्जरे ॥ ४.४१॥
सम्पूर्णहृदयो योगी भवत्न्येतानि योगिनः ।
बन्धेनानेन योगीन्द्रः साधयेत्सर्वमीप्सितम् ॥ ४.४२॥
महावेधकथनम् ।
अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेश्वरि ।
महावेधस्थितो योगी कुक्षिमापूर्य वायुना ।
स्फिचौ सन्ताडयेद्धीमान्वेधोऽयं कीर्तितो मया ॥ ४.४३॥
वेधेनानेन संविध्य वायुना योगिपुङ्गवः ।
ग्रन्थिं सुषुम्णामार्गेण ब्रह्मग्रन्थिं भिनत्त्यसौ ॥ ४.४४॥
यः करोति सदाभ्यासं महावेधं सुगोपितम् ।
वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी ॥ ४.४५॥
चक्रमधे स्थिता देवाः कम्पन्ति वायुताडनात् ।
कुण्डल्यपि महामाया कैलासे सा विलीयते ॥ ४.४६॥
महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ । (निष्फलो)
तस्माद्योगी प्रयत्नेन करोति त्रितयं क्रमात् ॥ ४.४७॥
एतत्त्रयं प्रयत्नेन चतुर्वारं करोति यः ।
षण्मासाभ्यन्तरं मृत्युञ्जयत्येव न संशयः ॥ ४.४८॥
एतत्त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः ।
यज्ज्ञात्वा साधकाः सर्वे सिद्धिं सम्यग्लभन्ति वै ॥ ४.४९॥
गोपनीया प्रयत्नेन साधकैः सिद्धिमीप्सुभिः ।
अन्यथा च न सिद्धिः स्यान्मुद्राणामेष निश्चयः ॥ ४.५०॥
खेचरीमुद्राकथनम् ।
भ्रुवोरन्तर्गतां दृष्टिं विधाय सुदृढां सुधीः ॥ ४.५१॥ (सुदृढा)
उपविश्यासने वज्रे नानोपद्रववर्जितः ।
लम्बिकोर्ध्वं स्थिते गर्ते रसनां विपरीतगाम् ॥ ४.५२॥
संयोजयेत्प्रयत्नेन सुधाकूपे विचक्षणः ।
मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः ॥ ४.५३॥
सिद्धीनां जननी ह्येषा मम प्राणाधिकप्रिया ।
निरन्तरकृताभ्यासात्पीयूषं प्रत्यहं पिबेत् ।
तेन विग्रहसिद्धिः स्यान्मृत्युमातङ्गकेसरी ॥ ४.५४॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
खेचरी यस्य शुद्धा तु स शुद्धो नात्र संशयः ॥ ४.५५॥
क्षणार्धं कुरुते यस्तु तीर्त्वा पापमहार्णवम् ।
दिव्यभोगान्प्रभुक्त्वा च सत्कुले स प्रजायते ॥ ४.५६॥
मुद्रैषा खेचरी यस्तु स्वस्थचित्तो ह्यतन्द्रितः ।
शतब्रह्मगतेनापि क्षणार्धं मन्यते हि सः ॥ ४.५७॥
गुरूपदेशतो मुद्रां यो वेत्ति खेचरीमिमाम् ।
नानापापरतो धीमान् स याति परमां गतिम् ॥ ४.५८॥
सा प्राणसदृशी मुद्रा यस्मिन्कस्मिन्न दीयते । (यस्मै कस्मै न)
प्रच्छाद्यते प्रयत्नेन मुद्रेयं सुरपूजिते ॥ ४.५९॥
जालन्धरबन्धकथनम् ।
बद्धागलशिराजालं हृदये चिबुकं न्यसेत् ।
बन्धोजालन्धरः प्रोक्तो देवानामपि दुर्लभः ॥ ४.६०॥
नाभिस्थवह्निर्जन्तूनां सहस्रकमलच्युतम् ।
पिबेत्पीयूषविस्तारं तदर्थं बन्धयेदिमम् ॥ ४.६१॥
बन्धेनानेन पीयूषं स्वयं पिबति बुद्धिमान् ।
अमरत्वञ्च सम्प्राप्य मोदते भुवनत्रये ॥ ४.६२॥
जालन्धरो बन्ध एष सिद्धानां सिद्धिदायकः ।
अभ्यासः क्रियते नित्यं योगिना सिद्धिमिच्छता ॥ ४.६३॥
मूलबन्धकथनम् ।
पादमूलेन सम्पीड्य गुदमार्गेषु यन्त्रितम् ॥ ४.६४॥
बलादपानमाकृष्य क्रमादूर्ध्वं सुचारयेत् ।
कल्पितोऽयं मूलबन्धो जरामरणनाशनः ॥ ४.६५॥
अपानप्राणयोरैक्यं प्रकरोत्यधिकल्पितम् ।
बन्धेनानेन सुतरां योनिमुद्रा प्रसिद्ध्यति ॥ ४.६६॥
सिद्धायां योनिमुद्रायां किं न सिद्ध्यति भूतले ।
बन्धस्यास्य प्रसादेन गगने विजितानिलः ।
पद्मासने स्थितो योगी भुवमुत्सृज्य वर्तते ॥ ४.६७॥
सुगुप्ते निर्जने देशे बन्धमेनं समभ्यसेत् ।
संसारसागरं तर्तुं यदीच्छेद्योगि पुङ्गवः ॥ ४.६८॥
विपरीतकरणीमुद्राकथनम् ।
भूतले स्वशिरोदत्त्वा खे नयेच्चरणद्वयम् ।
विपरीतकृतिश्चैषा सर्वतन्त्रेषु गोपिता ॥ ४.६९॥
एतद्यः कुरुते नित्यमभ्यासं याममात्रतः ।
मृत्युञ्जयति स योगी प्रलयेनापि सीदति ॥ ४.७०॥ (योगीशः)
कुरुतेऽमृतपानं यः सिद्धानां समतामियात् ।
स सेव्यः सर्वलोकानां बन्धमेनं करोति यः ॥ ४.७१॥
उड्डयानबन्धकथनम् ।
नाभेरूर्ध्वमधश्चापि तानं पश्चिममाचरेत् ।
उड्ड्यानबन्ध एष स्यात्सर्वदुःखौघनाशनः ॥ ४.७२॥
उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् ।
उड्ड्यानाख्योऽत्र बन्धोऽयं मृत्युमातङ्गकेसरी ॥ ४.७३॥
नित्यं यः कुरुते योगी चतुर्वारं दिने दिने ।
तस्य नाभेस्तु शुद्धिः स्याद्येन सिद्धो भवेन्मरुत् ॥ ४.७४॥ (नाभेस्सुशुद्धिः साद्येन)
षण्मासमभ्यसन्योगी मृत्युञ्जयति निश्चितम् ।
तस्योदराग्निर्ज्वलति रसवृद्धिः प्रजायते ॥ ४.७५॥
अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते ।
रोगाणां सङ्क्षयश्चापि योगिनो भवति ध्रुवम् ॥ ४.७६॥
गुरोर्लब्ध्वा प्रयत्नेन साधयेत्तु विचक्षणः ।
निर्जने सुस्थिते देशे बन्धं परमदुर्लभम् ॥ ४.७७॥
वज्रोलीमुद्राकथनम् ।
वज्रोलीं कथयिष्यामि संसारध्वान्तनाशिनीम् ।
स्वेभक्तेभ्यः समासेन गुह्याद्गुह्यतमामपि ॥ ४.७८॥
स्वेच्छया वर्तमानोऽपि योगोक्तनियमैर्विना ।
मुक्तो भवति गार्हस्थो वज्रोल्यभ्यसयोगतः ॥ ४.७९॥
वज्रोल्यभ्यासयोगोऽयं भोगे युक्तेऽपि मुक्तिदः ।
तस्मादतिप्रयत्नेन कर्तव्यो योगिभिः सदा ॥ ४.८०॥
आदौ रजः स्त्रियो योन्याः यत्नेन विधिवत्सुधीः ।
आकुञ्च्य लिङ्गनालेन स्वशरीरे प्रवेशयेत् ॥ ४.८१॥
स्वकं बिन्दुश्च सम्बन्ध्य लिङ्गचालनमाचरेत् ।
दैवाच्चलति चेदूर्ध्वं निबद्धो योनिमुद्रया ॥ ४.८२॥
वाममार्गेऽपि तद्बिन्दुं नीत्वा लिङ्गं निवारयेत् ।
क्षणमात्रं योनितो यः पुमांश्चालनमाचरेत् ॥ ४.८३॥
गुरूपदेशतो योगी हुंहुङ्कारेण योनितः ।
अपानवायुमाकुञ्चय बलादाकृष्य तद्रजः ॥ ४.८४॥
अनेन विधिना योगी क्षिप्रं योगस्य सिद्धये ।
भव्यभुक्कुरुते योगी गुरुपादाब्जपूजकः ॥ ४.८५॥
बिन्दुर्विधुमयो ज्ञेयो रजः सूर्यमयस्तथा ।
उभयोर्मेलनं कार्यं स्वशरीरे प्रवेशयेत् ॥ ४.८६॥
अहं बिन्दू रजः शक्तिरुभयोर्मेलनं यदा ।
योगिनां साधनावस्था भवेद्दिव्यं वपुस्तदा ॥ ४.८७॥
मरणं बिन्दुपातेन जीवनं बिन्दुधारणे ।
तस्मादतिप्रयत्नेन कुरुते बिन्दुधारणम् ॥ ४.८८॥
जायते म्रियते लोके बिन्दुना नात्र संशयः ।
एतज्ज्ञात्वा सदा योगी बिन्दुधारणमाचरेत् ॥ ४.८९॥
सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले ।
यस्य प्रसादान्महिमा ममाप्येतादृशो भवेत् ॥ ४.९०॥
बिन्दुः करोति सर्वेषां सुखं दुःखञ्च संस्थितः ।
संसारिणां विमूढानां जरामरणशालिनाम् ॥ ४.९१॥
अयं च शाङ्करो योगो योगिनामुत्तमोत्तमः ॥ ४.९२॥
अभ्यासात्सिद्धिमाप्नोति भोगयुक्तोऽपि मानवः ।
सकलः साधितार्थोऽपि सिद्धो भवति भूतले ॥ ४.९३॥
भुक्त्वा भोगानशेषान् वै योगेनानेन निश्चितम् ।
अनेन सकला सिद्धिर्योगिनां भवति ध्रुवम् ।
सुखभोगेन महता तस्मादेनं समभ्यसेत् ॥ ४.९४॥
सहजोल्यमरोली च वज्रोल्या भेदतो भवेत् ।
येन केन प्रकारेण बिन्दुं योगी प्रधारयेत् ॥ ४.९५॥
दैवाच्चलति चेद्वेगे मेलनं चन्द्रसूर्ययोः ।
अमरोलिरियं प्रोक्ता लिङ्गनालेन शोषयेत् ॥ ४.९६॥
गतं बिन्दुं स्वकं योगी बन्धयेद्योनिमुद्रया ।
सहजोलीरियं प्रोक्ता सर्वतन्त्रेषु गोपिता ॥ ४.९७॥
संज्ञाभेदाद्भवेद्भेदः कार्यं तुल्यगतिर्यदि ।
तस्मात्सर्वप्रयत्नेन साध्यते योगिभिः सदा ॥ ४.९८॥
अयं योगो मया प्रोक्तो भक्तानां स्नेहतः प्रिये ।
गोपनीयः प्रयत्नेन न देयो यस्य कस्यचित् ॥ ४.९९॥
एतद्गुह्यतमं गुह्यं न भूतं न भविष्यति ।
तस्मादेतत्प्रयत्नेन गोपनीयं सदा बुधैः ॥ ४.१००॥
स्वमूत्रोत्सर्गकाले यो बलादाकृष्य वायुना ।
स्तोकं स्तोकं त्यजेन्मूत्रमूर्ध्वमाकृष्य तत्पुनः ॥ ४.१०१॥
गुरूपदिष्टमार्गेण प्रत्यहं यः समाचरेत् ।
बिन्दुसिद्धिर्भवेत्तस्य महासिद्धिप्रदायिका ॥ ४.१०२॥
षण्मासमभ्यसेद्यो वै प्रत्यहं गुरुशिक्षया ।
शताङ्गनाविभोगेऽपि तस्य बिन्दुर्न नश्यति ॥ ४.१०३॥
सिद्धे बिन्दौ महायत्ने किं न सिद्ध्यति पार्वति ।
ईशत्वं यत्प्रसादेन ममापि दुर्लभं भवेत् ॥ ४.१०४॥
शक्तिचालनमुद्राकथनम् ।
आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम् ।
अपानवायुमारुह्य बलादाकृष्य बुद्धिमान् ।
शक्तिचालनमुद्रेयं सर्वशक्तिप्रदायिनी ॥ ४.१०५॥
शक्तिचालनमेवं हि प्रत्यहं यः समाचरेत् ।
आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम् ॥ ४.१०६॥
विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु ।
तस्मादभ्यासनं कार्यं योगिना सिद्धमिच्छता ॥ ४.१०७॥
यः करोति सदाभ्यासं शक्तिचालनमुत्तमम् ।
येन विग्रहसिद्धिः स्यादणिमादिगुणप्रदा ॥ ४.१०८॥
गुरूपदेशविधिना तस्य मृत्युभयं कुतः ।
मुहूर्तद्वयपर्यन्तं विधिना शक्तिनाशनम् ॥ ४.१०९॥
यः करोति प्रयत्नेन तस्य सिद्धिरदूरतः ।
युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम् ॥ ४.११०॥
एतत्सुमुद्रादशकं न भूतं न भविष्यति ।
एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा ॥ ४.१११॥
इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
मुद्राकथनं नाम चतुर्थपटलः समाप्तः । ४।
पञ्चमपटलः
श्रीदेव्युवाच ।
ब्रूहि मे वाक्यमीशान परमार्थधियं प्रति ।
ये विघ्नाः सन्ति लोकानां वद मे प्रिय शङ्कर ॥ ५.१॥
ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि यथा विघ्नाः स्थिताः सदा ।
मुक्तिं प्रति नराणाञ्च भोगः परमबन्धनः ॥ ५.२॥
भोगरूपयोगविघ्नविद्याकथनम् ।
नारी शय्यासनं वस्त्रं धनमस्य विडम्बनम् ।
ताम्बूलभक्ष्यानानि राज्यैश्वर्यविभूतयः ॥ ५.३॥
हैमं रौप्यं तथा ताम्रं रत्नञ्चागुरुधेनवः ।
पाण्डित्यं वेदशास्त्राणि नृत्यं गीतं विभूषणम् ॥ ५.४॥
वंशी वीणा मृदङ्गाश्च गजेन्द्रश्चाश्ववाहनम् ।
(दारापत्यानि विषया विघ्ना एते प्रकीर्तिताः ।)
भोगरूपा इमे विघ्ना धर्मरूपानिमाञ्छृणु ॥ ५.५॥
धर्मरूपयोगविघ्नकथनम् ।
स्नानं पूजाविधिर्होमं तथा मोक्षमयी स्थितिः ।
व्रतोपवासनियममौनमिन्द्रियनिग्रहः ॥ ५.६॥
ध्येयो ध्यानं तथा मन्त्रो दानं ख्यातिर्दिशासु च ।
वापीकूपतडागादिप्रासादारामकल्पना ॥ ५.७॥
यज्ञं चान्द्रायणं कृच्छ्रं तीर्थानि विविधानि च ।
दृश्यन्ते च इमे विघ्ना धर्मरूपेण संस्थिताः ॥ ५.८॥
ज्ञानरूपविघ्नकथनम् ।
यत्तु विघ्नं भवेज्ज्ञानं कथयामि वरानने ।
गोमुखं स्वासनं कृत्वा धौतिप्रक्षालनं च तत् ॥ ५.९॥
नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम् ।
कुक्षिसञ्चालनं क्षिप्रं प्रवेश इन्द्रियाध्वना ।
नाडीकर्माणि कल्याणि भोजनं श्रूयतां मम ॥ ५.१०॥
नवधातुरसं छिन्धि शुण्ठिकाश्ताडयेत्पुनः ।
एककालं समाधिः स्याल्लिङ्गभूतमिदं शृणु ॥ ५.११॥
सङ्गमं गच्छ साधूनां सङ्कोचं भज दुर्जनात् ।
प्रवेशनिर्गमे वायोर्गुरुलक्षं विलोकयेत् ॥ ५.१२॥
पिण्डस्थं रूपसंस्थञ्च रूपस्थं रूपवर्जितम् ।
ब्रह्मैतस्मिन्मतावस्था हृदयञ्च प्रशाम्यति ।
इत्येते कथिता विघ्ना ज्ञानरूपे व्यवस्थिताः ॥ ५.१३॥
चतुर्विधयोगकथनम् ।
मन्त्रयोगो हठश्चैव लययोगस्तृतीयकः ।
चतुर्थो राजयोगः स्यात्स द्विधाभाववर्जितः ॥ ५.१४॥
चतुर्धा साधको ज्ञेयो मृदुमध्याधिमात्रकाः ।
अधिमात्रतमः श्रेष्ठो भवाब्धौ लङ्घनक्षमः ॥ ५.१५॥
मृदुसाधकलक्षणम् ।
मन्दोत्साही सुसम्मूढो व्याधिस्थो गुरुदूषकः ।
लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः ॥ ५.१६॥
चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः ।
मन्दाचारो मन्दवीर्यो ज्ञातव्यो मृदुमानवः ॥ ५.१७॥
द्वादशाब्दे भवेत्सिद्धिरेतस्य यत्नतः परम् ।
मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम् ॥ ५.१८॥
मध्यमसाधकलक्षणम् ।
समबुद्धिः क्षमायुक्तः पुण्याकाङ्क्षी प्रियंवदः ।
मध्यस्थः सर्वकार्येषु सामान्यः स्यान्नसंशयः ।
एतज्ज्ञात्वैव गुरुभिर्दीयते मुक्तितो लयः ॥ ५.१९॥
अधिमात्रसाधकलक्षणं
स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्यवानपि ।
महाशयो दयायुक्तः क्षमावान् सत्यवानपि ॥ ५.२०॥
शूरो वयःस्थः श्रद्धावान् गुरुपादाब्जपूजकः ।
योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः ॥ ५.२१॥
एतस्य सिद्धिः षड्वर्षैर्भवेदभ्यासयोगतः ।
एतस्मै दीयते धीरो हठयोगश्च साङ्गतः ॥ ५.२२॥
अधिमात्रतमसाधकलक्षणम् ।
महावीर्यान्वितोत्साही मनोज्ञः शौर्यवानपि ।
शास्त्रज्ञोऽभ्यासशीलश्च निर्मोहश्च निराकुलः ॥ ५.२३॥
नवयौवनसम्पन्नो मिताहारी जितेन्द्रियः ।
निर्भयश्च शुचिर्दक्षो दाता सर्वजनाश्रयः ॥ ५.२४॥
अधिकारी स्थिरो धीमान् यथेच्छावस्थितः क्षमी ।
सुशीलो धर्मचारी च गुप्तचेष्टः प्रियंवदः ॥ ५.२५॥
शास्त्रविश्वाससम्पन्नो देवता गुरुपूजकः ।
जनसङ्गविरक्तश्च महाव्याधि विवर्जितः ॥ ५.२६॥
अधिमात्रतरोज्ञेयः सर्वयोगस्य साधकः । (अधिमात्रव्रतशश्च / अधिमात्रव्रतज्ञशश्च)
त्रिभिस्संवत्सरैः सिद्धिरेतस्य नात्र संशयः ।
सर्वयोगाधिकारी स नात्र कार्या विचारणा ॥ ५.२७॥
प्रतीकोपासनम् ।
प्रतीकोपासना कार्या दृष्टादृष्टफलप्रदा ।
पुनाति दर्शनादत्र नात्र कार्या विचारणा ॥ ५.२८॥
गाढातपे स्वप्रतिबिम्बितेश्वरं निरीक्ष्य विस्फारितलोचनद्वयम् ।
यदा नभः पश्यति स्वप्रतीकं नभोऽङ्गणे तत्क्षणमेव पश्यति ॥ ५.२९॥
प्रत्यहं पश्यते यो वै स्वप्रतीकं नभोऽङ्गणे ।
आयुर्वृद्धिर्भवेत्तस्य न मृत्युः स्यात्कदाचन ॥ ५.३०॥
यदा पश्यति सम्पूर्णं स्वप्रतीकं नभोऽङ्गणे ।
तदा जयं सभायाञ्च युद्धे निर्जित्य सञ्चरेत् ॥ ५.३१॥ (जयमवाप्नोति वायुं)
यः करोति सदाभ्यासं चात्मानं विन्दते परम् । (वन्दते)
पूर्णानन्दैकपुरुषं स्वप्रतीकप्रसादतः ॥ ५.३२॥
यात्राकाले विवाहे च शुभे कर्मणि सङ्कटे ।
पापक्षये पुण्यवृद्धौ प्रतीकोपासनञ्चरेत् ॥ ५.३३॥
निरन्तरकृताभ्यासादन्तरे पश्यति ध्रुवम् ।
तदा मुक्तिमवाप्नोति योगी नियतमानसः ॥ ५.३४॥
अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने ।
नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम् ॥ ५.३५॥
निरुध्य मारुतं योगी यदैव कुरुते भृशम् ।
तदा तत्क्षणमात्मानं ज्योतीरूपं स पश्यति ॥ ५.३६॥
तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम् ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५.३७॥
निरन्तरकृताभ्यासाद्योगी विगतकल्मषः ।
सर्वदेहादि विस्मृत्य तदभिन्नः स्वयं गतः ॥ ५.३८॥
यः करोति सदाभ्यासं गुप्ताचारेण मानवः ।
स वै ब्रह्मविलीनः स्यात्पापकर्मरतो यदि ॥ ५.३९॥
गोपनीयः प्रयत्नेन सद्यः प्रत्ययकारकः ।
निर्वाणदायको लोके योगोऽयं मम वल्लभः ।
नादः सञ्जायते तस्य क्रमेणाभ्यासतश्च यः ॥ ५.४०॥ (वै)
मत्तभृङ्गवेणुवीणासदृशः प्रथमो ध्वनिः ।
एवमभ्यासतः पश्चात् संसारध्वान्तनाशनम् ।
घण्टानादसमः पश्चात् ध्वनिर्मेघरवोपमः ॥ ५.४१॥
ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भरः । (निर्भयः)
तदा सञ्जायते तस्य लयस्य मम वल्लभे ॥ ५.४२॥
तत्र नादे यदा चित्तं रमते योगिनो भृशम् ।
विस्मृत्य सकलं बाह्यं नादेन सह शाम्यति ॥ ५.४३॥
एतदभ्यासयोगेन जित्वा सम्यग्गुणान्बहून् ।
सर्वारम्भपरित्यागी चिदाकाशे विलीयते ॥ ५.४४॥
नासनं सिद्धसदृशं न कुम्भसदृशं बलम् ।
न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ ५.४५॥
षट्चक्र विवरणम् ।
मूलाधारपद्मनिरूपण ।
इदानीं कथयिष्यामि मुक्तस्यानुभवं प्रिये ।
यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोऽपि साधकः ॥ ५.४६॥
समभ्यर्च्येश्वरं सम्यक्कृत्वा च योगमुत्तमम् ।
गृह्णीयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान् ॥ ५.४७॥
जीवादि सकलं वस्तु दत्त्वा योगविदं गुरुम् । (वस्तुं)
सन्तोष्यादिप्रयत्नेन योगोऽयं गृह्यते बुधैः ॥ ५.४८॥
विप्रान्सन्तोष्य मेधावी नानामङ्गलसंयुतः ।
ममालये शुचिर्भूत्वा गृह्णीयाच्छुभात्मकम् ॥ ५.४९॥
संन्यस्यानेन विधिना प्राक्तनं विग्रहादिकम् ।
भूत्वा दिव्यवपुर्योगी गृह्णीयाद्वक्ष्यमाणकम् ॥ ५.५०॥
पद्मासनस्थितो योगी जनसङ्गविवर्जितः ।
विज्ञाननाडीद्वितयमङ्गुलीभ्यां निरोधयेत् ॥ ५.५१॥
सिद्धेस्तदाविर्भवति सुखरूपी निरञ्जनः ।
तस्मिन्परिश्रमः कार्यो येन सिद्धो भवेत्खलु ॥ ५.५२॥
यः करोति सदाभ्यासं तस्य सिद्धिर्न दूरतः ।
वायुसिद्धिर्भवेत्तस्य क्रमादेव न संशयः ॥ ५.५३॥ (वायुसिद्धिभवेत्तस्य)
सकृद्यः कुरुते योगी पापौघं नाशयेद्ध्रुवम् ।
तस्य स्यान्मध्यमे वायोः प्रवेशो नात्र संशयः ॥ ५.५४॥
एतदभ्यासशीलो यः स योगी देवपूजितः ।
अणिमादिगुणान्ल्लब्ध्वा विचरेद्भुवनत्रये ॥ ५.५५॥
यो यथास्यानिलाभ्यासात्तद्भवेत्तस्य विग्रहः ।
तिष्ठेदात्मनि मेधावी संयुतः क्रीडते भृशम् ॥ ५.५६॥
एतद्योगं परं गोप्यं न देयं यस्य कस्यचित् ।
सप्रमाणः समायुक्तस्तमेव कथ्यते ध्रुवम् ॥ ५.५७॥ (यः प्रमाणैः)
योगी पद्मासने तिष्ठेत्कण्ठकूपे यदा स्मरन् ।
जिह्वां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते ॥ ५.५८॥
कण्ठकूपादधःस्थाने कूर्मनाड्यस्ति शोभना ।
तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्यं लभेद्भृशम् ॥ ५.५९॥
शिरः कपाले रुद्राक्ष विवरं चिन्तयेद्यदा । रुद्राक्षं
तदा ज्योतिः प्रकाशः स्याद्विद्युत्पुञ्जसमप्रभः ॥ ५.६०॥
एतच्चिन्तनमात्रेण पापानां सङ्क्षयो भवेत् ।
दुराचारोऽपि पुरुषो लभते परमं पदम् ॥ ५.६१॥
अहर्निशं यदा चिन्तां तत्करोति विचक्षणः ।
सिद्धानां दर्शनं तस्य भाषणञ्च भवेद्ध्रुवम् ॥ ५.६२॥
तिष्ठन् गछन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहर्निशम् ।
तदाकाशमयो योगी चिदाकाशे विलीयते ॥ ५.६३॥
एतज्ज्ञानं सदा कार्यं योगिना सिद्धिमिच्छता । (काय)
निरन्तरकृताभ्यासान्मम तुल्यो भवेद्ध्रुवम् ।
एतज्ज्ञानबलाद्योगी सर्वेषां वल्लभो भवेत् ॥ ५.६४॥
सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रहः ।
नासाग्रे दृश्यते येन पद्मासनगतेन वै ।
मनसो मरणं तस्य खेचरत्वं प्रसिद्ध्यति ॥ ५.६५॥
ज्योतिः पश्यति योगीन्द्रः शुद्धं शुद्धाचलोपमम् ।
तत्राभ्यासबलेनैव स्वयं तद्रक्षको भवेत् ॥ ५.६६॥
उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरन्तरम् ।
सद्यः श्रमविनाशाय स्वयं योगी विचक्षणः ॥ ५.६७॥
शिरः पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत् ।
भ्रूमध्ये दृष्टिमात्रेण ह्यपरः परिकीर्तितः ॥ ५.६८॥
चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते ।
तत्र सारतमो लिङ्गदेहस्य परिपोषकः ॥ ५.६९॥
सप्तधातुमयं पिण्डमेति पुष्णाति मध्यगः ।
याति विण्मूत्ररूपेण तृतीयः सप्ततो बहिः ॥ ५.७०॥
आद्यभाग द्वयं नाड्यः प्रोक्तास्ताः सकला अपि ।
पोषयन्ति वपुर्वायुमापादतलमस्तकम् ॥ ५.७१॥
नाडीभिराभिः सर्वाभिर्वायुः सञ्चरते यदा ।
तदैवान्नरसो देहे साम्येनेह प्रवर्तते ॥ ५.७२॥
चतुर्दशानां तत्रेह व्यापारे मुख्यभागतः ।
ता अनुग्रत्वहीनाश्च प्राणसञ्चारनाडिकाः ॥ ५.७३॥
गुदाद्वयङ्गुलतश्चोर्ध्वं मेढ्रैकाङ्गुलतस्त्वधः ।
एवञ्चास्ति समं कन्दं समता चतुरङ्गुलम् ॥ ५.७४॥ (समताच्चतुरङ्गुलम्)
पश्चिमाभिमुखीः योनिर्गुदमेढ्रान्तरालगा ।
तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा ॥ ५.७५॥
संवेष्ट्य सकला नाडीः सार्द्धत्रिकुटलाकृतीः ।
मुखे निवेश्य सा पुच्छं सुषुम्णाविवरे स्थिता ॥ ५.७६॥
सुप्ता नागोपमा ह्येषा स्फुरन्ती प्रभया स्वया ।
अहिवत्सन्धिसंस्थाना वाग्देवी बीजसंज्ञिका ॥ ५.७७॥
ज्ञेया शक्तिरियं विष्णोर्निर्मला स्वर्णभास्वरा ।
सत्त्वं रजस्तमश्चेति गुणत्रयप्रसूतिका ॥ ५.७८॥
तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम् ।
कलहेमसमं योगे प्रयुक्ताक्षररूपिणम् ॥ ५.७९॥
सुषुम्णापि च संश्लिष्टा बीजं तत्र वरं स्थितम् ।
शरच्चन्द्रनिभं तेजस्स्वयमेतत्स्फुरत्स्थितम् ॥ ५.८०॥
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
एतत्त्रयं मिलित्वैव देवी त्रिपुरभैरवी ।
बीजसंज्ञं परं तेजस्तदेव परिकीर्तितम् ॥ ५.८१॥
क्रियाविज्ञानशक्तिभ्यां युतं यत्परितो भ्रमत् ।
उत्तिष्ठद्विशतस्त्वम्भः सूक्ष्मं शोणशिखायुतम् ।
योनिस्थं तत्परं तेजः स्वयम्भूलिङ्गसंज्ञितम् ॥ ५.८२॥
आधारपद्ममेतद्धि योनिर्यस्यास्ति कन्दतः ।
परिस्फुरद्वादिसान्तचतुर्वर्णं चतुर्दलम् ॥ ५.८३॥
कुलाभिधं सुवर्णाभं स्वयम्भूलिङ्गसङ्गतम् ।
द्विरण्डो यत्र सिद्धोऽस्ति डाकिनी यत्र देवता ॥ ५.८४॥
तत्पद्ममध्यगा योनिस्तत्र कुण्डलिनी स्थिता ।
तस्या ऊर्ध्वे स्फुरत्तेजः कामबीजं भ्रमन्मतम् ॥ ५.८५॥
यः करोति सदा ध्यानं मूलाधारे विचक्षणः ।
तस्य स्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै ॥ ५.८६॥
वपुषः कान्तिरुत्कृष्टा जठराग्निविवर्धनम् ।
आरोग्यञ्च पटुत्वञ्च सर्वज्ञत्वञ्च जायते ॥ ५.८७॥
भूतं भव्यं भविष्यच्च वेत्ति सर्वं सकारणम् । (भविष्यञ्च)
अश्रुतान्यपि शास्त्राणि सरहस्यं वदेद्ध्रुवम् ॥ ५.८८॥ (भवेद्ध्रुवम्)
वक्त्रे सरस्वती देवी सदा नृत्यति निर्भरम् ।
मन्त्रसिद्धिर्भवेत्तस्य जपादेव न संशयः ॥ ५.८९॥
जरामरणदुःखौघान्नाशयति गुरोर्वचः ।
इदं ध्यानं सदा कार्यं पवनाभ्यासिना परम् ।
ध्यानमात्रेण योगीन्द्रो मुच्यते सर्वकिल्बिषात् ॥ ५.९०॥ (सर्वकिल्विषात्)
मूलपद्मं यदा ध्यायेद्योगी स्वयम्भुलिङ्गकम् ।
तदा तत्क्षणमात्रेण पापौघं नाशयेद्ध्रुवम् ॥ ५.९१॥
यं यं कामयते चित्ते तं तं फलमवाप्नुयात् ।
निरन्तरकृताभ्यासात्तं पश्यति विमुक्तिदम् ॥ ५.९२॥
बहिरभ्यन्तरे श्रेष्ठं पूजनीयं प्रयत्नतः ।
ततः श्रेष्ठतमं ह्येतन्नान्यदस्ति मतं मम ॥ ५.९३॥
आत्मसंस्थं शिवं त्यक्त्वा बहिःस्थं यः समर्चयेत् ।
हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया ॥ ५.९४॥
आत्मलिङ्गार्चनं कुर्यादनालस्यं दिने दिने ।
तस्य स्यात्सकला सिद्धिर्मात्र कार्या विचारणा ॥ ५.९५॥
निरन्तरकृताभ्यासात्षण्मासैः सिद्धिमाप्नुयात् । (निरन्तरकृताभ्यासात्षण्मासे)
तस्य वायुप्रवेशोऽपि सुषुम्णायाम्भवेद्ध्रुवम् ॥ ५.९६॥
मनोजयञ्च लभते वायुबिन्दुविधारणाम् । (वायुबिन्दुविधारणात्)
ऐहिकामुष्मिकीसिद्धिर्भवेन्नैवात्र संशयः ॥ ५.९७॥
स्वाधिष्ठानचक्रविवरणम् ।
द्वितीयन्तु सरोजञ्च लिङ्गमूले व्यवस्थितम् ।
बादिलान्तं च षड्वर्णं परिभास्वरषड्दलम् ॥ ५.९८॥
स्वाधिष्ठानाभिधं तत्तु पङ्कजं शोणरूपकम् ।
बाणाख्यो यत्र सिद्धोऽस्ति देवी यत्रास्ति राकिणी ॥ ५.९९॥
यो ध्यायति सदा दिव्यं स्वाधिष्ठानारविन्दकम् ।
तस्य कामाङ्गनाः सर्वा भजन्ते काममोहिताः ॥ ५.१००॥
विविधञ्चाश्रुतं शास्त्रं निःशङ्को वै वदेद्ध्रुवम् ।
सर्वरोगविनिर्मुक्तो लोके चरति निर्भयः ॥ ५.१०१॥
मरणं खाद्यते तेन स केनापि न खाद्यते ।
तस्य स्यात्परमा सिद्धिरणिमादिगुणप्रदा ॥ ५.१०२॥
वायुः सञ्चरते देहे रसवृद्धिर्भवेद्ध्रुवम् ।
आकाशपङ्कजगलत्पीयूषमपि वर्द्धते ॥ ५.१०३॥
मणिपूरचक्रविवरणम् ।
तृतीयं पङ्कजं नाभौ मणिपूरकसंज्ञकम् ।
दशारण्डादिफान्तार्णं शोभितं हेमवर्णकम् ॥ ५.१०४॥
रुद्राख्यो यत्र सिद्धोऽस्ति सर्वमङ्गलदायकः ।
तत्रस्था लाकिनी नाम्नी देवी परमधार्मिका ॥ ५.१०५॥
तस्मिन् ध्यानं सदा योगी करोति मणिपूरके ।
तस्य पातालसिद्धिः स्यान्निरन्तरसुखावहा ॥ ५.१०६॥
ईप्सितञ्च भवेल्लोके दुःखरोगविनाशनम् ।
कालस्य वञ्चनञ्चापि परदेहप्रवेशनम् ॥ ५.१०७॥
जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत् ।
ओषधीदर्शनञ्चापि निधीनां दर्शनं भवेत् ॥ ५.१०८॥
अनाहतचक्रविवरणम् ।
हृदयेऽनाहतं नाम चतुर्थं पङ्कजं भवेत् ।
कादिठान्तार्णसंस्थानं द्वादशारसमन्वितम् ।
अतिशोणं वायुबीजं प्रसादस्थानमीरितम् ॥ ५.१०९॥
पद्मस्थं तत्परं तेजो बाणलिङ्गं प्रकीर्तितम् ।
यस्य स्मरणमात्रेण दृष्टादृष्टफलं लभेत् ॥ ५.११०॥
सिद्धः पिनाकी यत्रास्ते काकिनी यत्र देवता ।
एतस्मिन्सततं ध्यानं हृत्पाथोजे करोति यः ।
क्षुभ्यन्ते तस्य कान्ता वै कामार्ता दिव्ययोषितः ॥ ५.१११॥
ज्ञानञ्चाप्रतिमं तस्य त्रिकालविषयम्भवेत् ।
दूरश्रुतिर्दूरदृष्टिः स्वेच्छया खगतां व्रजेत् ॥ ५.११२॥
सिद्धानां दर्शनञ्चापि योगिनी दर्शनं तथा ।
भवेत्खेचरसिद्धिश्च खेचराणां जयन्तथा ॥ ५.११३॥
यो ध्यायति परं नित्यं बाणलिङ्गं द्वितीयकम् ।
खेचरी भूचरी सिद्धिर्भवेत्तस्य न संशयः ॥ ५.११४॥
एतद्ध्यानस्य माहात्म्यं कथितुं नैव शक्यते ।
ब्रह्माद्याः सकला देवा गोपयन्ति परन्त्विदम् ॥ ५.११५॥
विशुद्धचक्रविवरणम् ।
कण्ठस्थानस्थितं पद्मं विशुद्धं नामपञ्चमम् ।
सुहेमाभं स्वरोपेतं षोडशस्वरसंयुतम् ।
छगलाण्डोऽस्ति सिद्धोऽत्र शाकिनी चाधिदेवता ॥ ५.११६॥
ध्यानं करोति यो नित्यं स योगीश्वरपण्डितः ।
किन्त्वस्य योगिनोऽन्यत्र विशुद्धाख्ये सरोरुहे ।
चतुर्वेदा विभासन्ते सरहस्या निधेरिव ॥ ५.११७॥
इह स्थाने स्थितो योगी यदा क्रोधवशो भवेत् ।
तदा समस्तं त्रैलोक्यं कम्पते नात्र संशयः ॥ ५.११८॥
इह स्थाने मनो यस्य दैवाद्याति लयं यदा ।
तदा बाह्यं परित्यज्य स्वान्तरे रमते ध्रुवम् ॥ ५.११९॥
तस्य न क्षतिमायाति स्वशरीरस्य शक्तितः ।
संवत्सरसहस्रेऽपि वज्रातिकठिनस्य वै ॥ ५.१२०॥
यदा त्यजति तद्ध्यानं योगीन्द्रोऽवनिमण्डले ।
तदा वर्षसहस्राणि मन्यते तत्क्षणं कृती ॥ ५.१२१॥
आज्ञाचक्रविवरणम् ।
आज्ञापद्मं भ्रुवोर्मध्ये हक्षोपेतं द्विपत्रकम् ।
शुक्लाभं तन्महाकालः सिद्धो देव्यत्र हाकिनी ॥ ५.१२२॥
शरच्चन्द्रनिभं तत्राक्षरबीजं विजृम्भितम् ।
पुमान् परमहंसोऽयं यज्ज्ञात्वा नावसीदति ॥ ५.१२३॥
एतदेव परन्तेजः सर्वतन्त्रेषु मन्त्रिणः । (तत्र देवः)
चिन्तयित्वा परां सिद्धिं लभते नात्र संशयः ॥ ५.१२४॥
तुरीयं त्रितयं लिङ्गं तदाहं मुक्तिदायकः ।
ध्यानमात्रेण योगीन्द्रो मत्समो भवति ध्रुवम् ॥ ५.१२५॥
इडा हि पिङ्गला ख्याता वरणासीति होच्यते ।
वाराणसी तयोर्मध्ये विश्वनाथोऽत्र भाषितः ॥ ५.१२६॥
एतत्क्षेत्रस्य माहात्म्यमृषिभिस्तत्त्वदर्शिभिः ।
शास्त्रेषु बहुधा प्रोक्तं परं तत्त्वं सुभाषितम् ॥ ५.१२७॥
सुषुम्णा मेरुणा याता ब्रह्मरन्ध्रं यतोऽस्ति वै ।
ततश्चैषा परावृत्य तदाज्ञापद्मदक्षिणे । (परावृत्या)
वामनासापुटं याति गङ्गेति परिगीयते ॥ ५.१२८॥
ब्रह्मरन्ध्रे हि यत्पद्मं सहस्रारं व्यवस्थितम् ।
तत्र कन्देहि या योनिस्तस्यां चन्द्रो व्यवस्थितः ॥ ५.१२९॥
त्रिकोणाकारतस्तस्याः सुधा क्षरति सन्ततम् ।
इडायाममृतं तत्र समं स्रवति चन्द्रमाः ॥ ५.१३०॥
अमृतं वहति द्वारा धारारूपं निरन्तरम् ।
वामनासापुटं याति गङ्गेत्युक्ता हि योगिभिः ॥ ५.१३१॥
आज्ञापङ्कजदक्षांसाद्वामनासापुटङ्गता ।
उदग्वहेति तत्रेडा गङ्गेति समुदाहृता ॥ ५.१३२॥ (वरणा)
ततो द्वयमिह मध्ये तु वाराणसीति चिन्तयेत् । (द्वयोर्हि)
तदाकारा पिङ्गलापि तदाज्ञाकमलोत्तरे । (तदाज्ञाकमलान्तरे)
दक्षनासापुटे याति प्रोक्तास्माभिरसीति वै ॥ ५.१३३॥
मूलाधारे हि यत्पद्मं चतुष्पत्रं व्यवस्थितम् । (चतुष्पत्र)
तत्र कन्देऽस्ति या योनिस्तस्यां सूर्यो व्यवस्थितः ॥ ५.१३४॥ (तत्र मध्येहि)
तत्सूर्यमण्डलद्वारं विषं क्षरति सन्ततम् । (तत्सूर्यमण्डलद्वराद्विषं)
पिङ्गलायां विषं तत्र समर्थयति तापनः ॥ ५.१३५॥ (समर्पयति)
विषं तत्र वहन्ती या धारारूपं निरन्तरम् ।
दक्षनासापुटे याति कल्पितेयन्तु पूर्ववत् ॥ ५.१३६॥
आज्ञापङ्कजवामास्याद्दक्षनासापुटं गता ।
उदग्वहा पिङ्गलापि पुरासीति प्रकीर्तिता ॥ ५.१३७॥
आज्ञापद्ममिदं प्रोक्तं यत्र देवो महेश्वरः ।
पीठत्रयं ततश्चोर्ध्वं निरुक्तं योगचिन्तकैः ।
तद्बिन्दुनादशक्त्याख्यं भालपद्मे व्यवस्थितम् ॥ ५.१३८॥
यः करोति सदाध्यानमाज्ञापद्मस्य गोपितम् ।
पूर्वजन्मकृतं कर्म विनश्येदविरोधतः ॥ ५.१३९॥
इह स्थिते यदा योगी ध्यानं कुर्यान्निरन्तरम् । (सदा)
तदा करोति प्रतिमां प्रतिजापमनर्थवत् ॥ ५.१४०॥
यक्षराक्षसगन्धर्वा अपसरोगणकिन्नराः ।
सेवन्ते चरणौ तस्य सर्वे तस्य वशानुगाः ॥ ५.१४१॥
करोति रसनां योगी प्रविष्टां विपरीतगाम् ।
लम्बिकोर्ध्वेषु गर्तेषु धृत्वा ध्यानं भयापहम् ॥ ५.१४२॥
अस्मिन् स्थाने मनो यस्य क्षणार्धं वर्ततेऽचलम् ।
तस्य सर्वाणि पापानि सङ्क्षयं यान्ति तत्क्षणात् ॥ ५.१४३॥
यानि यानीह प्रोक्तानि पञ्चपद्मे फलानि वै । (यानि यानि हि)
तानि सर्वाणि सुतरामेतज्ज्ञानाद्भवन्ति हि ॥ ५.१४४॥
यः करोति सदाभ्यासमाज्ञा पद्मे विचक्षणः ।
वासनाया महाबन्धं तिरस्कृत्य प्रमोदते ॥ ५.१४५॥
प्राणप्रयाणसमये तत्पद्मं यः स्मरन्सुधीः ।
त्यजेत्प्राणं स धर्मात्मा परमात्मनि लीयते ॥ ५.१४६॥
तिष्ठन् गच्छन् स्वपन् जाग्रत् यो ध्यानं कुरुते नरः ।
पापकर्मविकुर्वाणो नहि मज्जति किल्बिषे ॥ ५.१४७॥ (किल्विषे)
राजयोगाधिकारी स्यादेतच्चिन्तनतो ध्रुवम् ।
योगी बन्धाद्विनिर्मुक्तः स्वीयया प्रभया स्वयम् ॥ ५.१४८॥
द्विदलध्यानमाहात्म्यं कथितुं नैव शक्यते ।
ब्रह्मादिदेवताश्चैव किञ्चिन्मत्तो विदन्ति ते ॥ ५.१४९॥
सहस्रारचक्रकथनम् ।
अत ऊर्ध्वं तालुमूले सहस्रारंसरोरुहम् ।
अस्ति यत्र सुषुम्णाया मूलं सविवरं स्थितम् ॥ ५.१५०॥
तालुमूले सुषुम्णास्य अधोवक्त्रा प्रवर्तते ।
मूलाधारेण योन्यन्ताः सर्वनाड्यः समाश्रिताः । (योन्यस्ताः)
ता बीजभूतास्तत्त्वस्य ब्रह्ममार्गप्रदायिकाः ॥ ५.१५१॥
तालुस्थाने च यत्पद्मं सहस्रारं पुरोदितम् ।
तत्कन्दे योनिरेकास्ति पश्चिमाभिमुखी मता ॥ ५.१५२॥
तस्य मध्ये सुषुम्णाया मूलं सविवरं स्थितम् । (तस्या)
ब्रह्मरन्ध्रं तदेवोक्तमामूलाधारपङ्कजम् ॥ ५.१५३॥ (ब्रह्मरन्ध्र)
तत्रान्तरन्ध्रे चिच्छक्तिः सुषुम्णा कुण्डली सदा ॥ ५.१५४॥ (तत्रान्तरन्ध्रे / ततस्तद्वन्ध्रे) (तच्छक्तिः)
सुषुम्णायां स्थिता नाडी चित्रा स्यान्मम वल्लभे । (सुषुम्णायां सदा शक्तिश्चित्रा)
तस्यां मम मते कार्या ब्रह्मरन्ध्रादिकल्पना ॥ ५.१५५॥
यस्याः स्मरणमात्रेण ब्रह्मज्ञत्वं प्रजायते ।
पापक्षयश्च भवति न भूयः पुरुषो भवेत् ॥ ५.१५६॥
प्रवेशितं चलाङ्गुष्ठं मुखे स्वस्य निवेशयेत् ।
तेनात्र न वहत्येव देहचारी समीरणः ॥ ५.१५७॥ (बहत्येव)
तेन संसारचक्रेऽस्मिन् भ्रमन्ते च सर्वदा । (भ्रमतीत्येव सर्वदा)
तदर्थं ये प्रवर्तन्ते योगीनः प्राणधारणे ॥ ५.१५८॥
तत एवाखिला नाडी निरुद्धा चाष्टवेष्टनम् । (विरुद्धा)
इयं कुण्डलिनी शक्ती रन्ध्रं त्यजति नान्यथा ॥ ५.१५९॥
यदा पूर्णासु नाडीषु सन्निरुद्धानिलास्तदा ।
बन्धत्यागेन कुण्डल्या मुखं रन्ध्राद्बहिर्भवेत् ।
सुषुम्णायां सदैवायं वहेत्प्राणसमीरणः ॥ ५.१६०॥
मूलपद्मस्थिता योनिर्वामदक्षिणकोणतः ।
इडापिङ्गलयोर्मध्ये सुषुम्णा योनिमध्यगा ॥ ५.१६१॥
ब्रह्मरन्ध्रन्तु तत्रैव सुषुम्णाधारमण्डले ।
यो जानाति स मुक्तः स्यात्कर्मबन्धाद्विचक्षणः ॥ ५.१६२॥
ब्रह्मरन्ध्रमुखे तासां सङ्गमः स्यादसंशयः ।
तस्मिन्स्नाने स्नातकानां मुक्तिः स्यादविरोधतः ॥ ५.१६३॥
गङ्गायमुनयोर्मध्ये वहत्येषा सरस्वती ।
तासान्तु सङ्गमे स्नात्वा धन्यो याति पराङ्गतिम् ॥ ५.१६४॥
इडा गङ्गा पुरा प्रोक्ता पिङ्गला चार्कपुत्रिका ।
मध्या सरस्वती प्रोक्ता तासां सङ्गोऽतिदुर्लभः ॥ ५.१६५॥
सितासिते सङ्गमे यो मनसा स्नानमाचरेत् ।
सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम् ॥ ५.१६६॥
त्रिवेण्यां सङ्गमे यो वै पितृकर्म समाचरेत् ।
तारयित्वा पितॄन्सर्वान्स याति परमां गतिम् ॥ ५.१६७॥
नित्यं नैमित्तिकं काम्यं प्रत्यहं यः समाचरेत् । (नित्य)
मनसा चिन्तयित्वा तु सोऽक्षयं फलमाप्नुयात् ॥ ५.१६८॥
सकृद्यः कुरुते स्नानं स्वर्गो सौख्यं भुनक्ति सः । (स्वर्गे)
दग्ध्वा पापानशेषान्वै योगी शुद्धमतिः स्वयम् ॥ ५.१६९॥
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
स्नानाचरणमात्रेण पूतो भवति नान्यथा ॥ ५.१७०॥
मृत्युकाले प्लुतं देहं त्रिवेण्याः सलिले यदा ।
विचिन्त्य यस्त्यजेत्प्राणान्स तदा मोक्षमाप्नुयात् ॥ ५.१७१॥
नातःपरतरं गुह्यं त्रिषु लोकेषु विद्यते ।
गोप्तव्यं तत्प्रयत्नेन न व्याख्येयं कदाचन ॥ ५.१७२॥
ब्रह्मरन्ध्र मनो दत्त्वा क्षणार्धं यदि तिष्ठति ।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५.१७३॥
अस्मिन्लीनं मनो यस्य स योगी मयि लीयते ।
अणिमादिगुणान्भुक्त्वा स्वेच्छया पुरुषोत्तमः ॥ ५.१७४॥
एतद्रन्ध्रध्यानमात्रेण मर्त्यः संसारेऽस्मिन्वल्लभो मे भवेत्सः ।
पापाञ्जित्वा मुक्तिमार्गाधिकारी ज्ञानं दत्त्वा तारयत्यद्भुतं वै ॥ ५.१७५॥
चतुर्मुखादित्रिदशैरगम्यं योगिवल्लभम् ।
प्रयत्नेन सुगोप्यं तद्ब्रह्मरन्ध्रं मयोदितम् ॥ ५.१७६॥
पुरा मयोक्ता या योनिः सहस्रारे सरोरुहे ।
तस्याऽधो वर्तते चन्द्रस्तद्ध्यानं क्रियते बुधैः ॥ ५.१७७॥ (तस्याधो)
यस्य स्मरणमात्रेण योगीन्द्रोऽवनिमण्डले ।
पूज्यो भवति देवानां सिद्धानां सम्मतो भवेत् ॥ ५.१७८॥
शिरःकपालविवरे ध्यायेद्दुग्धमहोदधिम् ।
तत्र स्थित्वा सहस्रारे पद्मे चन्द्रं विचिन्तयेत् ॥ ५.१७९॥
शिरःकपालविवरे द्विरष्टकलया युतः ।
पीयूषभानुहंसाख्यं भावयेत्तं निरञ्जनम् ॥ ५.१८०॥
निरन्तरकृताभ्यासात्त्रिदिने पश्यति ध्रुवम् ।
दृष्टिमात्रेण पापौघं दहत्येव स साधकः ॥ ५.१८१॥
अनागतञ्च स्फुरति चित्तशुद्धिर्भवेत्खलु ।
सद्यः कृत्वापि दहति महापातकपञ्चकम् ॥ ५.१८२॥
आनुकूल्यं ग्रहा यान्ति सर्वे नश्यन्त्युपद्रवाः ।
उपसर्गाः शमं यान्ति युद्धे जयमवाप्नुयात् ॥ ५.१८३॥
खेचरीभूचरीसिद्धिर्भवेत्क्षीरेन्दुदर्शनात् ।
ध्यानादेवभवेत्सर्वं नात्र कार्य विचारणा ॥ ५.१८४॥ (कार्या)
सन्तताभ्यासयोगेन सिद्धो भवति मानवः । (सतताभ्यासयोगेन)
सत्यं सत्यं पुनः सत्यं मम तुल्यो भवेद्ध्रुवम् ।
योगशास्त्रं च परमं योगिनां सिद्धिदायकम् ॥ ५.१८५॥ (योगशास्त्रेऽप्यभिरतं)
राजयोगकथनम् ।
अत ऊर्ध्वं दिव्यरूपं सहस्रारं सरोरुहम् ।
ब्रह्माण्डाख्यस्य देहस्य बाह्ये तिष्ठति मुक्तिदम् ॥ ५.१८६॥
कैलासो नाम तस्यैव महेशो यत्र तिष्ठति ।
अकुलाख्योऽविनाशी च क्षयवृद्धिविवर्जितः ॥ ५.१८७॥ (नकुलाख्योऽविनाशी)
स्थानस्यास्य ज्ञानमात्रेण नॄणां, संसारेऽस्मिन्सम्भवो नैव भूयः ।
भूतग्रामं सन्तताभ्यासयोगात्कर्तुं हर्तुं स्याच्च शक्तिः समग्राः ॥ ५.१८८॥ (समग्रा)
स्थाने परे हंसनिवासभूते, कैलासनाम्नीह निविष्टचेताः ।
योगी हृतव्याधिरधः कृताधिर्वायुश्चिरञ्जीजीवति मृत्युमुक्तः ॥ ५.१८९॥ (कृताधिवरायुश्चिरं जीवति)
चित्तवृत्तिर्यदा लीना कुलाख्ये परमेश्वरे ।
तदा समाधिसाम्येन योगी निश्चलतां व्रजेत् ॥ ५.१९०॥
निरन्तरकृते ध्याने जगद्विस्मरणं भवेत् ।
तदा विचित्रसामर्थ्यं योगिनो भवति ध्रुवम् ॥ ५.१९१॥
तस्माद्गलितपीयूषं पिबेद्योगी निरन्तरम् ।
मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे ॥ ५.१९२॥
अत्र कुण्डलिनीशक्तिर्लयं याति कुलाभिधा ।
तदा चतुर्विधा सृष्टिर्लीयते परमात्मनि ॥ ५.१९३॥
यज्ज्ञात्वा प्राप्य विषयं चित्तवृत्तिर्विलीयते ।
तस्मिन्परिश्रमं योगी करोति निरपेक्षकः ॥ ५.१९४॥
चित्तवृत्तियदालीना तस्मिन् योगी भवेद्ध्रुवम् ।
तदा विज्ञायतेऽखण्डज्ञानरूपो निरञ्जनः ॥ ५.१९५॥
ब्रह्माण्डबाह्ये सञ्चिन्त्य स्वप्रतीकं यथोदितम् ।
तमावेश्य महच्छून्यं चिन्तयेदविरोधतः ॥ ५.१९६॥
आद्यन्तमध्यशून्यं तत्कोटिसूर्यसमप्रभम् ।
चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात् ॥ ५.१९७॥
एतद्ध्यानं सदा कुर्यादनालस्यं दिने दिने ।
तस्य स्यात्सकला सिद्धिर्वत्सरान्नात्र संशयः ॥ ५.१९८॥
क्षणार्द्धं निश्चलं तत्र मनो यस्य भवेद्ध्रुवम् । (क्षणार्धं)
स एव योगी सद्भक्तः सर्वलोकेषु पूजितः ।
तस्य कल्मषसङ्घातस्तत्क्षणादेव नश्यति ॥ ५.१९९॥
यं दृष्ट्वा न प्रवर्तन्ते मृत्युसंसारवर्त्मनि ।
अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना ॥ ५.२००॥
एतद्ध्यानस्य माहात्म्यं मया वक्तुं न शक्यते ।
यः साधयति जानाति सोऽस्माकमपि सम्मतम् ॥ ५.२०१॥ (सम्मतः)
ध्यानादेव विजानाति विचित्रेफलसम्भवम् ।
अणिमादिगुणोपेतो भवत्येव न संशयः ॥ ५.२०२॥
राजाधिराजयोगकथनम् ।
राजयोगो मयाख्यातः सर्वतन्त्रेषु गोपितः ।
राजाधिराजयोगोऽयं कथयामि समासतः ॥ ५.२०३॥
स्वस्तिकञ्चासनं कृत्वा सुमठे जन्तुवर्जिते ।
गुरुं सम्पूज्य यत्नेन ध्यानमेतत्समाचरेत् ॥ ५.२०४॥
निरालम्बं भवेज्जीवं ज्ञात्वा वेदान्तयुक्तितः ।
निरालम्बं मनः कृत्वा न किञ्चिच्चिन्तयेत्सुधीः ॥ ५.२०५॥
एतद्ध्यानान्महासिद्धिर्भवत्येव न संशयः ।
वृत्तिहीनं मनः कृत्वा पूर्णरूपं स्वयं भवेत् ॥ ५.२०६॥
साधयेत्सततं यो वै स योगी विगतस्पृहः ।
अहन्नाम न कोप्यस्ति सर्वदात्मैव विद्यते ॥ ५.२०७॥
को बन्धः कस्य वा मोक्ष एकं पश्येत्सदा हि सः ।
एतत्करोति यो नित्यं स मुक्तो नात्र संशयः ।
स एव योगी सद्भक्तः सर्वलोकेषु पूजितः ॥ ५.२०८॥
अहमस्मीति यन्मत्वा जीवात्मपरमात्मनोः ।
अहं त्वमेतदुभयं त्यक्त्वाखण्डं विचिन्तयेत् ॥ ५.२०९॥
अध्यारोपापवादाभ्यां यत्र सर्वं विलीयते ।
तद्बीजमाश्रयेद्योगी सर्वसङ्गविवर्जितः ॥ ५.२१०॥
अपरोक्षं चिदानन्दं पूर्णं त्यक्त्वा भ्रमाकुलाः ।
परोक्षं चापरोक्षं च कृत्वा मूढा भ्रमन्ति वै ॥ ५.२११॥
चराचरमिदं विश्वं परोक्षं यः करोति च ।
अपरोक्षं परं ब्रह्म त्यक्तं तस्मिन्प्रलीयते ॥ ५.२१२॥
ज्ञानकारणमज्ञानं यथा नोत्पद्यते भृशम् ।
अभ्यासं कुरुते योगी सदा सङ्गविवर्जितम् ॥ ५.२१३॥
सर्वेन्द्रियाणि संयम्य विषयेभ्यो विचक्षणः ।
विषयेभ्यः सुषुप्त्यैव तिष्ठेत्सङ्गविवर्जितः ॥ ५.२१४॥
एवमभ्यासतो नित्यं स्वप्रकाशं प्रकाशते । (एवमभ्यसतो)
श्रोतुं बुद्धिसमर्थार्थं निवर्तन्ते गुरोर्गिरः ।
तदभ्यासवशादेकं स्वतो ज्ञानं प्रवर्तते ॥ ५.२१५॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
साधनादमलं ज्ञानं स्वयं स्फुरति तद्ध्रुवम् ॥ ५.२१६॥
हठं विना राजयोगो राजयोगं विना हठः ।
तस्मात्प्रवर्तते योगी हठे सद्गुरुमार्गतः ॥ ५.२१७॥
स्थिते देहे जीवति च योगं न श्रियते भृशम् ।
इन्द्रियार्थोपभोगेषु स जीवति न संशयः ॥ ५.२१८॥
अभ्यासपाकपर्यन्तं मितान्नंस्मरणं भवेत् ।
अन्यथा साधनं धीमान्कर्तुं पारयतीह न ॥ ५.२१९॥
अतीवसाधुसंलापं साधुसम्मतिबुद्धिमान् ।
करोति पिण्डरक्षार्थं बह्वालापविवर्जितः ॥ ५.२२०॥
त्याज्यते त्यज्यते सङ्गं सर्वथा त्यज्यते भृशम् । (त्यज्यते त्यज्यते)
अन्यथा न लभेन्मुक्तिं सत्यं सत्यं मयोदितम् ॥ ५.२२१॥
गुह्यैव क्रियतेऽभ्यासः सङ्गं त्यक्त्वा तदन्तरे । (गुप्त्यैव)
व्यवहाराय कर्तव्यो बाह्यसङ्गो न रागतः ॥ ५.२२२॥ (बाह्येसङ्गानुरागतः)
स्वे स्वे कर्मणि वर्तन्ते सर्वे ते कर्मसम्भवाः ।
निमित्तमात्रं करणे न दोषोऽस्ति कदाचन ॥ ५.२२३॥
एवं निश्चित्य सुधिया गृहस्थोऽपि यदाचरेत् ।
तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ ५.२२४॥
पापपुण्यविनिर्मुक्तः परित्यक्ताङ्गसाधकः ।
यो भवेत्स विमुक्तः स्याद्गृहे तिष्ठन्सदा गृही ॥ ५.२२५॥
न पापपुण्यैर्लिप्येत योगयुक्तो यदा गृही । (सदा)
कुर्वन्नपि तदा पापान्स्वकार्ये लोकसङ्ग्रहे ॥ ५.२२६॥
मन्त्रसाधनकथनम् ।
अधुना सम्प्रवक्ष्यामि मन्त्रसाधनमुत्तमम् ।
ऐहिकामुष्मिकसुखं येन स्यादविरोधतः ॥ ५.२२७॥
यस्मिन्मन्त्रवरे ज्ञाते योगसिद्धिर्भवेत्खलु । (यस्मिन्मन्त्रे वरे)
योगेन साधकेन्द्रस्य सर्वैश्वयेसुखप्रदा ॥ ५.२२८॥
मूलाधारेऽस्ति यत्पद्मं चतुर्दलसमन्वितम् ।
तन्मध्ये वाग्भवं बीजं विस्फुरन्तं तडित्प्रभम् ॥ ५.२२९॥
हृदये कामबीजन्तु बन्धूककुसुमप्रभम् ।
आज्ञारविन्दे शक्त्याख्यं चन्द्रकोटिसमप्रभम् ॥ ५.२३०॥
बीजत्रयमिदं गोप्यं भुक्तिमुक्तिफलप्रदम् ।
एतन्मन्त्रत्रयं योगी साधयेत्सिद्धिसाधकः ॥ ५.२३१॥
एतन्मन्त्रं गुरोर्लब्ध्वा न द्रुतं न विलम्बितम् ।
अक्षराक्षरसन्धानं निःसन्दिग्धमना जपेत् ॥ ५.२३२॥
तद्गतश्चैकचित्तश्च शास्त्रोक्तविधिना सुधीः ।
देव्यास्तु पुरतो लक्षं हुत्वा लक्षत्रयं जपेत् ॥ ५.२३३॥
करवीरप्रसूनन्तु गुडक्षीराज्यसंयुतम् ।
कुण्डे योन्याकृतौ धीमाञ्जपान्ते जुहुयात्सुधीः ॥ ५.२३४॥ (योन्याकृते)
अनुष्ठाने कृते धीमान्पूर्वसेवा कृता भवेत् ।
ततो ददाति कामान्वै देवी त्रिपुरभैरवी ॥ ५.२३५॥
गुरुं सन्तोष्य विधिवल्लब्ध्वा मन्त्रवरोत्तमम् ।
अनेन विधिना युक्तो मन्दभाग्योऽपि सिद्ध्यति ॥ ५.२३६॥
लक्षमेकं जपेद्यस्तु साधको विजितेन्द्रियः ।
दर्शनात्तस्य क्षुभ्यन्ते योषितो मदनातुराः ।
पतन्ति साधकस्याग्रे निर्लज्जा भयवर्जिताः ॥ ५.२३७॥
जप्तेन च द्विलक्षेण ये यस्मिन्विषये स्थिताः ।
आगच्छन्ति यथातीर्थं विमुक्तकुलविग्रहाः ।
सर्वस्वं तस्य ददति तस्यैव च वशे स्थिताः ॥ ५.२३८॥ (ददति तस्य सर्वस्वं)
त्रिभिर्लक्षैस्तथाजप्तैर्मण्डलीकं समण्डलम् ।
(त्रिभिर्लक्षैस्तथाजप्तैर्मण्डलीकाः समण्डलाः ।)
वशमायान्ति ते सर्वे नात्र कार्या विचारणा ।
षड्भिर्लक्षैर्महीपालं सभृत्यबलवाहनम् ॥ ५.२३९॥
लक्षैर्द्वादशभिर्जप्तैर्यक्षरक्षोरगेश्वराः ।
वशमायान्ति ते सर्वे आज्ञां कुर्वन्ति नित्यशः ॥ ५.२४०॥
त्रिपञ्चलक्षजप्तैस्तु साधकेन्द्रस्य धीमतः ।
सिद्धविद्याधराश्चैव गन्धर्वाप्सरसाङ्गणाः ॥ ५.२४१॥
वशमायान्ति ते सर्वे नात्र कार्या विचारणा ।
हठाच्छ्रवणविज्ञानं सर्वज्ञत्वं प्रजायते ॥ ५.२४२॥
तथाष्टादशभिर्लक्षैर्देहेनानेन साधकः ।
उत्तिष्ठेन्मेदिनीं त्यक्त्वा दिव्यदेहस्तु जायते ।
भ्रमते स्वेच्छया लोके छिद्रां पश्यति मेदिनीम् ॥ ५.२४३॥
अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत् ।
साधकस्तु भवेद्धीमान्कामरूपो महाबलः ॥ ५.२४४॥
त्रिंशल्लक्षैस्तथाजप्तैर्ब्रह्मविष्णुसमो भवेत् ।
रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभिः ॥ ५.२४५॥
कोट्येकया महायोगी लीयते परमे पदे ।
साधकस्तु भवेद्योगी त्रैलोक्ये सोऽतिदुर्लभः ॥ ५.२४६॥
शिवसंहिताफलकथनम् ।
त्रिपुरे त्रिपुरन्त्वेकं शिवं परमकारणम् ।
अक्षयं तत्पदं शान्तमप्रमेयमनामयम् ॥ ५.२४७॥
लभतेऽसौ न सन्देहो धीमान्सर्वमभीप्सितम् ।
शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरी ॥ ५.२४८॥
मद्भाषितमिदं शास्त्रङ्गोपनीयमतोबुधैः ।
हठविद्या परं गोप्या योगिना सिद्धिमिच्छता ॥ ५.२४९॥
भवेद्वीर्यवती गुप्ता निर्वीर्या च प्रकाशिता ।
य इदं पठते नित्यमाद्योपान्तं विचक्षणः ॥ ५.२५०॥
योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशयः ।
स मोक्षं लभते धीमान्य इदं नित्यमर्चयेत् ॥ ५.२५१॥
मोक्षार्थिभ्यश्च सर्वेभ्यः साधुभ्यः श्रावयेदपि ।
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथम्भवेत् ॥ ५.२५२॥
तस्मात्क्रियाविधानेन कर्तव्या योगिपुङ्गवैः ।
यदृच्छालाभसन्तुष्टः सन्त्यक्त्वान्तरसङ्गङ्कः ॥ ५.२५३॥
गृहस्थश्चाप्यनासक्तः स मुक्तो योगसाधनात् ।
गृहस्थानां भवेत्सिद्धिरीश्वराणां जपेन वै ।
योगक्रियाभियुक्तानां तस्मात्संयतते गृही ॥ ५.२५४॥
गेहे स्थित्वा पुत्रदारादिपूर्णः
सङ्गं त्यक्त्वा चान्तरे योगमार्गे ।
सिद्धे चिह्नं वीक्ष्य पश्चाद्गृहस्थः (सिद्धेश्चिह्नं)
क्रीडेत्सं वै सम्मतं साधयित्वा ॥ ५.२५५॥ (क्रीडेत्सो)
इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
पञ्चमपटलः समाप्तः । ५।
इति शुभम् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें