बुधवार, 27 मार्च 2024

योगकल्पद्रुमः

 

श्रीयोगकल्पद्रुम

ॐ गं गणपतये नमः । अथ श्रीयोगकल्पद्रुमप्रारम्भः । मङ्गलम् । (वंशस्थं वृत्तम्) प्रणम्य योगीन्द्रहृदङ्घ्रिपङ्कजं महेश्वरं शेषमुखानृषींस्तथा । ब्रवीमि योगागमसारमद्भुतं सुसाधकाल्केशविबोधसिद्धये ॥ १॥ (बसन्ततिलका वृत्तम्) हृद्भूभवो निगमबोधसुमूलको द्वि- स्कन्धः षडुन्नतलतश्च यमादिपर्णः । ध्यानादिपुष्पललितश्च विमोक्षसस्यः सर्वार्थदो जयति योगसुरद्रुमोयम् ॥ २॥ (इन्द्रवंशा वृत्तम्) आवृत्त्यरागौ पुरुषाण्डजन्मनः पक्षौ वदन्तीह समाधिवित्तमाः । योगातताकाशसुखाधिरोहणं नूनं तयोर्नान्यतरेण सिद्ध्यति ॥ ३॥ (द्रुतविलम्बितं वृत्तम्) जनननाशजरोग्रवनेचरं त्रिविधतापकुकण्टकसङ्कुलम् । उपरमेत तृषोग्रदवानलं जगदरण्यमवेक्ष्य सुधीरधीः ॥ ४॥ (द्रुतविलम्बितं वृत्तम्) समपहाय तु दोषदृशाखिलं विजनदेशगतो गतसाध्वसः । समुपकल्प्य शुभासनमात्मनो दृढमतिः क्रमशस्तु समभ्यसेत् ॥ ५॥ (इन्द्रवंशा वृत्तम्) ज्ञानं वदन्तीह विमोक्षकारणं तज्जायते नैव विलोलचेतसि । लौल्यं न योगेन विना प्रशाम्यति तस्मात्तदर्थं हि यतेत साधकः ॥ ६॥ (वंशस्थ वृत्तम्) हठो लयो मान्त्रिकराज संज्ञितौ चतुर्विधं योगमबालिशाविदुः । त्रयोऽपि राजोपगता भवन्त्यत- स्तदर्थमेवेह यतेत कोविदः ॥ ७॥ (वंशस्थं वृत्तम्) जगुस्तदङ्गाष्टकमुत्तमाशया यमादिसंज्ञं यमिवर्यसेवितम् । समासतस्तस्यफलं च लक्षणं वदामि वृद्धर्षिमतानुरोधतः ॥ ८॥ (वंशस्थं वृत्तम्) अहिंसनं सत्यमचौर्यमार्जवं क्षमा धृतिश्शौचमुपस्थनिग्रहः । मिताशनं दीनजनानुकम्पनं यमा दशैते मुनिवर्यसम्मताः ॥ ९॥ (वंशस्थं वृत्तम्) जपस्तपो दानमथागमश्रुति- स्तथास्तिकत्वं व्रतमीश्वरार्चनम् । यथाप्तितोषोमतिरप्यपत्रपा बुधैर्दशैते नियमाः समीरिताः ॥ १०॥ (वंशस्थं वृत्तम्) स्खलत्यसौ नैव यदा कथञ्चना- चलाशयोऽहिंसनमुख्यशीलतः । तदा तु तज्जानि फलान्युपाश्नुते- ऽविरोधमुख्यान्यचिरादुदारधीः ॥ ११॥ (इन्द्रवंशा वृत्तम्) पीठान्यनल्पानि वदन्ति योगिन- स्तेषां चतुष्कं तु तथोत्तमोत्तमम् । तत्रापि यत्स्थैर्यसुखावहं भवे- तच्चैव योगेप्सुरिहाभ्यसेत्सदा ॥ १२॥ (द्रुतविलम्बितं वृत्तम्) अनलसत्वमुपस्थबलक्षयो- ऽनिलनिरोधपटुत्वमनूर्मिता । पवनमन्थरताप्युपजायते स्थिरमतेरिहपीठजयात्किल ॥ १३॥ (वंशस्थं वृत्तम्) ततोऽनिलायामचतुष्कमभ्यसे- दहर्निशं रेचकमुख्यसंज्ञकम् । क्रियाभिराशुद्धतनुर्मितक्रियः शनैश्शनैर्देशिकवाक्यचोदितः ॥ १४॥ (वंशस्थं वृत्तम्) शिराविशुद्धिर्जठरानलोन्नति- स्तथाक्षदोषापचयोंऽगलाघवम् । सुशक्तिबोधो मनसश्च योग्यता विधारणा स्वस्य ततोभिजायते ॥ १५॥ (इन्द्रवंशा वृत्तम्) भोगोन्मुखाक्षौघनिवर्त्तनं सदा- ऽसंसर्गतो दोषदृशा च दीर्घया । संस्थापनं यच्च मनोनुरोधतो योगस्य तत्पञ्चममङ्गमीरितम् ॥ १६॥ (वंशस्थं वृत्तम्) सुरप्रसादो मनसः प्रसन्नता तपःप्रवृद्धिस्त्वपि दैन्यसंक्षयः । द्रुतं प्रवेशश्च तथैव संयमे जितेन्द्रियस्येह किलोपजायते ॥ १७॥ (वंशस्थं वृत्तम्) हृदादिदेशेषु विकृष्य सर्वतो विधारणं यन्मनसोऽस्थिरात्मनः । मुहुर्मुहुर्धैर्यमिहावलम्ब्य वै सुधारणा सा विबुधैरुदीरिता ॥ १८॥ (इन्द्रवंशा वृत्तम्) वृत्त्येकतानत्वमखण्डितं तु य- त्तत्रान्यसङ्कल्पविकल्पजालकैः । तैलस्य धारेव समाधिगोपुरं ध्यानं तदेवाहुरदीनचेतसः ॥ १९॥ (इन्द्रवंशा वृत्तम्) ध्येयस्वरूपोपगतं यदा मनो विस्मृत्य चात्मानमथावतिष्ठते । सङ्कल्पपूगापगतं तमन्तिमं योगस्य सन्तोऽवयवं प्रचक्षते ॥ २०॥ (इन्द्रवंशा वृत्तम्) एतत्त्रयं संयममाहुरुत्तमा योगस्य मुख्यं करणं सुदुर्गमम् । सिद्ध्याऽस्य सिद्ध्योघमिहाश्नुतेञ्जसा योगंविशत्यप्यचिरं महाशयः ॥ २१॥ (इन्द्रवंशा वृत्तम्) वैराग्यमाश्रित्य परं तथेश्वरा ध्यानेन विघ्नानखिलाञ्जयेद्यमी । संक्षिप्य चेतःपरमात्मसद्मनि सञ्चिन्तयेदेकमथोत्तमाक्षरम् ॥ २२॥ (इन्द्रवंशा वृत्तम्) संविश्य योगं परमं तु धीरधी- रेकत्वमानीय तथात्मचेतसोः । प्रोत्सार्य सङ्कल्पविकल्पसञ्चयं किञ्चित्स्मरेन्नैव ततस्त्वतन्द्रितः ॥ २३॥ (इन्द्रवंशा वृत्तम्) इत्थं परानन्दपदार्पिताशयो योगीविलूनाखिलकर्मबन्धनः । स्वैरश्चिरं संविचरत्युदारधी- रत्रैव वाऽमुत्र विमुच्यतेऽथवा ॥ २४॥ (द्रुतविलम्बितं वृत्तम्) परमयोगरहस्यमितीरितं परमहंसजनेन समासतः । पठति यश्च समाचरतीह वै पतति जातु स नोग्रभवार्णवे ॥ २५॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितो योगकल्पद्रुमः सम्पूर्णः ॥

कोई टिप्पणी नहीं:

Dr. Balavant Singh