बुधवार, 27 मार्च 2024

मनोमिमांसा

 

मनोमीमांसा

नायं जनो मे सुखदुःखहेतु- र्न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ॥ १॥ मनो गुणान्वै सृजते बलीय- स्ततश्च कर्माणि विलक्षणानि शुक्लानि कृष्णान्यथ लोहिनानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥ २॥ अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे । मनः स्वलिङ्गं परिगृह्य कामा- न्जुषन्निबद्धो गुणसङ्गतोऽसौ ॥ ३॥ दानं स्वधर्मो नियमो यमश्च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षाणान्ताः परो हि योगो मनसः समाधिः ॥ ४॥ समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्य- द्दानादिभिश्चेदपरं किमेभिः ॥ ५॥ मनोवशेऽन्ये ह्यभवन्स्म देवा मनश्च नान्यस्य वशं समेनि भीष्मो हि देवः सहसः सहीया- न्युञ्ज्याद्वशे तं स हि देवदेवः ॥ ६॥ तम्दुर्जयं शत्रुमसह्यवेगम- रुन्तुदं तन्न विजित्य केचित् । कुर्वन्त्यसद्विग्रहमत्र मर्त्यै- र्मित्राण्युदासीनरिपून्विमूढाः ॥ ७॥ देहं मनोमात्रमिमं गृहीत्वा ममाहसित्यन्धधियो मनुष्याः । एषोऽहमन्योऽयमिति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ ८॥ जनस्तु हेतुः सुखदुःखयोश्चे- त्किमात्मनश्चात्र हि भौमयोस्तत् । जिह्वां क्वचित्सन्दशति स्वदद्भि- स्तद्वेदनायां कनमाय कुप्येत् ॥ ९॥ दुःखस्य हेतुर्यदि देवतास्तु किमात्मनस्तत्र विकारयोस्तत् । यदङ्गमङ्गेन निहन्यते क्वचि- त्क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ १०॥ आत्मा यदि स्यात्सुखदुःखहेतुः किमन्यतस्तत्र निजस्वभावः । न ह्यात्मनोऽन्यद्यदि तन्मृषा स्या- त्क्रुध्येत कस्मान्न सुखं न दुःखम् ॥ ११॥ ग्रहा निमित्तं सुखदुःखयोश्चेत्- किमात्मनोऽजस्य जनस्य ते वै । ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ १२॥ कर्मास्तु हेतुः सुखदुःखयोश्चे- त्किमात्मनस्तद्धि जडाजडत्वे । देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ १३॥ कालस्तु हेतुः सुखदुःखयोश्चे- त्किमात्मनस्तत्र तदात्मकोऽसौ । नाग्नेर्हि तापो न हिमस्य तत्स्या- त्क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ १४॥ न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्या- द्देवं प्रबुद्धो न बिर्भति भूतैः ॥ १५॥ एतां स आस्थाय परात्मनिष्ठा- मध्यासितां पूर्वतमैर्महर्षिभिः । अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥ १६॥ इति मनोमीमांसा सम्पूर्णा ।

कोई टिप्पणी नहीं:

Dr. Balavant Singh