बुधवार, 27 मार्च 2024

घेरण्डसंहितामूलमात्रम्

 

घेरण्डसंहिता

॥ श्रीगणेशाय नमः॥ मङ्गलाचरणम् । आदीश्वराय प्रणमामि तस्मै येनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहिणीव ॥

षट्कर्मशोधनं नाम प्रथमोपदेशः

अथ घटस्थयोगकथनम् । एकदा चण्डकापालिर्गत्वा घेरण्डकुट्टिरम् । प्रणम्य विनयाद्भक्त्या घेरण्डं परिपृच्छति ॥ १॥ श्रीचण्डकापालिरुवाच । घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम् । इदानीं श्रोतुमिच्छामि योगेश्वर वद प्रभो ॥ २॥ घेरण्ड उवाच । साधु साधु महाबाहो यन्मां त्वं परिपृच्छसि । कथयामि हि ते वत्स सावधानावधारय ॥ ३॥ नास्ति मायासमः पाशो नास्ति योगात्परं बलम् । नास्ति ज्ञानात्परो बन्धुर्नाहङ्कारात्परो रिपुः ॥ ४॥ अभ्यासात्कादिवर्णानां यथा शास्त्राणि बोधयेत् । तथा योगं समासाद्य तत्त्वज्ञानं च लभ्यते ॥ ५॥ सुकृतैर्दुष्कृतैः कार्यैर्जायते प्राणिनां घटः । घटादुत्पद्यते कर्म घटीयन्त्रं यथा भ्रमेत् ॥ ६॥ ऊर्ध्वाधो भ्रमते यद्वद्घटीयन्त्रं गवां वशात् । तद्वत्कर्मवशाज्जीवो भ्रमते जन्ममृत्युभिः ॥ ७॥ आमं कुम्भमिवाम्भस्थो जीर्यमाणः सदा घटः । योगानलेन सन्दह्य घटशुद्धिं समाचरेत् ॥ ८॥ अथ सप्तसाधनम् । शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम् । प्रत्यक्षं च निर्लिप्तं च घटस्थसप्तसाधनम् ॥ ९॥ अथ सप्तसाधनलक्षणम् । षट्कर्मणा शोधनं च आसनेन भवेद्दृढम् । मुद्रया स्थिरता चैव प्रत्याहारेण धीरता ॥ १०॥ प्राणायामाल्लाघवं च ध्यानात्प्रत्यक्षमात्मनः । समाधिना निर्लिप्तं च मुक्तिरेव न संशयः ॥ ११॥ अथ शोधनम् । धौतिर्बस्तिस्तथा नेतिर्नौलिकी त्राटकं तथा । कपालभातिश्चैतानि षट्कर्माणि समाचरेत् ॥ १२॥ अथ धौतिः । अन्तर्धौतिर्दन्तधौतिर्हृद्धौतिर्मूलशोधनम् । धौतिं चतुर्विधां कृत्वा घटं कुर्वन्ति निर्मलम् ॥ १३॥ अथान्तर्धौतिः । वातसारं वारिसारं वह्निसारं बहिष्कृतम् । घटस्य निर्मलार्थाय ह्यन्तर्धौतिश्चतुर्विधा ॥ १४॥ अथ वातसारः । काकचञ्चूवदास्येन पिबेद्वायुं शनैः शनैः । चालयेदुदरं पश्चाद्वर्त्मना रेचयेच्छनैः ॥ १५॥ वातसारं परं गोप्यं देहनिर्मलकारणम् । सर्वरोगक्षयकरं देहानलविवर्धकम् ॥ १६॥ अथ वारिसारः । आकण्ठं पूरयेद्वारि वक्त्रेण च पिबेच्छनैः । चालयेदुदरेणैव चोदराद्रेचयेदधः ॥ १७॥ वारिसारं परं गोप्यं देहनिर्मलकारकम् । साधयेद्यः प्रयत्नेन देवदेहं प्रपद्यते ॥ १८॥ वारिसारं परां धौतिं साधयेद्यः प्रयत्नतः । मलदेहं शोधयित्वा देवदेहं प्रपद्यते ॥ १९॥ अथ अग्निसारः । नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत् । उदरामयजं त्यक्त्वा जाठराग्निं विवर्धयेत् ॥ २०॥ अग्निसारमियं धौतिर्योगिनां योगसिद्धिदा । एषा धौतिः परा गोप्या देवानामपि दुर्लभा । केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् ॥ २१॥ अथ बहिष्कृतधौतिः । काकीमुद्रां साधयित्वा पूरयेदुदरं मरुत् । धारयेदर्धयामं तु चालयेदर्धवर्त्मना । एषा धौतिः परा गोप्या न प्रकाश्या कदाचन ॥ २२॥ अथ प्रक्षालनम् । नाभिदघ्ने जले स्थित्वा शक्तिनाडीं विसर्जयेत् । कराभ्यां क्षालयेन्नाडीं यावन्मलविसर्जनम् । तावत्प्रक्षाल्य नाडीं च उदरे वेशयेत्पुनः ॥ २३॥ इदं प्रक्षालनं गोप्यं देवानामपि दुर्लभम् । केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् ॥ २४॥ बहिष्कृतधौतिप्रयोगः । यामार्धधारणाशक्तिं यावन्न साधयेन्नरः । बहिष्कृतं महद्धौतिस्तावच्चैव न जायते ॥ २५॥ अथ दन्तधौतिः । दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः । कपालरन्ध्रं पञ्चैते दन्तधौतिं विधीयते ॥ २६॥ अथ दन्तमूलधौतिः । खादिरेण रसेनाथ मृत्तिकया च शुद्धया । मार्जयेद्दन्तमूलं च यावत्किल्बिषमाहरेत् ॥ २७॥ दन्तमूलं परा धौतिर्योगिनां योगसाधने । नित्यं कुर्यात्प्रभाते च दन्तरक्षाय योगवित् । दन्तमूलं धावनादिकार्येषु योगिनां मतम् ॥ २८॥ अथ जिह्वाशोधनम् । अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् । जरामरणरोगादीन्नाशयेद्दीर्घलम्बिका ॥ २९॥ अथ जिह्वामूलधौतिप्रयोगः । तर्जनीमध्यमाऽनामा अङ्गुलित्रययोगतः । वेशयेद्गलमध्ये तु मार्जयेल्लम्बिकामूलम् । शनैः शनैर्मार्जयित्वा कफदोषं निवारयेत् ॥ ३०॥ मार्जयेन्नवनीतेन दोहयेच्च पुनः पुनः । तदग्रं लोहयन्त्रेण कर्षयित्वा शनैः शनैः ॥ ३१॥ नित्यं कुर्यात्प्रयत्नेन रवेरुदयकेऽस्तके । एवं कृते च नित्यं सा लम्बिका दीर्घतां व्रजेत् ॥ ३२॥ अथ कर्णधौतिप्रयोगः । तर्जन्यङ्गुल्यकाग्रेण मार्जयेत्कर्णरन्ध्रयोः । नित्यमभ्यासयोगेन नादान्तरं प्रकाशयेत् ॥ ३३॥ अथ कपालरन्ध्रप्रयोगः । वृद्धाङ्गुष्ठेन दक्षेण मर्दयेद्भालरन्ध्रकम् । एवमभ्यासयोगेन कफदोषं निवारयेत् ॥ ३४॥ नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते । निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने ॥ ३५॥ अथ हृद्धौतिः । हृद्धौतिं त्रिविधां कुर्याद्दण्डवमनवाससा ॥ ३६॥ अथ दण्डधौतिः । रम्भादण्डं हरिद्दण्डं वेत्रदण्डं तथैव च । हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच्छनैः ॥ ३७॥ कफपित्तं तथा क्लेदं रेचयेदूर्ध्ववर्त्मना । दण्डधौतिविधानेन हृद्रोगं नाशयेद्ध्रुवम् ॥ ३८॥ अथ वमनधौतिः । भोजनान्ते पिबेद्वारि चाऽऽकण्ठपूरितं सुधीः । ऊर्ध्वां दृष्टिं क्षणं कृत्वा तज्जलं वमयेत्पुनः । नित्यमभ्यासयोगेन कफपित्तं निवारयेत् ॥ ३९॥ अथ वासोधौतिः । एकोनविंशतिः हस्तः पञ्चविंशति वै तथा । चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेदेतत्प्रोच्यते धौतिकर्मकम् ॥ ४०॥ गुल्मज्वरप्लीहाकुष्ठकफपित्तं विनश्यति । आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने ॥ ४१॥ अथ मूलशोधनम् । अपानक्रूरता तावद्यावन्मूलं न शोधयेत् । तस्मात्सर्वप्रयत्नेन मूलशोधनमाचरेत् ॥ ४२॥ पीतमूलस्य दण्डेन मध्यमाङ्गुलिनाऽपि वा । यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः ॥ ४३॥ वारयेत्कोष्ठकाठिन्यमामाजीर्णं निवारयेत् । कारणं कान्तिपुष्ठ्योश्च वह्निमण्डलदीपनम् ॥ ४४॥ अथ बस्तिप्रकरणम् । जलबस्तिः शुष्कबस्तिर्बस्तिः स्याद्द्विविधा स्मृता । जलबस्तिं जले कुर्याच्छुष्कबस्तिं सदा क्षितौ ॥ ४५॥ अथ जलबस्तिः । नाभिमघ्नजले पायुं न्यस्तवानुत्कटासनम् । आकुञ्चनं प्रसारं च जलबस्तिं समाचरेत् ॥ ४६॥ प्रमेहं च उदावर्तं क्रूरवायुं निवारयेत् । भवेत्स्वच्छन्ददेहश्च कामदेवसमो भवेत् ॥ ४७॥ अथ शुष्कबस्तिः । बस्तिं पश्चिमोत्तानेन चालयित्वा शनैरधः । अश्विनीमुद्रया पायुमाकुञ्चयेत्प्रसारयेत् ॥ ४८॥ एवमभ्यासयोगेन कोष्ठदोषो न विद्यते । विवर्धयेज्जाठराग्निमामवातं विनाशयेत् ॥ ४९॥ अथ नेतियोगः । वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत् । मुखान्निर्गमयेत्पश्चात्प्रोच्यते नेतिकर्मकम् ॥ ५०॥ साधनान्नेतिकार्यस्य खेचरीसिद्धिमाप्नुयात् । कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते ॥ ५१॥ अथ लौकिकीयोगः । अमन्दवेगेन तुन्दं भ्रामयेदुभपार्श्वयोः । सर्वरोगान्निहन्तीह देहानलविवर्धनम् ॥ ५२॥ अथ त्राटकम् । निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् । यावदश्रूणि पतन्ति त्राटकं प्रोच्यते बुधैः ॥ ५३॥ एवमभ्यासयोगेन शाम्भवी जायते ध्रुवम् । नेत्ररोगा विनश्यन्ति दिव्यदृष्टिः प्रजायते ॥ ५४॥ अथ कपालभातिः । वातक्रमव्युत्क्रमेण शीत्क्रमेण विशेषतः । भालभातिं त्रिधा कुर्यात्कफदोषं निवारयेत् ॥ ५५॥ अथ वामक्रमकपालभातिः । इडया पूरयेद्वायुं रेचयेत्पिङ्गलां पुनः । पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत् ॥ ५६॥ पूरकं रेचकं कृत्वा वेगेन न तु धारयेत् । एवमभ्यासयोगेन कफदोषं निवारयेत् ॥ ५७॥ अथ व्युत्क्रमकपालभातिः । नासाभ्यां जलमाकृष्य पुनर्वक्त्रेण रेचयेत् । पायं पायं व्युत्क्रमेण श्लेष्मदोषं निवारयेत् ॥ ५८॥ अथ शीत्क्रमकपालभातिः । शीत्कृत्य पीत्वा वक्त्रेण नासानलैर्विरेचयेत् । एवमभ्यासयोगेन कामदेवसमो भवेत् ॥ ५९॥ न जायते वार्द्धकं च ज्वरो नैव प्रजायते । भवेत्स्वच्छन्ददेहश्च कफदोषं निवारयेत् ॥ ६०॥ इति श्रीघेरण्डसंहितायां महर्षिघेरण्डनृपचण्डकापालिसंवादे घटस्थयोगे षट्कर्मशोधनं नाम प्रथमोपदेशः ॐ ॥

घटस्थयोगे द्वात्रिंशासनवर्णनम्

घेरण्ड उवाच । अभ्यासाद्यस्य देहेऽयं योगौपयिकतां व्रजेत् । मनश्च स्थिरतामेति प्रोच्यते तदिहाऽऽसनम् ॥ १॥ आसनानि समस्तानि यावन्तो जीवजन्तवः । चतुरशीतिलक्षाणि शिवेन कथितानि च ॥ २॥ तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् । तेषां मध्ये मर्त्यलोके द्वात्रिंशदासनं शुभम् ॥ ३॥ सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् । सिंहं च गोमुखं वीरं धनुरासनमेव च ॥ ४॥ मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनमेव च । गोरक्षं पश्चिमोत्तानमुत्कटं सङ्कटं तथा ॥ ५॥ मयूरं कुक्कुटं कूर्मं तथा चोत्तानकूर्मकम् । उत्तानमण्डूकं वृक्षं मण्डूकं गरुडं वृषम् ॥ ६॥ शलभं मकरं चोष्ट्रं भुजङ्गं च योगासनम् । द्वात्रिंशदासनानि तु मर्त्यलोके हि सिद्धिदम् ॥ ७॥ अथ सिद्धासनम् । योनिस्थानकमङ्घ्रिमूलघटितं सम्पीड्य गुल्फेतरं मेढ्रोपर्यथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरे एवं मोक्षविधायते फलकरं सिद्धासनं प्रोच्यते ॥ ८॥ अथ पद्मासनम् । वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये- देतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते ॥ ९॥ अथ भद्रासनम् । गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितः । पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष्ठदेशतः ॥ १०॥ जालन्धरं समासाद्य नासाग्रमवलोकयेत् । भद्रासनं भवेदेतत्सर्वव्याधिविनाशकम् ॥ ११॥ अथ मुक्तासनम् । पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि । समकायशिरोग्रीवं मुक्तासनं तु सिद्धिदम् ॥ १२॥ अथ वज्रासनम् । जङ्घाभ्यां वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ । वज्रासनं भवेदेतद्योगिनां सिद्धिदायकम् ॥ १३॥ अथ स्वस्तिकासनम् । जानूर्वोरन्तरे कृत्वा योगी पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १४॥ अथ सिंहासनम् । गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ । चितिमूलौ भूमिसंस्थौ करौ च जानुनोपरि ॥ १५। व्यक्तवक्त्रो जलन्धरं च नासाग्रमवलोकयेत् । सिंहासनं भवेदेतत्सर्वव्याधिविनाशकम् ॥ १६॥ अथ गोमुखासनम् । पादौ च भूमौ संस्थाप्य पृष्ठपार्श्वे निवेशयेत् । स्थिरकायं समासाद्य गोमुखं गोमुखाऽऽकृतिः ॥ १७॥ अथ वीरासनम् । एकपादमथैकस्मिन्विन्यसेदूरुसंस्थितम् । इतरस्मिंस्तथा पश्चाद्वीरासनमितीरितम् ॥ १८॥ अथ धनुरासनम् । प्रसार्य पादौ भुवि दण्डरूपौ करौ च पृष्ठे धृतपादयुग्मम् । कृत्वा धनुस्तुल्यपरिवर्तिताङ्गं निगद्य योगी धनुरासनं तत् ॥ १९॥ अथ मृतासनम् । उत्तानं शववद्भूमौ शयानं तु शवासनम् । शवासनं श्रमहरं चित्तविश्रान्तिकारणम् ॥ २०॥ अथ गुप्तासनम् । जानूर्वोरन्तरे पादौ कृत्वा पादौ च गोपयेत् । पादोपरि च संस्थाप्य गुदं गुप्तासनं विदुः ॥ २१॥ अथ मत्स्यासनम् । मुक्तपद्मासनं कृत्वा उत्तानशयनं चरेत् । कूर्पराभ्यां शिरो वेष्ट्यं मत्स्यासनं तु रोगहा ॥ २२॥ अथ मात्स्येन्द्रासनम् । उदरं पश्चिमाभासं कृत्वा तिष्ठति यत्नतः । नम्राङ्गं वामपादं हि दक्षजानूपरि न्यसेत् ॥ २३॥ तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम् । भ्रुवोर्मध्ये गता दृष्टिः पीठं मात्स्येन्द्रमुच्यते । मत्स्येन्द्रपीठं जठराग्निदीप्तं कुर्याद्रोगं च ज्वरा विनाशनम् ॥ २४॥ अथ पश्चिमोत्तानासनम् । प्रसार्य पादौ भुवि दण्डरूपौ संन्यस्तभालं चितियुग्ममध्ये । यत्नेन पादौ च धृतौ कराभ्यां योगीन्द्रपीठं पश्चिमोत्तानमाहुः ॥ २५॥ अथ गोरक्षासनम् । जानूर्वोरन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ । गुल्फौ चाच्छाद्य हस्ताभ्यामुत्तानाभ्यां प्रयत्नतः ॥ २६॥ कण्ठसङ्कोचनं कृत्वा नासाग्रमवलोकयेत् । गोरक्षासनमित्याहुर्योगिनां सिद्धिकारणम् ॥ २७॥ अथोत्कटासनम् । अङ्गुष्ठाभ्यामवष्टभ्य धरां गुल्फौ च खे गतौ । तत्रोपरि गुदं न्यसेद्विज्ञेयमुत्कटासनम् ॥ २८॥ अथ सङ्कटासनम् । वामपादचितेर्मूलं विन्यस्य धरणीतले । पाददण्डेन याम्येन वेष्टयेद्वामपादकम् । जानुयुग्मे करयुग्ममेतत्सङ्कटमासनम् ॥ २९॥ अथ मयूरासनम् । धरामवष्टभ्य करयोस्तलाभ्यां तत्कूर्परे स्थापितनाभिपार्श्वम् । उच्चासनो दण्डवदुत्थितः खे मयूरमेतत्प्रवदन्ति पीठम् ॥ ३०॥ बहुकदशनभुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत्कालकूटम् । हरति सकलरोगानाशु गुल्मज्वरादीन् भवति विगतदोषं ह्यासनं श्रीमयूरम् ॥ ३१॥ अथ कुक्कुटासनम् । पद्मासनं समासाद्य जानूर्वोरन्तरे करौ । कूर्पराभ्यां समासीनो उच्चस्थः कुक्कुटासनम् ॥ ३२॥ अथ कूर्मासनम् । गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ । ऋजुकायशिरोग्रीवं कूर्मासनमितीरितम् ॥ ३३॥ अथोत्तनकूर्मासनम् । कुक्कुटासनबन्धस्थं कराभ्यां धृतकन्धरम् । पीठं कूर्मवदुत्तानमेतदुत्तानकूर्मकम् ॥ ३४॥ अथ मण्डूकासनम् । पादतलौ पृष्ठदेशे अङ्गुष्ठे द्वे च संस्पृशेत् । जानुयुग्मं पुरस्कृत्य साधयेन्मण्डूकासनम् ॥ ३५॥ अथोत्तनमण्डूकासनम् । मण्डूकासनमध्यस्थं कूर्पराभ्यां धृतं शिरः । एतद्भेकवदुत्तानमेतदुत्तानमण्डूकम् ॥ ३६॥ अथ वृक्षासनम् । वामोरुमूलदेशे च याम्यं पादं निधाय तु । तिष्ठेत्तु वृक्षवद्भूमौ वृक्षासनमिदं विदुः ॥ ३७॥ अथ गरुडासनम् । जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना । जानूपरि करयुग्मं गरुडासनमुच्यते ॥ ३८॥ अथ वृषासनम् । याम्यगुल्फे पायुमूलं वामभागे पदेतरम् । विपरीतं स्पृशेद्भूमिं वृषासनमिदं भवेत् ॥ ३९॥ अथ शलभासनम् । अध्यास्य शेते करयुग्मं वक्षे भूमिमवष्टभ्य करयोस्तलाभ्याम् । पादौ च शून्ये च वितस्ति चोर्ध्वं वदन्ति पीठं शलभं मुनीन्द्राः ॥ ४०॥ अथ मकरासनम् । अध्यास्य शेते हृदयं निधाय भूमौ च पादौ च प्रसार्यमाणौ । शिरश्च धृत्वा करदण्डयुग्मे देहाग्निकारं मकरासनं तत् ॥ ४१॥ अथोष्ट्रासनम् । अध्यास्य शेते पदयुग्मव्यस्तं पृष्ठे निधायापि धृतं कराभ्याम् । आकुञ्चयेत्सम्यगुदरास्यगाढमौष्ट्रं च पीठं योगिनो वदन्ति ॥ ४२॥ अथ भुजङ्गासनम् । अङ्गुष्ठनाभिपर्यन्तमधोभूमौ विनिन्यसेत् । करतलाभ्यां धरां धृत्वोर्ध्वं शीर्षं फणीव हि ॥ ४३॥ देहाग्निर्वर्धते नित्यं सर्वरोगविनाशनम् । जागर्ति भुजगी देवी साधनाद्भुजङ्गासनम् ॥ ४४॥ अथ योगासनम् । उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि । आसनोपरि संस्थाप्य चोत्तानं करयुग्मकम् ॥ ४५॥ पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत् । योगासनं भवेदेतद्योगिनां योगसाधने ॥ ४६॥ इति श्रीघेरण्डसंहितायां महर्षिघेरण्डनृपचण्डकापालिसंवादे घटस्थयोगे द्वात्रिंशासनवर्णनं नाम द्वितीयोपदेशः ॐ ॥

मुद्राप्रयोगो नाम तृतीयोपदेशः

घेरण्ड उवाच । महामुद्रा नभोमुद्रा उड्डीयानं जलन्धरम् । मूलबन्धं महाबन्धं महावेधश्च खेचरी ॥ १॥ विपरीतकरी योनिर्वज्रोली शक्तिचालनी । ताडागी माण्डुकीमुद्रा शाम्भवी पञ्चधारणा ॥ २॥ अश्विनी पाशिनी काकी मातङ्गी च भुजङ्गिनी । पञ्चविंशतिमुद्राश्च सिद्धिदा इह योगिनाम् ॥ ३॥ अथ मुद्राणां फलकथनम् । मुद्राणां पटलं देवि कथितं तव संनिधौ । येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते ॥ ४॥ गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् । प्रीतिदं योगिनां चैव दुर्लभं मरुतामपि ॥ ५। अथ महामुद्राकथनम् । पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः । याम्यपादं प्रसार्याथ करे धृतपदाङ्गुलः ॥ ६॥ कण्ठसङ्कोचनं कृत्वा भ्रुवोर्मध्यं निरीक्षयेत् । महामुद्राभिधा मुद्रा कथ्यते चैव सूरिभिः ॥ (पाठभेद पूरकैर्वायुं संपूर्य महामुद्रा निगद्यते । ततः शनैः शनैरेवं रेचयेत्तं न वेगतः) ॥ ७॥ अथ महामुद्राफलकथनम् । वलितं पलितं चैव जरां मृत्युं निवारयेत् । क्षयकासं गुदावर्तं प्लीहाजीर्णं ज्वरं तथा । नाशयेत्सर्वरोगांश्च महामुद्रा च साधनात् ॥ ८॥ अथ नभोमुद्राकथनम् । यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा । ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत्पवनं सदा । नभोमुद्रा भवेदेषा योगिनां रोगनाशिनी ॥ ९॥ अथ उड्डीयानकथनम् । उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् । उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं त्वसौ बन्धो मृत्युमातङ्गकेसरी ॥ १०॥ अथोड्डीयानबन्धस्य फलकथनम् । समग्राद्बन्धनाद्ध्येतदुड्डीयानं विशिष्यते । उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत् ॥ ११॥ अथ जालन्धरबन्धकथनम् । कण्ठसङ्कोचनं कृत्वा चिबुकं हृदये न्यसेत् । जालन्धरे कृते बन्धे षोडशाधारबन्धनम् । जालन्धरमहामुद्रा मृत्योश्च क्षयकारिणी ॥ १२॥ अथ जालन्धरबन्धस्य फलकथनम् । सिद्धं जालन्धरं बन्धं योगिनां सिद्धिदायकम् । षण्मासमभ्यसेद्यो हि स सिद्धो नाऽत्र संशयः ॥ १३॥ अथ मूलबन्धकथनम् । पार्ष्णिना वामपादस्य योनिमाकुञ्चयेत्ततः । नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः सुधीः ॥ १४॥ मेढ्रं दक्षिणगुल्फे तु दृढबन्धं समाचरेत् । नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः । जराविनाशिनी मुद्रा मूलबन्धो निगद्यते ॥ १५॥ अथ मूलबन्धस्य फलकथनम् । संसारसमुद्रं तर्तुमभिलषति यः पुमान् । विरले सुगुप्तो भूत्वा मुद्रामेतां समभ्यसेत् ॥ १६॥ अभ्यासाद्बन्धनस्यास्य मरुत्सिद्धिर्भवेद्ध्रुवम् । साधयेद्यत्नतस्तर्हि मौनी तु विजिताऽलसः ॥ १७॥ अथ महाबन्धकथनम् । वामपादस्य गुल्फेन पायुमूलं निरोधयेत् । दक्षपादेन तद्गुल्फं संपीड्य यत्नतः सुधीः ॥ १८॥ शनैः शनैश्चालयेत्पार्ष्णिं योनिमाकुञ्चयेच्छनैः । जालन्धरे धारयेत्प्राणं महाबन्धो निगद्यते ॥ १९॥ अथ महाबन्धस्य फलकथनम् । महाबन्धः परो बन्धो जरामरणनाशनः । प्रसादादस्य बन्धस्य साधयेत्सर्ववाञ्चितम् ॥ २०॥ अथ महावेधकथनम् । रूपयौवनलावण्यं नारीणां पुरुषं विना । मूलबन्धमहाबन्धौ महावेधं विना तथा ॥ २१॥ महाबन्धं समासाद्य उड्डानकुम्भकं चरेत् । महावेधः समाख्यातो योगिनां सिद्धिदायकः ॥ २२॥ अथ महावेधस्य फलकथनम् । महाबन्धमूलबन्धौ महावेधसमन्वितौ । प्रत्यहं कुरुते यस्तु स योगी योगवित्तमः ॥ २३॥ न मृत्युतो भयं तस्य न जरा तस्य विद्यते । गोपनीयः प्रयत्नेन वेधोऽयं योगिपुङ्गवैः ॥ २४॥ जिह्वाऽधो नाडीं सञ्चिन्नां रसनां चालयेत्सदा । दोहयेन्नवनीतेन लौहयन्त्रेण कर्षयेत् ॥ २५॥ एवं नित्यं समभ्यासाल्लम्बिका दीर्घतां व्रजेत् । यावद्गच्छेद्भ्रुवोर्मध्ये तदा गच्छति खेचरी ॥ २६॥ रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत् । कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोर्मध्ये गता दृष्टिर्मुद्रा भवति खेचरी ॥ २७॥ अथ खेचरी मुद्रायाः फलकथनम् । न च मूर्च्छा क्षुधा तृष्णा नैवाऽऽलस्यं प्रजायते । न च रोगो जरा मृत्युर्देवदेहः स जायते ॥ २८॥ न चाग्निर्दहते गात्रं न शोषयति मारुतः । न देहं क्लेदयन्त्यापो दंशयेन्न भुजङ्गमः ॥ २९॥ लावण्यं च भवेद्गात्रे समाधिर्जायते ध्रुवम् । कपालवक्त्रसंयोगे रसना रसमाप्नुयात् ॥ ३०॥ नानारससमुद्भूतमानन्दं च दिने दिने । आदौ लवणक्षारं च ततस्तिक्तकषायकम् ॥ ३१॥ नवनीतं घृतं क्षीरं दधितक्रमधूनि च । द्राक्षारसं च पीयूषं जायते रसनोदकम् ॥ ३२॥ अथ विपरीतकरणीमुद्राकथनम् । नाभिमूले वसेत्सूर्यस्तालुमूले च चन्द्रमाः । अमृतं ग्रसते सूर्यस्ततो मृत्युवशो नरः ॥ ३३॥ ऊर्ध्वं च योजयेत्सूर्यं चन्द्रं च अध आनयेत् । विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता ॥ ३४॥ भूमौ शिरश्च संस्थाप्य करयुग्मं समाहितः । ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरी मता ॥ ३५॥ अथ विपरीतकरणीमुद्रायाः फलकथनम् । मुद्रां च साधयेन्नित्यं जरां मृत्युं च नाशयेत् । स सिद्धः सर्वलोकेषु प्रलयेऽपि न सीदति ॥ ३६॥ अथ योनिमुद्राकथनम् । सिद्धासनं समासाद्य कर्णाक्षिनासिकामुखम् । अङ्गुष्ठतर्जनीमध्यानामादिभिश्च धारयेत् ॥ ३७॥ काकीभिः प्राणं सङ्कृष्य अपाने योजयेत्ततः । षट्चक्राणि क्रमाद्ध्यात्वा हुं हंसमनुना सुधीः ॥ ३८॥ चैतन्यमानयेद्देवीं निद्रिता या भुजङ्गिनी । जीवेन सहितां शक्तिं समुत्थाप्य पराम्बुजे ॥ ३९॥ शक्तिमयः स्वयं भूत्वा परं शिवेन सङ्गमम् । नानासुखं विहारं च चिन्तयेत्परमं सुखम् ॥ ४०। शिवशक्तिसमायोगादेकान्तं भुवि भावयेत् । आनन्दमानसो भूत्वा अहं ब्रह्मेति सम्भवेत् ॥ ४१॥ योनिमुद्रा परा गोप्या देवानामपि दुर्लभा । सकृत्तु लाभसंसिद्धिः समाधिस्थः स एव हि ॥ ४२॥ अथ योनिमुद्राफलकथनम् । ब्रह्महा भ्रूणहा चैव सुरापी गुरुतल्पगः । एतैः पापैर्न लिप्येत योनिमुद्रानिबन्धनात् ॥ ४३॥ यानि पापानि घोराणि उपपापानि यानि च । तानि सर्वाणि नश्यन्ति योनिमुद्रानिबन्धनात् । तस्मादभ्यसनं कुर्याद्यदि मुक्तिं समिच्छति ॥ ४४॥ अथ वज्रोलिमुद्राकथनम् । धरामवष्टभ्य करयोस्तलाभ्या- मूर्ध्वं क्षिपेत्पादयुगं शिरः खे । शक्तिप्रबोधाय चिरजीवनाय वज्रोलिमुद्रां मुनयो वदन्ति ॥ ४५॥ अथ वज्रोलिमुद्रायाः फलकथनम् । अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् । अयं हितप्रदो योगो योगिनां सिद्धिदायकः ॥ ४६॥ एतद्योगप्रसादेन बिन्दुसिद्धिर्भवेद्ध्रुवम् । सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले ॥ ४७॥ भोगेन महता युक्तो यदि मुद्रां समाचरेत् । तथाऽपि सकला सिद्धिस्तस्य भवति निश्चितम् ॥ ४८॥ अथ शक्तिचालनीमुद्राकथनम् । मूलाधारे आत्मशक्तिः कुण्डली परदेवता । शयिता भुजगाऽऽकारा सार्धत्रिवलयाऽन्विता ॥ ४९॥ यावत्सा निद्रिता देहे तावज्जीवः पशुर्यथा । ज्ञानं न जायते तावत्कोटियोगं समभ्यसेत् ॥ ५०॥ उद्घाटयेत्कवाटं च यथा कुञ्चिकया हठात् । कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं प्रभेदयेत् ॥ ५१॥ नाभिं संवेष्ट्य वस्त्रेण न च नग्नो बहिः स्थितः । गोपनीयगृहे स्थित्वा शक्तिचालनमभ्यसेत् ॥ ५२॥ वितस्तिप्रमितं दीर्घं विस्तारे चतुरङ्गुलम् । मृदुलं धवलं सूक्ष्मं वेष्टनाम्बरलक्षणम् । एवमम्बरयुक्तं च कटिसूत्रेण योजयेत् ॥ ५३॥ भस्मना गात्रं संलिप्य सिद्धासनं समाचरेत् । नासाभ्यां प्राणमाकृष्य अपाने योजयेद्बलात् ॥ ५४॥ तावदाकुञ्चयेद्गुह्यं शनैरश्विनिमुद्रया । यावद्गच्छेत्सुषुम्णायां वायुः प्रकाशयेद्धठात् ॥ ५५॥ तदा वायुप्रबन्धेन कुम्भिका च भुजङ्गिनी । बद्धश्वासस्ततो भूत्वा ऊर्ध्वमार्गं प्रपद्यते । शब्दद्वयं फलैकं तु योनिमुद्रां च चालयेत् ॥ ५६॥ विना शक्तिचालनेन योनिमुद्रा न सिध्यति । आदौ चालनमभ्यस्य योनिमुद्रां समभ्यसेत् ॥ ५७॥ इति ते कथितं चण्डकपाले शक्तिचालनम् । गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत् ॥ ५८॥ अथ शक्तिचालनीमुद्रायाः फलकथनम् । मुद्रेयं परमा गोप्या जरामरणनाशिनी । तस्मादभ्यसनं कार्यं योगिभिः सिद्धिकाङ्क्षिभिः ॥ ५९॥ नित्यं योऽभ्यसते योगी सिद्धिस्तस्य करे स्थिता । तस्य विग्रहसिद्धिः स्याद्रोगाणां सङ्क्षयो भवेत् ॥ ६०॥ अथ तडागीमुद्राकथनम् । उदरं पश्चिमोत्तानं कृत्वा च तडागाकृति । तडागी सा परामुद्रा जरामृत्युविनाशिनी ॥ ६१॥ अथ माण्डुकीमुद्राकथनम् । मुखं समुद्रितं कृत्वा जिह्वामूलं प्रचालयेत् । शनैर्ग्रसेदमृतं तन्माण्डुकीं मुद्रिकां विदुः ॥ ६२॥ अथ माण्डुकीमुद्रायाः कथनम् । वलितं पलितं नैव जायते नित्ययौवनम् । न केशे जायते पाको यः कुर्यान्नित्यमाण्डुकीम् ॥ ६३॥ अथ शाम्भवीमुद्राकथनम् । नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत् । सा भवेच्छाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ ६४॥ अथ शाम्भवीमुद्रायाः फलकथनम् । वेदशास्त्रपुराणानि सामान्यगणिका इव । इयं तु शाम्भवी मुद्रा गुप्ता कुलवधूरिव ॥ ६५॥ स एव आदिनाथश्च स च नारायणः स्वयम् । स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शाम्भवीम् ॥ ६६॥ सत्यं सत्यं पुनः सत्यं सत्यमुक्तं महेश्वरः । शाम्भवीं यो विजानीयात्स च ब्रह्म न चाऽन्यथा ॥ ६७॥ अथ पञ्चधारणामुद्राकथनम् । कथिता शाम्भवी मुद्रा श‍ृणुष्व पञ्चधारणाम् । धारणानि समासाद्य किं न सिध्यति भूतले ॥ ६८॥ अनेन नरदेहेन स्वर्गेषु गमनाऽऽगमम् । मनोगतिर्भवेत्तस्य खेचरत्वं न चाऽन्यथा ॥ ६९॥ अथ पार्थिवीधारणामुद्राकथनम् । यत्तत्त्वं हरितालदेशरचितं भौमं लकाराऽन्वितं वेदास्रं कमलासनेन सहितं कृत्वा हृदि स्थायिनम् । प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्- एषा स्तम्भकरी सदा क्षितिजयं कुर्यादधोधारणा ॥ ७०॥ अथ पार्थिवीधारणामुद्रायाः फलकथनम् । पार्थिवीधारणामुद्रां यः करोति च नित्यशः । मृत्युञ्जयः स्वयं सोऽपि स सिद्धो विचरेद्भुवि ॥ ७१॥ अथाऽऽम्भसीधारणामुद्राकथनम् । शङ्खेन्दुप्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना । प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्- एषा दुःसहतापपापहरिणी स्यादाम्भसी धारणा ॥ ७२॥ अथाऽऽम्भसीधारणामुद्रायाः फलकथनम् । आम्भसीं परमां मुद्रां यो जानाति स योगवित् । जले च गभीरे घोरे मरणं तस्य नो भवेत् ॥ ७३॥ इयं तु परमा मुद्रा गोपनीया प्रयत्नतः । प्रकाशात्सिद्धिहानिः स्यात्सत्यं वच्मि च तत्त्वतः ॥ ७४॥ अथाऽऽग्नेयीधारणामुद्राकथनम् । यन्नाभिस्थितमिन्द्रगोपसदृशं बीजं त्रिकोणाऽन्वितं तत्त्वं तेजमयं प्रदीप्तमरुणं रुद्रेण यत्सिद्धिदम् । प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्- एषा कालगभीरभीतिहरणी वैश्वानरी धारणा ॥ ७५॥ अथाऽऽग्नेयीधारणामुद्रायाः फलकथनम् । प्रदीप्ते ज्वलिते वह्नौ यदि पतति साधकः । एतन्मुद्राप्रसादेन स जीवति न मृत्युभाक् ॥ ७६॥ अथ वायवीधारणामुद्राकथनम् । यद्भिन्नाऽञ्जनपुञ्जसंनिभमिदं धूम्राऽवभासं परं तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता । प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्- एषा खे गमनं करोति यमिनां स्याद्वायवी धारणा ॥ ७७॥ अथ वायवीधारणामुद्रायाः फलकथनम् । इयं तु परमा मुद्रा जरामृत्युविनाशिनी । वायुना म्रियते नाऽपि खे गतेश्च प्रदायिनी ॥ ७८॥ शठाय भक्तिहीनाय न देया यस्य कस्यचित् । दत्ते च सिद्धिहानिः स्यात्सत्यं वच्मि च चण्ड ते ॥ ७९॥ अथाऽऽकाशीधारणामुद्राकथनम् । यत्सिन्धौ वरशुद्धवारिसदृशं व्योमं परं भासितं तत्त्वं देवसदाशिवेन सहितं बीजं हकाराऽन्वितम् । प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद् एषा मोक्षकवाटभेदनकरी कुर्यान्नभोधारणाम् ॥ ८०॥ अथाऽऽकाशीधारणामुद्रायाः फलकथनम् । आकाशीधारणां मुद्रां यो वेत्ति स च योगवित् । न मृत्युर्जायते तस्य प्रलये नावसीदति ॥ ८१॥ अथाऽश्विनीमुद्राकथनम् । आकुञ्चयेद्गुदद्वारं प्रकाशयेत्पुनः पुनः । सा भवेदश्विनी मुद्रा शक्तिप्रबोधकारिणी ॥ ८२॥ अथाऽश्विनीमुद्रायाः फलकथनम् । अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी । बलपुष्टिकरी चैव अकालमरणं हरेत् ॥ ८३॥ अथ पशिनीमुद्राकथनम् । कण्ठपृष्टे क्षिपेत्पादौ पाशवद्दृढबन्धनम् । सैव स्यात्पाशिनी मुद्रा शक्तिप्रबोधकारिणी ॥ ८४॥ अथ पशिनीमुद्रायाः फलकथनम् । पाशिनी महती मुद्रा बलपुष्टिविधायिनी । साधनीया प्रयत्नेन साधकैः सिद्धिकाङ्क्षिभिः ॥ ८५॥ अथ काकीमुद्राकथनम् । काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः । काकी मुद्रा भवेदेषा सर्वरोगविनाशिनी ॥ ८६॥ अथ काकीमुद्रायाः फलकथनम् । काकीमुद्रा परा मुद्रा सर्वतन्त्रेषु गोपिता । अस्याः प्रसादमात्रेण न रोगी काकवद्भवेत् ॥ ८७॥ अथ मातङ्गिनीमुद्राकथनम् । कण्ठमग्ने जले स्थित्वा नासाभ्यां जलमाहरेत् । मुखान्निर्गमयेत्पश्चात्पुनर्वक्त्रेण चाऽऽहरेत् ॥ ८८॥ नासाभ्यां रेचयेत्पश्चात्कुर्यादेवं पुनः पुनः । मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी ॥ ८९॥ अथ मातङ्गिनीमुद्रायाः फलकथनम् । विरले निर्जने देशे स्थित्वा चैकाग्रमानसः । कुर्यान्मातङ्गिनीं मुद्रां मातङ्ग इव जायते ॥ ९०॥ यत्र यत्र स्थितो योगी सुखमत्यन्तमश्नुते । तस्मात्सर्वप्रयत्नेन साधयेन्मुद्रिकां पराम् ॥ ९१॥ अथ भुजङ्गिनीमुद्राकथनम् । वक्त्रं किञ्चित्सुप्रसार्य चाऽनिलं गलया पिबेत् । सा भवेद्भुजङ्गी मुद्रा जरामृत्युविनाशिनी ॥ ९२॥ अथ भुजङ्गिनीमुद्रायाः फलकथनम् । यावच्च उदरे रोगा अजीर्णादि विशेषतः । तत्सर्वं नाशयेदाशु यत्र मुद्रा भुजङ्गिनी ॥ ९३॥ सर्वे रोगा विनश्यन्ति भुजङ्गीमुद्रया ध्रुवम् । योगसिद्धिप्रदा चेयं प्रोक्ता योगपरायणैः ॥ अथ मुद्राणां फलकथनम् । इदं तु मुद्रापटलं कथितं चण्ड ते शुभम् । वल्लभं सर्वसिद्धानां जरामरणनाशनम् ॥ ९४॥ शठाय भक्तिहीनाय न देयं यस्य कस्यचित् । गोपनीयं प्रयत्नेन दुर्लभं मरुतामपि ॥ ९५॥ ऋजवे शान्तचित्ताय गुरुभक्तिपराय च । कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् ॥ ९६॥ मुद्राणां पटलं ह्येतत्सर्वव्याधिविनाशनम् । नित्यमभ्यासशीलस्य जठराग्निविवर्धनम् ॥ ९७॥ न तस्य जायते मृत्युर्नास्य जरादिकं तथा । नाग्निजलभयं तस्य वायोरपि कुतो भयम् ॥ ९८॥ कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः । मुद्राणां साधनाच्चैव विनश्यन्ति न संशयः ॥ ९९॥ बहुना किमिहोक्तेन सारं वच्मि च चण्ड ते । नास्ति मुद्रासमं किञ्चित्सिद्धिदं क्षितिमण्डले ॥ १००॥ इति श्रीघेरण्डसंहितायां घेरण्डचण्डकापालिसंवादे घटस्थयोगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः ॐ ॥

प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः

घेरण्ड उवाच । अथाऽतः संप्रवक्ष्यामि प्रत्याहारमनुत्तमम् । यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् ॥ १॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २॥ यत्र यत्र गता दृष्टिर्मनस्तत्र प्रगच्छति । ततः प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥ ३॥ पुरस्कारं तिरस्कारं सुश्राव्यं दुःश्रुतं तथा । मनस्तस्मान्नियम्यैतदात्मन्येव वशं नयेत् ॥ ४॥ शीतं वाऽपि तथा चोष्णं यन्मनःस्पर्शयोगतः । तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥ ५॥ मधुराम्लकतिक्तादिरसं गतं यदा मनः । तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥ ६॥ सुगन्धे वाऽपि दुर्गन्धे घ्राणेषु जायते मनः । तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥ ७॥ शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुचारीणि प्रत्याहारपरायणः ॥ ८॥ वश्यता परमा तेन जायतेऽतिचलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ९॥ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण विषयान्ध्यानेनानीश्वराङ्गुणान् ॥ १०॥ यथा पर्वतधातूनां दोषा दह्यन्ति धाम्यताम् । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ११॥ समः समासनो भूत्वा संहृत्य चरणावुभौ । संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः ॥ १२॥ पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन्प्रयतः स्थितः । किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् । संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३॥ रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा । सञ्चाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ॥ १४॥ इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च । निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ १५॥ यस्तु प्रत्याहरेत्कामान्सर्वाङ्गानीव कच्छपः । सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ॥ १६॥ स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः । पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ॥ १७॥ तथा वै योगयुक्तस्य योगिनो नियतात्मनः । सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ॥ १८॥ इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः ॐ ॥

प्राणायामप्रयोगो नाम पञ्चमोपदेशः

घेरण्ड उवाच । अथाऽतः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम् । यस्य साधनमात्रेण देवतुल्यो भवेन्नरः ॥ १॥ आदौ स्थानं तथा कालं मिताऽहारं तथापरम् । नाडीशुद्धिं ततः पश्चात्प्राणायामं च साधयेत् ॥ २॥ अथ स्थाननिर्णयः । दूरदेशे तथाऽरण्ये राजधान्यां जनान्तिके । योगारम्भं न कुर्वीत कृतश्चेत्सिद्धिहा भवेत् ॥ ३॥ अविश्वासं दूरदेशे अरण्ये रक्षिवर्जितम् । लोकारण्ये प्रकाशश्च तस्मात्त्रीणि विवर्जयेत् ॥ ४॥ सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे । तत्रैकं कुटिरं कृत्वा प्राचीरैः परिवेष्टितम् ॥ ५॥ वापीकूपतडागं च प्राचीरमध्यवर्ति च । नात्युच्चं नातिनिम्नं च कुटिरं कीटवर्जितम् ॥ ६॥ सम्यग्गोमयलिप्तं च कुटिरं तत्र निर्मितम् । एवं स्थाने हि गुप्ते च प्राणायामं समभ्यसेत् ॥ ७॥ अथ कालनिर्णयः । हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा । योगारम्भं न कुर्वीत कृते योगो हि रोगदः ॥ ८॥ वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत् । तथा योगी भवेत्सिद्धो रोगान्मुक्तो भवेद्ध्रुवम् ॥ ९॥ चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके । द्वौ द्वौ मासावृतुभागावनुभावश्चतुश्चतुः ॥ १०॥ वसन्तश्चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ । वर्षा श्रावणभाद्राभ्यां शरदाश्विनकार्तिकौ । मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ॥ ११॥ अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम् । माघादिमाधवान्तेषु वसन्तानुभवं विदुः ॥ १२॥ चैत्रादि चाषाढान्तं च निदाघानुभवं विदुः । आषाढादि चाश्विनान्तं प्रावृषानुभवं विदुः ॥ १३॥ भाद्रादिमार्गशीर्षान्तं शरदोऽनुभवं विदुः । कार्तिकादिमाघमासान्तं हेमन्तानुभवं विदुः । मार्गादिचतुरो मासाञ्शिशिरानुभवं विदुः ॥ १४॥ वसन्ते वापि शरदि योगारम्भं समाचरेत् । तदा योगी भवेत्सिद्धो विनाऽऽयासेन कथ्यते ॥ १५॥ अथ मिताहारः । मिताहारं विना यस्तु योगारम्भं तु कारयेत् । नानारोगो भवेत्तस्य किञ्चिद्योगो न सिध्यति ॥ १६॥ शाल्यन्नं यवपिष्टं वा गोधूमपिष्टकं तथा । मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम् ॥ १७॥ पटोलं पनसं मानं कक्कोलं च शुकाशकम् । द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम् ॥ १८॥ आमरम्भां बालरम्भां रम्भादण्डं च मूलकम् । वार्ताकीं मूलकमृद्धिं योगी भक्षणमाचरेत् ॥ १९॥ बालशाकं कालशाकं तथा पटोलपत्रकम् । पञ्चशाकं प्रशंसीयाद्वास्तूकं हिलमोचिकाम् ॥ २०॥ शुद्धं सुमधुरं स्निग्धमुदरार्धविवर्जितम् । भुज्यते सुरसं प्रीत्या मिताहारमिमं विदुः ॥ २१॥ अन्नेन पूरयेदर्धं तोयेन तु तृतीयकम् । उदरस्य तुरीयांशं संरक्षेद्वायुचारणे ॥ २२॥ कट्वम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम् । शाकोत्कटं तथा मद्यं तालं च पनसं तथा ॥ २३॥ कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम् । तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम् ॥ २४॥ कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम् । कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम् ॥ २५॥ योगारम्भे वर्जयेच्च पथस्त्रीवह्निसेवनम् ॥ २६॥ नवनीतं घृतं क्षीरं गुडं शर्करादि चैक्षवम् । पक्वरम्भां नारिकेलं दाडिम्बमशिवासवम् । द्राक्षां तु लवनीं धात्रीं रसमम्लविवर्जितम् ॥ २७॥ एलाजातिलवङ्गं च पौरुषं जम्बुजाम्बलम् । हरीतकीं खर्जूरं च योगी भक्षणमाचरेत् ॥ २८॥ लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम् । मनोऽभिलषितं योग्यं योगी भोजनमाचरेत् ॥ २९॥ काठिन्यं दुरितं पूतिमुष्णं पर्युषितं तथा । अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर्जयेत् ॥ ३०॥ प्रातःस्नानोपवासादिकायक्लेशविधिं तथा । एकाहारं निराहारं यामान्ते च न कारयेत् ॥ ३१॥ एवं विधिविधानेन प्राणायामं समाचरेत् । आरम्भे प्रथमे कुर्यात्क्षीराज्यं नित्यभोजनम् । मध्याह्ने चैव सायाह्ने भोजनद्वयमाचरेत् ॥ ३२॥ अथ नाडीशुद्धिः । कुशासने मृगाजिने व्याघ्राजिने च कम्बले । स्थलासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः । नाडीशुद्धिं समासाद्य प्राणायामं समभ्यसेत् ॥ ३३॥ चण्डकापालिरुवाच । नाडीशुद्धिं कथं कुर्यान्नाडीशुद्धिस्तु कीदृशी । तत्सर्वं श्रोतुमिच्छामि तद्वदस्व दयानिधे ॥ ३४॥ घेरण्ड उवाच । मलाकुलासु नाडीषु मारुतो नैव गच्छति । प्राणायामः कथं सिध्येत्तत्त्वज्ञानं कथं भवेत् । तस्मादादौ नडीशुद्धिं प्राणायामं ततोऽभ्यसेत् ॥ ३५॥ नाडीशुद्धिर्द्विधा प्रोक्ता समनुर्निर्मनुस्तथा । बीजेन समनुं कुर्यान्निर्मनुं धौतिकर्मणा ॥ ३६॥ धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा । श‍ृणुष्व समनुं चण्ड नाडीशुद्धिर्यथा भवेत् ॥ ३७॥ उपविश्यासने योगी पद्मासनं समाचरेत् । गुर्वादिन्यासनं कुर्याद्यथैव गुरुभाषितम् । नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये ॥ ३८॥ वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् । चन्द्रेण पूरयेद्वायुं बीजषोडशकैः सुधीः ॥ ३९॥ चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् । द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत् ॥ ४०॥ नाभिमूलाद्वह्निमुत्थाप्य ध्यायेत्तेजोऽवनीयुतम् । वह्निबीजषोडशेन सूर्यनाड्या च पूरयेत् ॥ ४१॥ चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् । द्वात्रिंशन्मात्रया वायुं शशिनाड्या च रेचयेत् ॥ ४२॥ नासाग्रे शशधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् । ठं बीजं षोडशेनैव इडया पूरयेन्मरुत् ॥ ४३॥ चतुःषष्ट्या मात्रया च वं बीजेनैव धारयेत् । अमृतं प्लावितं ध्यात्वा नाडीधौतं विभावयेत् । लकारेण द्वात्रिंशेन दृढं भाव्यं विरेचयेत् ॥ ४४॥ एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत् । दृढो भूत्वाऽऽसनं कृत्वा प्राणायामं समाचरेत् ॥ ४५॥ सहितः सूर्यभेदश्च उज्जायी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा केवली चाऽष्टकुम्भिकाः ॥ ४६॥ सहितो द्विविधः प्रोक्तः सगर्भश्च निगर्भकः । सगर्भो बीजमुच्चार्य निगर्भो बीजवर्जितः ॥ ४७॥ प्राणायामं सगर्भं च प्रथमं कथयामि ते । सुखाऽऽसने चोपविश्य प्राङ्मुखो वाऽप्युदङ्मुखः । ध्यायेद्विधिं रजोगुणं रक्तवर्णमवर्णकम् ॥ ४८॥ इडया पूरयेद्वायुं मात्रया षोडशैः सुधीः । पूरकान्ते कुम्भकाद्ये कर्तव्यस्तूड्डियानकः ॥ ४९॥ सत्त्वमयं हरिं ध्यात्वा उकारं कृष्णवर्णकम् । चतुःषष्ट्या च मात्रया कुम्भकेनैव धारयेत् । कुम्भकान्ते रेचकाद्ये कर्तव्यं च जालन्धरम् ॥ ५०॥ तमोमयं शिवं ध्यात्वा मकारं शुक्लवर्णकम् । द्वात्रिंशन्मात्रया चैव रेचयेद्विधिना पुनः ॥ ५१॥ पुनः पिङ्गलयाऽऽपूर्य कुम्भकेनैव धारयेत् । इडया रेचयेत्पश्चात्तद्बीजेन क्रमेण तु ॥ ५२॥ अनुलोमविलोमेन वारं वारं च साधयेत् । पूरकान्ते कुम्भकान्तं धृतनासापुटद्वयम् । कनिष्ठाऽनामिकाऽङ्गुष्ठैस्तर्जनीमध्यमे विना ॥ ५३॥ प्राणायामो निगर्भस्तु विना बीजेन जायते । वामजानूपरिन्यस्तवामपाणितलं भ्रमेत् । मात्रादिशतपर्यन्तं पूरकुम्भकरेचनम् ॥ ५४॥ (प्राणायामो हि सहितो गायत्र्यापि सुसिध्यति । कर्मकाण्डे विधेयोऽसौ नान्यत्र क्वचिदाष्यते ॥ केवलैर्बीजमन्त्रैर्वा केवलप्रणवेन वा । आरुरुक्षोर्योगिनो हि कृतोऽयं शिवदो भवेत् ॥) उत्तमा विंशतिर्मात्रा षोडशी मात्रा मध्यमा । अधमा द्वादशी मात्रा प्राणायामास्त्रिधा स्मृताः ॥ ५५॥ अधमाज्जायते घर्मो मेरुकम्पश्च मध्यमात् । उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्षणम् ॥ ५६॥ प्राणायामात्खेचरत्वं प्राणायामाद्रोगनाशनम् । प्राणायामाद्बोधयेच्छक्तिं प्राणायामान्मनोन्मनी । आनन्दो जायते चित्ते प्राणायामी सुखी भवेत् ॥ ५७॥ अथ सूर्यभेदकुम्भकः । घेरण्ड उवाच । कथितं सहितं कुम्भं सूर्यभेदनकं श‍ृणु । पूरयेत्सूर्यनाड्या च यथाशक्ति बहिर्मरुत् ॥ ५८॥ धारयेद्बहुयत्नेन कुम्भकेन जलन्धरैः । यावत्स्वेदं नखकेशाभ्यां तावत्कुर्वन्तु कुम्भकम् ॥ ५९॥ प्राणोऽपानः समानश्चोदानव्यानौ तथैव च । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ६०॥ हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले । समानो नाभिदेशे तु उदानः कण्ठमध्यगः ॥ ६१॥ व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः । प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥ ६२॥ तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् । उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स्मृतः ॥ ६३॥ कृकरः क्षुत्कृते ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृते क्वाऽपि सर्वव्यापी धनञ्जयः ॥ ६४॥ नागो गृह्णाति चैतन्यं कूर्मश्चैव निमेषणम् । क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थेन तु । भवेद्धनञ्जयाच्छब्दं क्षणमात्रं न निःसरेत् चित्तं धनञ्जयः शब्दं लक्षमात्रं न विस्मरेत् ॥ ६५॥ अथ सूर्यभेदकः कुम्भकः । सर्वे ते सूर्यसम्भिन्ना नाभिमूलात्समुद्धरेत् । इडया रेचयेत्पश्चाद्धैर्येणाऽखण्डवेगतः ॥ ६६॥ पुनः सूर्येण चाऽकृष्य कुम्भयित्वा यथाविधि । रेचयित्वा साधयेत्तु क्रमेण च पुनः पुनः ॥ ६७॥ कुम्भकः सूर्यभेदस्तु जरामृत्युविनाशकः । बोधयेत्कुण्डलीं शक्तिं देहानलं विवर्धयेत् । इति ते कथितं चण्ड सूर्यभेदनमुत्तमम् ॥ ६८॥ अथ उज्जायी कुम्भकः । नासाभ्यां वायुमाकृष्य मुखमध्ये च धारयेत् । हृद्गलाभ्यां समाकृष्य वायुं वक्त्रे च धारयेत् ॥ ६९॥ मुखं प्रफुल्लं संरक्ष्य कुर्याज्जालन्धरं ततः । आशक्ति कुम्भकं कृत्वा धारयेदविरोधतः ॥ ७०॥ उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत् । न भवेत्कफरोगश्च क्रूरवायुरजीर्णकम् ॥ ७१॥ आमवातः क्षयः कासो ज्वरप्लीहा न विद्यते । जरामृत्युविनाशाय चोज्जायीं साधयेन्नरः । नश्यन्ति सकला रोगाः साधनादस्य निश्चितम् ॥ ७२॥ अथ शीतलीकुम्भकः । जिह्वया वायुमाकृष्य उदरे पूरयेच्छनैः । क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत्पुनः ॥ ७३॥ सर्वदा साधयेद्योगी शीतलीकुम्भकं शुभम् । अजीर्णं कफपित्तं च नैव तस्य प्रजायते ॥ ७४॥ अथ भस्त्रिकाकुम्भकः । भस्त्रैव लोहकाराणां यथाक्रमेण सम्भ्रमेत् । तथा वायुं च नासाभ्यामुभाभ्यां चालयेच्छनैः ॥ ७५॥ एवं विंशतिवारं च कृत्वा कुर्याच्च कुम्भकम् । तदन्ते चालयेद्वायुं पूर्वोक्तं च यथाविधि ॥ ७६॥ त्रिवारं साधयेदेनं भस्त्रिकाकुम्भकं सुधीः । न च रोगो न च क्लेश आरोग्यं च दिने दिने ॥ ७७॥ अथ भ्रामरीकुम्भकः । अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते । कर्णौ पिधाय हस्ताभ्यां कुर्यात्पूरककुम्भकम् ॥ ७८॥ श‍ृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं शुभम् । प्रथमं ज़िंज़ीनादं च वंशीनादं ततः परम् ॥ ७९॥ मेघज़र्ज़रभ्रामरी घण्टाकांस्यं ततः परम् । तुरीभेरीमृदङ्गादिनिनादानकदुन्दुभिः ॥ ८०॥ एवं नानाविधो नादो जायते नित्यमभ्यसात् । अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥ ८१॥ ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् । एवं भ्रामरीसंसिद्धिः समाधिसिद्धिमाप्नुयात् ॥ ८२॥ जपादष्टगुणं ध्यानं ध्यानादष्टगुणं तपः । तपसोऽष्टगुणं गानं गानात्परतरं नहि ॥ अथ मूर्च्छाकुम्भकः । सुखेन कुम्भकं कृत्वा मनश्च भ्रुवोरन्तरम् । सन्त्यज्य विषयान्सर्वान्मनोमूर्च्छा सुखप्रदा । आत्मनि मनसो योगादानन्दो जायते ध्रुवम् ॥ ८३॥ एवं नानाविधाऽऽनन्दो जायते नित्यमभ्यासात् । एवमभ्यासयोगेन समाधिसिद्धिमाप्नुयात् ॥ ८४॥ मूर्च्छाप्राणायामतोऽस्मात्प्रत्याहारः सुसिध्यति । वासनायाः क्षयस्तत्त्वज्ञानकार्यं मनोलयः ॥ अनेन प्राणायामेन मनोनाशो भवत्यलम् । सर्वाधिव्याधिविलये महौषधमयं ध्रुवम् ॥ भुजङ्गिन्याः श्वासवशादजपा जायते ननु । हङ्कारेण बहिर्याति सःकारेण विशेत्पुनः ॥ ८५॥ षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः । अजपां नाम गायत्रीं जीवो जपति सर्वदा ॥ ८६॥ मूलाऽऽधारे यथा हंसस्तथा हि हृदि पङ्कजे । तथा नासापुटद्वन्द्वे त्रिभिर्हंससमागमः ॥ ८७॥ षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम् । देहाद्बहिर्गतो वायुः स्वभावाद्द्वादशाङ्गुलिः ॥ ८८॥ गायने षोडशाङ्गुल्यो भोजने विंशतिस्तथा । चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशदङ्गुलिः । मैथुने षट्त्रिंशदुक्तं व्यायामे च ततोऽधिकम् ॥ ८९॥ स्वभावेऽस्य गतेर्न्यूने परमायुः प्रवर्धते । आयुःक्षयोऽधिके प्रोक्तो मारुते चाऽन्तराद्गते ॥ ९०॥ तस्मात्प्राणे स्थिते देहे मरणं नैव जायते । वायुना घटसम्बन्धे भवेत्केवलकुम्भकम् ॥ ९१॥ यावज्जीवं जपेन्मन्त्रमजपासङ्ख्यकेवलम् सङ्ख्या द्विगुणा । अद्यावधि धृतं सङ्ख्याविभ्रमं केवलीकृते ॥ ९२॥ अत एव हि कर्तव्यः केवलीकुम्भको नरैः । केवली चाऽजपासङ्ख्या द्विगुणा च मनोन्मनी ॥ ९३॥ नासाभ्यां वायुमाकृष्य केवलं कुम्भकं चरेत् । एकादिकचतुःषष्टिं धारयेत्प्रथमे दिने ॥ ९४॥ केवलीमष्टधा कुर्याद्यामे यामे दिने दिने । अथवा पञ्चधा कुर्याद्यथा तत्कथयामि ते ॥ ९५॥ प्रातर्मध्याह्नसायाह्ने मध्ये रात्रिचतुर्थके । त्रिसन्ध्यमथवा कुर्यात्सममाने दिने दिने ॥ ९६॥ पञ्चवारं दिने वृद्धिर्वारैकं च दिने तथा । अजपापरिमाणं च यावत्सिद्धिः प्रजायते ॥ ९७॥ प्राणायामं केवलीं च तदा वदति योगवित् । केवलीकुम्भके सिद्धे किं न सिध्यति भूतले ॥ ९८॥ इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे प्राणायामप्रयोगो नाम पञ्चमोपदेशः ॐ ॥

ध्यानयोगो नाम षष्ठोपदेशः

घेरण्ड उवाच । स्थूलं ज्योतिस्तथा सूक्ष्मं ध्यानस्य त्रिविधं विदुः । स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं तथा । सूक्ष्मं बिन्दुमयं ब्रह्म कुण्डलीपरदेवता ॥ १॥ अथ स्थूलध्यानम् । स्वकीयहृदये ध्यायेत्सुधासागरमुत्तमम् । तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् ॥ २॥ चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम् । नीपोपवनसङ्कुलैर्वेष्टितं परिखा इव ॥ ३॥ मालतीमल्लिकाजातीकेसरैश्चम्पकैस्तथा । पारिजातैः स्थलपद्मैर्गन्धामोदितदिङ्मुखैः ॥ ४॥ तन्मध्ये संस्मरेद्योगी कल्पवृक्षं मनोहरम् । चतुःशाखाचतुर्वेदं नित्यपुष्पफलान्वितम् ॥ ५॥ भ्रमराः कोकिलास्तत्र गुञ्जन्ति निगदन्ति च । ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् ॥ ६॥ तन्मध्ये तु स्मरेद्योगी पर्यङ्कं सुमनोहरम् । तत्रेष्टदेवतां ध्यायेद्यद्ध्यानं गुरुभाषितम् ॥ ७॥ यस्य देवस्य यद्रूपं यथा भूषणवाहनम् । तद्रूपं ध्यायते नित्यं स्थूलध्यानमिदं विदुः ॥ ८॥ प्रकारान्तरम् । सहस्रारे महापद्मे कर्णिकायां विचिन्तयेत् । विलग्नसहितं पद्मं द्वादशैर्दलसंयुतम् ॥ ९॥ शुक्लवर्णं महातेजो द्वादशैर्बीजभाषितम् । हसक्षमलवरयुं हसखफ्रें यथाक्रमम् ॥ १०॥ तन्मध्ये कर्णिकायां तु अकथादिरेखात्रयम् । हळक्षकोणसंयुक्तं प्रणवं तत्र वर्तते ॥ ११॥ नादबिन्दुमयं पीठं ध्यायेत्तत्र मनोहरम् । तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते ॥ १२॥ ध्यायेत्तत्र गुरुं देवं द्विभुजं च त्रिलोचनम् । श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् ॥ १३॥ शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम् । एवंविधगुरुध्यानात्स्थूलध्यानं प्रसिध्यति ॥ १४॥ अथ ज्योतिर्ध्यानम् । घेरण्ड उवाच । कथितं स्थूलध्यानं तु तेजोध्यानं श‍ृणुष्व मे । यद्ध्यानेन योगसिद्धिरात्मप्रत्यक्षमेव च ॥ १५॥ मूलाऽऽधारे कुण्डलिनी भुजगाकाररूपिणी । जीवाऽऽत्मा तिष्ठति तत्र प्रदीपकलिकाकृतिः । ध्यायेत्तेजोमयं ब्रह्म तेजोध्यानं परात्परम् ॥ १६॥ प्रकारान्तरम् । नाभिमूले स्थितं सूर्यमण्डलं वह्निसंयुतम् । ध्यायेत्तेजो महद्व्याप्तं तेजोध्यानं तदेव हि ॥ १७॥ प्रकारान्तरम् । भ्रुवोर्मध्ये मनोर्ध्वे च यत्तेजः प्रणवाऽऽत्मकम् । ध्यायेज्ज्वालाऽऽवलीयुक्तं तेजोध्यानं तदेव हि ॥ १८॥ अथ सूक्ष्मध्यानम् । घेरण्ड उवाच । तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं श‍ृणुष्व मे । बहुभाग्यवशाद्यस्य कुण्डली जाग्रती भवेत् ॥ १९॥ आत्मना सह योगेन नेत्ररन्ध्राद्विनिर्गता । विहरेद्राजमार्गे च चञ्चलत्वान्न दृश्यते ॥ २०॥ शाम्भवीमुद्रया योगी ध्यानयोगेन सिध्यति । सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् ॥ २१॥ स्थूलध्यानाच्छतगुणं तेजोध्यानं प्रचक्षते । तेजोध्यानाल्लक्षगुणं सूक्ष्मध्यानं परात्परम् ॥ २२॥ इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम् । आत्मा साक्षाद्भवेद्यस्मात्तस्माद्ध्यानं विशिष्यते ॥ २३॥ इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे सप्तसाधने ध्यानयोगो नाम षष्ठोपदेशः ॐ ॥

समाधियोगो नाम सप्तमोपदेशः

घेरण्ड उवाच । समाधिश्च परो योगो बहुभाग्येन लभ्यते । गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः ॥ १॥ विद्याप्रतीतिः स्वगुरुप्रतीतिरात्मप्रतीतिर्मनसः प्रबोधः । दिने दिने यस्य भवेत्स योगी सुशोभनाभ्यासमुपैति सद्यः ॥ २॥ घटाद्भिन्नं मनः कृत्वा ऐक्यं कुर्यात्परात्मनि । समाधिं तं विजानीयान्मुक्तसंज्ञो दशादिभिः ॥ ३॥ अहं ब्रह्म न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान् ॥ ४॥ शाम्भव्या चैव भ्रामर्या खेचर्या योनिमुद्रया । ध्यानं नादं रसानन्दं लयसिद्धिश्चतुर्विधा ॥ ५॥ पञ्चधा भक्तियोगेन मनोमूर्च्छा च षड्विधा । षड्विधोऽयं राजयोगः प्रत्येकमवधारयेत् ॥ ६॥ अथ ध्यानयोगसमाधिः । शाम्भवीं मुद्रिकां कृत्वा आत्मप्रत्यक्षमानयेत् । बिन्दु ब्रह्ममयं दृष्ट्वा मनस्तत्र नियोजयेत् ॥ ७॥ खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । आत्मानं खमयं दृष्ट्वा न किञ्चिदपि बाधते । सदानन्दमयो भूत्वा समाधिस्थो भवेन्नरः ॥ ८॥ अथ नादयोगसमाधिः । अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत् । मन्दं मन्दं रेचयेद्वायुं भृङ्गनादं ततो भवेत् ॥ ९॥ अन्तःस्थं भ्रमरीनादं श्रुत्वा तत्र मनो नयेत् । समाधिर्जायते तत्र आनन्दः सोऽहमित्यतः ॥ १०॥ अथ रसनानन्दयोगसमाधिः । खेचरीमुद्रासाधनाद्रसनोर्ध्वगता यदा । तदा समाधिसिद्धिः स्याद्धित्वा साधारणक्रियाम् ॥ ११॥ अथ लयसिद्धियोगसमाधिः । योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत् । सुश‍ृङ्गाररसेनैव विहरेत्परमात्मनि ॥ १२॥ आनन्दमयः सम्भूत्वा ऐक्यं ब्रह्मणि सम्भवेत् । अहं ब्रह्मेति चाऽद्वैतं समाधिस्तेन जायते ॥ १३॥ अथ भक्तियोगसमाधिः । स्वकीयहृदये ध्यायेदिष्टदेवस्वरूपकम् । चिन्तयेद्भक्तियोगेन परमाह्लादपूर्वकम् ॥ १४॥ आनन्दाश्रुपुलकेन दशाभावः प्रजायते । समाधिः सम्भवेत्तेन सम्भवेच्च मनोन्मनी ॥ १५॥ अथ राजयोगसमाधिः । मनोमूर्च्छां समासाद्य मन आत्मनि योजयेत् । परात्मनः समायोगात्समाधिं समवाप्नुयात् ॥ १६॥ अथ समाधियोगमाहात्म्यम् । इति ते कथितं चण्ड समाधिर्मुक्तिलक्षणम् । राजयोगः समाधिः स्यादेकात्मन्येव साधनम् । उन्मनी सहजावस्था सर्वे चैकात्मवाचकाः ॥ १७॥ जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ १८॥ भूचराः खेचराश्चामी यावन्तो जीवजन्तवः । वृक्षगुल्मलतावल्लीतृणाद्या वारिपर्वताः । सर्वं ब्रह्म विजानीयात्सर्वं पश्यति चात्मनि ॥ १९॥ आत्मा घटस्थचैतन्यमद्वैतं शाश्वतं परम् । घटाद्विभिन्नतो ज्ञात्वा वीतरागं विवासनम् ॥ २०॥ एवं मिथः समाधिः स्यात्सर्वसङ्कल्पवर्जितः । स्वदेहे पुत्रदारादिबान्धवेषु धनादिषु । सर्वेषु निर्ममो भूत्वा समाधिं समवाप्नुयात् ॥ २१॥ तत्त्वं लयामृतं गोप्यं शिवोक्तं विविधानि च । तेषां सङ्क्षेपमादाय कथितं मुक्तिलक्षणम् ॥ २२॥ इति ते कथितं चण्ड समाधिर्दुर्लभः परः । यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले ॥ २३॥ इति श्रीघेरण्डसंहितायां घेरण्डयोगेश्वरनृपचण्डकापालिसंवादे घटस्थयोगसाधने योगस्य सप्तसारे समाधियोगो नाम सप्तमोपदेशः समाप्तः ॐ ॥

नवीनश्लोकवर्णनो नामाष्टमोपदेशः

अथ परिशिष्टग्रन्थः । प्रातः स्मरामि यदुनन्दनकृष्णचन्द्रं प्रातर्भजामि रघुनन्दनरामचन्द्रम् । प्रातर्नमामि तेजोमयसूर्यचन्द्रं प्रातः स्मरामि जगदेककृपाकरत्वम् ॥ १॥ प्रातः स्मरामि गणनायकमेव मुख्यं प्रातर्नमामि गौरीपतिमम्बुजाक्षम् । प्रातर्भजामि सुखदं जगदादिहेतुं प्रातः स्मरामि हरिमीशमजं दयालुम् ॥ २॥ प्रातः स्मरामि गोपालनतत्परं वै प्रातर्नमामि गोपीसुतनन्दलालम् । प्रातर्भजामि हरिदासिबिहारिबालं प्रातः स्मरामि राधादियुतं हि चन्द्रम् ॥ ३॥ इति श्रीघेरण्डसंहितायां सर्वयोगसारराधाचन्द्रशर्मकृत- नवीनश्लोकवर्णनो नामाष्टमोपदेशः ॐ ॥

कोई टिप्पणी नहीं:

Dr. Balavant Singh