बुधवार, 27 मार्च 2024

श्रीयोगयाज्ञवल्क्ये

 

श्रीयोगयाज्ञवल्क्य

॥ अथ प्रथमोऽध्यायः ॥ याज्ञवल्क्यं मुनिश्रेष्ठं सर्वज्ञं ज्ञाननिर्मलम् । सर्वशास्त्रार्थतत्त्वज्ञं सदा ध्यानपरायणम् ॥ १॥ वेदवेदाङ्गतत्त्वज्ञं योगेषु परिनिष्ठितम् । जितेन्द्रियं जितक्रोधं जिताहारं जितामयम् ॥ २॥ तपस्विनं जितामित्रं ब्रह्मण्यं ब्राह्मणप्रियम् । तपोवनगतं सौम्यं सन्ध्योपासनतत्परम् ॥ ३॥ ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैश्च समावृतम् । सर्वभूतसमं शान्तं सत्यसन्धं गतक्लमम् ॥ ४॥ गुणज्ञं सर्वभूतेषु परार्थैकप्रयोजनम् । ब्रुवन्तं परमात्मानमृषीणामुग्रतेजसाम् ॥ ५॥ तमेवं गुणसम्पन्नं नारीणामुत्तमा वधूः । मैत्रेयी च महाभागा गार्गी च ब्रह्मविद्वरा ॥ ६॥ सभामध्यगता चेयमृषीणामुग्रतेजसाम् । प्रणम्य दण्डवद्भूमौ गार्ग्येतद्वाक्यमब्रवीत् ॥ ७॥ var गर्गी तद् गार्ग्युवाच - भगवन्सर्वशास्त्रज्ञ सर्वभूतहिते रत । योगतत्त्वं मम ब्रूहि साङ्गोपाङ्गं विधानतः ॥ ८॥ एवं पृष्टः स भगवान्सभामध्ये स्त्रिया तया । ऋषीनालोक्य नेत्राभ्यां वाक्यमेतदभाषत ॥ ९॥ याज्ञवल्क्य उवाच - उत्तिष्ठोत्तिष्ठ भद्रं ते गार्गि ब्रह्मविदां वरे । वक्ष्यामि योगसर्वस्वं ब्रह्मणा कीर्तितं पुरा ॥ १०॥ समाहितमना गार्गि शॄणु त्वं गदतो मम । इत्युक्त्वा ब्रह्मविच्छ्रेष्ठो याज्ञवल्क्यस्तपोनिधिः ॥ ११॥ नारायणं जगन्नाथं सर्वभूतहृदि स्थितम् । वासुदेवं जगद्योनिं योगिध्येयं निरञ्जनम् ॥ १२॥ आनन्दममृतं नित्यं परमात्मानमीश्वरम् । ध्यायन्हृदि हृषीकेशं मनसा सुसमाहितः ॥ १३॥ नेत्राभ्यां तां समालोक्य कृपया वाक्यमब्रवीत् । एह्येहि गार्गि सर्वज्ञे सर्वशास्त्रविशारदे ॥ १४॥ योगं वक्ष्यामि विधिवद्धात्रोक्तं परमेष्ठिना । मुनयः श्रूयतामत्र गार्ग्या सह समाहिताः ॥ १५॥ पद्मासने समासीनं चतुराननमव्ययम् । चराचराणां स्रष्टारं ब्रह्माणं परमेष्ठिनम् ॥ १६॥ कदाचित्तत्र गत्वाहं स्तुत्वा स्तोत्रैः प्रणम्य च । पृष्टवानिममेवार्थं यन्मां त्वं परिपृच्छसि ॥ १७॥ देवदेव जगन्नाथ चतुर्मुख पितामह । येनाहं यामि निर्वाणं कर्मणा मोक्षमव्ययम् ॥ १८॥ ज्ञानं च परमं गुह्यं यथावद्ब्रूहि मे प्रभो । मयैवमुक्तो द्रुहिणः स्वयम्भूर्लोकनायकः ॥ १९॥ मामालोक्य प्रसन्नात्मा ज्ञानकर्माण्यभाषत । ज्ञानस्य द्विविधौ ज्ञेयौ पन्थानौ वेदचोदितौ ॥ २०॥ अनुष्ठितौ तौ विद्वद्भिः प्रवर्तकनिवर्तकौ । वर्णाश्रमोक्तं यत्कर्म कामसङ्कल्पपूर्वकम् ॥ २१॥ प्रवर्तकं भवेदेतत्पुनरावृत्तिहेतुकम् । कर्तव्यमिति विध्युक्तं कर्म कामविवर्जितम् ॥ २२॥ येन यत्क्रियते सम्यक् ज्ञानयुक्तं निवर्तकम् । निवर्तकं हि पुरुषं निवर्तयति जन्मनः ॥ २३॥ प्रवर्तकं हि सर्वत्र पुनरावृत्तिहेतुकम् । वर्णाश्रमोक्तं कर्मैव विध्युक्तं कामवर्जितम् ॥ २४॥ विधिवत्कुर्वतस्तस्य मुक्तिर्गार्गि करे स्थिता । वर्णाश्रमोक्तं कर्मैव विधिवत्कामपूर्वकम् ॥ २५॥ येन यत्क्रियते तस्य गर्भवासः करे स्थितः । संसारभीरुभिस्तस्मात्विध्युक्तं कामवर्जितम् ॥ २६॥ विधिवत् कर्म कर्तव्यं ज्ञानेन सह सर्वदा । जाताश्च त्रिषु लोकेषु आनुलोम्येन मानवाः ॥ २७॥ ते देवानामृषीणां च पितॄणामृणिनस्तथा । ऋषिभ्यो ब्रह्मचर्येण पितृभ्यश्च सुतैस्तथा ॥ २८॥ कुर्याद्यज्ञेन देवेभ्यः स्वाश्रमं धर्ममाचरन् । चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुतिचोदिताः ॥ २९॥ क्षत्रियस्य त्रयः प्रोक्ता द्वावेकौ वैश्यशूद्रयोः । अधीत्य वेदं वेदार्थं साङ्गोपाङ्गं विधानतः ॥ ३०॥ स्नायाद्विध्युक्तमार्गेण ब्रह्मचर्यव्रतं चरन् । संस्कृतायां सवर्णायां पुत्रमुत्पादयेत्ततः ॥ ३१॥ यजेदग्नौ तु विधिवत्भार्यया सह वा विना । कान्तारे विजने देशे फलमूलोदकान्विते ॥ ३२॥ तपश्चरन्वसेन्नित्यं साग्निहोत्रः समाहितः । आत्मन्यग्नीन्समारोप्य सन्न्यसेद्विधिना ततः ॥ ३३॥ संन्यासाश्रमसंयुक्तो नित्यं कर्म समाचरन् । यावत्क्षेत्री भवेत्तावत् यजेदात्मानमात्मनि ॥ ३४॥ क्षत्रियश्च चरेदेवमासंन्यासाश्रमात्सदा । वानप्रस्थाश्रमादेवं चरेद्वैश्यः समाहितः ॥ ३५॥ शूद्रः शुश्रूषया नित्यं गृहस्थाश्रमं आचरेत् । शूद्रस्य ब्रह्मचर्यं च मुनिभिः कैश्चिदिष्यते ॥ ३६॥ आनुलोम्यप्रसूतानां त्रयाणामाश्रमास्त्रयः । शूद्रवच्छूद्रजातानं आचारः कीर्तितो बुधैः ॥ ३७॥ चतुर्णामाश्रमस्थानामहन्यहनि नित्यशः । विध्युक्तं कर्म कर्तव्यं कामसङ्कल्पवर्जितम् ॥ ३८॥ तस्मात्त्वमपि योगीन्द्र स्वाश्रमं धर्माचरन् । श्रद्धया विधिवत्सम्यक् ज्ञानकर्म समाचर ॥ ३९॥ इति मे कर्मसर्वस्वं योगरूपं च तत्त्वतः । उपदिश्य ततो ब्रह्मा योगनिष्ठोऽभवत्स्वयम् ॥ ४०॥ श्रुत्वैतद्याज्ञवल्क्योक्तं वाक्यं गार्गी मुदान्विता । पुनः प्राह मुनिश्रेष्ठमृषीमध्ये वरानना ॥ ४१॥ गार्ग्युवाच - ज्ञानेन सह योगीन्द्र विध्युक्तं कर्म कुर्वतः । त्वयोक्तं मुक्तिरस्तीति तयोर्ज्ञानं वद प्रभो ॥ ४२॥ भार्यया त्वेवमुक्तस्तु याज्ञवल्क्यस्तपोनिधिः । तां समालोक्य कृपया ज्ञानरूपमभाषत ॥ ४३॥ याज्ञवल्क्य उवाच - ज्ञानं योगात्मकं विद्धि योगश्चाष्टाङ्गसंयुतः । संयोगो योग इत्युक्तो जीवात्मपरमत्मनोः ॥ ४४॥ वक्ष्याम्यङ्गानि ते सम्यग्यथा पूर्वं मया श्रुतम् । समाहितमना गार्गी ऋषिभिः सह संश‍ृणु ॥ ४५॥ यमश्च नियमश्चैव आसनं च तथैव च । प्राणायामस्तथा गार्गि प्रत्यहारश्च धारणा ॥ ४६॥ ध्यानं समाधिरेतानि योगाङ्गानि वरानने । यमश्च नियमश्चैव दशधा सम्प्रकीर्तितः ॥ ४७॥ आसनान्युत्तमान्यष्टौ त्रयं तेषूत्तमोत्तमम् । प्रणायामस्त्रिधा प्रोक्तः प्रत्याहारश्च पञ्चधा ॥ ४८॥ धारणा पञ्चधा प्रोक्ता ध्यानं षोढा प्रकीर्तितम् । त्रयं तेषूत्तमं प्रोक्तं समाधिस्त्वेकरूपकः ॥ ४९॥ बहुधा केचिदिच्छन्ति विस्तरेण पॄथक् श‍ृणु । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥ ५०॥ क्षमाधृतिर्मिताहारः शौचं त्वेते यमा दश । कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ॥ ५१॥ अक्लेशजननं प्रोक्तमहिंसासात्वेन योगिभिः । विध्युक्तं चेदहिंसा स्यात्क्लेशजन्मैव जन्तुषु ॥ ५२॥ वेदेनोक्तेऽपि हिंसास्यादभिचारादि कर्म यत् । सत्यं भूतहितं प्रोक्तं नियतार्थाभिभाषणम् ॥ ५३॥ कर्मणा मनसा वाचा परद्रव्येषु निःस्पृहा । अस्तेयमिति सा प्रोक्ता ऋषिभिस्तत्त्वदर्शिभिः ॥ ५४॥ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यगो ब्रह्मचर्यं प्रचक्षते ॥ ५५॥ ब्रह्मचर्याश्रमस्थानां यतीनां नैष्ठिकस्य च । ब्रह्मचर्यं तु तत्प्रोक्तं तथैवा रण्यवासिनाम् ॥ ५६॥ ऋतावृतौ स्वदारेषु सङ्गतिर्या विधानतः । ब्रह्मचर्यं तु तत्प्रोक्तं गृहस्थाश्रमवासिनम् ॥ ५७॥ राज्ञश्चैव गॄहस्थस्य ब्रह्मचर्यं प्रकीर्तितम् । विशां वृत्तवतां चैव केचिदिच्छन्ति पण्डिताः ॥ ५८॥ शुश्रूषैव तु शूद्रस्य ब्रह्मचर्यं प्रकीर्तितम् । शुश्रूषा वा गुरोर्नित्यं ब्रह्मचर्यमुदाहृतम् ॥ ५९॥ गुरवः पञ्च सर्वेषां चतुर्णां श्रुतिचोदिताः । माता पिता तथाचार्यो मातुलः श्वशुरस्तथा ॥ ६०॥ एषु मुख्यास्त्र्यः प्रोक्ता आचार्यः पितरौ तथा । एषु मुख्यतमस्त्वेक आचार्यः परमार्थवित् ॥ ६१॥ तमेवं ब्रह्मविच्छ्रेष्ठं नित्यकर्मपरायणम् । शुश्रूषयार्चयेन्नित्यं तुष्टोऽभूद्येन वा गुरुः ॥ ६२॥ दया च सर्वभूतेषु सर्वत्रानुग्रहः स्मृतः । विहितेषु तदन्येषु मनोवाक्कायकर्मणाम् ॥ ६३॥ प्रवृतौ वा निवृतौ वा एकरूपत्वमार्जवम् । प्रियाप्रियेषु सर्वेषु समत्वं यच्छरीरिणाम् ॥ ६४॥ क्षमा सैवेति विद्वद्भिर्गदिता वेदवादिभिः । अर्थहानौ च बन्धूनां वियोगेष्वपि सम्पदाम् ॥ ६५॥ तयोः प्राप्तो च सर्वत्र चित्तस्य स्थापनं धृतिः । अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनम् ॥ ६६॥ द्वात्रिंशच्च गृहस्थानां यथेष्टं ब्रह्मचारिणाम् । एषामयं मिताहारो ह्यन्येषामल्पभोजनम् ॥ ६७॥ शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिस्तथान्तरम् ॥ ६८॥ मनःशुद्धिश्च विज्ञेया धर्मेणाध्यात्मविध्यया । आत्मविद्या च धर्मश्च पित्राचार्येण वानघे ॥ ६९॥ तस्मात्सर्वेषु कालेषु सर्वैर्निःश्रेयसार्थिभिः । गुरवः श्रुतसम्पन्ना मान्या वाङ्ग्मनसादिभिः ॥ ७०॥ ॥ इति श्रीयोगयाज्ञवल्क्ये प्रथमोऽध्यायः ॥
॥ अथ द्वितीयोऽध्यायः ॥ याज्ञवल्क्य उवाच - तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ १॥ एते तु नियमाः प्रोक्तास्तांश्च सर्वान्पृथक् श‍ृणु । विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः ॥ २॥ शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् । यदृच्छा लाभतो नित्यमलं पुंसो भवेदिति ॥ ३॥ ?? या धीस्तामृषयः प्राहुः सन्तोषं सुखलक्षणम् । धर्माधर्मेषु विश्वासो यस्तदास्तिक्यमुच्यते ॥ ४॥ न्यायार्जितं धनं चान्नमन्यद्वा यत्प्रदीयते । अर्थिभ्यः श्रद्धया युक्तं दानमेतदुदाहृतम् ॥ ५॥ यत्प्रसन्नत्वभावेन विष्णुं वाऽप्यन्यमेव वा । यथाशक्त्यर्चनं भक्त्या ह्येतदीश्वरपूजनम् ॥ ६॥ रागाद्यपेतं हृदयं वागदुष्टानृतादिना । हिंसादिरहितः काय एतदीश्वरपूजनम् ॥ ७॥ सिद्धान्तश्रवणं प्रोक्तं वेदान्तश्रवणं बुधैः । द्विजवत्क्षत्रियस्योक्तं सिद्धान्तश्रवणं बुधैः ॥ ८॥ विशां च केचिदिच्छन्ति शीलवृत्तवतां सताम् । शूद्राणां च स्त्रियैश्चैव स्वधर्मस्थतपस्विनाम् ॥ ९॥ सिद्धान्तश्रवणं प्रोक्तं पुराणश्रवणं बुधैः । वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ॥ १०॥ तस्मिन्भवति या लज्जा ह्रीस्तु सैवेति कीर्तिता । विहितेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥ ११॥ गुरुणा चोपदिष्टोऽपि वेदबाह्यविवर्जितः । विधिनोक्तेन मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥ १२॥ अधीत्य वेदं सूत्रं वा पुराणं सेतिहासिकम् । एतेष्वभ्यसनं यच्च तदभ्यासो जपः स्मृतः ॥ १३॥ जपश्च द्विविधः प्रोक्तो वाचिको मानसस्तथा । वाचिक उपांशुरुच्चैश्च द्विविधः परिकीर्तितः ॥ १४॥ मानसो मननध्यानभेदाद् द्वैविध्यमास्थितः । उच्चैर्जपादुपांशुश्च सहस्रगुण उच्यते ॥ १५॥ मानसस्तु तथोपांशोः सहस्रगुण उच्यते । मानसाच्च तथा ध्यानं सहस्रगुणमुच्यते ॥ १६॥ उच्चैर्जपस्तु सर्वेषां यथोक्तफलदो भवेत् । नीचैः श्रुतो न चेत्सोऽपि श्रुतश्चेन्निष्फलो भवेत् ॥ १७॥ ऋषिं छन्दोऽधिदैवं ध्यायन्मन्त्रं च सर्वदा । यस्तु मन्त्रजपो गार्गि स एव हि फलप्रदः ॥ १८॥ प्रसन्नगुरुणा पूर्वमुपदिष्टं त्वनुज्ञया । धर्मार्थमात्मसिद्ध्यर्थमुपायग्रहणं व्रतम् ॥ १९॥ ॥ इति श्रीयोगयाज्ञवल्क्ये द्वितीयोऽध्यायः ॥
॥ अथ तृतीयोऽध्यायः ॥ याज्ञवल्क्य उवाच - आसनान्यधुना वक्ष्ये श‍ृणु गार्गि तपोधने । स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथा ॥ १॥ भद्रं मुक्तासनं चैव मयूरासनमेव च । तथैतेषां वरारोहे पृथग्वक्ष्यामि लक्षणम् ॥ २॥ जानोर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते ॥ ३॥ सीवन्यास्त्वात्मनः पार्श्वे गुल्फौ निक्षिप्य पादयोः । सव्ये दक्षिणगुल्फं तु दक्षिणे दक्षिणेतरम् ॥ ४॥ एतच्च स्वस्तिकं प्रोक्तं सर्वपापप्रणाशनम् । सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे निवेशयेत् ॥ ५॥ दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखं यथा । अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ ६॥ ऊर्वोरुपरि विप्रेन्द्रे कृत्वा पादतले उभे । पद्मासनं भवेदेतत्सर्वेषामपि पूजितम् ॥ ७॥ एकं पादमथैकस्मिन्विन्यस्योरुणि संस्थितम् । इतरस्मिंस्तथा चोरुं वीरासनमुदाहृतम् ॥ ८॥ गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणं सव्यगुल्फेन दक्षिणेन तथेतरम् ॥ ९॥ हस्तौ च जान्वोः संस्थाप्य स्वाङ्गुलीश्च प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ १०॥ सिंहासनं भवेदेतत्पूजितं योगिभिः सदा । गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ॥ ११॥ पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविषापहम् ॥ १२॥ सम्पीड्य सीवनीं सूक्ष्मां गुल्फेनैव तु सव्यतः । सव्यं दक्षिणगुल्फेन मुक्तासनमितीरितम् ॥ १३॥ मेढ्रादुपरि निक्षिप्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य मुक्तासनमिदं तु वा ॥ १४॥ अवष्टभ्य धरां सम्यक् तलाभ्यां तु करद्वयोः । हस्तयोः कूर्परौ चापि स्थापयन्नाभिपार्श्वयोः ॥ १५॥ समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः । मयूरासनमेतत्तु सर्वपापप्रणाशनम् ॥ १६॥ सर्वे चाभ्यन्तरा रोगा विनश्यन्ति विषाणि च । यमैश्च नियमैश्चैव आसनैश्च सुसंयुता ॥ १७॥ नाडीशुद्धिं च कृत्वा तु प्राणायामं ततः कुरु ॥ १८॥ ॥ इति श्रीयोगयाज्ञवल्क्ये तृतीयोऽध्यायः ॥
॥ अथ चतुर्थोऽध्यायः ॥ श्रुत्वैतद्भाषितं वाक्यं याज्ञवल्क्यस्य धीमतः । पुनः प्राह महाभागा सभामध्ये तपस्विनी ॥ १॥ गार्ग्युवाच - भगवन्ब्रूहि मे स्वामिन्नाडीशुद्धिं विधानतः । केनोपायेन शुद्धाः स्युर्नाडयः सर्वदेहिनाम् ॥ २॥ उत्पत्तिं चापि नाडीनां चारणं च यथाविधि । कन्दं च कीदृशं प्रोक्तं कति तिष्ठन्ति वायवः ॥ ३॥ स्थानानि चैव वायूनां कर्माणि च पृथक्पृथक् । विज्ञातव्यानि यान्यस्मिन्देहे देहभृतां वर ॥ ४॥ वक्तुमर्हसि तत्सर्वं त्वत्तो वेत्ता न विद्यते । इत्युक्तो भार्यया तत्र सम्यक् तद्गतमानसः ॥ ५॥ गार्गीं तां सुसमालोक्य तत्सर्वं समभाषत । याज्ञवल्क्य उवाच - शरीरं तावदेवं हि षण्णवत्यङ्गुलात्मकम् ॥ ६॥ विध्येतत्सर्वजन्तूनां स्वाङ्गुलीभिरिति प्रिये । शरीरादधिकः प्राणो द्वादशाङ्गुलमानतः ॥ ७॥ चतुर्दशाङ्गुलं केचिद्वदन्ति मुनिसत्तमाः । द्वादशाङ्गुल एवेति वदन्ति ज्ञानिनो नराः ॥ ८॥ आत्मस्थमनिलं विद्वानात्मस्थेनैव वह्निना । योगाभ्यासेन यः कुर्यात्समं वा न्यूनमेव वा ॥ ९॥ स एव ब्रह्मविच्छ्रेष्ठः स सम्पूज्यो नरोत्तमः । आत्मस्थवह्निनैव त्वं योगजेन द्विजोत्तमे ॥ १०॥ आत्मस्थं मातरिश्वानं योगाभ्यासेन निर्जय । देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥ ११॥ त्रिकोणं मनुजानां च चतुरस्रं चतुष्पदाम् । मण्डलं तत्पतङ्गानां सत्यमेतद्ब्रवीमि ते ॥ १२॥ तन्मध्ये तु शिखा तन्वी सदा तिष्ठति पावकी । देहमध्यं च कुत्रेति श्रोतुमिच्छसि चेच्छृणु ॥ १३॥ गुदात्तु द्व्यङ्गुलादूर्ध्वमधो मेढ्राच्च द्व्यङ्गुलात् । देहमध्यं तयोर्मध्यं मनुष्याणामितीरितम् ॥ १४॥ चतुष्पदां तु हृन्मध्यं तिरश्चां तुन्दमध्यमम् । द्विजानां तु वरारोहे तुन्दमध्यमितीरितम् ॥ १५॥ कन्दस्थानं मनुष्याणां देहमध्यान्नवाङ्गुलम् चतुरङ्गुलमुत्सेधमायामश्च तथाविधः ॥ १६॥ अण्डाकृतिवदाकारं भूषितं तत्त्वगादिभिः । चतुष्पदां तिरश्चां च द्विजानां तुन्दमध्यमे ॥ १७॥ तन्मध्यं नाभिरित्युक्तं नाभौ चक्रसमुद्भवः । द्वादशारयुतं तच्च तेन देहः प्रतिष्ठितः ॥ १८॥ चक्रेऽस्मिन्भ्रमते जीवः पापपुण्यप्रचोदितः । तन्तुपञ्जरमध्यस्था यथा भ्रमति लूतिका ॥ १९॥ जीवस्य मूलचक्रेऽस्मिन्नधः प्राणश्चरत्यसौ । प्राणारूढो भवेज्जीवः सर्वभूतेषु सर्वदा ॥ २०॥ तस्योर्ध्वं कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः । अष्टप्रकृतिरूपा सा अष्टधा कुण्डलीकृता ॥ २१॥ यथावद्वायुसञ्चारं जलान्नादीनि नित्यशः । परितः कन्दपार्श्वेषु निरुद्ध्यैव सदा स्थिता ॥ २२॥ मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा । योगकाले त्वपानेन प्रबोधं याति साग्निना ॥ २३॥ स्फुरन्ती हृदयाकाशे नागरूपा महोज्ज्वला । वायुर्वायुसखेनैव ततो याति सुषुम्णया ॥ २४॥ कन्दमध्ये स्थिता नाडी सुषुम्णेति प्रकीर्तिता । तिष्ठन्ति परितः सर्वाश्चक्रेऽस्मिन्नाडीसञ्ज्ञकाः ॥ २५॥ नाडीनामपि सर्वासां मुख्यास्त्वेताश्चतुर्दश । इडा च पिङ्गला चैव सुषुम्णा च सरस्वती ॥ २६॥ वारुणी चैव पूषा च हस्तिजिह्वा यशस्विनी । विश्वोदरा कुहूश्चैव शङ्खिनी च पयस्विनी ॥ २७॥ अलम्बुषा च गान्धारी मुख्याश्चैताश्चतुर्दश । आसां मुख्यतमास्तिस्त्रस्तिसृष्वेकोत्तमोत्तमा ॥ २८॥ मुक्तिमार्गेति सा प्रोक्ता विश्वधारिणी । कन्दस्य मध्यमे गार्गि सुषुम्णा सुप्रतिष्ठिता ॥ २९॥ पृष्ठमध्ये स्थिता नाडी सा हि मूर्ध्नि व्यवस्थिता॥ मुक्तिमार्गं सुषुम्णा सा ब्रह्मरन्ध्रेति कीर्तिता ॥ ३०॥ अव्यक्ता सैव विज्ञेया सूक्ष्मा वैष्णवी स्मृता । इडा च पिङ्गला चैव तस्याः सव्ये च दक्षिणे ॥ ३१॥ इडा तस्याः स्थिता सव्ये दक्षिणे पिङ्गला स्थिता । इडायां पिङ्गलायां च चरतश्चन्द्रभास्करौ ॥ ३२॥ इडायां चन्द्रमा ज्ञेयः पिङ्गलायां रविः स्मृतः । चन्द्रस्तामस इत्युक्तः सूर्यो राजस उच्यते ॥ ३३॥ विषभागो रवेर्भागः सोमभागोऽमृतं स्मृतम् । तावेव धत्तः सकलं कालं रात्रिदिवात्मकम् ॥ ३४॥ भोक्त्री सुषुम्णा कालस्य गुह्यमेतदुदाहृतम् । सरस्वती कुहूश्चैव सुषुम्णापार्श्वयोः स्थिते ॥ ३५॥ गान्धारी हस्तिजिह्वा च इडायाः पृष्ठपार्श्वयोः । कुहोश्च हस्तिजिह्वाया मध्ये विश्वोदरा स्थिता ॥ ३६॥ यशस्विन्याः कुहोर्मध्ये वारुणी च प्रतिष्ठिता । पूषायाश्च सरस्वत्याः स्थिता मध्ये पयस्विनी ॥ ३७॥ गान्धार्याश्च सरस्वत्याःस्थिता मध्ये च शङ्खिनी । अलम्बुषा च विप्रेन्द्रे कन्दमध्यादधः स्थिता ॥ ३८॥ पूर्वभागे सुषुम्णाया आमेढ्रान्ते कुहूः स्थिता । अधश्चोर्ध्वं च कुण्डल्या वारुणी सर्वगामिनी ॥ ३९॥ यशस्विनी च याम्यस्था पादाङ्खष्ठान्तमिष्यते । पिङ्गला चोर्ध्वगा याम्ये नासान्तं विद्धि मे प्रिये ॥ ४०॥ याम्ये पूषा च नेत्रान्तं पिङ्गलायास्तु पृष्ठतः । पयस्विनी तथा गार्गि याम्यकर्णान्तमिष्यते ॥ ४१॥ सरस्वती तथा चोर्ध्वमाजिह्वायाः प्रतिष्ठिता । आसव्यकर्णाद्विप्रेन्द्रे शङ्खिनी चोर्ध्वगा मता ॥ ४२॥ गान्धारी सव्यनेत्रान्तमिडायाः पृष्ठतः स्थिता । इडा च सव्यनासान्तं सव्यभागे व्यवस्थिता ॥ ४३॥ हस्तिजिह्वा तथा सव्यपादाङ्गुष्ठान्तमिष्यते । विष्वोदरा तु या नाडी तुन्दमध्ये व्यवस्थिता ॥ ४४॥ अलम्बुषा महाभागे पायुमूलादधोगता । एतास्त्वन्याः समुत्पन्नाः शिराश्चान्याश्च तास्वपि ॥ ४५॥ यथाश्वत्थदले तद्वदब्जपत्रेषु वा शिराः । नाडीष्वेतासु सर्वासु विज्ञातव्यास्तपोधने ॥ ४६॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । नागः क्रूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ४७॥ एते नाडीषु सर्वासु चरन्ति दश वायवः । एतेषु वायवः पञ्च मुख्याः प्राणादयः स्मृताः ॥ ४८॥ तेषु मुख्यतमावेतौ प्राणापानौ नरोत्तमे । प्राण एवैतयोर्मुख्यः सर्वप्राणभृतां सदा ॥ ४९॥ आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यमे । प्राणालय इति प्राहुः पादाङ्गुष्टेऽपि केचन ॥ ५०॥ अधश्चोर्ध्वं च कुण्डल्याः परीतः प्राणसञ्ज्ञकः । तिष्ठन्नेतेषु सर्वेषु प्रकाशयति दीपवत् ॥ ५१॥ अपाननिलयं केचिद् गुदमेढ्रोरुजानुषु । उदरे वृषणे कट्यां जङ्घे नाभौ वदन्ति हि ॥ ५२॥ गुदाग्न्यागारयोस्तिष्ठन्मध्येऽपानः प्रभञ्जनः । अधश्चोर्ध्वं च कुण्डल्याः प्रकाशयति दीपवत् ॥ ५३॥ व्यानः श्रोत्राक्षिमध्ये च कृकट्यां गुल्फयोरपि । घ्राणे गले स्फिजोर्देशे तिष्ठत्यत्र न संशयः ॥ ५४॥ उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि । समानः सर्वगात्रेषु सर्वं व्याप्य व्यवस्थितः ॥ ५५॥ भुक्तं सर्वरसं गात्रे व्यापयन्वह्निना सह । द्विसप्ततिसहस्रेषु नाडीमार्गेषु सञ्चरेत् ॥ ५६॥ समानवायुरेवैकः साग्निर्व्याप्य व्यवस्थितः । अग्निभिः सह सर्वत्र साङ्गोपाङ्गकलेवरे ॥ ५७॥ नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः । तुन्दस्थे जलमन्नं च रसानि च समीकृतम् ॥ ५८॥ तुन्दमध्यगतः प्राणस्तानि कुर्यात्पृथक्पृथक् । पुनरग्नौ जलं स्थाप्य त्वन्नादीनि जलोपरि ॥ ५९॥ स्वयं ह्यपानं सम्प्राप्य तेनैव सह मारुतः । प्रवाति ज्वलनं तत्र देहमध्यगतं पुनः ॥ ६०॥ वायुना वातितो वह्निरपानेन शनैः शनैः । तदा ज्वलति विप्रेन्द्रे स्वकुले देहमध्यमे ॥ ६१॥ ज्वालाभिर्ज्वलनस्तत्र प्राणेन प्रेरितस्ततः । जलमत्युष्णमकरोत्कोष्टमध्यगतं तदा ॥ ६२॥ अन्नं व्यञ्जनसंयुक्तं जलोपरि समर्पितम् ततः सुपक्वमकरोद्वह्निः सन्तप्तवारिणा ॥ ६३॥ स्वेदमूत्रे जलं स्यातां वीर्यरूपं रसो भवेत् । पूरीषमन्नं स्याद्गार्गि प्राणः कुर्यात्पृथक्पृथक् ॥ ६४॥ समानवायुना सार्धं रसं सर्वासु नाडीषु । व्यापयञ्चछ्वासरूपेण देहे चरति मारुतः ॥ ६५॥ व्योमरन्ध्रैश्च नवभिः विण्मूत्रादिविसर्जनम् कुर्वन्ति वायवः सर्वे शरीरेषु निरन्तरम् ॥ ६६॥ निःश्वासोच्छ्वासकासाश्च प्राणकर्मेति कीर्त्यते । अपानवायोः कर्मैतद्विण्मूत्रादिविसर्जनम् ॥ ६७॥ हानोपादानचेष्टादि व्यानकर्मेति चेष्यते । उदानकर्म तत्प्रोक्तं देहस्योन्नयनादि यत् ॥ ६८॥ पोषणादि समानस्य शरीरे कर्म कीर्तितम् । उद्गारादि गुणो यस्तु नागकर्मेति कीर्त्यते ॥ ६९॥ निमीलनादि कूर्मस्य क्षुतं वै कृकरस्य च । देवदत्तस्य विप्रेन्द्रे तन्द्रीकर्मेति कीर्तितम् ॥ ७०॥ धनञ्जयस्य शोफादि सर्वं कर्म प्रकीर्तितम् ज्ञात्वैवं नाडीसंस्थानं वायूनां स्थानकर्मणी ॥ ७१॥ विधिनोक्तेन मार्गेण नाडीसंशोधनं कुरु ॥ ७२॥ ॥ इति श्रीयोगयाज्ञवल्क्ये चतुर्थोऽध्यायः ॥
॥ अथ पञ्चमोऽध्यायः ॥ गार्ग्युवाच - भगवन्ब्रह्मविच्छ्रेष्ठ सर्वशास्त्रविशारद । केनोपायेन शुद्धाः स्युर्नाड्यो मे त्वं वद प्रभो ॥ १॥ इत्युक्तो ब्रह्मवादिन्या ब्रह्मविद्ब्राह्मणस्तदा । तां समालोक्य कृपया नाडीशुद्धिमभाषत ॥ २॥ याज्ञवल्क्य उवाच - विध्युक्तकर्मसंयुक्तः कामसङ्कल्पवर्जितः । यमैश्च नियमैर्युक्तः सर्वसङ्गविवर्जितः ॥ ३॥ कृतविद्यो जितक्रोधः सत्यधर्मपरायणः । गुरुशुश्रूषणरतः पितृमातृपरायणः ॥ ४॥ स्वाश्रमस्थः सदाचारः विद्वद्भिश्च सुशिक्षितः । तपोवनं सुसम्प्राप्य फलमूलोदकान्वितम् ॥ ५॥ तत्र रम्ये शुचौ देशे ब्रह्मघोषसमन्विते । स्वधर्मनिरतैः शान्तैर्ब्रह्मविद्भिः समावृते ॥ ६॥ वारिभिश्च सुसम्पूर्णे पुष्पैर्नानाविधैर्युते । फलमूलैश्च सम्पूर्णे सर्वकामफलप्रदे ॥ ७॥ देवालये वा नद्यां वा ग्रामे वा नगरेऽथवा । सुशोभनं मठं कृत्वा सर्वरक्षासमन्वितम् ॥ ८॥ त्रिकालस्नानसंयुक्तः स्वधर्मनिरतः सदा । वेदान्तश्रवणं कुर्वंस्तस्मिन्योगं समभ्यसेत् ॥ ९॥ केचिद्वदन्ति मुनयस्तपःस्वाध्यायसंयुताः । स्वधर्मनिरताः शान्तास्तन्त्रेषु च सदा रताः ॥ १०॥ निर्जने निलये रम्ये वातातपविवर्जिते । विध्युक्तकर्मसंयुक्तः शुचिर्भूत्वा समाहितः ॥ ११॥ मन्त्रैर्न्यस्ततनुर्धीरः सितभस्मधरः सदा । मृद्वासनोपरि कुशान्समास्तीर्य ततोऽजिनम् ॥ १२॥ विनायकं सुसम्पूज्य फलमूलोदकादिभिः । इष्टदेवं गुरुं नत्वा तत आरुह्य चासनम् ॥ १३॥ प्राङ्मुखोदङ्मुखो वापि जितासनगतः स्वयम् । समग्रीवशिरःकायः संवृतास्यः सुनिश्चलः ॥ १४॥ नासाग्रदृक् सदा सम्यक् सव्ये न्यस्येतरं करम् । नासाग्रे शशभृद्बिम्बं ज्योत्स्नाजालवितानितम् ॥ १५॥ सप्तमस्य तु वर्गस्य चतुर्थं बिन्दुसंयुतम् । स्रवन्तममृतं पश्यन्नेत्राभ्यां सुसमाहितः ॥ १६॥ इडया वायुमारोप्य पूरयित्वोदरस्थितम् । ततोऽग्निं देहमध्यस्थं ध्यायञ्ज्वालावलीयुतम् ॥ १७॥ रेफं च बिन्दुसंयुक्तमग्निमण्डलसंस्थितम् । ध्यायन्विरेचयेत्पश्चान्मन्दं पिङ्गलया पुनः ॥ १८॥ पुनः पिङ्गलयापूर्य प्राणं दक्षिणतः सुधीः । पुनर्विरेचयेद्धीमानिडया तु शनैः शनैः ॥ १९॥ त्रिचतुर्वत्सरं वाथ त्रिचतुर्मासमेव वा । षट्कृत्व आचरेन्नित्यं रहस्येवं त्रिसन्धिषु ॥ २०॥ नाडीशुद्धिमवाप्नोति पृथक् चिह्नोपलक्षिताम् । शरीरलघुता दीप्तिर्वह्नेर्जठरवर्तिनः ॥ २१॥ नादाभिव्यक्तिरित्येते चिह्नं तत्सिद्धिसूचकम् । यावदेतानि सम्पश्येत्तावदेव समाचरेत् ॥ २२॥ ॥ इति श्रीयोगयाज्ञवल्क्ये पञ्चमोऽध्यायः ॥
॥ अथ षष्ठोऽध्यायः ॥ याज्ञवल्क्य उवाच - प्राणायाममथादीनां प्रवक्ष्यामि विधानतः । समाहितमनास्त्वं च श‍ृणु गार्गि वरानने ॥ १॥ प्राणापानसमायोगः ``प्राणायामः'' इतीरितः । ``प्राणायामः'' इति प्रोक्तो रेचकपूरककुम्भकैः ॥ २॥ वर्णत्रयात्मका ह्येते रेचकपूरककुम्भकाः । स एष प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ॥ ३॥ इडया वायुमारोप्य पूरयित्वोदरस्थितम् । शनैः षोडशभिर्मात्रैर्कारं तत्र संस्मरेत् ॥ ४॥ ?? धारयेत्पूरितं पश्चाच्चतुःषष्ठ्या तु मात्रया । उकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत् ॥ ५॥ ?? यावद्वा शक्यते तावद्धारणं जपसंयुतम् । पूरितं रेचयेत् पश्चात्प्राणं बाह्यानिलान्वितम् ॥ ६॥ शनैः पिङ्गलया गार्गि द्वात्रिंशन्मात्रया पुनः । मकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत् ॥ ७॥ प्राणायामो भवेदेषः पुनश्चैवं समभ्यसेत् । ततः पिङ्गलयापूर्य मात्रैः षोडशभिस्तथा ॥ ८॥ उकारमूर्तिमत्रापि संस्मरन्सुसमाहितः । ?? पूरितं धारयेत्प्राणं प्रणवं विंशतिद्वयम् ॥ ९॥ जपेदत्र स्मरन्मूर्तिं मकाराख्यं महेश्वरम् । यावद्वा शक्यते पश्चाद्रेचयेतिडयानिलम् ॥ १०॥ ?? एवमेव पुनः कुर्यादिडयापूर्य पूर्ववत् । नाड्या प्राणं समारोप्य पूरयित्वोदरस्थितम् ॥ ११॥ प्रणवेन सुसंयुक्तां व्याहृतीभिश्च संयुताम् । गायत्रीं च जपेद्विप्रः प्राणसम्यमने त्रयः ॥ १२॥ पुनश्चैवं त्रिभिः कुर्यात्पुनश्चैव त्रिसन्धिषु । यद्वा समभ्यसेन्नित्यं वैदिकं लौकिकं तु वा ॥ १३॥ प्राणसंयमने विद्वान्जपेत्तद्विंशतिद्वयम् । ब्राह्मणः श्रुतसम्पन्नः स्वधर्मनिरतः सदा ॥ १४॥ स वैदिकं जपेन्मन्त्रं लौकिकं न कदाचन । केचिद्भूतहितार्थाय जपमिच्छन्ति लौकिकम् ॥ १५॥ द्विजवत्क्षात्रस्योक्तः प्राणसंयमने जपः । ?? syoktashcha वैश्यानां धर्मयुक्तानां स्त्रीशूद्राणां तपस्विनाम् ॥ १६॥ प्राणसंयमने गार्गि मन्त्रं प्रणववर्जितम् । नमोन्तं शिवमन्त्रं वा वैष्णवं वेष्यते बुधैः ॥ १७॥ यद्वा समभ्यसेच्छूद्रो लौकिकं विधिपूर्वकम् । प्राणसंयमने स्त्री च जपेत्तद्विंशतिद्वयम् ॥ १८॥ न वैदिकं जपेच्छूद्रः स्त्रियश्च न कदाचन । स्वाश्रमस्थस्य वैश्यस्य केचिदिच्छन्ति वैदिकम् ॥ १९॥ सन्ध्ययोरुभयोर्नित्यं गायत्र्या प्रणवेन वा । प्राणसंयमनं कुर्यात् ब्राह्मणो वेदपारगः ॥ २०॥ नित्यमेव प्रकुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ २१॥ ऋतुत्रयात्पुनन्त्येनं जन्मान्तरकृतादघात् । वत्सराद्ब्रह्महा शुद्ध्येत्तस्मान्नित्यं समभ्यसेत् ॥ २२॥ योगाभ्यासरतास्त्वेवं स्वधर्मनिरताश्च ये । प्राणसंयमनेनैव सर्वे मुक्ता भवन्ति हि ॥ २३॥ बाह्यादापूरणं वायोरुदरे पूरको हि सः । सम्पूर्णकुम्भवद्वायोर्धारणं कुम्भको भवेत् ॥ २४॥ बहिर्यद्रेचनं वायोरुदराद्रेचकः स्मृतः । प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः ॥ २५॥ कम्पको मध्यमः प्रोक्त उत्थानश्चोत्तमो भवेत् । पूर्वं पूर्वं प्रकुर्वीत यावदुत्तमसम्भवः ॥ २६॥ सम्भवत्युत्तमे गार्गि प्राणायामे सुखी भवेत् । प्राणो लयति तेनैव देहस्यान्तस्ततोऽधिकः ॥ २७॥ देहश्चोत्तिष्ठते तेन कृतासनपरिग्रहा । निःर्श्वासोच्छ्वासकौ तस्य न विद्येते कथञ्चन ॥ २८॥ देहे यद्यपि तौ स्यातां स्वाभाविकगुणावुभौ॥ तथापि नश्यतस्तेन प्राणायामोत्तमेन हि ॥ २९॥ तयोर्नाशे समर्थः स्यात्कर्तुं केवलकुम्भकम् । रेचकं पूरकं मुक्त्त्वा सुखं यद्वायुधारणम् ॥ ३०॥ प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । रेच्य चापूर्य यः कुर्यात्स वै सहितकुम्भकः ॥ ३१॥ सहितं केवलं चाथ कुम्भकं नित्यमभ्यसेत् । यावन्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥ ३२॥ केवले कुम्भके सिद्धे रेचपूरणवर्जिते । न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ॥ ३३॥ मनोजवत्वं लभते पलितादि च नश्यति । मुक्तेरयं महामार्गो मकराख्यान्तरात्मनः ॥ ३४॥ नादं चोत्पादयत्येषः कुम्भकः प्राणसंयमः । प्राणसंयमनं नाम देहे प्राणस्य धारणम् ॥ ३५॥ एषः प्राणजयोपायः सर्वमृत्यूपघातकः । किञ्चित्प्राणजयोपायं तव वक्ष्यामि तत्त्वतः ॥ ३६॥ बाह्यात्प्राणं समाकृष्य पूरयित्वोदरस्थितम् । नाभिमध्ये च नासाग्रे पादाङ्गुष्ठे च यत्नतः ॥ ३७॥ धारयेन्मनसा प्राणं सन्ध्याकालेषु सर्वदा । सर्वरोगविनिर्मुक्तो जीवेद्योगी गतक्लमः ॥ ३८॥ नासाग्रे धारणं गार्गि वायोर्विजयकारणम् । सर्वरोगविनाशः स्यान्नाभिमध्ये च धारणात् ॥ ३९॥ शरीरं लघुतां याति पादाङ्गुष्ठे च धारणात् । रसनावायुमाकृष्य यःपिबेत्सततं नरः ॥ ४०॥ श्रमदाहौ न तस्यास्तां नश्यन्ति व्याधयस्तथा॥ सन्ध्ययोर्ब्राह्मकाले वा वायुमाकृष्य यः पिबेत् ॥ ४१॥ त्रिमासात्तस्य कल्याणि जग्यते वाक्सरस्वती । षण्मासाभ्यासयोगेन महारोगैः प्रभुच्यते ॥ ४२॥ आत्मन्यात्मानमारोप्य कुण्डल्यां यस्तु धारयेत् । क्षयरोगादयस्तस्य नश्यन्तीत्यपरे विदुः ॥ ४३॥ जिह्वया वायुमानीय जिह्वामूले निरोधयन् । यः पिबेदमृतं विद्वान्सकलं भद्रमश्नुते ॥ ४४॥ आत्मन्यात्मानमिडया समानीय भ्रुवोऽन्तरे ।var भ्रुवोऽन्तरात् पिबेद्यस्त्रिदशाहारं व्याधिभिः स विमुच्यते ॥ ४५॥ नाडीभ्यां वायुमारोप्य नाभौ वा तुन्दपार्श्वयोः । घटिकैकां वहेद्यस्तु व्याधिभिः सोऽभिमुच्यते ॥ ४६॥ मासमेकं त्रिसन्ध्यायां जिह्वयारोप्य मारुतम् । पिबेद्यस्त्रिदशाहारं धारयेत्तुन्दमध्यमे ॥ ४७॥ गुल्माष्ठीला प्लीहा चान्ये त्रिद्रोषजनितास्तथा । तुन्दमध्यगता रोगाः सर्वे नश्यन्ति तस्य वै ॥ ४८॥ ज्वराः सर्वे विनश्यन्ति विषाणि विविधानि च । बहुनोक्तेन किं गार्गि पलितादि च नश्यति ॥ ४९॥ एवं वायुजयोपायः प्राणस्य तु वरानने । शक्यमासनमास्थाय समाहितमनास्तथा ॥ ५०॥ करणानि वशीकृत्य विषयेभ्यो बलात्सुधीः । ?? भ्यः अपानमूर्ध्वमाकृष्य प्रणवेन समाहितः ॥ ५१॥ हस्ताभ्यां बन्धयेत्सम्यक्कर्णादि करणानि च । अङ्गुष्टाभ्यामुमे श्रोत्रे तर्जनीभ्यां च चक्षुषी ॥ ५२॥ नासापुटौ मध्यमाभ्यां प्रच्छाद्य करणानि वै । आनन्दानुभवं यावत्तावन्मूर्द्धनि धारयेत् ॥ ५३॥ प्राणः प्रयात्यनेनैव ततस्त्वायुर्विघातकृत् । ब्रह्मरन्ध्रे सुषुम्णायां मृणालान्तरसूत्रवत् ॥ ५४॥ नादोत्पत्तिस्त्वनेनैव शुद्धस्फटिकसन्निभा । आमूर्ध्नो वर्तते नादो वीणादण्डवदुत्थितः ॥ ५५॥ शङ्खध्वनिनिभस्त्वादौ मध्ये मेघध्वनिर्यथा । व्योमरन्ध्रगते नादे गिरिप्रस्रवणं यथा ॥ ५६॥ व्योमरन्ध्रगते वायौ चित्ते चात्मनि संस्थिते । तदानन्दी भवेद्देही वायुस्तेन जितो भवेत् ॥ ५७॥ योगिनस्त्वपरे ह्यत्र वदन्ति समचेतसः । प्राणायामपराः पूता रेचपूरणवर्जिताः ॥ ५८॥ दक्षिणेतरगुल्फेन सीवनीं पीडयेत्शिराम् अधस्ताद्दण्डयो सूक्ष्मां सव्योपरि च दक्षिणम् ॥ ५९॥ var दण्डवत्सूक्ष्मां जङ्घोर्वोरन्तरं गार्गि निश्छिद्रं बन्धयेत्दृढम् । समग्रीवशिरस्कन्धः समपृष्ठः समोदरः ॥ ६०॥ नेत्राभ्यां दक्षिणं गुल्फं लोकयन्नुपरिस्थितम् । धारयन्मनसा सार्धं व्याहरन्प्रणवाक्षरम् ॥ ६१॥ आसने नान्यधीरास्ते द्विजो रहसि नित्यशः । क्षत्रियश्च वरारोहे व्याहरन्प्रणवाक्षरम् ॥ ६२॥ आसने नान्यधीरस्ते रहस्येव जितेन्द्रियः । वैश्याः शूद्राः स्त्रियश्चान्ये योगाभ्यासरताः नराः ॥ ६३॥ शैवं वा वैष्णवं वाथ व्याहरन्नन्यमेव वा । आसने नान्यधीरस्ते दीपं हस्ते विलोकयन् ॥ ६४॥ आयुर्विघातकृत्प्राणस्त्वनेनाग्निकुलं गतः । धूमध्वजजयं यावन्नान्यधीरेवमभ्यसेत् ॥ ६५॥ धारणं कुर्वतस्तस्य शक्तिं स्यादिष्टभोजने । देहश्च लघुतां याति जठराग्निश्च वर्धते ॥ ६६॥ दृष्टचिह्नस्ततस्तस्मान्मनसारोप्य मारुतम् । मन्त्रमुच्चारयन्दीर्घं नाभिमध्ये निरोधयेत् ॥ ६७॥ यावन्मनोलयत्यस्मिन्नाभौ सवितृमण्डले । तावत्समभ्यसेद्विद्वान्नियतो नियतासनः ॥ ६८॥ एतेन नाभिमध्यस्थधारणेनैव मारुतः । कुण्डलीं याति वह्निश्च दहत्यत्र न संशयः ॥ ६९॥ सन्तप्ता वह्निना तत्र वायुना चालिता स्वयम् । प्रसार्य फणभृद्भोगं प्रबोधं याति सा तदा ॥ ७०॥ प्रबुद्धे संसरत्यस्मिन्नाभिमूले तु चक्रिणि । ब्रह्मरन्ध्री सुषुम्णायां प्रयाति प्राणसञ्ज्ञकः ॥ ७१॥ सम्प्राप्ते मारुते तस्मिन्सुषुम्णायां वरानने । मन्त्रमुच्चार्य मनसा हृन्मध्ये धारयेत्पुनः ॥ ७२॥ हृदयात्कण्ठकूपे च भ्रुवोर्मध्ये च धारयेत् । तस्मादारोप्य मनसा साग्निं प्राणमनन्यधीः ॥ ७३॥ धारयेद्व्योम्नि विप्रेन्द्रे व्याहरन्प्रणवाक्षरम् । वायुना पूरिते व्योम्नि साङ्गोपाङ्गे कलेवरे ॥ ७४॥ तदात्मा राजते तत्र यथा व्योम्नि विकर्तनः । var भजते शरीरं विसिसृक्षुश्चेदेवं सम्यक् समाचरन् ॥ ७५॥ एकाक्षरं परं ब्रह्म ध्यायन्प्रणवमीश्वरम् । सम्भिद्य मनसा मूर्ध्नि ब्रह्मरन्ध्रं सवायुना ॥ ७६॥ प्राणमुन्मोचयेत्पश्चान्महाप्राणे खमध्यमे॥ देहातीते जगत्प्राणे शून्ये नित्ये ध्रुवे पदे ॥ ७७॥ आकाशे परमानन्दे स्वात्मानं योजयेद्धिया । ब्रह्मैवासौ भवेद्गार्गि न पुनर्जन्मभाग्भवेत् ॥ ७८॥ तस्मात्त्वं च वरारोहे नित्यं कर्म समाचार । सन्ध्याकालेषु वा नित्यं प्राणसंयमनं कुरु ॥ ७९॥ प्राणायामपराः सर्वे प्राणायामपरायणाः । प्राणायामविशुद्धा ये ते यान्ति परमां गतिम् ॥ ८०॥ प्राणायामादृते नान्यत्तारकं नरकादमि । संसारार्णवमग्नानां तारकः प्राणसंयमः ॥ ८१॥ तस्मात् त्वं विधिमार्गेण नित्यं कर्म समाचर । विधिनोक्तेन मार्गेण प्राणसंयमनं कुरु ॥ ८२॥ नासाग्रे दृक् सदा सम्यक् सव्ये न्यस्येतरं करम् । नासाग्रे शशभृद्बिम्बे ज्योत्स्नाजालवितानके ॥ ८३॥ अम्बोमा सहितं शुभ्रं सोमसूर्याग्निलोचनम् । पञ्चवक्रं महादेवं चन्द्रशेखरमीश्वरम् ॥ ८४॥ नन्दिवाहनसंयुक्तं सर्वदेवसमन्वितम् । प्रसन्नं सर्ववरदं ध्यायेत्सर्वायुधं शिवम् ॥ ८५॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । अकारमूर्तिरेतेषां रक्ताङ्गी हंसवाहिनी ॥ ८६॥ दण्डहस्ता सती वाला गायत्रीत्यवधार्यताम् । उकारमूर्तिरेतेषां कृष्णाङ्गी वृषवाहनी ॥ ८७॥ चक्रहस्ता सती चैव सावित्रीत्यवधार्यताम् । मकारमूर्तिरेतेषां श्वेताङ्गी तार्क्ष्यवाहिनी ॥ ८८॥ शूलानन्दमयी वृद्धा सरस्वत्यवधार्यताम् । माहेश्वरीति सा प्राज्ञैः पश्चिमा परिकीर्तिता ॥ ८९॥ सृष्टिस्थित्यन्तकालाद्या मकारोऽप्यन्तकात्मकः । अक्षरत्रयमेवैतत्कारणत्रयमिष्यते ॥ ९०॥ त्रयाणां कारणं ब्रह्म सद्रूपं सर्वकारणम् । एकाक्षरं परं ज्योतिस्तमाहुः प्रणवं बुधाः ॥ ९१॥ एवं ज्ञात्वा विधानेन प्रणवेन समन्वितम् । प्राणायामं ततः कुर्याद्रेचपूरककुम्भकैः ॥ ९२॥ ॥ इति श्रीयोगयाज्ञवल्क्ये षष्ठोऽध्यायः ॥
॥ अथ सप्तमोऽध्यायः ॥ याज्ञवल्क्य उवाच - उक्तान्येतानि चत्वारि योगाङ्गानि द्विजोत्तमे । प्रत्याहारादि चत्वारि श‍ृणुष्वाभ्यन्तराणि च ॥ १॥ इन्द्रियाणां विचरतां विषयेषु स्वभावतः । बलादाहरणं तेषां प्रत्याहारः स उच्यते ॥ २॥ यद्यत्पश्यसि तत्सर्वं पश्येदात्मवदात्मनि । प्रत्याहारः स च प्रोक्तो योगविद्भिर्महात्मभिः ॥ ३॥ कर्माणि यानि नित्यानि विहितानि शरीरिणाम् । तेषामात्मन्यनुष्ठानं मनसा यद्बहिर्विना ॥ ४॥ प्रत्याहारो भवेत्सोऽपि योगसाधनमुत्तमम् । प्रत्याहारः प्रशस्तोऽयं सेवितो योगिभिः सदा ॥ ५॥ अष्टादशसु यद्वायोर्मर्मस्थानेषु धारणम् । स्थानात्स्थानात्समाकृष्य प्रत्याहारो निगद्यते ॥ ६॥ अश्विनौ च तथा ब्रूतां गार्गि देवभिषग्वरौ । मर्मस्थानानि सिद्ध्यर्थं शरीरे योगमोक्षयोः ॥ ७॥ तानि सर्वाणि वक्ष्यामि यथावच्छुणु सुव्रते । पादाङ्गुष्ठौ च गुल्फौ च जङ्घामध्ये तथैव च ॥ ८॥ चित्योर्मूलं च जान्वोश्च मध्ये चोरुद्वयस्य च । पायुमूलं ततः पश्चाद्देहमध्यं च मेढ्रकम् ॥ ९॥ नाभिश्च हृदयं गार्गि कण्ठकूपस्तथैव च । तालुमूलं च नासाया मूलं चाक्ष्णोश्च मण्डले ॥ १०॥ भ्रुवोर्मध्यं ललाटं च मूर्धा च मुनिसत्तमे । मर्मस्थानानि चैतानि मानं तेषां पृथक् श‍ृणु ॥ ११॥ पादान्मानं तु गुल्फस्य सार्धाङ्गुलचतुष्टयम् । गुल्फाज्जङ्घस्य मध्यं तु विज्ञेयं तद्दशाङ्गुलम् ॥ १२॥ जङ्घमध्याच्चित्योर्मूलं यत्तदेकादशाङ्गुलम् चित्योर्मूलाद्वरारोहे जानुः स्यादङ्गुलिद्वयम् ॥ १३॥ जान्वोर्नवाङ्गुलं प्राहुरूरुमध्यं मुनीश्वराः । ऊरुमध्यात्तथा गार्गि पायुमूलं नवाङ्गुलम् ॥ १४॥ देहमध्यं तथा पायोर्मूलादर्धाङ्गुलद्वयम् । देहमध्यात्तथा मेढ्र तद्वत्सार्धाङ्गुलद्वयम् ॥ १५॥ मेढ्रान्नभिश्च विज्ञेया गार्गि सार्धदशाङ्गुलम् । चतुर्दशाङ्गुलं नाभेर्हृन्मध्यं च वरानने ॥ १६॥ षडङ्गुलं तु हृन्मध्यात्कण्ठकूपं तथैव च । कण्ठकूपाच्च जिह्वाया मूलं स्याच्चतुरङ्गुलम् ॥ १७॥ नासामूलं तु जिह्वाया मूलाच्च चतुरङ्गुलम् । नेत्रस्थानं तु तन्मूलादर्धाङ्गुलमितीष्यते ॥ १८॥ तस्मादर्धाङ्गुलं विद्धि भ्रुवोरन्तरमात्मनः । ललाटाख्यं भ्रुवोर्मध्यादूर्ध्वं स्यादङ्गुलद्वयम् ॥ १९॥ ललाटाद्व्योमसञ्ज्ञं स्यादङ्गुलित्रयमेव हि । स्थानेषु एतेषु मनसा वायुमारोप्य धारयेत् ॥ २०॥ स्थानात्स्थानात्समाकृष्य प्रत्याहारं प्रकुर्वतः । सर्वे रोगा विनश्यन्ति योगाः सिध्यन्ति तस्य वै ॥ २१॥ वदन्ति योगिनः केचिद्योगेषु कुशला नराः । प्रत्याहारं वरारोहे श‍ृणु त्वं तद्वदाम्यहम् ॥ २२॥ सम्पूर्णकुम्भवद्वायुमङ्गुष्ठान्मूर्धमध्यतः । धारयेदनिलं बुद्ध्या प्राणायामप्रचोदितः ॥ २३॥ व्योमरन्ध्रात्समाकृष्य ललाटे धारयेत्पुनः । ललाटाद्वाउमाकृष्य भ्रुवोर्मध्ये निरोधयेत् ॥ २४॥ भ्रुवोर्मध्यात्समाकृष्य नेत्रमध्ये निरोधयेत् । नेत्रात्प्राणं समाकृष्य नासामूले निरोधयेत् ॥ २५॥ नासामूलात्तु जिह्वाया मूले प्राणं निरोधयेत् । जिह्वामूलात्समाकृष्य कण्ठमूले निरोधयेत् ॥ २६॥ कण्ठमूलात्तु हृन्मध्ये हृदयात् नाभिमध्यमे । नाभिमध्यात्पुनर्मेढ्रे मेढ्राद्वह्न्यालये ततः ॥ २७॥ देहमध्याद्गुदे गार्गि गुदादेवोरुमूलके । ऊरुमूलात्तयोर्मध्ये तस्माज्जान्वोर्निरोधयेत् ॥ २८॥ चितिमूले ततस्तस्माज्जङ्घयोर्मध्यमे तथा । जङ्घामध्यात्समाकृष्य वायुं गुल्फे निरोधयेत् ॥ २९॥ गुल्फादङ्गुष्ठयोर्गार्गि पादयोस्तन्निरोधयेत्॥ स्थानात्स्थानात्समाकृष्य यस्त्वेवं धारयेत् सुधीः ॥ ३०॥ सर्वपापविशुद्धात्मा जीवेदाचन्द्रतारकम् । एतत्तु योगसिद्ध्यर्थमगस्त्येनापि कीर्तितम् ॥ ३१॥ प्रत्याहारेषु सर्वेषु प्रशस्तमिति योगिभिः । नाडीभ्यां वायुमापूर्य कुण्डल्याः पार्श्वयोः क्षिपेत् ॥ ३२॥ धारयेद्युगपत्सोऽपि भवरोगाद्विमुच्यते । पूर्ववद्वायुमारोप्य हृदयव्योम्नि धारयेत् ॥ ३३॥ सोऽपि याति वरारोहे परमात्मपदं नरः । व्याधयः किं पुनस्तस्य बाह्याभ्यन्तरवर्तिनः ॥ ३४॥ नासाभ्यां वायुमारोप्य पूरयित्वोदरस्थितम् । भ्रुवोर्मध्यादृशोः पश्चात्समारोप्य समाहितः ॥ ३५॥ धारयेत्क्षणमात्रं वा सोऽपि याति परां गतिम् । किं पुनर्बहुनोक्तेन नित्यं कर्म समाचरन् ॥ ३६॥ आत्मनः प्राणमारोप्य भ्रुवोर्मध्ये सुषुम्णया । यावन्मनोलयत्यस्मिन्स्तावत्संयमनं कुरु ॥ ३७॥ ॥ इति श्रीयोगयाज्ञवल्क्ये सप्तमोऽध्यायः ॥
॥ अथ अष्टमोऽध्यायः ॥ याज्ञवल्क्य उवाच - अथेदानीं प्रवक्ष्यामि धारणा पञ्च तत्त्वतः । समाहितमनास्त्वं च श‍ृणु गार्गि तपोधने ॥ १॥ यमादिगुणयुक्तस्य मनसः स्थितिरात्मनि । धारणेत्युच्यते सद्भिः शास्त्रतात्पर्यवेदिभिः ॥ २॥ अस्मिन्ब्रह्मपुरे गार्गि यदिदं हृदयाम्बुजम् । तस्मिन्नेवान्तराकाशे यद्बाह्याकाशधारणम् ॥ ३॥ एषा च धारणेत्युक्ता योगशास्त्रविशारदैः । तान्त्रिकैर्योगशास्त्रज्ञैर्विद्वद्भिश्च सुशिक्षितैः ॥ ४॥ धारणाः पञ्चधा प्रोक्तास्ताश्च सर्वाः पृथक् श‍ृणु॥ भूमिरापस्तथा तेजो वायुराकाशमेव च ॥ ५॥ एतेषु पञ्चदेवानां धारणं पञ्चधोच्यते । पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते ॥ ६॥ आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् । आपायोर्हृदयान्तं यद्वह्निस्थानं तदुच्यते ॥ ७॥ आहृन्मध्याद्भ्रुवोर्मध्यं यावद्वायुकुलं स्मृतम् । आभ्रूमध्यात्तु मूर्धान्तमाकाशमिति चोच्यते ॥ ८॥ अत्र केचिद्वदन्त्यन्ये योगपण्डितमानिनः । आजानोर्नाभिपर्यन्तमपांस्थानमिति द्विजाः ॥ ९॥ नाभिमध्याद्गलान्तं यद्वह्निस्थानं तदुच्यते । आगलात्तु ललाटान्तं वायुस्थानमितीरितम् ॥ १०॥ ललाटाद्रन्ध्रपर्यन्तमाकाशस्थानमुच्यते॥ अयुक्तमेतदित्युक्तं शास्त्रतात्पर्यवेदिभिः ॥ ११॥ यदि स्याज्ज्वलनस्थानं देहमध्ये वरानने । अयुक्ता कारणे वह्नौ कार्यरूपस्य संस्थितिः ॥ १२॥ कार्यकारणसंयोगे कार्यहानिः कथं भवेत् । दृष्टं तत्कार्यरूपेषु मृदात्मकघटादिषु ॥ १३॥ पृथिव्यां धारयेद्गार्गि ब्रह्माणं परमेष्ठिनम् । विष्णुमप्स्वनले रुद्रमीश्वरं वायुमण्डले ॥ १४॥ सदाशिवं तथा व्योम्नि धारयेत्सुसमाहितः । पृथिव्यां वायुमास्थाय लकारेण समन्वितम् ॥ १५॥ ध्यायन् चतुर्भुजाकारं ब्रह्माणं सृष्टिकारणम् । धारयेत्पञ्च घटिकाः पृथिवीजयमाप्नुयात् ॥ १६॥ वारुणे वायुमारोप्य वकारेण समन्वितम् । स्मरन्नारायणं सौम्यं चतुर्बाहुं किरीटिनम् ॥ १७॥ शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् । धारयेत्पञ्च घटिकाः सर्वरोगैः प्रमुच्यते ॥ १८॥ वहौ चानिलमारोप्य रेफाक्षरसमन्वितम् । त्र्यक्षं वरप्रदं रुद्रं तरुणादित्यसन्निभम् ॥ १९॥ भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् । धारयेत्पञ्च घटिकाः वह्निनासौ न दह्यते ॥ २०॥ मारुतं मारुतस्थाने यकारेण समन्वितम् । धारयेत्पञ्च घटिकाः वायुवद्व्योमगो भवेत् ॥ २१॥ आकाशे वायुमारोप्य हकारोपरि शकरम् । बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ॥ २२॥ शुद्धस्फटिकसङ्काशं बालेन्दुघृतमौलिनम् । पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् ॥ २३॥ सर्वायुधोद्यतकरं सर्वाभरणभूषितम् । उमार्धदेहं वरदं सर्वकारणकारणम् ॥ २४॥ मनसा चिन्तयनत्तु मुहूर्तमपि धारयेत् । स एव मुक्त इत्युक्तस्तान्त्रिकेषु सुशिक्षितैः ॥ २५॥ एतदुक्तं भवत्यत्र गार्गि ब्रह्मविदां वरे । ब्रह्मादिकार्यरूपाणि स्वे स्वे सम्हृत्य कारणे ॥ २६॥ तस्मिन्सदाशिवे प्राणं चित्तं चानीय कारणे । युक्तचित्तस्तदात्मानं योजयेत्परमेश्वरे ॥ २७॥ अस्मिन्नर्थे वदन्त्यन्ये योगिनो व्रह्मविद्वराः । प्रणवेनैव कार्याणि स्वे स्वे संहृत्य कारणे ॥ २८॥ प्रणवस्य तु नादान्ते परमानन्दविग्रहम् । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ २९॥ चेतसा सम्प्रपश्यन्ति सन्तः संसारभेषजं त्वं तस्मात् प्रणवेनैव प्राणायामैस्त्रिभिस्त्रिभिः ॥ ३०॥ ब्रह्मादि कार्यरूपाणि स्वे स्वे सम्हृत्य कारणे । विशुद्धचेतसा पश्य नादान्ते परमेश्वरम् ॥ ३१॥ अस्मिन्नर्थे वदन्त्यन्ये योगिनो ब्रह्मविद्वराः । भिषग्वरा वरारोहे योगेषु परिनिष्ठिताः ॥ ३२॥ शरीरं तावदेवं तु पञ्चभूतात्मकं खलु । तदेतत्तु वरारोहे वातपित्तकफात्मकम् ॥ ३३॥ वातात्मकानां सर्वेषां योगेष्वभिरतात्मनाम् । प्राणसंयमनेनैव शोषं याति कलेवरम् ॥ ३४॥ पित्तात्मकानां त्वचिरान्न शुष्यति कलेवरम् । कफात्मकानां कायश्च सम्पूर्णस्त्वचिराद्भवेत् ॥ ३५॥ धारणं कुर्वतस्त्वाग्नौ सर्वे नश्यन्ति वातजाः । पार्थिवांशे जलांशे च धारणं कुर्वतः सदा ॥ ३६॥ नश्यन्ति श्लेष्मजा रोगा वातजाश्चाचिरात्तथा । व्योमांशे मारुतांशे च धारणं कुर्वतः सदा ॥ ३७॥ त्रिदोषजनिता रोगा विनश्यन्ति न संशयः । अस्मिन्नर्थे तथा ब्रूतामश्विनौ च भिषग्वरौ ॥ ३८॥ प्राणसंयमनेनैव त्रिदोषशमनं नृणाम् । तस्मात्त्वं च वरारोहे नित्यं कर्म समाचर ॥ ३९॥ यमादिभिश्च सम्युक्ता विधिवद्धारणां कुरु ॥ ४०॥ ॥ इति श्रीयोगयाज्ञवल्क्ये अष्टमोऽध्यायः ॥
॥ अथ नवमोऽध्यायः ॥ याज्ञवल्क्य उवाच - अथ ध्यानं प्रवक्ष्यामि श‍ृणु गार्गि वरानने । ध्यानमेव हि जन्तूनां कारणं बन्धमोक्षयोः ॥ १॥ ध्यानमात्मस्वरूपस्य वेदनं मनसा खलु । सगुणं निर्गुणं तच्च सगुणं बहुशः स्मृतम् ॥ २॥ पञ्चोत्तमानि तेष्वाहुर्वैदिकानि द्विजोत्तमाः । त्रीणि मुख्यतमान्येषामेकमेव हि निर्गुणम् ॥ ३॥ मर्मस्थानानि नाडीनां संस्थानं च पृथक्पृथक् । वायूनां स्थानकर्माणि ज्ञात्वा कुर्वात्मवेदनम् ॥ ४॥ एकं ज्योतिर्मयं शुद्धं सर्वगं व्योमवलुदम् । अव्यक्तमचलं नित्यमादिमघ्यान्तवर्जितम् ॥ ५॥ स्थूलं सूक्ष्ममनाकारमसंस्पृश्यमचाक्षुषम् । न रसं न च गन्धाख्यमप्रमेयमनौपमम् ॥ ६॥ आनन्दमजरं नित्यं सदसत्सर्वकारणम् । सर्वाधारं जगद्रूपममूर्तमजमव्ययम् ॥ ७॥ अदृश्यं दृश्यमन्तःस्थं बहिर्स्थं सर्वतोमुखम् । सर्वदृक्सर्वतःपादं सर्वस्पृक् सर्वतःशिरः ॥ ८॥ ब्रह्म ब्रह्ममयोऽहं स्यामिति यद्वेदनं भवेत्॥ तदेतन्निर्गुणं ध्यानमिति ब्रह्मविदो विदुः ॥ ९॥ अथवा परमात्मानं परमानन्दविग्रहम् । गुरूपदेशाद्विज्ञाय पुरुषं कृष्णपिङ्गलम् ॥ १०॥ ब्रह्म ब्रह्मपुरे चास्मिन्दहराम्बुजमध्यमे॥ अभ्यासात्सम्प्रपश्यन्ति सन्तं संसारभेषजम् ॥ ११॥ ह्रृत्पद्मेऽष्टदलोपेते कन्दमध्यात्समुत्थिते । द्वादशाङ्गुलनालेऽस्मिश्चतुरङ्गुलमुन्मुखे ॥ १२॥ प्राणायामैर्विकासिते केसरान्वितकर्णिके । वासुदेवं जगन्नाथं नारायणमजं हरिम् ॥ १३॥ चतुर्भुजमुदाराङ्गं शङ्खचक्रगदाधरम् । किरीटकेयूरधरं पद्मपत्रनिभेक्षणम् ॥ १४॥ श्रीवत्सवक्षसं विष्णुं पूर्णचन्द्रनिभाननम् । पद्मोदरदलाभोष्ठं सुप्रसन्नं शुचिस्मितम् ॥ १५॥ शुद्धस्फटिकसङकाशं पीतवाससमच्युतम् । पद्मच्छविपदद्वन्द्वं परमात्मानमव्ययम् ॥ १६॥ प्रभाभिर्भासयद्रूपं परितः पुरुषोत्तमम् । मनसालोक्य देवेशं सर्वभूतहृदि स्थितम् ॥ १७॥ सोऽहमात्मेति विज्ञानं सगुणं ध्यानमुच्यते । हृत्सरोरुहमध्येऽस्मिन्प्रकृत्यात्मककर्णिके ॥ १८॥ अष्टैश्वर्यदलोपेते विद्याकेसरसंयुते । ज्ञाननाले बृहत्कन्दे प्राणायामप्रबोधिते ॥ १९॥ विश्वार्चिषं महावह्निं ज्वलन्तं विश्वतोमुखम् । वैश्वानरं जगद्योनिं शिखातन्विनमीश्वरम् ॥ २०॥ तापयन्तं स्वकं देहमापादतलमस्तकम् । निर्वातदीपवत्तस्मिन्दीपितं हव्यवाहनम् ॥ २१॥ दृष्ट्वा तस्य शिखामध्ये परमात्मानमक्षरम् । नीलतोयदमध्यस्थविद्युल्लेखेव भास्वरम् ॥ २२॥ नीवारशूकवद्रूपं पीताभं सर्वकारणम् । ज्ञात्वा वैश्वानरं देवं सोऽहमात्मेति या मतिः ॥ २३॥ सगुणेषूत्तमं ह्येतद्ध्यानं योगविदो विदुः । वैश्वानरत्वं सम्प्राप्य मुक्तिं तेनैव गच्छति ॥ २४॥ अथवा मण्डले पश्येदादित्यस्य महाद्युतेः । आत्मानं सर्वजगतः पुरुषं हेमरूपिणम् ॥ २५॥ हिरण्यश्मश्रुकेशं च हिरण्यमयनखं हरिम् । कनकाम्बुजवद्वक्त्रं सृष्ठिस्थित्यन्तकारणम् ॥ २६॥ पद्मासनस्थितं सौम्यं प्रबुद्धाब्जनिभाननम् । पद्मोदरदलाभाक्षं सर्वलोकाभयप्रदम् ॥ २७॥ जानन्तं सर्वदा सर्वमुन्नयन्तं च धार्मिकान् । भासयन्तं जगत्सर्वं दृष्ट्वा लोकैकसाक्षिणम् ॥ २८॥ सोऽहमस्मीति या बुद्धिः स च ध्यानेषु शस्यते । एष एव तु मोक्षस्य महामार्गस्तपोधने ॥ २९॥ घ्यानेनानेन सौरेण मुक्तिं यास्यन्ति सूरयः । भ्रूवोर्मध्येऽन्तरात्मानं भारूपं सर्वकारणम् ॥ ३०॥ स्थाणुवन्मूर्धपर्यन्तं मध्यदेहात्मसमुत्थितम् । जगत्कारणमव्यक्तं ज्वलन्तममितौजसम् ॥ ३१॥ मनसालोक्य सोऽहं स्यामित्येतध्यानमुत्तमम् । अथवा बद्धपर्यङ्के शितिलीकृतविग्रहे ॥ ३२॥ शिव एव स्वयं भूत्वा नासाग्रारोपितेक्षणः । निर्विकारं परं शान्तं परमात्मानमीश्वरम् ॥ ३३॥ भारूपममृतं ध्यायेद्भ्रुवोर्मध्ये वरानने । सोऽहमेवेति या बुद्धिः सा च ध्यानेषु शस्यते ॥ ३४॥ अथवाष्टदलोपेते कर्णिकाकेसरान्विते । उन्निद्रहृदयाम्भोजे सोममण्डलमध्यमे ॥ ३५॥ स्वात्मानमर्भकाकरं भोक्तृरूपिणमव्ययम् । सुधारसं विमुञ्चद्भिः शशिरश्मिभिरावृतम् ॥ ३६॥ षोडशच्छदसंयुक्ताशिरः पद्मादधोमुखात् । निर्गतामृतधाराभिः सहस्राभिः समन्ततः ॥ ३७॥ प्लावितं पुरुषं तत्र चिन्तयित्वा समाहितः । तेनामृतरसेनैव साङ्गोपाङ्गकलेवरे ॥ ३८॥ अहमेव परं ब्रह्म परमात्माहमव्ययः । एवं यद्वेदनं तच्च सगुणं ध्यानमुच्यते ॥ ३९॥ एवं घ्यानामृतं कुर्वन् षण्मासान्मृत्युजिद्भवेत् । वत्सरान्मुक्त एव स्याज्जीवन्नेव न संशयः ॥ ४०॥ जीवन्मुक्तस्य न क्वापि दुःखावाप्तिः कथञ्चन । किं पुनर्नित्यमुक्तस्य मुक्तिरेव हि दुर्लभा ॥ ४१॥ तस्मात्त्वं च वरारोहे फलं त्यक्त्वेव नित्यशः । विधिवत्कर्म कुर्वाणा ध्यानमेव सदा कुरु ॥ ४२॥ अन्यानपि बहून्याहुर्ध्यानानि मुनिसत्तमाः । मुख्यान्युक्तानि चैतेभ्यो जघन्यानीतराणि तु ॥ ४३॥ सगुणं गुणहीनं वा विज्ञायात्मानमात्मनि । सन्तः समाधिं कुर्वन्ति त्वमप्येवं सदा कुरु ॥ ४४॥ ॥ इति श्रीयोगयाज्ञवल्क्ये नवमोऽध्यायः ॥
॥ अथ दशमोऽध्यायः ॥ याज्ञवल्क्य उवाच - समाधिमधुना वक्ष्ये भवपाशविनाशनम् । भवपाशनिबद्धस्य यथावच्छ्रोतुमर्हसि ॥ १॥ समाधिः समतावस्था जीवात्मपरमात्मनोः । ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः ॥ २॥ ध्यायेद्यथा यथात्मानं तत्समाधिस्तथा तथा । ध्यायैवात्मनि संस्थाप्यो नान्यथात्मा यथा भवेत् ॥ ३॥ एवमेव तु सर्वत्र यत्प्रपन्नस्तु यो नरः । तदात्मा सोऽपि तत्रैव समाधिं समवाप्नुयात् ॥ ४॥ सारित्पतौ निविष्टाम्बु यथाभिन्नतयान्वियात् । तथात्माभिन्न एवात्र समाधिं समवाप्नुयात् ॥ ५॥ एतदुक्तं भवत्यत्र गार्गि ब्रह्मविदां वरे । कर्मैव विधिवत्कुर्वन्कामसङ्कल्पवर्जितम् ॥ ६॥ वेदान्तेष्वर्थशास्त्रेषु सुशिक्षितमनाः सदा । गुरुणा तूपदिष्टार्थं युक्त्युपेतं वरानने ॥ ७॥ विद्वद्भिर्धर्मशास्त्रज्ञैर्विचार्य च पुनः पुनः । तस्मिन् सुनिश्चितार्थेषु सुशिक्षितमनाः सदा ॥ ८॥ योगमेवाभ्यसेन्नित्यं जीवात्मपरमात्मनोः । ततस्त्वाभ्यन्तरैस्चिह्नैर्बाह्यैर्वा कालसूचकैः ॥ ९॥ विनिश्चित्यात्मनः कालमन्यैर्वा परमार्थवित् । निर्भयः सुप्रसन्नात्मा मर्त्यस्तु विजितेन्द्रियः ॥ १०॥ स्वकर्मनिरतः शान्तः सर्वभूतहिते रतः । प्रदाय विद्यां पुत्रस्य मन्त्रं च विधिपूर्वकम् ॥ ११॥ संस्कारमात्मनः सर्वमुपदिश्य तदानघे । पुण्यक्षेत्रे शुचौ देशे विद्वद्भिश्च समावृते ॥ १२॥ भूमौ कुशान्समास्तीर्य कृष्णाजिनमथापि वा । तस्मिन्सुबद्धपर्यङ्को मन्त्रैर्बद्धकलेवरः ॥ १३॥ आसने नान्यधीरास्ते प्राङ्मुखो वाप्युदङ्मुखः । नवद्वाराणि संयम्य गार्ग्यस्मिन्ब्रह्मणः पुरे ॥ १४॥ उन्निद्रहृदयाम्भोजे प्राणायामैः प्रबोधिते । व्योम्नि तस्मिन्प्रभारूपे स्वरूपे सर्वकारणे ॥ १५॥ मनोवृत्तिं सुसंयम्य परमात्मनि पण्डितः । मूर्ध्न्याधायात्मनः प्राणं भ्रुवोर्मध्येऽथवानधे ॥ १६॥ कारणे परमानन्दे आस्थितो योगधारणाम् । ओमित्येकाक्षरं बुद्ध्या व्याहरन्सुसमाहितः ॥ १७॥ शरीरं सन्त्यजेद्विद्वानात्मैवाभून्नरोत्तमः । यस्मिन्समभ्यसेद्विद्वान्योगेनैवात्मदर्शनम् ॥ १८॥ तदेव संस्मरञ्चिद्वांस्त्यजेदन्ते कलेवरम् । यं यं सम्यक्स्मरन्भावं त्यजत्यन्ते कलेवरम् ॥ १९॥ तं तमेवैत्यसौ भावमिति योगविदो विदुः । त्वं चैवं योगमास्थाय ध्यायन्स्वात्मानमात्मनि ॥ २०॥ स्वधर्मनिरता शान्ता त्यजान्ते देहमात्मनः । ज्ञानेनैव सहैतेन नित्यकर्माणि कुर्वतः ॥ २१॥ निवृत्तफलसङ्गस्य मुक्तिर्गार्गि करे स्थिता । यदुक्तं ब्रह्मणा पूर्वं कर्मयोगसमुच्चयम् ॥ २२॥ तदेतत्कीर्तितं सर्वं साङ्गोपाङ्गं विधानतः । त्वं चैव योगमभ्यस्य यमाद्यष्टाङ्गसंयुतम् ॥ २३॥ निर्वाणं पदमासाद्य प्रपञ्चं सम्परित्यज । ॥ इति श्रीयोगयाज्ञवल्क्ये दशमोऽध्यायः ॥
॥ अथ एकादशोऽध्यायः ॥ इत्येवमुक्ता मुनिना याज्ञवल्क्येन धीमता । ऋषिमध्ये वरारोहा वाक्यमेतदभाषत ॥ १॥ गार्ग्युवाच - योगयुक्तो नरः स्वामिन्सन्ध्ययोर्वाथवा सदा । वैधं कर्म कथं कुर्यान्निष्कृतिः का त्वकुर्वतः ॥ २॥ इत्युक्तो ब्रह्मवादिन्या ब्रह्मविद्ब्राह्मणस्तदा । तां समालोक्य भगवानिदमाह नरोत्तमः ॥ ३॥ याज्ञवल्क्य उवाच - योगयुक्तमनुष्यस्य सन्ध्ययोर्वाथवा निशि । यत्कर्तव्यं वरारोहे योगेन खलु तत्कृतम् ॥ ४॥ आत्माग्निहोत्रवह्नौ तु प्राणायामैर्विवर्धिते । विशुद्धचित्तहविषा विध्युक्तं कर्म जुह्वतः ॥ ५॥ निष्कृतिस्तस्य किं बाले कृतकृत्यस्तदा खलु । वियोगे सति सम्प्राप्ते जीवात्मपरमात्मनोः ॥ ६॥ विध्युक्तं कर्म कर्तव्यं ब्रह्मविद्भिश्च नित्यशः । वियोगकाले योगी च दुःखमित्येव यस्त्यजेत् ॥ ७॥ कर्माणि तस्य निलयः निरयः परिकीर्तितः । न देहिनां यतः शक्यं त्यक्तुं कर्माण्यशेषतः ॥ ८॥ तस्मादामरणाद्वैधं कर्तव्यं योगिभिः सदा । त्वं चैव मात्यया गार्गि वैधं कर्म समाचर ॥ ९॥ योगेन परमात्मानं यजंस्त्यज कलेवरम् । इत्येवमुक्त्वा भगवान् याज्ञवल्क्यस्तपोनिधिः ॥ १०॥ ऋषीनालोक्य नेत्राभ्यां वाक्यमेतदभाषत । सन्ध्यामुपास्य विधिवत्पश्चिमां सुसमाहिताः ॥ ११॥ गच्छन्तु साम्प्रतं सर्वे ऋषयः स्वाश्रमं प्रति । इत्येवमुक्ता मुनिना मुनयः संश्रितव्रताः ॥ १२॥ विश्वामित्रो वसिष्ठश्च गौतमश्चाङ्गिरास्तथा । अगस्त्यो नारदश्चैव वाल्मीकिर्बादरायणः ॥ १३॥ पैङ्गिर्दीर्घतमा व्यासः शौनकश्च तपोधनः । भार्गवः काश्यपश्चैव भरद्वाजस्तथैव च ॥ १४॥ तपस्विनस्तथा चान्ये वेदवेदाङ्गवेदिनः । याज्ञवल्क्यं सुसम्पूज्य गीर्भिराशीर्मिंरुत्तमैः ॥ १५॥ ते यान्ति मुनयः सर्वे स्वाश्रमेषु यथागतम् । गतेषु स्वाश्रमेष्वेषु तापसेषु तपोधना ॥ १६॥ प्रणम्य दण्डवद्भूमौ वाक्यमेतदभाषत । गार्ग्युवाच - भगवन्सर्वशास्त्रज्ञ सर्वभूतहिते रत ॥ १७॥ भवमोक्षाय योगीन्द्र भवद्भिर्भाषितं तु यत् । यमाद्यष्टाङ्गसहितो योगो मुक्तेस्तु साधनम् ॥ १८॥ तदेतद्विस्मृतं सर्वं सर्वज्ञ तव सन्निधौ । योगं ममोपदिश्याद्य साङ्गं सङ्क्षेपरूपतः ॥ १९॥ त्रातुमर्हसि सर्वज्ञ जन्मसंसारसागरात् । इत्युक्तो ब्रह्मवादिन्या ब्रह्मविद्ब्राह्मणस्तदा ॥ २०॥ आलोक्य कृपया दीनां स्मितपृर्वमभाषत । उत्तिष्ठोत्तिष्ठ किं शेषे भूमौ गार्गि वरानने ॥ २१॥ वक्ष्यामि ते समासेन योगं सम्प्रति तं श‍ृणु॥ ॥ इति श्रीयोगयाज्ञवल्क्ये एकादशोऽध्यायः ॥
॥ अथ द्वादशोऽध्यायः ॥ सव्येन गुल्फेन गुदं निपीड्य सव्येतरेणैव निपीड्य सन्धिम् । सव्येतरं न्यस्य करेतरेऽस्मिंशिखां समालोक्य पावकस्य ॥ १॥ आयुर्विघातकृत्प्राणो निरुद्धस्त्वासनेन वै । याति गार्गि तदापानात्कुलं वह्नेः शनैः शनैः ॥ २॥ वायुना वातितो वह्निरपानेन शनैः शनैः ततो ज्वलति सर्वेषां स्वकुले देहमध्यमे ॥ ३॥ प्रातःकाले प्रदोषे च निशीथे च समाहितः मुहूर्तमभ्यसेदेवं यावत् पञ्चदिनद्वयम् ॥ ४॥ ततस्वात्मनि विप्रेन्दे प्रत्ययाश्च पृथक्पृथक् । सम्भवन्ति तदा तस्य जितो येन समीरणः ॥ ५॥ शरीरलघुता दीप्तिर्वह्नेर्जठरवर्तिनः । नादाभिव्यक्तिरित्येते चिह्नान्यादौ भवन्ति हि ॥ ६॥ अल्पमूत्रपुरीषः स्यात्षण्मासे वत्सरेऽपि वा । आसने वाहने पश्चान्न भेतव्यं त्रिवत्सरात् ॥ ७॥ ततोऽनिलं वायुसखेन सार्धं धिया समारोप्य निरोधयेत्तम् । ध्यायन्सदा चक्रिणमप्रबुद्धं नाभौ सदा कुण्डलिनीनिविष्टम् ॥ ८॥ शिरां समावेष्ट्य मुखेन मध्यामन्याश्च भोगेन शिरास्तथैव । स्वपुच्छमास्येन निगृह्य सम्यक्पथश्च संयम्य मरुद्गणानाम् ॥ ९॥ प्रसुप्तनागेन्द्रवदुच्छ्वसन्ती सदा प्रबुद्धा प्रभया ज्वलन्ती । नाभौ सदा तिष्ठति कुण्डली सा तिर्यक्षु देहेषु तथेतरेषु ॥ १०॥ वायुना विहृतवह्निशिखाभिः कन्दमध्यगतनाडीषु संस्थाम् । कुण्डलीं दहति यस्त्वहिरूपां संस्मरन्नरवरस्तु स एव ॥ ११॥ सन्तप्ता वह्निना तत्र वायुना च प्रचालिता । प्रसार्य फणभृद्भोगं प्रबोधं याति सा तदा ॥ १२॥ बोधं गते चक्रिणि नाभिमध्ये प्राणाः सुसम्भूय कलेवरेऽस्मिन् । चरन्ति सर्वे सह वह्निनैव यथा पटे तन्तुगतिस्तथैव ॥ १३॥ जित्वैवं चक्रिणः स्थानं सदा ध्यानपरायणः । ततो नयेदपानं तु नाभेरूर्ध्वमिदं स्मरन् ॥ १४॥ वायुर्यथा वायुसखेन सार्धं नाभिं त्वतिक्रम्य गतः शरीरे । रोगाश्च नश्यन्ति बलाभिवृद्धिः कान्तिस्तदानीमभवत्प्रबुद्धे ॥ १५॥ ब्रह्मरन्ध्रमुखमत्र वायवः पावकेन सह यान्ति समूह्य । केनचिदिह वदामि तवाहं वीक्षणाद् हृदि सुदीपशिखायाः ॥ १६॥ निरोधितः स्याद् हृदि तेन वायुः मध्ये यदा वायुसखेन सार्धम् । सहस्रपत्रस्य मुखं प्रविश्य कुर्यात्पुनस्तूर्ध्वमुखं द्विजेन्द्रे ॥ १७॥ प्रबुद्धहृदयाम्भोजे गार्ग्यस्मिन्ब्रह्मणः पुरे । बालाकाश्रेणिवद्व्योम्नि विरराज समीरणः ॥ १८॥ हृन्मध्यात्तु सुषुम्नायां संस्थितो हुतभुक्तदा । सजलाम्बुदमालासु विद्युल्लेखेव राजते ॥ १९॥ प्रबुद्धहृत्पद्मनि संस्थितेऽग्नौ प्राणे च तस्मिन्विनिवेशिते च । चिह्नानि बाह्यानि तथान्तराणि दीपादि दृश्याणि भवन्ति तस्य ॥ २०॥ वायुमुन्नय ततस्तु सवह्निं व्याहरन्प्रणवमत्र सबिन्दुम् । बालचन्द्रसदृशे तु ललाटे बालचन्द्रमवलोकय बुद्ध्या ॥ २१॥ सवह्निं बायुमारोप्य भ्रुवोर्मध्ये धिया तदा । ध्यायेदनन्यधीः पश्चादन्तरात्मानमन्तरे ॥ २२॥ मध्यमेऽपि हृदये च ललाटे स्थाणुवज्वलति लिङ्गमदृश्यम् । अस्ति गार्गि परमार्थमिदं त्वं पश्य पश्य मनसा रुचिरूपम् ॥ २३॥ ललाटमध्ये हृदयाम्बुजे च यः पश्यति ज्ञामयीं प्रभां तु । शक्तिं सदा दीपवदुज्ज्वलन्तीं स पश्यति ब्रह्मविदेकदृष्ट्या ॥ २४॥ मनोलयं यदा याति भ्रूमध्ये योगिनां नृणाम् । जिह्वामूलेऽमृतस्रावो भ्रूमध्ये चात्मदर्शनम् ॥ २५॥ कम्पनं च तथा मूर्ध्नः मनसैवात्मदर्शनम् । देवोद्यानानि रम्याणि नक्षत्राणि च चन्द्रमाः । ऋषयः सिद्धगन्धर्वाः प्रकाशं यान्ति योगिनाम् ॥ २६॥ भ्रुवोऽन्तरे विष्णुपदे ऋचौ तु मनोलयं यावदियात्प्रबुद्धे । तावत्समभ्यस्प पुनः खमध्ये सुखं सदा संस्मर पूर्णरूपम् ॥ २७॥ समीरणे विष्णुपदे निविष्टे जीवे च तस्मिन्नमृते च संस्थे । तस्मिन्स्तदा याति मनोलयं चेन्मुक्तेः समीपं तदिति ब्रुवन्ति ॥ २८॥ समीरणे विष्णुपदे निविष्टे विशुद्धबुद्धौ च तदात्मनिष्ठे । आनन्दमत्यद्भुतमस्ति सत्यं त्वं गार्गि पश्याद्य विशुद्धबुद्ध्या ॥ २९॥ एवं समभ्यस्य सूदीर्घकालं यमादिभिर्युक्ततनुर्मिताशी । आत्मानमासाद्य गुहां प्रविष्टां मुक्तिं व्रज ब्रह्मपुरे पुनस्त्वम् ॥ ३०॥ भूतानि यस्मात्प्रभवन्ति गार्गि येनैव जीवन्ति चराचराणि । जातानि यस्मिन् विलयं प्रयान्ति तद्ब्रह्म विद्धीति वदन्ति सर्वे ॥ ३१॥ हृत्पङ्कजे व्योम्नि यदेकरूपं सत्यं सदानन्दमयं सुसूक्ष्मम् । तद्ब्रह्म निर्भासमयं गुहायामिति श्रुतिश्चेति समामनन्ति ॥ ३२॥ अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्य विशुद्धबुद्ध्या प्रयाणकाले च विहीनशोकाः ॥ ३३॥ प्रभञ्जनं मूर्ध्निगतं सवह्निं धिया समासाद्य गुरूपदेशात् । मूर्धानमुद्भिद्य पुनः खमध्ये प्राणास्त्यजोङ्कारमनुस्मरंस्त्वम् ॥ ३४॥ ईप्सया यदि शरीरविसर्गं ज्ञातुमिच्छसि सखे तव वक्ष्ये । व्याहरन्प्रणवमुन्नय मूर्ध्नि भिद्य योजय तमात्मनि कायम् ॥ ३५॥ एतत्पवित्रं परमं योगमष्टाङ्गसंयुतम् । ज्ञानं गुह्यतमं पुण्यं कीर्तितं ते वरानने ॥ ३६॥ य इदं श्रणुयान्नित्यं योगाख्यानं नरोत्तमः । सर्वपापविनिर्मुक्तः सम्यग्ज्ञानी भविष्यति ॥ ३७॥ यस्त्वेतच्छ्रावयेद्विद्वान्नित्यं भक्तिसमन्वितः । एकजन्मकृतं पापं दिनेनैकेन नश्यति ॥ ३८॥ श‍ृणुयाद्यः सकृद्वापि योगाख्यानमिदं नरः । अज्ञानजनितं पापं सर्वं तस्य प्रणश्यति ॥ ३९॥ अनुतिष्ठन्ति ये नित्यमात्मज्ञानसमन्वितम् । नित्यकर्माणि तान्दृष्ट्वा देवाश्च प्रणमन्ति हि ॥ ४०॥ तस्माज्ज्ञानेन देहान्तं नित्यं कर्म यथाविधि । कर्तव्यं देहिभिर्गार्गि योगश्च भवभीरुभिः ॥ ४१॥ इत्येवमुक्त्वा भगवान्रहस्ये रहस्यजं मुक्तिकरं तु तस्याः । योगामृतं बन्धविनाशहेतुं समाधिमास्ते रहसि द्विजेन्द्रः ॥ ४२॥ सा तं तु सम्पूज्य मुनिं ब्रुवन्तं विद्यानिधिं ब्रह्मविदां वांरेष्ठम् । गीर्भीः प्रणामैश्च सतां वरिष्ठं सदा मुदं प्राप वरां विशुद्धाम् ॥ ४३॥ योगं सुसङ्ग्रृह्य तदा रहस्ये रहस्यजं मुक्तिकरं च जन्तोः । संसारमुत्सृज्य सदा मुदान्विता वने रहस्यावसथे विवेश ॥ ४४॥ येन प्रपञ्चं परिपूर्णमेतद्येनैव विश्वं प्रतिभाति सर्वम् । तं वासुदेवं श्रुतिमूर्ध्नि जातं पश्यन्सदास्ते हृदि मूर्ध्नि चान्वहम् ॥ ४५॥ यदेकमव्यक्तमनन्तमच्युतं प्रपञ्चजन्मादिकृदप्रमेयम् । तं वासुदेवं श्रुतिमूर्ध्निजातं पश्यन्सदास्ते हृदि मूर्ध्नि चान्वहम् ॥ ४६॥ ॥ इति श्रीयोगयाज्ञवल्क्ये द्वादशोऽध्यायः ॥ ॥ समाप्तमिदं योगशास्त्रम् ॥

कोई टिप्पणी नहीं:

Dr. Balavant Singh