बुधवार, 27 मार्च 2024

शिवसंहितामूलमात्रम्

 

शिवसंहिता

प्रथमपटलः

अथ लयप्रकरणम् । एकं ज्ञानं नित्यमाद्यन्तशून्यं नान्यत् किञ्चिद्वर्तते ते वस्तु सत्यम् । (किञ्चिद्वत्ते) यद्भेदोस्मिन्निन्द्रियोपाधिना वै ज्ञानस्यायं भासते नान्यथैव ॥ १.१॥ अथ भक्तानुरक्तोऽहं वक्ष्ये योगानुशासनम् । (वक्ति) ईश्वरः सर्वभूतानामात्ममुक्तिप्रदायकः ॥ १.२॥ त्यक्त्वा विवादशीलानां मतं दुर्ज्ञानहेतुकम् । आत्मज्ञानाय भूतानामनन्यगतिचेतसाम् ॥ १.३॥ सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे । क्षमां केचित्प्रशंसन्ति तथैव सममार्ज्जवम् ॥ १.४॥ केचिद्दानं प्रशंसन्ति पितृकर्म तथापरे । केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्तमम् ॥ १.५॥ केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः । अग्निहोत्रादिकं कर्म तथा केचित् परं विदुः ॥ १.६॥ मन्त्रयोगं प्रशंसन्ति किचित्तिर्थानुसेवनम् । एवं बहूनुपायांस्तु प्रवदन्ति हि मुक्तये ॥ १.७॥ (विमुक्तये) एवं व्यवसिता लोके कृत्याकृत्यविदो जनाः । व्यामोहमेव गच्छन्ति विमुक्ताः पापकर्मभिः ॥ १.८॥ एतन्मतावलम्बी यो लब्ध्वा दुरितपुण्यके । भ्रमतीत्यवशः सोऽत्र जन्ममृत्युपरम्पराम् ॥ १.९॥ अन्यैर्मतिमतां श्रेष्ठैर्गुप्तालोकनतत्परैः । आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा ॥ १.१०॥ यद्यत्प्रत्यक्षविषयं तदन्यन्नास्ति चक्षते । कुतः स्वर्गादयः सन्तीत्यन्ये निश्चितमानसाः ॥ १.११॥ ज्ञानप्रवाह इत्यन्ये शून्यं केचित्परं विदुः । द्वावेव तत्त्वं मन्यन्तेऽपरे प्रकृतिपूरुषौ ॥ १.१२॥ अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः । एवमन्ये तु सञ्चिन्त्य यथामति यथाश्रुतम् ॥ १.१३॥ निरीश्वरमिदं प्राहुः सेश्वरञ्च तथापरे । वदन्ति विविधैर्भेदैः सुयुक्त्या स्थितिकातराः ॥ १.१४॥ एते चान्ये च मुनयः संज्ञाभेदा पृथग्विधाः । शास्त्रेषु कथिता ह्येते लोकव्यामोहकारकाः ॥ १.१५॥ एतद्विवादशीलानां मतं वक्तुं न शक्यते । भ्रमन्त्यस्मिञ्जनाः सर्वे मुक्तिमार्गबहिष्कृताः ॥ १.१६॥ आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं योगशास्त्रं परं मतम् ॥ १.१७॥ यस्मिन्ज्ञाते सर्वमिदं यातं भवति निश्चितम् । तस्मिन्परिश्रमः कार्यः किमन्यच्छास्त्रभाषितम् ॥ १.१८॥ योगशास्त्रमिदं गोप्यमस्माभिः परिभाषितम् । सुभक्ताय प्रदातव्यं त्रैलोक्ये च महात्मने ॥ १.१९॥ कर्मकाण्डं ज्ञानकाण्डमिति वेदो द्विधा मतः । भवति द्विविधो भेदो ज्ञानकाण्डस्य कर्मणः ॥ १.२०॥ द्विविधः कर्मकाण्डः स्यान्निषेधविधिपूर्वकः । निषिद्धकर्मकरणे पापं भवति निश्चितम् । विधिना कर्मकरणे पुण्यं भवति निश्चितम् ॥ १.२१॥ त्रिविधो विधिकूटः स्यान्नित्यनैमित्तकाम्यतः । नित्येऽकृते किल्विषं स्यात्काम्ये नैमित्तिके फलम् ॥ १.२२॥ द्विविधन्तु फलं ज्ञेयं स्वर्गो नरक एव च । स्वर्गो नानाविधश्चैव नरकोपि तथा भवेत् ॥ १.२३॥ पुण्यकर्माणि वै स्वर्गो नरकः पापकर्माणि । (पुण्यकर्मणि, पापकर्मणि) कर्मबन्धमयी सृष्टिर्नान्यथा भवति ध्रुवम् ॥ १.२४॥ जन्तुभिश्चानुभूयन्ते स्वर्गे नानासुखानि च । नानाविधानि दुःखानि नरके दुःसहानि वै ॥ १.२५॥ पापकर्मवशाद्दुःखं पुण्यकर्मवशात्सुखम् । तस्मात्सुखार्थी विविधं पुण्यं प्रकुरुते ध्रुवम् ॥ १.२६॥ पापभोगावसाने तु पुनर्जन्म भवेत्खलु । पुण्यभोगावसाने तु नान्यथा भवति ध्रुवम् ॥ १.२७॥ स्वर्गेऽपि दुःखसम्भोगः परस्त्रीदर्शनाद्धुवम् । ततो दुःखमिदं सर्वं भवेन्नास्त्यत्र संशयः ॥ १.२८॥ तत्कर्मकल्पकैः प्रोक्तं पुण्यं पापमिति द्विधा । पुण्यपापमयो बन्धो देहिनां भवति क्रमात् ॥ १.२९॥ इहामुत्र फलद्वेषी सफलं कर्म सन्त्यजेत् । नित्यनैमित्तिकं सङ्गं त्यक्त्वा योगे प्रवर्तते ॥ १.३०॥ कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगी त्यजेत्सुधीः । पुण्यपापद्वयं त्यक्त्वा ज्ञानकाण्डे प्रवर्तते ॥ १.३१॥ आत्मा वाऽरेतु द्रष्टव्यः श्रोतव्येत्यादि यच्छ्रुतिः । (वा रे च) (श्रोतव्यो मन्तव्य इति) सा सेव्या तत्प्रयत्नेन मुक्तिदा हेतुदायिनी ॥ १.३२॥ दुरितेषु च पुण्येषु यो धीर्वृत्तिं प्रचोदयात् । सोऽहं प्रवर्तते मत्तो जगत्सर्वं चराचरम् ॥ १.३३॥ सर्वं च दृश्यते मत्तः सर्वं च मयि लीयते । न तद्भिन्नोऽहमस्मीह मद्भिन्नो न तु किञ्चन ॥ १.३४॥ जलपूर्णेष्वसङ्ख्येषु शरावेषु यथा भवेत् । एकस्य भात्यसङ्ख्यत्वं तद्वेदोऽत्र न दृश्यते ॥ १.३५॥ उपाधिषु शरावेषु या सङ्ख्या वर्तते परा । सा सङ्ख्या भवति यथा रवौ चात्मनि तत्तथा ॥ १.३६॥ यथैकः कल्पकः स्वप्ने नानाविधितयेष्यते । जागरेऽपि तथाप्येकस्तथैव बहुधा जगत् ॥ १.३७॥ सर्पबुद्धिर्यथा रज्जौ शुक्तौ वा रजतभ्रमः । तद्वदेवमिदं विश्वं विवृतं परमात्मनि ॥ १.३८॥ रज्जुज्ञानाद्यथा सर्पो मिथ्यारूपो निवर्तते । आत्मज्ञानात्तथा याति मिथ्याभूतमिदं जगत् ॥ १.३९॥ रौप्यभ्रान्तिरियं याति शुक्तिज्ञानाद्यथा खलु । जगद्भ्रान्तिरियं याति चात्मज्ञानात्सदा तथा ॥ १.४०॥ (चात्मज्ञानाद्यथा) यथा वंशो रगभ्रान्तिर्भवेद्भेकवसाञ्जनात् । (यथा रज्जूगभ्रान्तिर्भवेद्भेदवशाज्जगत्) तथा जगदिदं भ्रान्तिरध्यासकल्पनाज्जगत् । (भ्रान्तिरभ्यासकल्पनाञ्जनात्) आत्मज्ञानाद्यथा नास्ति रज्जुज्ञानाद्भुजङ्गमः ॥ १.४१॥ यथा दोषवशाच्छुक्लः पीतो भवति नान्यथा । अज्ञानदोषादात्मापि जगद्भवति दुस्त्यजम् ॥ १.४२॥ दोषनाशे यथा शुक्लो गृह्यते रोगिणा स्वयम् । शुक्लज्ञानात्तथाज्ञाननाशादात्मा तथा कृतः ॥ १.४३॥ कालत्रयेऽपि न यथा रज्जुः सर्पो भवेदिति । तथात्मा न भवेद्विश्वं गुणातीतो निरञ्जनः ॥ १.४४॥ आगमाऽपायिनोऽनित्यानाश्यत्वेनेश्वरादयः । आत्मबोधेन केनापि शास्त्रादेतद्विनिश्चितम् ॥ १.४५॥ यथा वातवशात्सिन्धावुत्पन्नाः फेनबुद्बुदाः । तथात्मनि समुद्भूतं संसारं क्षणभङ्गुरम् ॥ १.४६॥ अभेदो भासते नित्यं वस्तुभेदो न भासते । द्विधात्रिधादिभेदोऽयं भ्रमत्वे पर्यवस्यति ॥ १.४७॥ यद्भूतं यच्च भाव्यं वै मूर्तामूर्तं तथैव च । सर्वमेव जगदिदं विवृतं परमात्मनि ॥ १.४८॥ कल्पकैः कल्पिता विद्या मिथ्या जाता मृषात्मिका । एतान्मूलं जगदिदं कथं सत्यं भविष्यति ॥ १.४९॥ (एतन्मूलं) चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् । तस्मात्सर्वं परित्यज्य चैतेन्यं तु समाश्रयेत् ॥ १.५०॥ (तं) घटस्याभ्यन्तरे बाह्ये यथाकाशं प्रवर्तते । तथात्माभ्यन्तरे बाह्ये ब्रह्माण्डस्य प्रवर्तते ॥ १.५१॥ (तथात्माभ्यन्तरे बाह्ये कार्यवर्गेषु नित्यशः) सततं सर्वभूतेषु यथाकाशं प्रवर्तते । तथात्माभ्यन्तरे बाह्ये ब्रह्माण्डस्य प्रवर्तते ॥ १.५२॥ वर्तते सर्वभूतेषु यथाकाशं समन्ततः । तथात्माभ्यन्तरे बाह्ये कार्यवर्गेषु नित्यशः ॥ १.५३॥ असंलग्नं यथाकाशं मिथ्याभूतेषु पञ्चसु । असंलग्नस्तथात्मा तु कार्यवर्गेषु नान्यथा ॥ १.५४॥ ईश्वरादिजगत्सर्वमात्मव्याप्तं समन्ततः । (व्याप्यं) एकोऽस्ति सच्चिदानन्दः पूर्णो द्वैतविवर्जितः ॥ १.५५॥ यस्मात्प्रकाशको नास्ति स्वप्रकाशो भवेत्ततः । स्वप्रकाशो यतस्तस्मादात्मा ज्योतिः स्वरूपकः ॥ १.५६॥ अवच्छिन्नो यतो नास्ति दशकालस्वरूपतः । (अवछिन्नो) आत्मनः सर्वथा तस्मादात्मा पूर्णो भवेत्खलु ॥ १.५७॥ यस्मान्न विद्यते नाशः पञ्चभूतैर्वृथात्मकैः । तस्मादात्मा भवेन्नित्यस्तन्नाशो न भवेत्खलु ॥ १.५८॥ यस्मात्तदन्यो नास्तीह तस्मादेकोऽस्ति सर्वदा । यस्मात्तदन्यो मिथ्या स्यादात्मा सत्यो भवेत्खलु ॥ १.५९॥ अविद्याभुतसंसारे दुःखनाशे सुखं यतः । ज्ञानादाद्यन्तशून्यं स्यात्तस्मादात्मा भवेत्सुखम् ॥ १.६०॥ यस्मान्नाशितमज्ञानं ज्ञानेन विश्वकारणम् । तस्मादात्मा भवेज्ज्ञानं ज्ञानं तस्मात्सनातनम् ॥ १.६१॥ कालतो विविधं विश्वं यदा चैव भवेदिदम् । तदेकोऽस्ति स एवात्मा कल्पनापथवर्जितः ॥ १.६२॥ बाह्यानि सर्वभूतानि विनाशं यान्ति कालतः । यतो वाचो निवर्तन्ते आत्मा द्वैतविवर्जितः ॥ १.६३॥ न खं वायुर्न चाग्निश्च न जलं पृथिवी न च । नैतत्कार्यं नेश्वरादि पूर्णैकात्मा भवेत्खलु ॥ १.६४॥ (र्नैतत्कायै / नैर्तत्कायै) (पूर्णेकात्मा) आत्मानमात्मनो योगी पश्यत्यात्मनि निश्चितम् । सर्वसङ्कल्पसंन्यासी त्यक्तमिथ्याभवग्रहः ॥ १.६५॥ आत्मानात्मनि चात्मानं दृष्ट्वानन्तं सुखात्म्कम् । विस्मृत्य विश्वं रमते समाधेस्तीव्रतस्तथा ॥ १.६६॥ मायैव विश्वजननी नान्या तत्त्वधियापरा । यदा नाश समायाति विश्वं नास्ति तदा खलु ॥ १.६७॥ हेयं सर्वमिदं यस्य मायाविलसितं यतः । ततो न प्रीतिविषयस्तनुवित्तसुखात्मकः ॥ १.६८॥ अरिर्मित्रमुदासीनस्त्रिविधं स्यादिदं जगत् । व्यवहारेषु नियतं दृश्यते नान्यथा पुनः ॥ १.६९॥ प्रियाप्रियादिभेदस्तु वस्तुषु नियतस्फुटम् । आत्मोपाधिवशादेवं भवेत्पुत्रादि नान्यथा ॥ १.७०॥ मायाविलसितं विश्वं ज्ञात्वैवं श्रुतियुक्तितः । अध्यारोपापवादाभ्यां लयं कुर्वन्ति योगिनः ॥ १.७१॥ कर्मजन्यं विश्वमिदं नत्वकर्मणि वेदना । निखिलोपाधिहीनो वै यदा भवति पूरुषः । तदा विजयतेऽखण्डज्ञानरूपी निरञ्जनः ॥ १.७२॥ (विवक्षतेऽखण्डज्ञानरूपी) स हि कामयते पुरुषः सृजते च प्रजाः स्वयम् । (सो कामयतः) अविद्या भासते यस्मात्तस्मान्मिथ्या स्वभावतः ॥ १.७३॥ शुद्धे ब्रह्मणि सम्बद्धो विद्यया सहजो भवेत् । (शुद्धे ब्रह्मत्व सम्बद्धो विद्यया सहितो भवेत् ।) ब्रह्मतेजोंऽशतो याति तत आभासते नभः ॥ १.७४॥ (ब्रह्मतेनसती याति यत आभासते नभः) तस्मात्प्रकाशते वायुर्वायोरग्निस्ततो जलम् । प्रकाशते ततः पृथ्वीकल्पनेयं स्थिता सति ॥ १.७५॥ आकाशाद्वायुराकाशः पवनादग्निसम्भवः । खेवाताग्नेर्जलं व्योमवाताग्नेर्वारितो मही ॥ १.७६॥ (खवाताग्नेर्जलं व्योमवाताग्निवारितो मही) खं शब्दलक्षणं वायुश्चञ्चलः स्पर्शलक्षणः । स्याद्रूपलक्षणं तेजः सलिलं रसलक्षणम् ॥ १.७७॥ गन्धलक्षणिका पृथ्वी नान्यथा भवति ध्रुवम् । विषेशगुणाः स्फुरति यतः शास्त्रादिनिर्णयः ॥ १.७८॥ शब्दैकगुण्माकाशं द्विगुणो वायुरुच्यते । (स्यादेकगुणमाकाशं) तथैव त्रिगुणं तेजो भवन्त्यापश्चतुर्गुणाः ॥ १.७९॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । एतत्पञ्चगुणा पृथ्वी कल्पकैः कल्प्यतेऽधुना ॥ १.८०॥ चक्षुषा गृह्यते रूपं गन्धो घ्राणेन गृह्यते । रसो रसनया स्पर्शस्त्वचा सङ्गृह्यते परम् । श्रोत्रेण गृह्यते शब्दो नियतं भाति नान्यथा ॥ १.८१॥ चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् । अस्ति चेत्कल्पनेयं स्यान्नास्ति चेदस्ति चिन्मयम् ॥ १.८२॥ पृथ्वी शीर्णा जलं मग्ना जलं मग्नं च तेजसि । लीनं वायौ तथा तेजो व्योम्नि वातो लयं ययौ । अविद्यायां महाकाशो लीयते परमे पदे ॥ १.८३॥ विक्षेपावरणाशक्तिर्दुरन्ता दुःखरूपिणी । जडरूपा महामाया रजःसत्त्वतमोगुणा ॥ १.८४॥ सा मायावरणाशक्त्यावृताविज्ञानरूपिणी । दर्शयेज्जगदाकारं तं विक्षेपस्वभावतः ॥ १.८५॥ तमोगुणात्मिका विद्या या सा दुर्गा भवेत्स्वयम् । (तमो गुणाधिका) (दूर्गा) ईश्वरं तदुपहितं चैतन्यं तदभूद्ध्रुवम् ॥ १.८६॥ सत्त्वाधिका च या विद्या लक्ष्मीः स्याद्दिव्यरूपिणी । चैतन्यं तदुपहितं विष्णुर्भवति नान्यथा ॥ १.८७॥ रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती । कश्चित्स्वरूपो भवति ब्रह्मा तदुपधारकः ॥ १.८८॥ (यश्चित्स्वरूपो) ईशाद्याः सकला देवा दृश्यन्ते परमात्मनि । शरीरादिजडं सर्वं सा विद्या तत्तथा तथा ॥ १.८९॥ एवंरूपेण कल्पन्ते कल्पका विश्वसम्भवम् । तत्त्वातत्त्वं भवन्तीह कल्पनान्येन नोदिता ॥ १.९०॥ (चोदिता) प्रमेयत्वादिरूपेण सर्वं वस्तु प्रकाश्यते । तथैव वस्तुनास्त्येव भासको वर्तकः परः ॥ १.९१॥ स्वरूपत्वेन रूपेण स्वरूपं वस्तु भाष्यते । विशेषशब्दोपादाने भेदो भवति नान्यथा ॥ १.९२॥ एकः सत्तापूरितानन्दरूपः पूर्णो व्यापी वर्तते नास्ति किञ्चित् । एतज्ज्ञानं यः करोत्येव नित्यं मुक्तः स स्यान्मृत्युसंसारदुःखात् ॥ १.९३॥ यस्यारोपापवादाभ्यां यत्र सर्वे लयं गताः । स एको वर्तते नान्यत्तच्चित्तेनावधार्यते ॥ १.९४॥ पितुरन्नमयात्कोषाज्जायते पूर्वकर्मणः । तच्छरीरंविर्दुदुःखं स्वप्राग्भोगाय सुन्दरम् ॥ १.९५॥ (शरीरं वै जडं दुःखं) मांसास्थिस्नायुमज्जादिनिर्मितं भोगमन्दिरम् । केवलं दुःखभोगाय नाडी सन्ततिगुम्फितम् ॥ १.९६॥ पारमैष्ठ्यमिदं गात्रं पञ्चभूतविनिर्मितम् । ब्रह्माण्डसंज्ञकं दुःखसुखभोगाय कल्पितम् ॥ १.९७॥ बिन्दुः शिवो रजः शक्तिरुभयोर्मिलनात्स्वयम् । स्वप्नभूतानि जायन्ते स्वशक्त्या जडरूपया ॥ १.९८॥ तत्पञ्चीकरणात्स्थूलान्यसङ्ख्यानि चराचरम् । (समासतः) ब्रह्माण्डस्थानि वस्तूनि यत्र जीवोऽस्ति कर्मभिः ॥ १.९९॥ तद्भूतपञ्चकात्सर्वं भोगाय जीवसंज्ञिता । पूर्वकर्मानुरोधेन करोमि घटनामहम् ॥ १.१००॥ अजडः सर्वभूतान्वै जडस्थित्या भुनक्तितान् । (सर्वभूतस्था) जडात्स्वकर्मभिर्बद्धो जीवाख्यो विविधो भवेत् ॥ १.१०१॥ भोगायोत्पद्यते कर्म ब्रह्माण्डाख्ये पुनः पुनः । जीवश्च लीयते भोगावसाने च स्वकर्मणः ॥ १.१०२॥ इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे लयप्रकरणे प्रथमः पटलः समाप्तः । १।

द्वितीयपटलः

अथ तत्त्वज्ञानोपदेश । देहेऽस्मिन्वर्तते मेरुः सप्तद्वीपसमन्वितः । सरितः सागराः शैलाः क्षेत्राणि क्षेत्रपालकाः ॥ २.१॥ ऋषयो मुनयः सर्वे नक्षत्राणि ग्रहास्तथा । पुण्यतीर्थानि पीठानि वर्तन्ते पीठदेवताः ॥ २.२॥ सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ । नभो वायुश्च वह्निश्च जलं पृथ्वी तथैव च ॥ २.३॥ त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः । मेरुं संवेष्ट्य सर्वत्र व्यवहारः प्रवर्तते । जानाति यः सर्वमिदं स योगी नात्र संशयः ॥ २.४॥ ब्रह्माण्डसंज्ञके देहे यथादेशं व्यवस्थितः । मेरुश‍ृङ्गे सुधारश्मिर्बहिरष्टकलायुतः ॥ २.५॥ वर्ततेऽहर्निशं सोऽपि सुधां वर्षत्यधोमुखः । ततोऽमृतं द्विधाभूतं याति सूक्ष्मं यथा च वै ॥ २.६॥ इडामार्गेण पुष्ट्यर्थं याति मन्दाकिनीजलम् । पुष्णाति सकलन्देहमिडामार्गेण निश्चितम् ॥ २.७॥ एष पीयूषरश्मिर्हि वामपार्श्वे व्यवस्थितः ॥ २.८॥ अपरः शुद्धदुग्धाभो हठात्कर्षति मण्डलात् । रन्ध्रमार्गेण सृष्ट्यर्थं मेरौ संयाति चन्द्रमाः ॥ २.९॥ (मध्यमार्गेण) मेरुमूले स्थितः सूर्यः कलाद्वादशसंयुतः । दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्वं प्रजापतिः ॥ २.१०॥ पीयूषरश्मिनिर्यासं धातूंश्च ग्रसति ध्रुवम् । समीरमण्डले सूर्यो भ्रमते सर्वविग्रहे ॥ २.११॥ एषा सूर्यपरामूर्तिर्निर्वाणं दक्षिणे पथि । वहते लग्नयोगेन सृष्टिसंहारकारकः ॥ २.१२॥ सार्धलक्षत्रयं नाड्यः सन्ति देहान्तरे नृणाम् । प्रधानभूता नाड्यस्तु तासु मुख्याश्चतुर्दशः ॥ २.१३॥ सुषुम्णेडा पिङ्गला च गान्धारी हस्तिजिह्विका । कुहूः सरस्वती पूषा शङ्खिनी च पयस्वनी ॥ २.१४॥ वारुण्यलम्बुसा चैव विश्वोदरी यशस्विनी । एतासु तिस्रो मुख्याः स्युः पिङ्गलेडा सुषुम्णिका ॥ २.१५॥ तिस्रष्वेका सुषुम्णैव मुख्या सा योगिवल्लभा । (तिसृष्वेका) अन्यास्तदाश्रयं कृत्वा नाड्यः सन्ति हि देहिनाम् ॥ २.१६॥ नाड्यस्तु ता अधोवक्त्राः पद्मतन्तुनिभाः स्थिताः । (अधोवदनाः) पृष्ठवंशं समाश्रित्य सोमसूर्याग्निरूपिणी ॥ २.१७॥ तासां मध्ये गता नाडी चित्रा सा मम वल्लभा । ब्रह्मरन्ध्रं च तत्रैव सूक्ष्मात्सूक्ष्मतरं शुभम् ॥ २.१८॥ पञ्चवर्णोज्ज्वला शुद्धा सुषुम्णा मध्यचारिणी । (मध्यरूपिणी) देहस्योपाधिरूपा सा सुषुम्णा मध्यरूपिणी ॥ २.१९॥ (देहस्थोपाधिरूपा) दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम् । ध्यानमात्रेण योगीन्द्रो दुरितौघं विनाशयेत् ॥ २.२०॥ गुदात्तुद्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः । चतुरङ्गगुलविस्तारमाधारं वर्तते समम् ॥ २.२१॥ तस्मिन्नाधारपद्मे च कर्णिकायां सुशोभना । त्रिकोणा वर्तते योनिः सर्वतन्त्रेषु गोपिता ॥ २.२२॥ तत्र विद्युल्लताकारा कुण्डली परदेवता । सार्द्धत्रिकरा कुटिला सुषुम्णामार्गसंस्थिता ॥ २.२३॥ जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता । वाचामवाच्या वाग्देवी सदा देवैर्नमस्कृता ॥ २.२४॥ (देवैनमस्कृता) इडानाम्नी तु या नाडी वाममार्गे व्यवस्थिता । सुषुम्णायां समाश्लिष्य दक्षनासापुटे गता ॥ २.२५॥ पिङ्गला नाम या नाडी दक्षमार्गे व्यवस्थिता । मध्यनाडीं समाश्लिष्य वामनासापुटे गता ॥ २.२६॥ (सुष्मणा सा) इडापिङ्गलयोर्मध्ये सुषुम्णा या भवेत्खलु । षट्स्थानेषु च षट्शक्तिं षट्पद्मं योगिनो विदुः ॥ २.२७॥ पञ्चस्थानं सुषुम्णाया नामानि स्युर्बहूनि च । प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त्रतः ॥ २.२८॥ अन्या याऽस्त्यपरा नाडी मूलाधारात्समुत्थिता । रसनामेढ्रनयनं पादाङ्गुष्ठे च श्रोत्रकम् ॥ २.२९॥ कुक्षिकक्षाङ्गुष्ठकर्णं सर्वाङ्गं पायुकुक्षिकम् । लब्ध्वा तां वै निवर्तन्ते यथादेशसमुद्भवाः ॥ २.३०॥ (लब्धान्ता) एताभ्य एव नाडीभ्यः शाखोपशाखतः क्रमात् । सार्धं लक्षत्रयं जातं यथाभागं व्यवस्थितम् ॥ २.३१॥ (सार्धलक्षत्रयं) एता भोगवहा नाड्यो वायुसञ्चारदक्षकाः । ओतप्रोताभिसंव्याप्य तिष्ठन्त्यस्मिन्कलेवरे ॥ २.३२॥ (ओतप्रोत्राः सुसंव्याप्य) सूर्यमण्डलमध्यस्थः कलाद्वादशसंयुतः । वस्तिदेशे ज्वलद्वह्निर्वर्तते चान्नपाचकः ॥ २.३३॥ (बस्तिदेशे) एष वैश्वानरोग्निर्वै मम तेजोंशसम्भवः । (वैश्वानराग्निरेषो वै) करोति विविधं पाकं प्राणिनां देहमास्थितः ॥ २.३४॥ आयुः प्रदायको वह्निर्बलं पुष्टिं ददाति सः । शरीरपाटवञ्चापि ध्वस्तरोगसमुद्भवः ॥ २.३५॥ (शरीर पाटवं चारि) तस्माद्वैश्वानराग्निञ्च प्रज्वाल्य विधिवत्सुधीः । तस्मिन्नन्नं हुनेद्योगी प्रत्यहं गुरुशिक्षया ॥ २.३६॥ ब्रह्माण्डसंज्ञके देहे स्थानानि स्युर्बहूनि च । मयोक्तानि प्रधानानि ज्ञातव्यानीह शास्त्रके ॥ २.३७॥ नानाप्रकारनामानि स्थानानि विविधानि च । वर्तन्ते विग्रहे तानि कथितुं नैव शक्यते ॥ २.३८॥ इत्थं प्रकल्पिते देहे जीवो वसति सर्वगः । अनादिवासनामालाऽलङ्कृतः कर्मश‍ृङ्खलः ॥ २.३९॥ नानाविधगुणोपेतः सर्वव्यापारकारकः । पूर्वार्जितानि कर्माणि भुनक्ति विविधानि च ॥ २.४०॥ यद्यत्सन्दृश्यते लोके सर्वं तत्कर्मसम्भवम् । सर्वा कर्मानुसारेण जन्तुर्भोगान्भुनक्ति वै ॥ २.४१॥ (सर्वः) ये ये कामादयो दोषाः सुखदुःखप्रदायकाः । ते ते सर्वे प्रवर्तन्ते जीवकर्मानुसारतः ॥ २.४२॥ पुण्योपरक्तचैतन्ये प्राणान्प्रीणाति केवलम् । बाह्ये पुण्यमयं प्राप्य भोज्यवस्तु स्वयम्भवेत् ॥ २.४३॥ ततः कर्मबलात्पुंसः सुखं वा दुःखमेव च । पापोपरक्तचैतन्यं नैव तिष्ठति निश्चितम् ॥ २.४४॥ न तद्भिन्नो भवेत्सोऽपि तद्भिन्नो न तु किञ्चन । मायोपहितचैतन्यात्सर्वं वस्तु प्रजायते ॥ २.४५॥ यथाकालेऽपि भोगाय जन्तूनां विविधोद्भवः । (यथाकालेपि) यथा दोषवशाच्छुक्तौ रजतारोपणं भवेत् । तथा स्वकर्मदोषाद्वै ब्रह्मण्यारोप्यते जगत् ॥ २.४६॥ स वासनाभ्रमोत्पन्नोन्मूलनातिसमर्थनम् । उत्पन्नञ्चेदीदृशं स्याज्ज्ञानं मोक्षप्रसाधनम् ॥ २.४७॥ साक्षाद्वैशेषदृष्टिस्तु साक्षात्कारिणि विभ्रमे । कारणं नान्यथा युक्त्या सत्यं सत्यं मयोदितम् ॥ २.४८॥ साक्षात्कारिभ्रमे साक्षात्साक्षात्कारिणि नाशयेत् । स हि नास्तीति संसारे भ्रमो नैव निवर्तते ॥ २.४९॥ (सो) मिथ्याज्ञाननिवृत्तिस्तु विशेषदर्शनाद्भवेत् । अन्यथा न निवृत्तिः स्याद्दृश्यते रजतभ्रमः ॥ २.५०॥ (स्यादृश्ये) यावन्नोत्पद्यते ज्ञानं साक्षात्कारे निरञ्जने । तावत्सर्वाणि भूतानि दृश्यन्ते विविधानि च ॥ २.५१॥ यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत् । तदा शरीरवहनं सफलं स्यान्न चान्यथा ॥ २.५२॥ यादृशी वासना मूला वर्तते जीवसङ्गिनी । (वर्त्तते) तादृशं वहते जन्तुः कृत्याकृत्यविधौ भ्रमम् ॥ २.५३॥ संसारसागरं तर्तुं यदीच्छेद्योगसाधकः । कृत्वा वर्णाश्रमं कर्म फलवर्जं तदाचरेत् ॥ २.५४॥ विषयासक्तपुरुषा विषयेषु सुखेप्सवः । वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि ॥ २.५५॥ आत्मानमात्मना पश्यन्न किञ्चिदिह पश्यति । तदा कर्मपरित्यागे न दोषोऽस्ति मतं मम ॥ २.५६॥ कामादयो विलीयन्ते ज्ञानादेव न चान्यथा । अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रकाशते ॥ २.५७॥ इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे योगप्रकथने तत्त्वज्ञानोपदेशो नाम द्वितीयः पटलः समाप्तः । २।

तृतीयपटलः

अथ योगानुष्ठानपद्धतिर्योगाभ्यासवर्णनम् । हृद्यस्ति पङ्कजं दिव्यं दिव्यलिङ्गेन भूषितम् । (हृदयस्ति) कादिठान्ताक्षरोपेतं द्वादशार्णविभूषितम् ॥ ३.१॥ प्राणो वसति तत्रैव वासनाभिरलङ्कृतः । अनादिकर्मसंश्लिष्टः प्राप्याहङ्कारसंयुतः ॥ ३.२॥ प्राणस्य वृत्तिभेदेन नामानि विविधानि च । वर्तन्ते तानि सर्वाणि कथितुं नैव शक्यते ॥ ३.३॥ प्राणोऽपानः समानश्चोदानो व्यानश्च पञ्चमः । नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ॥ ३.४॥ (कृकरो) दश नामानि मुख्यानि मयोक्तानीह शास्त्रके । कुर्वन्ति तेऽत्र कार्याणि प्रेरितानि स्वकर्मभिः ॥ ३.५॥ अत्रापि वायवः पञ्च मुख्याः स्युर्दशतः पुनः । (स्युर्दर्शिताः) तत्रापि श्रेष्ठकर्तारौ प्राणापानौ मयोदितौ ॥ ३.६॥ (श्रेष्ठकर्त्तारौ) हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥ ३.७॥ नागादिवायवः पञ्च ते कुर्वन्ति च विग्रहे । उद्गारोन्मीलनं क्षुतृड्जृम्भा हिक्का च पञ्चमः ॥ ३.८॥ अनेन विधिना यो वै ब्रह्माण्डं वेत्ति विग्रहम् । सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ३.९॥ अधुना कथयिष्यामि क्षिप्रं योगस्य सिद्धये । यज्ज्ञात्वा नावसीदन्ति योगिनो योगसाधने ॥ ३.१०॥ भवेद्वीर्यवती विद्या गुरुवक्त्रसमुद्भवा । अन्यथा फलहीना स्यान्निर्वीर्याप्यतिदुःखदा ॥ ३.११॥ गुरुं सन्तोष्य यत्नेन ये वै विद्यामुपासते । अवलम्बेन विद्यायास्तस्याः फलमवाप्नुयात् ॥ ३.१२॥ (फलमवाप्नुयुः) गुरुः पिता गुरुर्माता गुरुर्देवो न संशयः । कर्मणा मनसा वाचा तस्मात्सर्वैः प्रसेव्यते ॥ ३.१३॥ गुरुप्रसादतः सर्वं लभ्यते शुभमात्मनः । तस्मात्सेव्यो गुरुर्नित्यमन्यथा न शुभं भवेत् ॥ ३.१४॥ प्रदक्षिणात्रयं कृत्वा स्पृष्ट्वा सव्येन पाणिना । अष्टाङ्गेन नमस्कुर्याद्गुरुपादसरोरुहम् ॥ ३.१५॥ श्रद्धयात्मवतां पुंसां सिद्धिर्भवति निश्चिता । (नान्यथा) अन्येषाञ्च न सिद्धिः स्यात्तस्माद्यत्नेन साधयेत् ॥ ३.१६॥ न भवेत्सङ्गयुक्तानां तथाऽविश्वासिनामपि । गुरुपूजाविहीनानां तथा च बहुसङ्गिनाम् ॥ ३.१७॥ मिथ्यावादरतानां च तथा निष्ठुरभाषिणाम् । गुरुसन्तोषहीनानां न सिद्धिः स्यात्कदाचन ॥ ३.१८॥ फलिष्यतीति विश्वासः सिद्धेः प्रथमलक्षणम् । द्वितीयं श्रद्धया युक्तं तृतीयं गुरुपूजनम् ॥ ३.१९॥ चतुर्थं समताभावं पञ्चमेन्द्रियनिग्रहम् । षष्ठं च प्रमिताहारं सप्तमं नैव विद्यते ॥ ३.२०॥ योगोपदेशं सम्प्राप्य लब्ध्वा योगविदं गुरुम् । गुरूपदिष्टविधिना धिया निश्चित्य साधयेत् ॥ ३.२१॥ सुशोभने मठे योगी पद्मासनसमन्वितः । आसनोपरि संविश्य पवनाभ्यासमाचरेत् ॥ ३.२२॥ समकायः प्राञ्जलिश्च प्रणम्य च गुरून् सुधीः । दक्षे वामे च विघ्नेशं क्षेत्रपालाम्बिकां पुनः ॥ ३.२३॥ ततश्च दक्षाङ्गुष्ठेन निरुद्ध्य पिङ्गलां सुधीः । इडया पूरयेद्वायुं यथाशक्त्या तु कुम्भयेत् ॥ ३.२४॥ ततस्त्यक्त्वा पिङ्गलयाशनैरेव न वेगतः । पुनः पिङ्गलयापूर्य यथाशक्त्या तु कुम्भयेत् ॥ ३.२५॥ (यथाशक्ति) इडया रेचयेद्वायुं न वेगेन शनैः शनैः । इदं योगविधानेन कुर्याद्विंशतिकुम्भकान् । सर्वद्वन्द्वविनिर्मुक्तः प्रत्यहं विगतालसः ॥ ३.२६॥ प्रातःकाले च मध्याह्ने सूर्यास्ते चार्द्धरात्रके । कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकान् ॥ ३.२७॥ इत्थं मासत्रयं कुर्यादनालस्यो दिने दिने । (मासद्वयं) ततो नाडीविशुद्धिः स्यादविलम्बेन निश्चितम् ॥ ३.२८॥ यदा तु नाडीशुद्धिः स्याद्योगिनस्तत्त्वदर्शिनः । तदा विध्वस्तदोषश्च भवेदारम्भसम्भवः ॥ ३.२९॥ चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धितः । कथ्यन्ते तु समस्तान्यङ्गानि सङ्क्षेपतो मया ॥ ३.३०॥ समकायः सुगन्धिश्च सुकान्तिः स्वरसाधकः ॥ ३.३१॥ आरम्भघटकश्चैव यथा परिचयस्तदा । निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ताः ॥ ३.३२॥ आरम्भः कथितोऽस्माभिरधुना वायुसिद्धये । अपरः कथ्यते पश्चात् सर्वदुःखौघनाशनः ॥ ३.३३॥ प्रौढवह्निः सुभोगी च सुखीसर्वाङ्गसुन्दरः । सम्पूर्णहृदयो योगी सर्वोत्साहबलान्वितः । जायते योगिनोऽवश्यमेतत्सर्वं कलेवरे ॥ ३.३४॥ (योगिनोऽवश्यमेते सर्वकलेवरे) अथ वर्ज्यं प्रवक्ष्यामि योगविघ्नकरं परम् । येन संसारदुःखाब्धिं तीर्त्वा यास्यन्ति योगिन ॥ ३.३५॥ आम्लं रूक्षं तथा तीक्ष्णं लवणं सार्षपं कटुम् । (कक्षं) बहुलं भ्रमणं प्रातः स्नानं तैलविदाहकम् ॥ ३.३६॥ स्तेयं हिंसां जनद्वेषञ्चाहङ्कारमनार्जवम् । उपवासमसत्यञ्च मोहञ्च प्राणिपीडनम् ॥ ३.३७॥ (मोक्षञ्च) स्त्रीसङ्गमग्निसेवां च बह्वालापं प्रियाप्रियम् । अतीव भोजनं योगी त्यजेदेतानि निश्चितम् ॥ ३.३८॥ उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये । गोपनीयं साधकानां येन सिद्धिर्भवेत्खलु ॥ ३.३९॥ घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम् । कर्पूरं निष्ठुरं मिष्टं सुमठं सूक्ष्मरन्ध्रकम् ॥ ३.४०॥ (निस्तुषं) (सूक्ष्मवस्त्रकम्) सिद्धान्तश्रवणं नित्यं वैराग्यगृहसेवनम् । नामसङ्कीर्तनं विष्णोः सुनादश्रवणं परम् ॥ ३.४१॥ (सुसादश्रवणे) धृतिः क्षमा तपः शौचं ह्रीर्मतिर्गुरुसेवनम् । सदैतानि परं योगी नियमानि समाचरेत् ॥ ३.४२॥ (सदैतांश्च) (नियमांश्च) अनिलेऽर्कप्रवेशे च भोक्तव्यं योगिभिः सदा । वायौ प्रविष्टे शशिनि शयनं साधकोत्तमैः ॥ ३.४३॥ सद्यो भुक्तेऽपि क्षुधिते नाभ्यासः क्रियते बुधैः । अभ्यासकाले प्रथमं कुर्यात्क्षीराज्यभोजनम् ॥ ३.४४॥ ततोऽभ्यासे स्थिरीभूते न तादृङ्नियमग्रहः । अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा ॥ ३.४५॥ पूर्वोक्तकाले कुर्यात्तु कुम्भकान्प्रतिवासरे । ततो यथेष्टा शक्तिः स्याद्योगिनो वायुधारणे ॥ ३.४६॥ यथेष्टं धारणाद्वायोः कुम्भकः सिध्यति ध्रुवम् । केवले कुम्भके सिद्धे किं न स्यादिह योगिनः ॥ ३.४७॥ स्वेदः सञ्जायते देहे योगिनः प्रथमोद्यमे ॥ ३.४८॥ यदा सञ्जायते स्वेदो मर्दनं कारयेत्सुधीः । अन्यथा विग्रहे धातुर्नष्टो भवति योगिनः ॥ ३.४९॥ द्वितीये हि भवेत्कम्पो दार्दुरी मध्यमे मतः । (मता) ततोऽधिकतराभ्यासाद्गगनेचरसाधकः ॥ ३.५०॥ योगी पद्मासनस्थोऽपि भुवमुत्सृज्य वर्तते । वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी ॥ ३.५१॥ तावत्कालं प्रकुर्वीत योगोक्तनियमग्रहम् । अल्पनिद्रा पुरीषं च स्तोकं मूत्रं च जायते ॥ ३.५२॥ अरोगित्वमदीनत्वं योगिनस्तत्त्वदर्शिनः । स्वेदो लाला कृमिश्चैव सर्वथैव न जायते ॥ ३.५३॥ कफपित्तानिलाश्चैव साधकस्य कलेवरे । तस्मिन्काले साधकस्य भोज्येष्वनियमग्रहः ॥ ३.५४॥ अत्यल्पं बहुधा भुक्त्वा योगी न व्यथते हि सः । अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नुयात् । यथा दर्दुरजन्तूनां गतिः स्यात्पाणिताडनात् ॥ ३.५५॥ सन्त्यत्र बहवो विघ्ना दारुणा दुर्निवारणाः । तथापि साधयेद्योगी प्राणैः कण्ठगतैरपि ॥ ३.५६॥ ततो रहस्युपाविष्टः साधकः संयतेन्द्रियः । प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे ॥ ३.५७॥ पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम् । नाशयेत्साधको धीमानिहलोकोद्भवानि च ॥ ३.५८॥ पूर्वाजितानि पापानि पुण्यानि विविधानि च । नाशयेत्षोडशप्राणायामेन योगि पुङ्गवः ॥ ३.५९॥ पापतूलचयानाहो प्रलयेत्प्रलयाग्निना । (प्रदहेत्प्रलयाग्निना) ततः पापविनिर्मुक्तः पश्चात्पुण्यानि नाशयेत् ॥ ३.६०॥ प्राणायामेन योगीन्द्रो लब्ध्वैश्वर्याष्टकानि वै । पापपुण्योदधिं तीर्त्वा त्रैलोक्यचरतामियात् ॥ ३.६१॥ ततोऽभ्यासक्रमेणैव घटिकात्रितयं भवेत् । येन स्यात्सकलासिद्धिर्योगिनः स्वेप्सिता ध्रुवम् ॥ ३.६२॥ वाक्सिधिः कामचारित्वं दूरदृष्टिस्तथैव च । दूरश्रुतिः सूक्ष्मदृष्टिः परकायप्रवेशनम् ॥ ३.६३॥ विण्मूत्रलेपने स्वर्णमदृश्यकरणं तथा । भवन्त्येतानि सर्वाणि खेचरत्वं च योगिनाम् ॥ ३.६४॥ यदा भवेद्धटावस्था पवनाभ्यासने परा । तदा संसारचक्रेऽस्मिन्नास्ति यन्न साधयेत् ॥ ३.६५॥ (सधारयेत्) प्राणापाननादबिन्दु जीवात्मपरमात्मनः । (प्राणापाननादबिन्दू जीवात्मपरमात्मनोः) मिलित्वा घटते यस्मात्तस्माद्वै घट उच्यते ॥ ३.६६॥ याममात्रं यदा धर्तुं समर्थः स्यात्तदाद्भुतः । प्रत्याहारस्तदैव स्यान्नान्तरा भवति ध्रुवम् ॥ ३.६७॥ यं यं जानाति योगीन्द्रस्तं तमात्मेति भावयेत् । यैरिन्द्रियैर्यद्विधानस्तदिन्द्रियजयो भवेत् ॥ ३.६८॥ याममात्रं यदा पूर्णं भवेदभ्यासयोगतः । एकवारं प्रकुर्वीत तदा योगी च कुम्भकम् ॥ ३.६९॥ (प्रकुर्तीत) दण्डाष्टकं यदा वायुर्निश्चलो योगिनो भवेत् । स्वसामर्थ्यात्तदाङ्गुष्ठे तिष्ठेद्वातुलवत्सुधीः ॥ ३.७०॥ ततः परिचयावस्था योगिनोऽभ्यासतो भवेत् । यदा वायुश्चन्द्रसूर्यं त्यक्त्वा तिष्ठति निश्चलम् । वायुः परिचितो वायुः सुषुम्णा व्योम्नि सञ्चरेत् ॥ ३.७१॥ (सुषुम्ना) क्रियाशक्तिं गृहीत्वैव चक्रान्भित्त्वा सुनिश्चितम् ॥ ३.७२॥ यदा परिचयावस्था भवेदभ्यासयोगतः । त्रिकूटं कर्मणां योगी तदा पश्यति निश्चितम् ॥ ३.७३॥ ततश्च कर्मकूटानि प्रणवेन विनाशयेत् । स योगी कर्मभोगाय कायव्यूहं समाचरेत् ॥ ३.७४॥ अस्मिन्काले महायोगी पञ्चधा धारणं चरेत् । येन भूरादिसिद्धिः स्यात्ततो भूतभयापहा ॥ ३.७५॥ आधारे घटिकाः पञ्च लिङ्गस्थाने तथैव च । तदूर्ध्वं घटिकाः पञ्च नाभिहृन्मध्यके तथा ॥ ३.७६॥ भ्रूमध्योर्ध्वं तथा पञ्च घटिका धारयेत्सुधीः । तथा भूरादिना नष्टो योगीन्द्रो न भवेत्खलु ॥ ३.७७॥ मेधावी सर्वभूतानां धारणां यः समभ्यसेत् । शतब्रह्ममृतेनापि मृत्युस्तस्य न विद्यते ॥ ३.७८॥ ततोऽभ्यासक्रमेणैव निष्पत्तिर्योगिनो भवेत् । अनादिकर्मबीजानि येन तीर्त्वाऽमृतं पिबेत् ॥ ३.७९॥ यदा निष्पत्तिर्भवति समाधेः स्वेनकर्मणा । जीवन्मुक्तस्य शान्तस्य भवेद्धीरस्य योगिनः ॥ ३.८०॥ यदा निष्पत्तिसम्पन्नः समाधिः स्वेच्छया भवेत् ॥ ३.८१॥ गृहीत्वा चेतनां वायुः क्रियाशक्तिं च वेगवान् । सर्वान्चक्रान्विजित्वा च ज्ञानशक्तौ विलीयते ॥ ३.८२॥ (सर्वांश्चक्रान्विजित्वा) इदानीं क्लेशहान्यर्थं वक्तव्यं वायुसाधनम् । येन संसारचक्रेऽस्मिन् रोगहानिर्भवेद्ध्रुवम् ॥ ३.८३॥ (संसारचक्रेस्मिन्) रसनां तालुमूले यः स्थापयित्वा विचक्षणः । पिबेत्प्राणानिलं तस्य रोगाणां सङ्क्षयो भवेत् ॥ ३.८४॥ काकचञ्च्वा पिबेद्वायुं शीतलं यो विचक्षणः । प्राणापानविधानज्ञः स भवेन्मुक्तिभाजनः ॥ ३.८५॥ सरसं यः पिबेद्वायुं प्रत्यहं विधिना सुधीः । नश्यन्ति योगिनस्तस्य श्रमदाहजरामयाः ॥ ३.८६॥ रसनामूर्ध्वगां कृत्वा यश्चन्द्रे सलिलं पिबेत् । मासमात्रेण योगीन्द्रो मृत्युञ्जयति निश्चितम् ॥ ३.८७॥ राजदन्तबिलं गाढं सम्पीड्य विधिना पिबेत् । ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत् ॥ ३.८८॥ काकचञ्च्वा पिबेद्वायुं सन्ध्ययोरुभयोरपि । कुण्डलिन्या मुखे ध्यात्वा क्षयरोगस्य शान्तये ॥ ३.८९॥ अहर्निशं पिबेद्योगी काकचञ्च्वा विचक्षणः । पिबेत्प्राणानिलं तस्य रोगाणां सङ्क्षयो भवेत् । (रोगानां) दूरश्रुतिर्दूरदृष्टिस्तथा स्याद्दर्शनं खलु ॥ ३.९०॥ दन्तैर्दन्तान्समापीड्य पिबेद्वायुं शनैः शनैः । (दन्तेदन्तान्समापीड्य) ऊर्ध्वजिह्वः सुमेधावी मृत्युञ्जयति सोऽचिरात् ॥ ३.९१॥ (मृत्युं जयति सोचिरात्) षण्मासमात्रमभ्यासं यः करोति दिने दिने । सर्वपापविनिर्मुक्तो रोगान्नाशयते हि सः ॥ ३.९२॥ संवत्सरकृताभ्यासान्मृत्युञ्जयति जयति निश्चितम् । (संवत्सरकृताभ्यासाद्भैरवो भवति ध्रुवम् ।) तस्मादतिप्रयत्नेन साधयेद्योगसाधकः ॥ ३.९३॥ वर्षत्रयकृताभ्यासाद्भैरवो भवति ध्रुवम् । अणिमादिगुणान्लब्ध्वा जितभूतगणः स्वयम् ॥ ३.९४॥ रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति । (रसनामूर्ध्द्वगां) क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभिः ॥ ३.९५॥ रसनां प्राणसंयुक्तां पीड्यमानां विचिन्तयेत् । न तस्य जायते मृत्युः सत्यं सत्यं मयोदितम् ॥ ३.९६॥ एवमभ्यासयोगेन कामदेवो द्वितीयकः । न क्षुधा न तृषा निद्रा नैव मूर्च्छा प्रजायते ॥ ३.९७॥ अनेनैव विधानेन योगीन्द्रोऽवनिमण्डले । भवेत्स्वच्छन्दचारी च सर्वापत्परिवर्जितः ॥ ३.९८॥ न तस्य पुनरावृत्तिर्मोदते ससुरैरपि । पुण्यपापैर्न लिप्येत एतदाचरेणन सः ॥ ३.९९॥ (एतदाक्षरणेन) चतुरशीत्यासनानि सन्ति नानाविधानि च । तेभ्यश्चतुष्कमादाय मयोक्तानि ब्रवीम्यहम् । सिद्धासनं ततः पद्मासनञ्चोग्रं च स्वस्तिकम् ॥ ३.१००॥ सिद्धासनकथनम् । योनिं सम्पीड्य यत्नेन पादमूलेन साधकः । मेढ्रोपरि पादमूलं विन्यसेद्योगवित्सदा ॥ ३.१०१॥ ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चलः संयतेन्द्रियः । विशेषोऽवक्रकायश्च रहस्युद्वेगवर्जितः ॥ ३.१०२॥ एतत्सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् । येनाभ्यासवशाच्छीघ्रं योगनिष्पत्तिमाप्नुयात् ॥ ३.१०३॥ सिद्धासनं सदासेव्यं पवनाभ्यासिना परम् । येन संसारमुत्सृज्य लभते परमां गतिम् ॥ ३.१०४॥ नातः परतरं गुह्यमासनं विद्यते भुवि । येनानुध्यानमात्रेण योगी पापाद्विमुच्यते ॥ ३.१०५॥ पद्मासनकथनम् । उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा तु तादृशौ ॥ ३.१०६॥ नासाग्रे विन्यसेद्दृष्टिं दन्तमूलञ्च जिह्वया । उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः ॥ ३.१०७॥ यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः । यथा शक्त्यैव पश्चात्तु रेचयेदविरोधतः ॥ ३.१०८॥ इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते परम् ॥ ३.१०९॥ अनुष्ठाने कृते प्राणः समश्चलति तत्क्षणात् । भवेदभ्यासने सम्यक्साधकस्य न संशयः ॥ ३.११०॥ पद्मासने स्थितो योगी प्राणापानविधानतः । पूरयेत्स विमुक्तः स्यात्सत्यं सत्यं वदाम्यहम् ॥ ३.१११॥ उग्रासनकथनम् । प्रसार्य चरणद्वन्द्वं परस्परमसंयुतम् । स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरोन्यसेत् ॥ ३.११२॥ आसनोग्रमिदं प्रोक्तं भवेदनिलदीपनम् । देहावसानहरणं पश्चिमोत्तानसंज्ञकम् ॥ ३.११३॥ य एतदासनं श्रेष्ठं प्रत्यहं साधयेत्सुधीः । वायुः पश्चिममार्गेण तस्य सञ्चरति ध्रुवम् ॥ ३.११४॥ एतदभ्यासशीलानां सर्वसिद्धिः प्रजायते । तस्माद्योगी प्रयत्नेन साधयेत्सिद्धमात्मनः ॥ ३.११५॥ गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् । येन शीघ्रं मरुत्सिद्धिर्भवेद्दुःखौघनाशिनी ॥ ३.११६॥ स्वस्तिकासनकथनम् । जानूर्वोरन्तरे सम्यग्धृत्वा पादतले उभे । समकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते ॥ ३.११७॥ अनेन विधिना योगी मारुतं साधयेत्सुधीः । देहे न क्रमते व्याधिस्तस्य वायुश्च सिद्ध्यति ॥ ३.११८॥ सुखासनमिदं प्रोक्तं सर्वदुःखप्रणाशनम् । स्वस्तिकं योगिभिर्गोप्यं स्वस्तीकरणमुत्तमम् ॥ ३.११९॥ इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे योगाभ्यासतत्त्वकथनं नाम तृतीयपटलः समाप्तः । ३।

चतुर्थपटलः

अथ मुद्राकथनम् । आदौ पूरक योगेन स्वाधारे पूरयेन्मनः । गुदमेढ्रान्तरे योनिस्तामाकुञ्च्य प्रवर्तते ॥ ४.१॥ योनिमुद्राकथनम् । ब्रह्मयोनिगतं ध्यात्वा कामं कन्दुकसन्निभम् । सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ४.२॥ तस्योर्ध्वं तु शिखासूक्ष्मा चिद्रूपा परमाकला । तया सहितमात्मानमेकीभूतं विचिन्तयेत् ॥ ४.३॥ गच्छति ब्रह्ममार्गेण लिङ्गत्रयक्रमेण वै । सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ४.४॥ अमृतं तद्धि स्वर्गस्थं परमानन्दलक्षणम् । श्वेतरक्तं तेजसाढ्यं सुधाधाराप्रवर्षिणम् । पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम् ॥ ४.५॥ पुनरेव कुलं गच्छेन्मात्रायोगेन नान्यथा । सा च प्राणसमाख्याता ह्यस्मिंस्तन्त्रे मयोदिता ॥ ४.६॥ पुनः प्रलीयते तस्यां कालाग्न्यादिशिवात्मकम् । योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः ॥ ४.७॥ तस्यास्तु बन्धामत्रेण तन्नास्ति यन्न साधयेत् ॥ ४.८॥ छिन्नरूपास्तु ये मन्त्राः कीलिताः स्तम्भिताश्च ये । दग्धामन्त्राः शिरोहीना मलिनास्तु तिरस्कृताः ॥ ४.९॥ मन्दा बालास्तथा वृद्धाः प्रौढा यौवनगर्विताः । भेदिनो भ्रमसंयुक्ताः सप्ताहं मूर्च्छिताश्चये ॥ ४.१०॥ अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः । तथा सत्त्वेन हीनाश्च खण्डिताः शतधाकृताः ॥ ४.११॥ विधिनानेन च संयुक्तः प्रभवन्त्यचिरेण तु । (विधानेन च संयुक्ताः) सिद्धिमोक्षप्रदाः सर्वे गुरुणा विनियोजिताः ॥ ४.१२॥ यद्युच्चरते योगी मन्त्ररूपं शुभाशुभम् । तत्सिद्धिं समवाप्नोति योनिमुद्रानिबन्धनात् ॥ ४.१३॥ दीक्षयित्वा विधानेन अभिषिञ्च्य सहस्रधा । ततो मन्त्राधिकारार्थमेषा मुद्रा प्रकीर्तिता ॥ ४.१४॥ ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत् । नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात् ॥ ४.१५॥ गुरुहा च सुरापी च स्तेयी च गुरुतल्पगः । एतैः पापैर्न बध्येत योनिमुद्रानिबन्धनात् ॥ ४.१६॥ तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकाङ्क्षिभिः । अभ्यासाज्जायते सिद्धिरभ्यासान्मोक्षमाप्नुयात् ॥ ४.१७॥ संविदं लभतेऽभ्यासाद्योगोभ्यासात्प्रवर्तते । मुद्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम् ॥ ४.१८॥ कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत् । वाक्सिद्धिः कामचारित्वं भवेदभ्यासयोगतः ॥ ४.१९॥ योनिमुद्रा परं गोप्या न देया यस्य कस्यचित् । सर्वथा नैव दातव्या प्राणैः कण्ठगतैरपि ॥ ४.२०॥ अधुना कथयिष्यामि योगसिद्धिकरं परम् । गोपनीयं सुसिद्धानां योगं परमदुर्लभम् ॥ ४.२१॥ सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली । तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोपि च ॥ ४.२२॥ तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ४.२३॥ महामुद्रा महाबन्धो महावेधश्च खेचरी । जालन्धरो मूलबन्धो विपरीतकृतिस्तथा ॥ ४.२४॥ उड्डानं चैव वज्रोणी दशमे शक्तिचालनम् । इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम् ॥ ४.२५॥ महामुद्राकथनम् । महामुद्रां प्रवक्ष्यामि तन्त्रेऽस्मिन्ममवल्लभे । यां प्राप्य सिद्धाः सिद्धिं च कपिलाद्याः पुरागताः ॥ ४.२६॥ अपसव्येन सम्पीड्य पादमूलेन सादरम् । गुरूपदेशतो योनिं गुदमेढ्रान्तरालगाम् ॥ ४.२७॥ सव्यं प्रसारितं पादं धृत्वा पाणियुगेन वै । (प्रसारित पाद) नवद्वाराणि संयम्य चिबुकं हृदयोपरि ॥ ४.२८॥ चित्तं चित्तपथे दत्त्वा प्रभवेद्वायुसाधनम् । महामुद्राभवेदेषा सर्वतन्त्रेषु गोपिता ॥ ४.२९॥ वामाङ्गेन समभ्यस्य दक्षाङ्गेनाभ्यसेत् पुनः । प्राणायामं समं कृत्वा योगी नियतमानसः ॥ ४.३०॥ अनेन विधिना योगी मन्दभाग्योऽपि सिध्यति । सर्वासामेव नाडीनां चालनं बिन्दुमारणम् ॥ ४.३१॥ जीवनन्तु कषायस्य पातकानां विनाशनम् । कुण्डालीतापनं वायोर्ब्रह्मरन्ध्रप्रवेशनम् ॥ ४.३२॥ सर्वरोगोपशमनं जठराग्निविवर्धनम् । वपुषा कान्तिममलां जरामृत्युविनाशनम् ॥ ४.३३॥ वाञ्छितार्थफलं सौख्यमिन्द्रियाणाञ्च मारणम् । एतदुक्तानि सर्वाणि योगारूढस्य योगिनः । भवेदभ्यासतोऽवश्यं नात्र कार्या विचारणा ॥ ४.३४॥ गोपनीया प्रयत्नेन मुद्रेयं सुरपूजिते । यान्तु प्राप्य भवाम्भोधेः पारं गच्छन्ति योगिनः ॥ ४.३५॥ मुद्रा कामदुघा ह्येषा साधकानां मयोदिता । गुप्ताचारेण कर्तव्या न देया यस्य कस्यचित् ॥ ४.३६॥ महाबन्धकथनम् । ततः प्रसारितः पादो विन्यस्य तमुरूपरि ॥ ४.३७॥ गुदयोनिं समाकुञ्च्य कृत्वा चापानमूर्ध्वगम् । योजयित्वा समानेन कृत्वा प्राणमधोमुखम् ॥ ४.३८॥ बन्धयेदूर्ध्वगत्यर्थं प्राणापानेन यः सुधीः । कथितोऽयं महाबन्धः सिद्धिमार्गप्रदायकः ॥ ४.३९॥ नाडीजालाद्रसव्यूहो मूर्धानं याति योगिनः । उभाभ्यां साधयेत्पद्भ्यामेकैकं सुप्रयत्नतः ॥ ४.४०॥ भवेदभ्यासतो वायुः सुषुम्णामध्यसङ्गतः । अनेन वपुषः पुष्टिर्दृढबन्धोऽस्थिपञ्जरे ॥ ४.४१॥ सम्पूर्णहृदयो योगी भवत्न्येतानि योगिनः । बन्धेनानेन योगीन्द्रः साधयेत्सर्वमीप्सितम् ॥ ४.४२॥ महावेधकथनम् । अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेश्वरि । महावेधस्थितो योगी कुक्षिमापूर्य वायुना । स्फिचौ सन्ताडयेद्धीमान्वेधोऽयं कीर्तितो मया ॥ ४.४३॥ वेधेनानेन संविध्य वायुना योगिपुङ्गवः । ग्रन्थिं सुषुम्णामार्गेण ब्रह्मग्रन्थिं भिनत्त्यसौ ॥ ४.४४॥ यः करोति सदाभ्यासं महावेधं सुगोपितम् । वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी ॥ ४.४५॥ चक्रमधे स्थिता देवाः कम्पन्ति वायुताडनात् । कुण्डल्यपि महामाया कैलासे सा विलीयते ॥ ४.४६॥ महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ । (निष्फलो) तस्माद्योगी प्रयत्नेन करोति त्रितयं क्रमात् ॥ ४.४७॥ एतत्त्रयं प्रयत्नेन चतुर्वारं करोति यः । षण्मासाभ्यन्तरं मृत्युञ्जयत्येव न संशयः ॥ ४.४८॥ एतत्त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः । यज्ज्ञात्वा साधकाः सर्वे सिद्धिं सम्यग्लभन्ति वै ॥ ४.४९॥ गोपनीया प्रयत्नेन साधकैः सिद्धिमीप्सुभिः । अन्यथा च न सिद्धिः स्यान्मुद्राणामेष निश्चयः ॥ ४.५०॥ खेचरीमुद्राकथनम् । भ्रुवोरन्तर्गतां दृष्टिं विधाय सुदृढां सुधीः ॥ ४.५१॥ (सुदृढा) उपविश्यासने वज्रे नानोपद्रववर्जितः । लम्बिकोर्ध्वं स्थिते गर्ते रसनां विपरीतगाम् ॥ ४.५२॥ संयोजयेत्प्रयत्नेन सुधाकूपे विचक्षणः । मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः ॥ ४.५३॥ सिद्धीनां जननी ह्येषा मम प्राणाधिकप्रिया । निरन्तरकृताभ्यासात्पीयूषं प्रत्यहं पिबेत् । तेन विग्रहसिद्धिः स्यान्मृत्युमातङ्गकेसरी ॥ ४.५४॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । खेचरी यस्य शुद्धा तु स शुद्धो नात्र संशयः ॥ ४.५५॥ क्षणार्धं कुरुते यस्तु तीर्त्वा पापमहार्णवम् । दिव्यभोगान्प्रभुक्त्वा च सत्कुले स प्रजायते ॥ ४.५६॥ मुद्रैषा खेचरी यस्तु स्वस्थचित्तो ह्यतन्द्रितः । शतब्रह्मगतेनापि क्षणार्धं मन्यते हि सः ॥ ४.५७॥ गुरूपदेशतो मुद्रां यो वेत्ति खेचरीमिमाम् । नानापापरतो धीमान् स याति परमां गतिम् ॥ ४.५८॥ सा प्राणसदृशी मुद्रा यस्मिन्कस्मिन्न दीयते । (यस्मै कस्मै न) प्रच्छाद्यते प्रयत्नेन मुद्रेयं सुरपूजिते ॥ ४.५९॥ जालन्धरबन्धकथनम् । बद्धागलशिराजालं हृदये चिबुकं न्यसेत् । बन्धोजालन्धरः प्रोक्तो देवानामपि दुर्लभः ॥ ४.६०॥ नाभिस्थवह्निर्जन्तूनां सहस्रकमलच्युतम् । पिबेत्पीयूषविस्तारं तदर्थं बन्धयेदिमम् ॥ ४.६१॥ बन्धेनानेन पीयूषं स्वयं पिबति बुद्धिमान् । अमरत्वञ्च सम्प्राप्य मोदते भुवनत्रये ॥ ४.६२॥ जालन्धरो बन्ध एष सिद्धानां सिद्धिदायकः । अभ्यासः क्रियते नित्यं योगिना सिद्धिमिच्छता ॥ ४.६३॥ मूलबन्धकथनम् । पादमूलेन सम्पीड्य गुदमार्गेषु यन्त्रितम् ॥ ४.६४॥ बलादपानमाकृष्य क्रमादूर्ध्वं सुचारयेत् । कल्पितोऽयं मूलबन्धो जरामरणनाशनः ॥ ४.६५॥ अपानप्राणयोरैक्यं प्रकरोत्यधिकल्पितम् । बन्धेनानेन सुतरां योनिमुद्रा प्रसिद्ध्यति ॥ ४.६६॥ सिद्धायां योनिमुद्रायां किं न सिद्ध्यति भूतले । बन्धस्यास्य प्रसादेन गगने विजितानिलः । पद्मासने स्थितो योगी भुवमुत्सृज्य वर्तते ॥ ४.६७॥ सुगुप्ते निर्जने देशे बन्धमेनं समभ्यसेत् । संसारसागरं तर्तुं यदीच्छेद्योगि पुङ्गवः ॥ ४.६८॥ विपरीतकरणीमुद्राकथनम् । भूतले स्वशिरोदत्त्वा खे नयेच्चरणद्वयम् । विपरीतकृतिश्चैषा सर्वतन्त्रेषु गोपिता ॥ ४.६९॥ एतद्यः कुरुते नित्यमभ्यासं याममात्रतः । मृत्युञ्जयति स योगी प्रलयेनापि सीदति ॥ ४.७०॥ (योगीशः) कुरुतेऽमृतपानं यः सिद्धानां समतामियात् । स सेव्यः सर्वलोकानां बन्धमेनं करोति यः ॥ ४.७१॥ उड्डयानबन्धकथनम् । नाभेरूर्ध्वमधश्चापि तानं पश्चिममाचरेत् । उड्ड्यानबन्ध एष स्यात्सर्वदुःखौघनाशनः ॥ ४.७२॥ उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् । उड्ड्यानाख्योऽत्र बन्धोऽयं मृत्युमातङ्गकेसरी ॥ ४.७३॥ नित्यं यः कुरुते योगी चतुर्वारं दिने दिने । तस्य नाभेस्तु शुद्धिः स्याद्येन सिद्धो भवेन्मरुत् ॥ ४.७४॥ (नाभेस्सुशुद्धिः साद्येन) षण्मासमभ्यसन्योगी मृत्युञ्जयति निश्चितम् । तस्योदराग्निर्ज्वलति रसवृद्धिः प्रजायते ॥ ४.७५॥ अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते । रोगाणां सङ्क्षयश्चापि योगिनो भवति ध्रुवम् ॥ ४.७६॥ गुरोर्लब्ध्वा प्रयत्नेन साधयेत्तु विचक्षणः । निर्जने सुस्थिते देशे बन्धं परमदुर्लभम् ॥ ४.७७॥ वज्रोलीमुद्राकथनम् । वज्रोलीं कथयिष्यामि संसारध्वान्तनाशिनीम् । स्वेभक्तेभ्यः समासेन गुह्याद्गुह्यतमामपि ॥ ४.७८॥ स्वेच्छया वर्तमानोऽपि योगोक्तनियमैर्विना । मुक्तो भवति गार्हस्थो वज्रोल्यभ्यसयोगतः ॥ ४.७९॥ वज्रोल्यभ्यासयोगोऽयं भोगे युक्तेऽपि मुक्तिदः । तस्मादतिप्रयत्नेन कर्तव्यो योगिभिः सदा ॥ ४.८०॥ आदौ रजः स्त्रियो योन्याः यत्नेन विधिवत्सुधीः । आकुञ्च्य लिङ्गनालेन स्वशरीरे प्रवेशयेत् ॥ ४.८१॥ स्वकं बिन्दुश्च सम्बन्ध्य लिङ्गचालनमाचरेत् । दैवाच्चलति चेदूर्ध्वं निबद्धो योनिमुद्रया ॥ ४.८२॥ वाममार्गेऽपि तद्बिन्दुं नीत्वा लिङ्गं निवारयेत् । क्षणमात्रं योनितो यः पुमांश्चालनमाचरेत् ॥ ४.८३॥ गुरूपदेशतो योगी हुंहुङ्कारेण योनितः । अपानवायुमाकुञ्चय बलादाकृष्य तद्रजः ॥ ४.८४॥ अनेन विधिना योगी क्षिप्रं योगस्य सिद्धये । भव्यभुक्कुरुते योगी गुरुपादाब्जपूजकः ॥ ४.८५॥ बिन्दुर्विधुमयो ज्ञेयो रजः सूर्यमयस्तथा । उभयोर्मेलनं कार्यं स्वशरीरे प्रवेशयेत् ॥ ४.८६॥ अहं बिन्दू रजः शक्तिरुभयोर्मेलनं यदा । योगिनां साधनावस्था भवेद्दिव्यं वपुस्तदा ॥ ४.८७॥ मरणं बिन्दुपातेन जीवनं बिन्दुधारणे । तस्मादतिप्रयत्नेन कुरुते बिन्दुधारणम् ॥ ४.८८॥ जायते म्रियते लोके बिन्दुना नात्र संशयः । एतज्ज्ञात्वा सदा योगी बिन्दुधारणमाचरेत् ॥ ४.८९॥ सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले । यस्य प्रसादान्महिमा ममाप्येतादृशो भवेत् ॥ ४.९०॥ बिन्दुः करोति सर्वेषां सुखं दुःखञ्च संस्थितः । संसारिणां विमूढानां जरामरणशालिनाम् ॥ ४.९१॥ अयं च शाङ्करो योगो योगिनामुत्तमोत्तमः ॥ ४.९२॥ अभ्यासात्सिद्धिमाप्नोति भोगयुक्तोऽपि मानवः । सकलः साधितार्थोऽपि सिद्धो भवति भूतले ॥ ४.९३॥ भुक्त्वा भोगानशेषान् वै योगेनानेन निश्चितम् । अनेन सकला सिद्धिर्योगिनां भवति ध्रुवम् । सुखभोगेन महता तस्मादेनं समभ्यसेत् ॥ ४.९४॥ सहजोल्यमरोली च वज्रोल्या भेदतो भवेत् । येन केन प्रकारेण बिन्दुं योगी प्रधारयेत् ॥ ४.९५॥ दैवाच्चलति चेद्वेगे मेलनं चन्द्रसूर्ययोः । अमरोलिरियं प्रोक्ता लिङ्गनालेन शोषयेत् ॥ ४.९६॥ गतं बिन्दुं स्वकं योगी बन्धयेद्योनिमुद्रया । सहजोलीरियं प्रोक्ता सर्वतन्त्रेषु गोपिता ॥ ४.९७॥ संज्ञाभेदाद्भवेद्भेदः कार्यं तुल्यगतिर्यदि । तस्मात्सर्वप्रयत्नेन साध्यते योगिभिः सदा ॥ ४.९८॥ अयं योगो मया प्रोक्तो भक्तानां स्नेहतः प्रिये । गोपनीयः प्रयत्नेन न देयो यस्य कस्यचित् ॥ ४.९९॥ एतद्गुह्यतमं गुह्यं न भूतं न भविष्यति । तस्मादेतत्प्रयत्नेन गोपनीयं सदा बुधैः ॥ ४.१००॥ स्वमूत्रोत्सर्गकाले यो बलादाकृष्य वायुना । स्तोकं स्तोकं त्यजेन्मूत्रमूर्ध्वमाकृष्य तत्पुनः ॥ ४.१०१॥ गुरूपदिष्टमार्गेण प्रत्यहं यः समाचरेत् । बिन्दुसिद्धिर्भवेत्तस्य महासिद्धिप्रदायिका ॥ ४.१०२॥ षण्मासमभ्यसेद्यो वै प्रत्यहं गुरुशिक्षया । शताङ्गनाविभोगेऽपि तस्य बिन्दुर्न नश्यति ॥ ४.१०३॥ सिद्धे बिन्दौ महायत्ने किं न सिद्ध्यति पार्वति । ईशत्वं यत्प्रसादेन ममापि दुर्लभं भवेत् ॥ ४.१०४॥ शक्तिचालनमुद्राकथनम् । आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम् । अपानवायुमारुह्य बलादाकृष्य बुद्धिमान् । शक्तिचालनमुद्रेयं सर्वशक्तिप्रदायिनी ॥ ४.१०५॥ शक्तिचालनमेवं हि प्रत्यहं यः समाचरेत् । आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम् ॥ ४.१०६॥ विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु । तस्मादभ्यासनं कार्यं योगिना सिद्धमिच्छता ॥ ४.१०७॥ यः करोति सदाभ्यासं शक्तिचालनमुत्तमम् । येन विग्रहसिद्धिः स्यादणिमादिगुणप्रदा ॥ ४.१०८॥ गुरूपदेशविधिना तस्य मृत्युभयं कुतः । मुहूर्तद्वयपर्यन्तं विधिना शक्तिनाशनम् ॥ ४.१०९॥ यः करोति प्रयत्नेन तस्य सिद्धिरदूरतः । युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम् ॥ ४.११०॥ एतत्सुमुद्रादशकं न भूतं न भविष्यति । एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा ॥ ४.१११॥ इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे मुद्राकथनं नाम चतुर्थपटलः समाप्तः । ४।

पञ्चमपटलः

श्रीदेव्युवाच । ब्रूहि मे वाक्यमीशान परमार्थधियं प्रति । ये विघ्नाः सन्ति लोकानां वद मे प्रिय शङ्कर ॥ ५.१॥ ईश्वर उवाच । श‍ृणु देवि प्रवक्ष्यामि यथा विघ्नाः स्थिताः सदा । मुक्तिं प्रति नराणाञ्च भोगः परमबन्धनः ॥ ५.२॥ भोगरूपयोगविघ्नविद्याकथनम् । नारी शय्यासनं वस्त्रं धनमस्य विडम्बनम् । ताम्बूलभक्ष्यानानि राज्यैश्वर्यविभूतयः ॥ ५.३॥ हैमं रौप्यं तथा ताम्रं रत्नञ्चागुरुधेनवः । पाण्डित्यं वेदशास्त्राणि नृत्यं गीतं विभूषणम् ॥ ५.४॥ वंशी वीणा मृदङ्गाश्च गजेन्द्रश्चाश्ववाहनम् । (दारापत्यानि विषया विघ्ना एते प्रकीर्तिताः ।) भोगरूपा इमे विघ्ना धर्मरूपानिमाञ्छृणु ॥ ५.५॥ धर्मरूपयोगविघ्नकथनम् । स्नानं पूजाविधिर्होमं तथा मोक्षमयी स्थितिः । व्रतोपवासनियममौनमिन्द्रियनिग्रहः ॥ ५.६॥ ध्येयो ध्यानं तथा मन्त्रो दानं ख्यातिर्दिशासु च । वापीकूपतडागादिप्रासादारामकल्पना ॥ ५.७॥ यज्ञं चान्द्रायणं कृच्छ्रं तीर्थानि विविधानि च । दृश्यन्ते च इमे विघ्ना धर्मरूपेण संस्थिताः ॥ ५.८॥ ज्ञानरूपविघ्नकथनम् । यत्तु विघ्नं भवेज्ज्ञानं कथयामि वरानने । गोमुखं स्वासनं कृत्वा धौतिप्रक्षालनं च तत् ॥ ५.९॥ नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम् । कुक्षिसञ्चालनं क्षिप्रं प्रवेश इन्द्रियाध्वना । नाडीकर्माणि कल्याणि भोजनं श्रूयतां मम ॥ ५.१०॥ नवधातुरसं छिन्धि शुण्ठिकाश्ताडयेत्पुनः । एककालं समाधिः स्याल्लिङ्गभूतमिदं श‍ृणु ॥ ५.११॥ सङ्गमं गच्छ साधूनां सङ्कोचं भज दुर्जनात् । प्रवेशनिर्गमे वायोर्गुरुलक्षं विलोकयेत् ॥ ५.१२॥ पिण्डस्थं रूपसंस्थञ्च रूपस्थं रूपवर्जितम् । ब्रह्मैतस्मिन्मतावस्था हृदयञ्च प्रशाम्यति । इत्येते कथिता विघ्ना ज्ञानरूपे व्यवस्थिताः ॥ ५.१३॥ चतुर्विधयोगकथनम् । मन्त्रयोगो हठश्चैव लययोगस्तृतीयकः । चतुर्थो राजयोगः स्यात्स द्विधाभाववर्जितः ॥ ५.१४॥ चतुर्धा साधको ज्ञेयो मृदुमध्याधिमात्रकाः । अधिमात्रतमः श्रेष्ठो भवाब्धौ लङ्घनक्षमः ॥ ५.१५॥ मृदुसाधकलक्षणम् । मन्दोत्साही सुसम्मूढो व्याधिस्थो गुरुदूषकः । लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः ॥ ५.१६॥ चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः । मन्दाचारो मन्दवीर्यो ज्ञातव्यो मृदुमानवः ॥ ५.१७॥ द्वादशाब्दे भवेत्सिद्धिरेतस्य यत्नतः परम् । मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम् ॥ ५.१८॥ मध्यमसाधकलक्षणम् । समबुद्धिः क्षमायुक्तः पुण्याकाङ्क्षी प्रियंवदः । मध्यस्थः सर्वकार्येषु सामान्यः स्यान्नसंशयः । एतज्ज्ञात्वैव गुरुभिर्दीयते मुक्तितो लयः ॥ ५.१९॥ अधिमात्रसाधकलक्षणं स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्यवानपि । महाशयो दयायुक्तः क्षमावान् सत्यवानपि ॥ ५.२०॥ शूरो वयःस्थः श्रद्धावान् गुरुपादाब्जपूजकः । योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः ॥ ५.२१॥ एतस्य सिद्धिः षड्वर्षैर्भवेदभ्यासयोगतः । एतस्मै दीयते धीरो हठयोगश्च साङ्गतः ॥ ५.२२॥ अधिमात्रतमसाधकलक्षणम् । महावीर्यान्वितोत्साही मनोज्ञः शौर्यवानपि । शास्त्रज्ञोऽभ्यासशीलश्च निर्मोहश्च निराकुलः ॥ ५.२३॥ नवयौवनसम्पन्नो मिताहारी जितेन्द्रियः । निर्भयश्च शुचिर्दक्षो दाता सर्वजनाश्रयः ॥ ५.२४॥ अधिकारी स्थिरो धीमान् यथेच्छावस्थितः क्षमी । सुशीलो धर्मचारी च गुप्तचेष्टः प्रियंवदः ॥ ५.२५॥ शास्त्रविश्वाससम्पन्नो देवता गुरुपूजकः । जनसङ्गविरक्तश्च महाव्याधि विवर्जितः ॥ ५.२६॥ अधिमात्रतरोज्ञेयः सर्वयोगस्य साधकः । (अधिमात्रव्रतशश्च / अधिमात्रव्रतज्ञशश्च) त्रिभिस्संवत्सरैः सिद्धिरेतस्य नात्र संशयः । सर्वयोगाधिकारी स नात्र कार्या विचारणा ॥ ५.२७॥ प्रतीकोपासनम् । प्रतीकोपासना कार्या दृष्टादृष्टफलप्रदा । पुनाति दर्शनादत्र नात्र कार्या विचारणा ॥ ५.२८॥ गाढातपे स्वप्रतिबिम्बितेश्वरं निरीक्ष्य विस्फारितलोचनद्वयम् । यदा नभः पश्यति स्वप्रतीकं नभोऽङ्गणे तत्क्षणमेव पश्यति ॥ ५.२९॥ प्रत्यहं पश्यते यो वै स्वप्रतीकं नभोऽङ्गणे । आयुर्वृद्धिर्भवेत्तस्य न मृत्युः स्यात्कदाचन ॥ ५.३०॥ यदा पश्यति सम्पूर्णं स्वप्रतीकं नभोऽङ्गणे । तदा जयं सभायाञ्च युद्धे निर्जित्य सञ्चरेत् ॥ ५.३१॥ (जयमवाप्नोति वायुं) यः करोति सदाभ्यासं चात्मानं विन्दते परम् । (वन्दते) पूर्णानन्दैकपुरुषं स्वप्रतीकप्रसादतः ॥ ५.३२॥ यात्राकाले विवाहे च शुभे कर्मणि सङ्कटे । पापक्षये पुण्यवृद्धौ प्रतीकोपासनञ्चरेत् ॥ ५.३३॥ निरन्तरकृताभ्यासादन्तरे पश्यति ध्रुवम् । तदा मुक्तिमवाप्नोति योगी नियतमानसः ॥ ५.३४॥ अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने । नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम् ॥ ५.३५॥ निरुध्य मारुतं योगी यदैव कुरुते भृशम् । तदा तत्क्षणमात्मानं ज्योतीरूपं स पश्यति ॥ ५.३६॥ तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम् । सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५.३७॥ निरन्तरकृताभ्यासाद्योगी विगतकल्मषः । सर्वदेहादि विस्मृत्य तदभिन्नः स्वयं गतः ॥ ५.३८॥ यः करोति सदाभ्यासं गुप्ताचारेण मानवः । स वै ब्रह्मविलीनः स्यात्पापकर्मरतो यदि ॥ ५.३९॥ गोपनीयः प्रयत्नेन सद्यः प्रत्ययकारकः । निर्वाणदायको लोके योगोऽयं मम वल्लभः । नादः सञ्जायते तस्य क्रमेणाभ्यासतश्च यः ॥ ५.४०॥ (वै) मत्तभृङ्गवेणुवीणासदृशः प्रथमो ध्वनिः । एवमभ्यासतः पश्चात् संसारध्वान्तनाशनम् । घण्टानादसमः पश्चात् ध्वनिर्मेघरवोपमः ॥ ५.४१॥ ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भरः । (निर्भयः) तदा सञ्जायते तस्य लयस्य मम वल्लभे ॥ ५.४२॥ तत्र नादे यदा चित्तं रमते योगिनो भृशम् । विस्मृत्य सकलं बाह्यं नादेन सह शाम्यति ॥ ५.४३॥ एतदभ्यासयोगेन जित्वा सम्यग्गुणान्बहून् । सर्वारम्भपरित्यागी चिदाकाशे विलीयते ॥ ५.४४॥ नासनं सिद्धसदृशं न कुम्भसदृशं बलम् । न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ ५.४५॥ षट्चक्र विवरणम् । मूलाधारपद्मनिरूपण । इदानीं कथयिष्यामि मुक्तस्यानुभवं प्रिये । यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोऽपि साधकः ॥ ५.४६॥ समभ्यर्च्येश्वरं सम्यक्कृत्वा च योगमुत्तमम् । गृह्णीयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान् ॥ ५.४७॥ जीवादि सकलं वस्तु दत्त्वा योगविदं गुरुम् । (वस्तुं) सन्तोष्यादिप्रयत्नेन योगोऽयं गृह्यते बुधैः ॥ ५.४८॥ विप्रान्सन्तोष्य मेधावी नानामङ्गलसंयुतः । ममालये शुचिर्भूत्वा गृह्णीयाच्छुभात्मकम् ॥ ५.४९॥ संन्यस्यानेन विधिना प्राक्तनं विग्रहादिकम् । भूत्वा दिव्यवपुर्योगी गृह्णीयाद्वक्ष्यमाणकम् ॥ ५.५०॥ पद्मासनस्थितो योगी जनसङ्गविवर्जितः । विज्ञाननाडीद्वितयमङ्गुलीभ्यां निरोधयेत् ॥ ५.५१॥ सिद्धेस्तदाविर्भवति सुखरूपी निरञ्जनः । तस्मिन्परिश्रमः कार्यो येन सिद्धो भवेत्खलु ॥ ५.५२॥ यः करोति सदाभ्यासं तस्य सिद्धिर्न दूरतः । वायुसिद्धिर्भवेत्तस्य क्रमादेव न संशयः ॥ ५.५३॥ (वायुसिद्धिभवेत्तस्य) सकृद्यः कुरुते योगी पापौघं नाशयेद्ध्रुवम् । तस्य स्यान्मध्यमे वायोः प्रवेशो नात्र संशयः ॥ ५.५४॥ एतदभ्यासशीलो यः स योगी देवपूजितः । अणिमादिगुणान्ल्लब्ध्वा विचरेद्भुवनत्रये ॥ ५.५५॥ यो यथास्यानिलाभ्यासात्तद्भवेत्तस्य विग्रहः । तिष्ठेदात्मनि मेधावी संयुतः क्रीडते भृशम् ॥ ५.५६॥ एतद्योगं परं गोप्यं न देयं यस्य कस्यचित् । सप्रमाणः समायुक्तस्तमेव कथ्यते ध्रुवम् ॥ ५.५७॥ (यः प्रमाणैः) योगी पद्मासने तिष्ठेत्कण्ठकूपे यदा स्मरन् । जिह्वां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते ॥ ५.५८॥ कण्ठकूपादधःस्थाने कूर्मनाड्यस्ति शोभना । तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्यं लभेद्भृशम् ॥ ५.५९॥ शिरः कपाले रुद्राक्ष विवरं चिन्तयेद्यदा । रुद्राक्षं तदा ज्योतिः प्रकाशः स्याद्विद्युत्पुञ्जसमप्रभः ॥ ५.६०॥ एतच्चिन्तनमात्रेण पापानां सङ्क्षयो भवेत् । दुराचारोऽपि पुरुषो लभते परमं पदम् ॥ ५.६१॥ अहर्निशं यदा चिन्तां तत्करोति विचक्षणः । सिद्धानां दर्शनं तस्य भाषणञ्च भवेद्ध्रुवम् ॥ ५.६२॥ तिष्ठन् गछन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहर्निशम् । तदाकाशमयो योगी चिदाकाशे विलीयते ॥ ५.६३॥ एतज्ज्ञानं सदा कार्यं योगिना सिद्धिमिच्छता । (काय) निरन्तरकृताभ्यासान्मम तुल्यो भवेद्ध्रुवम् । एतज्ज्ञानबलाद्योगी सर्वेषां वल्लभो भवेत् ॥ ५.६४॥ सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रहः । नासाग्रे दृश्यते येन पद्मासनगतेन वै । मनसो मरणं तस्य खेचरत्वं प्रसिद्ध्यति ॥ ५.६५॥ ज्योतिः पश्यति योगीन्द्रः शुद्धं शुद्धाचलोपमम् । तत्राभ्यासबलेनैव स्वयं तद्रक्षको भवेत् ॥ ५.६६॥ उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरन्तरम् । सद्यः श्रमविनाशाय स्वयं योगी विचक्षणः ॥ ५.६७॥ शिरः पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत् । भ्रूमध्ये दृष्टिमात्रेण ह्यपरः परिकीर्तितः ॥ ५.६८॥ चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते । तत्र सारतमो लिङ्गदेहस्य परिपोषकः ॥ ५.६९॥ सप्तधातुमयं पिण्डमेति पुष्णाति मध्यगः । याति विण्मूत्ररूपेण तृतीयः सप्ततो बहिः ॥ ५.७०॥ आद्यभाग द्वयं नाड्यः प्रोक्तास्ताः सकला अपि । पोषयन्ति वपुर्वायुमापादतलमस्तकम् ॥ ५.७१॥ नाडीभिराभिः सर्वाभिर्वायुः सञ्चरते यदा । तदैवान्नरसो देहे साम्येनेह प्रवर्तते ॥ ५.७२॥ चतुर्दशानां तत्रेह व्यापारे मुख्यभागतः । ता अनुग्रत्वहीनाश्च प्राणसञ्चारनाडिकाः ॥ ५.७३॥ गुदाद्वयङ्गुलतश्चोर्ध्वं मेढ्रैकाङ्गुलतस्त्वधः । एवञ्चास्ति समं कन्दं समता चतुरङ्गुलम् ॥ ५.७४॥ (समताच्चतुरङ्गुलम्) पश्चिमाभिमुखीः योनिर्गुदमेढ्रान्तरालगा । तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा ॥ ५.७५॥ संवेष्ट्य सकला नाडीः सार्द्धत्रिकुटलाकृतीः । मुखे निवेश्य सा पुच्छं सुषुम्णाविवरे स्थिता ॥ ५.७६॥ सुप्ता नागोपमा ह्येषा स्फुरन्ती प्रभया स्वया । अहिवत्सन्धिसंस्थाना वाग्देवी बीजसंज्ञिका ॥ ५.७७॥ ज्ञेया शक्तिरियं विष्णोर्निर्मला स्वर्णभास्वरा । सत्त्वं रजस्तमश्चेति गुणत्रयप्रसूतिका ॥ ५.७८॥ तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम् । कलहेमसमं योगे प्रयुक्ताक्षररूपिणम् ॥ ५.७९॥ सुषुम्णापि च संश्लिष्टा बीजं तत्र वरं स्थितम् । शरच्चन्द्रनिभं तेजस्स्वयमेतत्स्फुरत्स्थितम् ॥ ५.८०॥ सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । एतत्त्रयं मिलित्वैव देवी त्रिपुरभैरवी । बीजसंज्ञं परं तेजस्तदेव परिकीर्तितम् ॥ ५.८१॥ क्रियाविज्ञानशक्तिभ्यां युतं यत्परितो भ्रमत् । उत्तिष्ठद्विशतस्त्वम्भः सूक्ष्मं शोणशिखायुतम् । योनिस्थं तत्परं तेजः स्वयम्भूलिङ्गसंज्ञितम् ॥ ५.८२॥ आधारपद्ममेतद्धि योनिर्यस्यास्ति कन्दतः । परिस्फुरद्वादिसान्तचतुर्वर्णं चतुर्दलम् ॥ ५.८३॥ कुलाभिधं सुवर्णाभं स्वयम्भूलिङ्गसङ्गतम् । द्विरण्डो यत्र सिद्धोऽस्ति डाकिनी यत्र देवता ॥ ५.८४॥ तत्पद्ममध्यगा योनिस्तत्र कुण्डलिनी स्थिता । तस्या ऊर्ध्वे स्फुरत्तेजः कामबीजं भ्रमन्मतम् ॥ ५.८५॥ यः करोति सदा ध्यानं मूलाधारे विचक्षणः । तस्य स्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै ॥ ५.८६॥ वपुषः कान्तिरुत्कृष्टा जठराग्निविवर्धनम् । आरोग्यञ्च पटुत्वञ्च सर्वज्ञत्वञ्च जायते ॥ ५.८७॥ भूतं भव्यं भविष्यच्च वेत्ति सर्वं सकारणम् । (भविष्यञ्च) अश्रुतान्यपि शास्त्राणि सरहस्यं वदेद्ध्रुवम् ॥ ५.८८॥ (भवेद्ध्रुवम्) वक्त्रे सरस्वती देवी सदा नृत्यति निर्भरम् । मन्त्रसिद्धिर्भवेत्तस्य जपादेव न संशयः ॥ ५.८९॥ जरामरणदुःखौघान्नाशयति गुरोर्वचः । इदं ध्यानं सदा कार्यं पवनाभ्यासिना परम् । ध्यानमात्रेण योगीन्द्रो मुच्यते सर्वकिल्बिषात् ॥ ५.९०॥ (सर्वकिल्विषात्) मूलपद्मं यदा ध्यायेद्योगी स्वयम्भुलिङ्गकम् । तदा तत्क्षणमात्रेण पापौघं नाशयेद्ध्रुवम् ॥ ५.९१॥ यं यं कामयते चित्ते तं तं फलमवाप्नुयात् । निरन्तरकृताभ्यासात्तं पश्यति विमुक्तिदम् ॥ ५.९२॥ बहिरभ्यन्तरे श्रेष्ठं पूजनीयं प्रयत्नतः । ततः श्रेष्ठतमं ह्येतन्नान्यदस्ति मतं मम ॥ ५.९३॥ आत्मसंस्थं शिवं त्यक्त्वा बहिःस्थं यः समर्चयेत् । हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया ॥ ५.९४॥ आत्मलिङ्गार्चनं कुर्यादनालस्यं दिने दिने । तस्य स्यात्सकला सिद्धिर्मात्र कार्या विचारणा ॥ ५.९५॥ निरन्तरकृताभ्यासात्षण्मासैः सिद्धिमाप्नुयात् । (निरन्तरकृताभ्यासात्षण्मासे) तस्य वायुप्रवेशोऽपि सुषुम्णायाम्भवेद्ध्रुवम् ॥ ५.९६॥ मनोजयञ्च लभते वायुबिन्दुविधारणाम् । (वायुबिन्दुविधारणात्) ऐहिकामुष्मिकीसिद्धिर्भवेन्नैवात्र संशयः ॥ ५.९७॥ स्वाधिष्ठानचक्रविवरणम् । द्वितीयन्तु सरोजञ्च लिङ्गमूले व्यवस्थितम् । बादिलान्तं च षड्वर्णं परिभास्वरषड्दलम् ॥ ५.९८॥ स्वाधिष्ठानाभिधं तत्तु पङ्कजं शोणरूपकम् । बाणाख्यो यत्र सिद्धोऽस्ति देवी यत्रास्ति राकिणी ॥ ५.९९॥ यो ध्यायति सदा दिव्यं स्वाधिष्ठानारविन्दकम् । तस्य कामाङ्गनाः सर्वा भजन्ते काममोहिताः ॥ ५.१००॥ विविधञ्चाश्रुतं शास्त्रं निःशङ्को वै वदेद्ध्रुवम् । सर्वरोगविनिर्मुक्तो लोके चरति निर्भयः ॥ ५.१०१॥ मरणं खाद्यते तेन स केनापि न खाद्यते । तस्य स्यात्परमा सिद्धिरणिमादिगुणप्रदा ॥ ५.१०२॥ वायुः सञ्चरते देहे रसवृद्धिर्भवेद्ध्रुवम् । आकाशपङ्कजगलत्पीयूषमपि वर्द्धते ॥ ५.१०३॥ मणिपूरचक्रविवरणम् । तृतीयं पङ्कजं नाभौ मणिपूरकसंज्ञकम् । दशारण्डादिफान्तार्णं शोभितं हेमवर्णकम् ॥ ५.१०४॥ रुद्राख्यो यत्र सिद्धोऽस्ति सर्वमङ्गलदायकः । तत्रस्था लाकिनी नाम्नी देवी परमधार्मिका ॥ ५.१०५॥ तस्मिन् ध्यानं सदा योगी करोति मणिपूरके । तस्य पातालसिद्धिः स्यान्निरन्तरसुखावहा ॥ ५.१०६॥ ईप्सितञ्च भवेल्लोके दुःखरोगविनाशनम् । कालस्य वञ्चनञ्चापि परदेहप्रवेशनम् ॥ ५.१०७॥ जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत् । ओषधीदर्शनञ्चापि निधीनां दर्शनं भवेत् ॥ ५.१०८॥ अनाहतचक्रविवरणम् । हृदयेऽनाहतं नाम चतुर्थं पङ्कजं भवेत् । कादिठान्तार्णसंस्थानं द्वादशारसमन्वितम् । अतिशोणं वायुबीजं प्रसादस्थानमीरितम् ॥ ५.१०९॥ पद्मस्थं तत्परं तेजो बाणलिङ्गं प्रकीर्तितम् । यस्य स्मरणमात्रेण दृष्टादृष्टफलं लभेत् ॥ ५.११०॥ सिद्धः पिनाकी यत्रास्ते काकिनी यत्र देवता । एतस्मिन्सततं ध्यानं हृत्पाथोजे करोति यः । क्षुभ्यन्ते तस्य कान्ता वै कामार्ता दिव्ययोषितः ॥ ५.१११॥ ज्ञानञ्चाप्रतिमं तस्य त्रिकालविषयम्भवेत् । दूरश्रुतिर्दूरदृष्टिः स्वेच्छया खगतां व्रजेत् ॥ ५.११२॥ सिद्धानां दर्शनञ्चापि योगिनी दर्शनं तथा । भवेत्खेचरसिद्धिश्च खेचराणां जयन्तथा ॥ ५.११३॥ यो ध्यायति परं नित्यं बाणलिङ्गं द्वितीयकम् । खेचरी भूचरी सिद्धिर्भवेत्तस्य न संशयः ॥ ५.११४॥ एतद्ध्यानस्य माहात्म्यं कथितुं नैव शक्यते । ब्रह्माद्याः सकला देवा गोपयन्ति परन्त्विदम् ॥ ५.११५॥ विशुद्धचक्रविवरणम् । कण्ठस्थानस्थितं पद्मं विशुद्धं नामपञ्चमम् । सुहेमाभं स्वरोपेतं षोडशस्वरसंयुतम् । छगलाण्डोऽस्ति सिद्धोऽत्र शाकिनी चाधिदेवता ॥ ५.११६॥ ध्यानं करोति यो नित्यं स योगीश्वरपण्डितः । किन्त्वस्य योगिनोऽन्यत्र विशुद्धाख्ये सरोरुहे । चतुर्वेदा विभासन्ते सरहस्या निधेरिव ॥ ५.११७॥ इह स्थाने स्थितो योगी यदा क्रोधवशो भवेत् । तदा समस्तं त्रैलोक्यं कम्पते नात्र संशयः ॥ ५.११८॥ इह स्थाने मनो यस्य दैवाद्याति लयं यदा । तदा बाह्यं परित्यज्य स्वान्तरे रमते ध्रुवम् ॥ ५.११९॥ तस्य न क्षतिमायाति स्वशरीरस्य शक्तितः । संवत्सरसहस्रेऽपि वज्रातिकठिनस्य वै ॥ ५.१२०॥ यदा त्यजति तद्ध्यानं योगीन्द्रोऽवनिमण्डले । तदा वर्षसहस्राणि मन्यते तत्क्षणं कृती ॥ ५.१२१॥ आज्ञाचक्रविवरणम् । आज्ञापद्मं भ्रुवोर्मध्ये हक्षोपेतं द्विपत्रकम् । शुक्लाभं तन्महाकालः सिद्धो देव्यत्र हाकिनी ॥ ५.१२२॥ शरच्चन्द्रनिभं तत्राक्षरबीजं विजृम्भितम् । पुमान् परमहंसोऽयं यज्ज्ञात्वा नावसीदति ॥ ५.१२३॥ एतदेव परन्तेजः सर्वतन्त्रेषु मन्त्रिणः । (तत्र देवः) चिन्तयित्वा परां सिद्धिं लभते नात्र संशयः ॥ ५.१२४॥ तुरीयं त्रितयं लिङ्गं तदाहं मुक्तिदायकः । ध्यानमात्रेण योगीन्द्रो मत्समो भवति ध्रुवम् ॥ ५.१२५॥ इडा हि पिङ्गला ख्याता वरणासीति होच्यते । वाराणसी तयोर्मध्ये विश्वनाथोऽत्र भाषितः ॥ ५.१२६॥ एतत्क्षेत्रस्य माहात्म्यमृषिभिस्तत्त्वदर्शिभिः । शास्त्रेषु बहुधा प्रोक्तं परं तत्त्वं सुभाषितम् ॥ ५.१२७॥ सुषुम्णा मेरुणा याता ब्रह्मरन्ध्रं यतोऽस्ति वै । ततश्चैषा परावृत्य तदाज्ञापद्मदक्षिणे । (परावृत्या) वामनासापुटं याति गङ्गेति परिगीयते ॥ ५.१२८॥ ब्रह्मरन्ध्रे हि यत्पद्मं सहस्रारं व्यवस्थितम् । तत्र कन्देहि या योनिस्तस्यां चन्द्रो व्यवस्थितः ॥ ५.१२९॥ त्रिकोणाकारतस्तस्याः सुधा क्षरति सन्ततम् । इडायाममृतं तत्र समं स्रवति चन्द्रमाः ॥ ५.१३०॥ अमृतं वहति द्वारा धारारूपं निरन्तरम् । वामनासापुटं याति गङ्गेत्युक्ता हि योगिभिः ॥ ५.१३१॥ आज्ञापङ्कजदक्षांसाद्वामनासापुटङ्गता । उदग्वहेति तत्रेडा गङ्गेति समुदाहृता ॥ ५.१३२॥ (वरणा) ततो द्वयमिह मध्ये तु वाराणसीति चिन्तयेत् । (द्वयोर्हि) तदाकारा पिङ्गलापि तदाज्ञाकमलोत्तरे । (तदाज्ञाकमलान्तरे) दक्षनासापुटे याति प्रोक्तास्माभिरसीति वै ॥ ५.१३३॥ मूलाधारे हि यत्पद्मं चतुष्पत्रं व्यवस्थितम् । (चतुष्पत्र) तत्र कन्देऽस्ति या योनिस्तस्यां सूर्यो व्यवस्थितः ॥ ५.१३४॥ (तत्र मध्येहि) तत्सूर्यमण्डलद्वारं विषं क्षरति सन्ततम् । (तत्सूर्यमण्डलद्वराद्विषं) पिङ्गलायां विषं तत्र समर्थयति तापनः ॥ ५.१३५॥ (समर्पयति) विषं तत्र वहन्ती या धारारूपं निरन्तरम् । दक्षनासापुटे याति कल्पितेयन्तु पूर्ववत् ॥ ५.१३६॥ आज्ञापङ्कजवामास्याद्दक्षनासापुटं गता । उदग्वहा पिङ्गलापि पुरासीति प्रकीर्तिता ॥ ५.१३७॥ आज्ञापद्ममिदं प्रोक्तं यत्र देवो महेश्वरः । पीठत्रयं ततश्चोर्ध्वं निरुक्तं योगचिन्तकैः । तद्बिन्दुनादशक्त्याख्यं भालपद्मे व्यवस्थितम् ॥ ५.१३८॥ यः करोति सदाध्यानमाज्ञापद्मस्य गोपितम् । पूर्वजन्मकृतं कर्म विनश्येदविरोधतः ॥ ५.१३९॥ इह स्थिते यदा योगी ध्यानं कुर्यान्निरन्तरम् । (सदा) तदा करोति प्रतिमां प्रतिजापमनर्थवत् ॥ ५.१४०॥ यक्षराक्षसगन्धर्वा अपसरोगणकिन्नराः । सेवन्ते चरणौ तस्य सर्वे तस्य वशानुगाः ॥ ५.१४१॥ करोति रसनां योगी प्रविष्टां विपरीतगाम् । लम्बिकोर्ध्वेषु गर्तेषु धृत्वा ध्यानं भयापहम् ॥ ५.१४२॥ अस्मिन् स्थाने मनो यस्य क्षणार्धं वर्ततेऽचलम् । तस्य सर्वाणि पापानि सङ्क्षयं यान्ति तत्क्षणात् ॥ ५.१४३॥ यानि यानीह प्रोक्तानि पञ्चपद्मे फलानि वै । (यानि यानि हि) तानि सर्वाणि सुतरामेतज्ज्ञानाद्भवन्ति हि ॥ ५.१४४॥ यः करोति सदाभ्यासमाज्ञा पद्मे विचक्षणः । वासनाया महाबन्धं तिरस्कृत्य प्रमोदते ॥ ५.१४५॥ प्राणप्रयाणसमये तत्पद्मं यः स्मरन्सुधीः । त्यजेत्प्राणं स धर्मात्मा परमात्मनि लीयते ॥ ५.१४६॥ तिष्ठन् गच्छन् स्वपन् जाग्रत् यो ध्यानं कुरुते नरः । पापकर्मविकुर्वाणो नहि मज्जति किल्बिषे ॥ ५.१४७॥ (किल्विषे) राजयोगाधिकारी स्यादेतच्चिन्तनतो ध्रुवम् । योगी बन्धाद्विनिर्मुक्तः स्वीयया प्रभया स्वयम् ॥ ५.१४८॥ द्विदलध्यानमाहात्म्यं कथितुं नैव शक्यते । ब्रह्मादिदेवताश्चैव किञ्चिन्मत्तो विदन्ति ते ॥ ५.१४९॥ सहस्रारचक्रकथनम् । अत ऊर्ध्वं तालुमूले सहस्रारंसरोरुहम् । अस्ति यत्र सुषुम्णाया मूलं सविवरं स्थितम् ॥ ५.१५०॥ तालुमूले सुषुम्णास्य अधोवक्त्रा प्रवर्तते । मूलाधारेण योन्यन्ताः सर्वनाड्यः समाश्रिताः । (योन्यस्ताः) ता बीजभूतास्तत्त्वस्य ब्रह्ममार्गप्रदायिकाः ॥ ५.१५१॥ तालुस्थाने च यत्पद्मं सहस्रारं पुरोदितम् । तत्कन्दे योनिरेकास्ति पश्चिमाभिमुखी मता ॥ ५.१५२॥ तस्य मध्ये सुषुम्णाया मूलं सविवरं स्थितम् । (तस्या) ब्रह्मरन्ध्रं तदेवोक्तमामूलाधारपङ्कजम् ॥ ५.१५३॥ (ब्रह्मरन्ध्र) तत्रान्तरन्ध्रे चिच्छक्तिः सुषुम्णा कुण्डली सदा ॥ ५.१५४॥ (तत्रान्तरन्ध्रे / ततस्तद्वन्ध्रे) (तच्छक्तिः) सुषुम्णायां स्थिता नाडी चित्रा स्यान्मम वल्लभे । (सुषुम्णायां सदा शक्तिश्चित्रा) तस्यां मम मते कार्या ब्रह्मरन्ध्रादिकल्पना ॥ ५.१५५॥ यस्याः स्मरणमात्रेण ब्रह्मज्ञत्वं प्रजायते । पापक्षयश्च भवति न भूयः पुरुषो भवेत् ॥ ५.१५६॥ प्रवेशितं चलाङ्गुष्ठं मुखे स्वस्य निवेशयेत् । तेनात्र न वहत्येव देहचारी समीरणः ॥ ५.१५७॥ (बहत्येव) तेन संसारचक्रेऽस्मिन् भ्रमन्ते च सर्वदा । (भ्रमतीत्येव सर्वदा) तदर्थं ये प्रवर्तन्ते योगीनः प्राणधारणे ॥ ५.१५८॥ तत एवाखिला नाडी निरुद्धा चाष्टवेष्टनम् । (विरुद्धा) इयं कुण्डलिनी शक्ती रन्ध्रं त्यजति नान्यथा ॥ ५.१५९॥ यदा पूर्णासु नाडीषु सन्निरुद्धानिलास्तदा । बन्धत्यागेन कुण्डल्या मुखं रन्ध्राद्बहिर्भवेत् । सुषुम्णायां सदैवायं वहेत्प्राणसमीरणः ॥ ५.१६०॥ मूलपद्मस्थिता योनिर्वामदक्षिणकोणतः । इडापिङ्गलयोर्मध्ये सुषुम्णा योनिमध्यगा ॥ ५.१६१॥ ब्रह्मरन्ध्रन्तु तत्रैव सुषुम्णाधारमण्डले । यो जानाति स मुक्तः स्यात्कर्मबन्धाद्विचक्षणः ॥ ५.१६२॥ ब्रह्मरन्ध्रमुखे तासां सङ्गमः स्यादसंशयः । तस्मिन्स्नाने स्नातकानां मुक्तिः स्यादविरोधतः ॥ ५.१६३॥ गङ्गायमुनयोर्मध्ये वहत्येषा सरस्वती । तासान्तु सङ्गमे स्नात्वा धन्यो याति पराङ्गतिम् ॥ ५.१६४॥ इडा गङ्गा पुरा प्रोक्ता पिङ्गला चार्कपुत्रिका । मध्या सरस्वती प्रोक्ता तासां सङ्गोऽतिदुर्लभः ॥ ५.१६५॥ सितासिते सङ्गमे यो मनसा स्नानमाचरेत् । सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम् ॥ ५.१६६॥ त्रिवेण्यां सङ्गमे यो वै पितृकर्म समाचरेत् । तारयित्वा पितॄन्सर्वान्स याति परमां गतिम् ॥ ५.१६७॥ नित्यं नैमित्तिकं काम्यं प्रत्यहं यः समाचरेत् । (नित्य) मनसा चिन्तयित्वा तु सोऽक्षयं फलमाप्नुयात् ॥ ५.१६८॥ सकृद्यः कुरुते स्नानं स्वर्गो सौख्यं भुनक्ति सः । (स्वर्गे) दग्ध्वा पापानशेषान्वै योगी शुद्धमतिः स्वयम् ॥ ५.१६९॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । स्नानाचरणमात्रेण पूतो भवति नान्यथा ॥ ५.१७०॥ मृत्युकाले प्लुतं देहं त्रिवेण्याः सलिले यदा । विचिन्त्य यस्त्यजेत्प्राणान्स तदा मोक्षमाप्नुयात् ॥ ५.१७१॥ नातःपरतरं गुह्यं त्रिषु लोकेषु विद्यते । गोप्तव्यं तत्प्रयत्नेन न व्याख्येयं कदाचन ॥ ५.१७२॥ ब्रह्मरन्ध्र मनो दत्त्वा क्षणार्धं यदि तिष्ठति । सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ ५.१७३॥ अस्मिन्लीनं मनो यस्य स योगी मयि लीयते । अणिमादिगुणान्भुक्त्वा स्वेच्छया पुरुषोत्तमः ॥ ५.१७४॥ एतद्रन्ध्रध्यानमात्रेण मर्त्यः संसारेऽस्मिन्वल्लभो मे भवेत्सः । पापाञ्जित्वा मुक्तिमार्गाधिकारी ज्ञानं दत्त्वा तारयत्यद्भुतं वै ॥ ५.१७५॥ चतुर्मुखादित्रिदशैरगम्यं योगिवल्लभम् । प्रयत्नेन सुगोप्यं तद्ब्रह्मरन्ध्रं मयोदितम् ॥ ५.१७६॥ पुरा मयोक्ता या योनिः सहस्रारे सरोरुहे । तस्याऽधो वर्तते चन्द्रस्तद्ध्यानं क्रियते बुधैः ॥ ५.१७७॥ (तस्याधो) यस्य स्मरणमात्रेण योगीन्द्रोऽवनिमण्डले । पूज्यो भवति देवानां सिद्धानां सम्मतो भवेत् ॥ ५.१७८॥ शिरःकपालविवरे ध्यायेद्दुग्धमहोदधिम् । तत्र स्थित्वा सहस्रारे पद्मे चन्द्रं विचिन्तयेत् ॥ ५.१७९॥ शिरःकपालविवरे द्विरष्टकलया युतः । पीयूषभानुहंसाख्यं भावयेत्तं निरञ्जनम् ॥ ५.१८०॥ निरन्तरकृताभ्यासात्त्रिदिने पश्यति ध्रुवम् । दृष्टिमात्रेण पापौघं दहत्येव स साधकः ॥ ५.१८१॥ अनागतञ्च स्फुरति चित्तशुद्धिर्भवेत्खलु । सद्यः कृत्वापि दहति महापातकपञ्चकम् ॥ ५.१८२॥ आनुकूल्यं ग्रहा यान्ति सर्वे नश्यन्त्युपद्रवाः । उपसर्गाः शमं यान्ति युद्धे जयमवाप्नुयात् ॥ ५.१८३॥ खेचरीभूचरीसिद्धिर्भवेत्क्षीरेन्दुदर्शनात् । ध्यानादेवभवेत्सर्वं नात्र कार्य विचारणा ॥ ५.१८४॥ (कार्या) सन्तताभ्यासयोगेन सिद्धो भवति मानवः । (सतताभ्यासयोगेन) सत्यं सत्यं पुनः सत्यं मम तुल्यो भवेद्ध्रुवम् । योगशास्त्रं च परमं योगिनां सिद्धिदायकम् ॥ ५.१८५॥ (योगशास्त्रेऽप्यभिरतं) राजयोगकथनम् । अत ऊर्ध्वं दिव्यरूपं सहस्रारं सरोरुहम् । ब्रह्माण्डाख्यस्य देहस्य बाह्ये तिष्ठति मुक्तिदम् ॥ ५.१८६॥ कैलासो नाम तस्यैव महेशो यत्र तिष्ठति । अकुलाख्योऽविनाशी च क्षयवृद्धिविवर्जितः ॥ ५.१८७॥ (नकुलाख्योऽविनाशी) स्थानस्यास्य ज्ञानमात्रेण नॄणां, संसारेऽस्मिन्सम्भवो नैव भूयः । भूतग्रामं सन्तताभ्यासयोगात्कर्तुं हर्तुं स्याच्च शक्तिः समग्राः ॥ ५.१८८॥ (समग्रा) स्थाने परे हंसनिवासभूते, कैलासनाम्नीह निविष्टचेताः । योगी हृतव्याधिरधः कृताधिर्वायुश्चिरञ्जीजीवति मृत्युमुक्तः ॥ ५.१८९॥ (कृताधिवरायुश्चिरं जीवति) चित्तवृत्तिर्यदा लीना कुलाख्ये परमेश्वरे । तदा समाधिसाम्येन योगी निश्चलतां व्रजेत् ॥ ५.१९०॥ निरन्तरकृते ध्याने जगद्विस्मरणं भवेत् । तदा विचित्रसामर्थ्यं योगिनो भवति ध्रुवम् ॥ ५.१९१॥ तस्माद्गलितपीयूषं पिबेद्योगी निरन्तरम् । मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे ॥ ५.१९२॥ अत्र कुण्डलिनीशक्तिर्लयं याति कुलाभिधा । तदा चतुर्विधा सृष्टिर्लीयते परमात्मनि ॥ ५.१९३॥ यज्ज्ञात्वा प्राप्य विषयं चित्तवृत्तिर्विलीयते । तस्मिन्परिश्रमं योगी करोति निरपेक्षकः ॥ ५.१९४॥ चित्तवृत्तियदालीना तस्मिन् योगी भवेद्ध्रुवम् । तदा विज्ञायतेऽखण्डज्ञानरूपो निरञ्जनः ॥ ५.१९५॥ ब्रह्माण्डबाह्ये सञ्चिन्त्य स्वप्रतीकं यथोदितम् । तमावेश्य महच्छून्यं चिन्तयेदविरोधतः ॥ ५.१९६॥ आद्यन्तमध्यशून्यं तत्कोटिसूर्यसमप्रभम् । चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात् ॥ ५.१९७॥ एतद्ध्यानं सदा कुर्यादनालस्यं दिने दिने । तस्य स्यात्सकला सिद्धिर्वत्सरान्नात्र संशयः ॥ ५.१९८॥ क्षणार्द्धं निश्चलं तत्र मनो यस्य भवेद्ध्रुवम् । (क्षणार्धं) स एव योगी सद्भक्तः सर्वलोकेषु पूजितः । तस्य कल्मषसङ्घातस्तत्क्षणादेव नश्यति ॥ ५.१९९॥ यं दृष्ट्वा न प्रवर्तन्ते मृत्युसंसारवर्त्मनि । अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना ॥ ५.२००॥ एतद्ध्यानस्य माहात्म्यं मया वक्तुं न शक्यते । यः साधयति जानाति सोऽस्माकमपि सम्मतम् ॥ ५.२०१॥ (सम्मतः) ध्यानादेव विजानाति विचित्रेफलसम्भवम् । अणिमादिगुणोपेतो भवत्येव न संशयः ॥ ५.२०२॥ राजाधिराजयोगकथनम् । राजयोगो मयाख्यातः सर्वतन्त्रेषु गोपितः । राजाधिराजयोगोऽयं कथयामि समासतः ॥ ५.२०३॥ स्वस्तिकञ्चासनं कृत्वा सुमठे जन्तुवर्जिते । गुरुं सम्पूज्य यत्नेन ध्यानमेतत्समाचरेत् ॥ ५.२०४॥ निरालम्बं भवेज्जीवं ज्ञात्वा वेदान्तयुक्तितः । निरालम्बं मनः कृत्वा न किञ्चिच्चिन्तयेत्सुधीः ॥ ५.२०५॥ एतद्ध्यानान्महासिद्धिर्भवत्येव न संशयः । वृत्तिहीनं मनः कृत्वा पूर्णरूपं स्वयं भवेत् ॥ ५.२०६॥ साधयेत्सततं यो वै स योगी विगतस्पृहः । अहन्नाम न कोप्यस्ति सर्वदात्मैव विद्यते ॥ ५.२०७॥ को बन्धः कस्य वा मोक्ष एकं पश्येत्सदा हि सः । एतत्करोति यो नित्यं स मुक्तो नात्र संशयः । स एव योगी सद्भक्तः सर्वलोकेषु पूजितः ॥ ५.२०८॥ अहमस्मीति यन्मत्वा जीवात्मपरमात्मनोः । अहं त्वमेतदुभयं त्यक्त्वाखण्डं विचिन्तयेत् ॥ ५.२०९॥ अध्यारोपापवादाभ्यां यत्र सर्वं विलीयते । तद्बीजमाश्रयेद्योगी सर्वसङ्गविवर्जितः ॥ ५.२१०॥ अपरोक्षं चिदानन्दं पूर्णं त्यक्त्वा भ्रमाकुलाः । परोक्षं चापरोक्षं च कृत्वा मूढा भ्रमन्ति वै ॥ ५.२११॥ चराचरमिदं विश्वं परोक्षं यः करोति च । अपरोक्षं परं ब्रह्म त्यक्तं तस्मिन्प्रलीयते ॥ ५.२१२॥ ज्ञानकारणमज्ञानं यथा नोत्पद्यते भृशम् । अभ्यासं कुरुते योगी सदा सङ्गविवर्जितम् ॥ ५.२१३॥ सर्वेन्द्रियाणि संयम्य विषयेभ्यो विचक्षणः । विषयेभ्यः सुषुप्त्यैव तिष्ठेत्सङ्गविवर्जितः ॥ ५.२१४॥ एवमभ्यासतो नित्यं स्वप्रकाशं प्रकाशते । (एवमभ्यसतो) श्रोतुं बुद्धिसमर्थार्थं निवर्तन्ते गुरोर्गिरः । तदभ्यासवशादेकं स्वतो ज्ञानं प्रवर्तते ॥ ५.२१५॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । साधनादमलं ज्ञानं स्वयं स्फुरति तद्ध्रुवम् ॥ ५.२१६॥ हठं विना राजयोगो राजयोगं विना हठः । तस्मात्प्रवर्तते योगी हठे सद्गुरुमार्गतः ॥ ५.२१७॥ स्थिते देहे जीवति च योगं न श्रियते भृशम् । इन्द्रियार्थोपभोगेषु स जीवति न संशयः ॥ ५.२१८॥ अभ्यासपाकपर्यन्तं मितान्नंस्मरणं भवेत् । अन्यथा साधनं धीमान्कर्तुं पारयतीह न ॥ ५.२१९॥ अतीवसाधुसंलापं साधुसम्मतिबुद्धिमान् । करोति पिण्डरक्षार्थं बह्वालापविवर्जितः ॥ ५.२२०॥ त्याज्यते त्यज्यते सङ्गं सर्वथा त्यज्यते भृशम् । (त्यज्यते त्यज्यते) अन्यथा न लभेन्मुक्तिं सत्यं सत्यं मयोदितम् ॥ ५.२२१॥ गुह्यैव क्रियतेऽभ्यासः सङ्गं त्यक्त्वा तदन्तरे । (गुप्त्यैव) व्यवहाराय कर्तव्यो बाह्यसङ्गो न रागतः ॥ ५.२२२॥ (बाह्येसङ्गानुरागतः) स्वे स्वे कर्मणि वर्तन्ते सर्वे ते कर्मसम्भवाः । निमित्तमात्रं करणे न दोषोऽस्ति कदाचन ॥ ५.२२३॥ एवं निश्चित्य सुधिया गृहस्थोऽपि यदाचरेत् । तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ ५.२२४॥ पापपुण्यविनिर्मुक्तः परित्यक्ताङ्गसाधकः । यो भवेत्स विमुक्तः स्याद्गृहे तिष्ठन्सदा गृही ॥ ५.२२५॥ न पापपुण्यैर्लिप्येत योगयुक्तो यदा गृही । (सदा) कुर्वन्नपि तदा पापान्स्वकार्ये लोकसङ्ग्रहे ॥ ५.२२६॥ मन्त्रसाधनकथनम् । अधुना सम्प्रवक्ष्यामि मन्त्रसाधनमुत्तमम् । ऐहिकामुष्मिकसुखं येन स्यादविरोधतः ॥ ५.२२७॥ यस्मिन्मन्त्रवरे ज्ञाते योगसिद्धिर्भवेत्खलु । (यस्मिन्मन्त्रे वरे) योगेन साधकेन्द्रस्य सर्वैश्वयेसुखप्रदा ॥ ५.२२८॥ मूलाधारेऽस्ति यत्पद्मं चतुर्दलसमन्वितम् । तन्मध्ये वाग्भवं बीजं विस्फुरन्तं तडित्प्रभम् ॥ ५.२२९॥ हृदये कामबीजन्तु बन्धूककुसुमप्रभम् । आज्ञारविन्दे शक्त्याख्यं चन्द्रकोटिसमप्रभम् ॥ ५.२३०॥ बीजत्रयमिदं गोप्यं भुक्तिमुक्तिफलप्रदम् । एतन्मन्त्रत्रयं योगी साधयेत्सिद्धिसाधकः ॥ ५.२३१॥ एतन्मन्त्रं गुरोर्लब्ध्वा न द्रुतं न विलम्बितम् । अक्षराक्षरसन्धानं निःसन्दिग्धमना जपेत् ॥ ५.२३२॥ तद्गतश्चैकचित्तश्च शास्त्रोक्तविधिना सुधीः । देव्यास्तु पुरतो लक्षं हुत्वा लक्षत्रयं जपेत् ॥ ५.२३३॥ करवीरप्रसूनन्तु गुडक्षीराज्यसंयुतम् । कुण्डे योन्याकृतौ धीमाञ्जपान्ते जुहुयात्सुधीः ॥ ५.२३४॥ (योन्याकृते) अनुष्ठाने कृते धीमान्पूर्वसेवा कृता भवेत् । ततो ददाति कामान्वै देवी त्रिपुरभैरवी ॥ ५.२३५॥ गुरुं सन्तोष्य विधिवल्लब्ध्वा मन्त्रवरोत्तमम् । अनेन विधिना युक्तो मन्दभाग्योऽपि सिद्ध्यति ॥ ५.२३६॥ लक्षमेकं जपेद्यस्तु साधको विजितेन्द्रियः । दर्शनात्तस्य क्षुभ्यन्ते योषितो मदनातुराः । पतन्ति साधकस्याग्रे निर्लज्जा भयवर्जिताः ॥ ५.२३७॥ जप्तेन च द्विलक्षेण ये यस्मिन्विषये स्थिताः । आगच्छन्ति यथातीर्थं विमुक्तकुलविग्रहाः । सर्वस्वं तस्य ददति तस्यैव च वशे स्थिताः ॥ ५.२३८॥ (ददति तस्य सर्वस्वं) त्रिभिर्लक्षैस्तथाजप्तैर्मण्डलीकं समण्डलम् । (त्रिभिर्लक्षैस्तथाजप्तैर्मण्डलीकाः समण्डलाः ।) वशमायान्ति ते सर्वे नात्र कार्या विचारणा । षड्भिर्लक्षैर्महीपालं सभृत्यबलवाहनम् ॥ ५.२३९॥ लक्षैर्द्वादशभिर्जप्तैर्यक्षरक्षोरगेश्वराः । वशमायान्ति ते सर्वे आज्ञां कुर्वन्ति नित्यशः ॥ ५.२४०॥ त्रिपञ्चलक्षजप्तैस्तु साधकेन्द्रस्य धीमतः । सिद्धविद्याधराश्चैव गन्धर्वाप्सरसाङ्गणाः ॥ ५.२४१॥ वशमायान्ति ते सर्वे नात्र कार्या विचारणा । हठाच्छ्रवणविज्ञानं सर्वज्ञत्वं प्रजायते ॥ ५.२४२॥ तथाष्टादशभिर्लक्षैर्देहेनानेन साधकः । उत्तिष्ठेन्मेदिनीं त्यक्त्वा दिव्यदेहस्तु जायते । भ्रमते स्वेच्छया लोके छिद्रां पश्यति मेदिनीम् ॥ ५.२४३॥ अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत् । साधकस्तु भवेद्धीमान्कामरूपो महाबलः ॥ ५.२४४॥ त्रिंशल्लक्षैस्तथाजप्तैर्ब्रह्मविष्णुसमो भवेत् । रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभिः ॥ ५.२४५॥ कोट्येकया महायोगी लीयते परमे पदे । साधकस्तु भवेद्योगी त्रैलोक्ये सोऽतिदुर्लभः ॥ ५.२४६॥ शिवसंहिताफलकथनम् । त्रिपुरे त्रिपुरन्त्वेकं शिवं परमकारणम् । अक्षयं तत्पदं शान्तमप्रमेयमनामयम् ॥ ५.२४७॥ लभतेऽसौ न सन्देहो धीमान्सर्वमभीप्सितम् । शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरी ॥ ५.२४८॥ मद्भाषितमिदं शास्त्रङ्गोपनीयमतोबुधैः । हठविद्या परं गोप्या योगिना सिद्धिमिच्छता ॥ ५.२४९॥ भवेद्वीर्यवती गुप्ता निर्वीर्या च प्रकाशिता । य इदं पठते नित्यमाद्योपान्तं विचक्षणः ॥ ५.२५०॥ योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशयः । स मोक्षं लभते धीमान्य इदं नित्यमर्चयेत् ॥ ५.२५१॥ मोक्षार्थिभ्यश्च सर्वेभ्यः साधुभ्यः श्रावयेदपि । क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथम्भवेत् ॥ ५.२५२॥ तस्मात्क्रियाविधानेन कर्तव्या योगिपुङ्गवैः । यदृच्छालाभसन्तुष्टः सन्त्यक्त्वान्तरसङ्गङ्कः ॥ ५.२५३॥ गृहस्थश्चाप्यनासक्तः स मुक्तो योगसाधनात् । गृहस्थानां भवेत्सिद्धिरीश्वराणां जपेन वै । योगक्रियाभियुक्तानां तस्मात्संयतते गृही ॥ ५.२५४॥ गेहे स्थित्वा पुत्रदारादिपूर्णः सङ्गं त्यक्त्वा चान्तरे योगमार्गे । सिद्धे चिह्नं वीक्ष्य पश्चाद्गृहस्थः (सिद्धेश्चिह्नं) क्रीडेत्सं वै सम्मतं साधयित्वा ॥ ५.२५५॥ (क्रीडेत्सो) इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे पञ्चमपटलः समाप्तः । ५। इति शुभम् ।

कोई टिप्पणी नहीं:

Dr. Balavant Singh