बुधवार, 27 मार्च 2024

योगकुण्डलिन्युपनिषत्

 

योगकुण्डलिन्युपनिषत्

योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् । निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये ॥ ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ हेतुद्वयं हि चित्तस्य वासना च समीरणः । तयोर्विनष्ट एकस्मिंस्तद्द्वावपि विनश्यतः ॥ १॥ तयोरादौ समीरस्य जयं कुर्यान्नरः सदा । मिताहारश्चासनं च शक्तिश्चालस्तृतीयकः ॥ २॥ एतेषां लक्षणं वक्ष्ये श‍ृणु गौतम सादरम् । सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ॥ ३॥ भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते । आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा ॥ ४॥ ऊर्वोरुपरि चेद्धत्ते उभे पादतले यथा । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ ५॥ वामाङ्घ्रिमूलकन्दाधो ह्यन्यं तदुपरि क्षिपेत् । समग्रीवशिरःकायो वज्रासनमितीरितम् ॥ ६॥ कुण्डल्येव भवेच्छक्तिस्तां तु सञ्चालयेद्बुधः । स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते ॥ ७॥ तत्साधने द्वयं मुख्यं सरस्वत्यास्तु चालनम् । प्राणरोधमथाभ्यासादृज्वी कुण्डलिनी भवेत् ॥ ८॥ तयोरादौ सरस्वत्याश्चालनं कथयामि ते । अरुन्धत्येव कथिता पुराविद्भिः सरस्वती ॥ ९॥ यस्याः सञ्चालनेनैव स्वयं चलति कुण्डली । इडायां वहति प्राणे बद्ध्वा पद्मासनं दृढम् ॥ १०॥ द्वादशाङ्गुलदैर्घ्यं च अम्बरं चतुरङ्गुलम् । विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः ॥ ११॥ अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद्धृढम् । स्वशक्त्या चालयेद्वामे दक्षिणेन पुनःपुनः ॥ १२॥ मुहूर्तद्वयपर्यन्तं निर्भयाच्चालयेत्सुधीः । ऊर्ध्वमाकर्षयेत्किञ्चित्सुषुम्नां कुण्डलीगताम् ॥ १३॥ तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं व्रजेत् । जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति स्वतः ॥ १४॥ तुन्दे तु तानं कुर्याच्च कण्ठसङ्कोचने कृते । सरस्वत्यां चालनेन वक्षसश्चोर्ध्वगो मरुत् ॥ १५॥ सूर्येण रेचयेद्वायुं सरस्वत्यास्तु चालने । कण्ठसङ्कोचनं कृत्वा वक्षसश्चोर्ध्वगो मरुत् ॥ १६॥ तस्मात्सञ्चालयेन्नित्यं शब्दगर्भां सरस्वतीम् । यस्याः सञ्चालनेनैव योगी रोगैः प्रमुच्यते ॥ १७॥ गुल्मं जलोदरः प्लीहा ये चान्ये तुन्दमध्यगाः । सर्वे ते शक्तिचालेन रोगा नश्यन्ति निश्चयम् ॥ १८॥ प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः । प्राणश्च दहनो वायुरायामः कुम्भकः स्मृतः ॥ १९॥ स एव द्विविधः प्रोक्तः सहितः केवलस्तथा । यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥ २०॥ सूर्योज्जायी शीतली च भस्त्री चैव चतुर्थिका । भेदैरेव समं कुम्भो यः स्यात्सहितकुम्भकः ॥ २१॥ पवित्रे निर्जने देशे शर्करादिविवर्जिते । धनुःप्रमाणपर्यन्ते शीताग्निजलवर्जिते ॥ २२॥ पवित्रे नात्युच्चनीचे ह्यासने सुखदे सुखे । बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम् ॥ २३॥ दक्षनाड्या समाकृष्य बहिष्ठं पवनं शनैः । यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः ॥ २४॥ कपालशोधने वापि रेचयेत्पवनं शनैः । चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च ॥ २५॥ पुनः पुनरिदं कार्यं सूर्यभेदमुदाहृतम् । मुखं संयम्य नाडिभ्यामाकृष्य पवनं शनैः ॥ २६॥ यथा लगति कण्ठात्तु हृदयावधि सस्वनम् । पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः ॥ २७॥ शीर्षोदितानलहरं गलश्लेष्महरं परम् । सर्वरोगहरं पुण्यं देहानलविवर्धनम् ॥ २८॥ नाडीजलोदरं धातुगतदोषविनाशनम् । गच्छतस्तिष्ठतः कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥ २९॥ जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु । शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः ॥ ३०॥ गुल्मप्लीहादिकान्दोषान्क्षयं पित्तं ज्वरं तृषाम् । विषाणि शीतली नाम कुम्भकोऽयं निहन्ति च ॥ ३१॥ ततः पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ ३२॥ यथा लगति कण्ठात्तु कपाले सस्वनं ततः । वेगेन पूरयेत्किञ्चिधृत्पद्मावधि मारुतम् ॥ ३३॥ पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकाराणां भस्त्रा वेगेन चाल्यते ॥ ३४॥ तथैव स्वशरीरस्थं चालयेत्पवनं शनैः । यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् ॥ ३५॥ यथोदरं भवेत्पूर्णं पवनेन तथा लघु । धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् ॥ ३६॥ कुम्भकं पूर्ववत्कृत्वा रेचेयेदिडयानिलम् । कण्ठोत्थितानलहरं शरीराग्निविवर्धनम् ॥ ३७॥ कुण्डलीबोधकं पुण्यं पापघ्नं शुभदं सुखम् । ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम् ॥ ३८॥ गुणत्रयसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ ३९॥ चतुर्णामपि भेदानां कुम्भके समुपस्थिते । बन्धत्रयमिदं कार्यं योगिभिर्वीतकल्मषैः ॥ ४०॥ प्रथमो मूलबन्धस्तु द्वितीयोड्डीयणाभिधः । जालन्धरस्तृतीयस्तु तेषां लक्षणमुच्यते ॥ ४१॥ अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् । आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते ॥ ४२॥ अपाने चोर्ध्वगे याते सम्प्राप्ते वह्निमण्डले । ततोऽनलशिखा दीर्घा वर्धते वायुनाऽऽहता ॥ ४३॥ ततो यातौ वह्न्यपानौ प्राणमुष्णस्वरूपकम् । तेनात्यन्तप्रदीप्तेन ज्वलनो देहजस्तथा ॥ ४४॥ तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते । दण्डाहतभुजङ्गीव निःश्वस्य ऋजुतां व्रजेत् ॥ ४५॥ बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं व्रजेत् । तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥ ४६॥ कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः । बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥ ४७॥ तस्मादुड्डीयणाख्योऽयं योगिभिः समुदाहृतः । सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् ॥ ४८॥ गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् । पश्चिमं तानमुदरे धारयेद्-हृदये गले ॥ ४९॥ शनैः शनैर्यदा प्राणस्तुन्दसन्धिं निगच्छति । तुन्ददोषं विनिर्धूय कर्तव्यं सततं शनैः ॥ ५०॥ पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कण्ठसङ्कोचरूपोऽसौ वायुमार्गनिरोधकः ॥ ५१॥ अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ ५२॥ पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः । चालनं तु सरस्वत्याः कृत्वा प्राणं निरोधयेत् ॥ ५३॥ प्रथमे दिवसे कार्यं कुम्भकानां चतुष्टयम् । प्रत्येकं दशसङ्ख्याकं द्वितीये पञ्चभिस्तथा ॥ ५४॥ विशत्यलं तृतीयेऽह्नि पञ्चवृद्ध्या दिने दिने । कर्तव्यः कुम्भको नित्यं बन्धत्रयसमन्वितः ॥ ५५॥ दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् । बहुसङ्क्रमणं नित्यं रोधान्मूत्रपुरीषयोः ॥ ५६॥ विषमाशनदोषाच्च प्रयासप्राणचिन्तनात् । शीघ्रमुत्पद्यते रोगः स्तम्भयेद्यदि संयमी ॥ ५७॥ योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते । ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्न उच्यते ॥ ५८॥ द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता । आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् ॥ ५९॥ षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् । विषमं चाष्टमं चैव अनाख्यं नवमं स्मृतम् ॥ ६०॥ अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः । इत्येतद्विघ्नदशकं विचारेण त्यजेद्बुधः ॥ ६१॥ प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्वस्थया धिया । सुषुम्ना लीयते चित्तं तथा वायुः प्रधावति ॥ ६२॥ शुष्के मले तु योगी च स्याद्गतिश्चलिता ततः । अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् ॥ ६३॥ आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते । अपानश्चोर्ध्वगो भूत्वा वह्निना सह गच्छति ॥ ६४॥ प्राणस्थानं ततो वह्निः प्राणापानौ च सत्वरम् । मिलित्वा कुण्डलीं याति प्रसुप्ता कुण्डलाकृतिः ॥ ६५॥ तेनाग्निना च सन्तप्ता पवनेनैव चालिता । प्रसार्य स्वशरीरं तु सुषुम्ना वदनान्तरे ॥ ६६॥ ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुणसमुद्भवम् । सुषुम्ना वदने शीघ्रं विद्युल्लेखेव संस्फुरेत् ॥ ६७॥ विष्णुग्रन्थिं प्रयात्युच्चैः सत्वरं हृदि संस्थिता । ऊर्ध्वं गच्छति यच्चास्ते रुद्रग्रन्थिं तदुद्भवम् ॥ ६८॥ भ्रुवोर्मध्ये तु संभिद्य याति शीतांशुमण्डलम् । अनाहताख्यं यच्चक्रं दलैः षोडशभिर्युतम् ॥ ६९॥ तत्र शीतांशुसञ्जातं द्रवं शोषयति स्वयम् । चलिते प्राणवेगेन रक्तं पीतं रवेर्ग्रहात् ॥ ७०॥ यातेन्दुचक्रं यत्रास्ते शुद्धश्लेष्मद्रवात्मकम् । तत्र सिक्तं ग्रसत्युष्णं कथं शीतस्वभावकम् ॥ ७१॥ तथैव रभसा शुक्लं चन्द्ररूपं हि तप्यते । ऊर्ध्वं प्रवहति क्षुब्धा तदैवं भ्रमतेतराम् ॥ ७२॥ तस्यास्वादवशाच्चित्तं बहिष्ठं विषयेषु यत् । तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा ॥ ७३॥ प्रकृत्यष्टकरूपं च स्थानं गच्छति कुण्डली । क्रोडीकृत्य शिवं याति क्रोडीकृत्य विलीयते ॥ ७४॥ इत्यधोर्ध्वरजः शुक्लं शिवे तदनु मारुतः । प्राणापानौ समौ याति सदा जातौ तथैव च ॥ ७५॥ भूतेऽल्पे चाप्यनल्पे वा वाचके त्वतिवर्धते । धवयत्यखिला वाता अग्निमूषाहिरण्यवत् ॥ ७६॥ आधिभौतिकदेहं तु आधिदैविकविग्रहे । देहोऽतिविमलं याति चातिवाहिकतामियात् ॥ ७७॥ जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् । तस्यातिवाहिकं मुख्यं सर्वेषां तु मदात्मकम् ॥ ७८॥ जायाभवविनिर्मुक्तिः कालरूपस्य विभ्रमः । इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् ॥ ७९॥ मृषैवोदेति सकलं मृषैव प्रविलीयते । रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसोर्भ्रमतो यथा ॥ ८०॥ पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरपि । स्वापाव्याकृतयोरैक्यं स्वप्रकाशचिदात्मनोः ॥ ८१॥ शक्तिः कुण्डलिनी नाम बिसतन्तुनिभा शुभा । मूलकन्दं फणाग्रेण दृष्ट्वा कमलकन्दवत् ॥ ८२॥ मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रसमन्विता । पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः ॥ ८३॥ वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः । वाय्वाघातवशादग्निः स्वाधिष्ठानगतो ज्वलन् ॥ ८४॥ ज्वलनाघातपवनाघातोरून्निद्रितोऽहिराट् । ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः ॥ ८५॥ रुद्रग्रन्थिं च भित्त्वैव कमलानि भिनत्ति षट् । सहस्रकमले शक्तिः शिवेन सह मोदते ॥ ८६॥ सैवावस्था परा ज्ञेया सैव निर्वृतिकारिणी इति ॥ इति प्रथमोऽध्यायः ॥ १॥ अथाहं सम्प्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् । यथा विज्ञानवानस्या लोकेऽस्मिन्नजरोऽमरः ॥ १॥ मृत्युव्याधिजराग्रस्तो दृष्ट्वा विद्यामिमां मुने । बुद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् ॥ २॥ जरामृत्युगदघ्नो यः खेचरीं वेत्ति भूतले । ग्रन्थतश्चार्थतश्चैव तदभ्यासप्रयोगतः ॥ ३॥ तं मुने सर्वभावेन गुरुं मत्वा समाश्रयेत् । दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः ॥ ४॥ अभ्यासं मेलनं चैव युगपन्नैव सिध्यति । अभ्यासमात्रनिरता न विन्दन्ते ह मेलनम् ॥ ५॥ अभ्यासं लभते ब्रह्मञ्जन्मजन्मान्तरे क्वचित् । मेलनं तु जन्मनां शतान्तेऽपि न लभ्यते ॥ ६॥ अभ्यासं बहुजन्मान्ते कृत्वा तद्भावसाधितम् । मेलनं लभते कश्चिद्योगी जन्मान्तरे क्वचित् ॥ ७॥ यदा तु मेलनं योगी लभते गुरुवक्त्रतः । तदा तत्सिद्धिमाप्नोति यदुक्ता शास्त्रसन्ततौ ॥ ८॥ ग्रन्थतश्चार्थतश्चैव मेलनं लभते यदा । तदा शिवत्वमाप्नोति निर्मुक्तः सर्वसंसृतेः ॥ ९॥ शास्त्रं विनापि संबोद्धुं गुरवोऽपि न शक्नुयुः । तस्मात्सुदुर्लभतरं लभ्यं शास्त्रमिदं मुने ॥ १०॥ यावन्न लभ्यते शास्त्रं तावद्गां पर्यटेद्यतिः । यदा संलभ्यते शास्त्रं तदा सिद्धिः करे स्थिता ॥ ११॥ न शास्त्रेण विना सिद्धिर्दृष्टा चैव जगत्त्रये । तस्मान्मेलनदातारं शास्त्रदातारमच्युतम् ॥ १२॥ तदभ्यासप्रदातारं शिवं मत्वा समाश्रयेत् । लब्ध्वा शास्त्रमिदं मह्यमन्येषां न प्रकाशयेत् ॥ १३॥ तस्मात्सर्वप्रयत्नेन गोपनीयं विजानता । यत्रास्ते च गुरुर्ब्रह्मन्दिव्ययोगप्रदायकः ॥ १४॥ तत्र गत्वा च तेनोक्तविद्यां संगृह्य खेचरीम् । तेनोक्तः सम्यगभ्यासं कुर्यादादावतन्द्रितः ॥ १५॥ अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् । खेचर्या खेचरीं युञ्जन्खेचरीबीजपूरया ॥ १६॥ खेचराधिपतिर्भूत्वा खेचरेषु सदा वसेत् । खेचरावसथं वह्निमम्बुमण्डलभूषितम् ॥ १७॥ आख्यातं खेचरीबीजं तेन योगः प्रसिध्यति । सोमांशनवकं वर्णं प्रतिलोमेन चोद्धरेत् ॥ १८॥ तस्मात्त्र्यंशकमाख्यातमक्षरं चन्द्ररूपकम् । तस्मादप्यष्टमं वर्णं विलोमेन परं मुने ॥ १९॥ तथा तत्परमं विद्धि तदादिरपि पञ्चमी । इन्दोश्च बहुभिन्ने च कूटोऽयं परिकीर्तितः ॥ २०॥ गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् । यत्तस्य देहजा माया निरुद्धकरणाश्रया ॥ २१॥ स्वप्नेऽपि न लभेत्तस्य नित्यं द्वादशजप्यतः । य इमां पञ्च लक्षाणि जपेदपि सुयन्त्रितः ॥ २२॥ तस्य श्रीखेचरीसिद्धिः स्वयमेव प्रवर्तते । नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः ॥ २३॥ वलीपलितनाशश्च भविष्यति न संशयः । एवं लब्ध्वा महाविद्यामभ्यासं कारयेत्ततः ॥ २४॥ अन्यथा क्लिश्यते ब्रह्मन्न सिद्धिः खेचरीपथे । यदभ्यासविधौ विद्यां न लभेद्यः सुधामयीम् ॥ २५॥ ततः संमेलकादौ च लब्ध्वा विद्यां सदा जपेत् । नान्यथा रहितो ब्रह्मन्न किञ्चित्सिद्धिभाग्भवेत् ॥ २६॥ यदिदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् । ततस्तदोदितां सिद्धिमाशु तां लभते मुनिः ॥ २७॥ तालुमूलं समुत्कृष्य सप्तवासरमात्मवित् । स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् ॥ २८॥ स्नुहिपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् । समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥ २९॥ हित्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् । पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥ ३०॥ एवं क्रमेण षण्मासं नित्योद्युक्तः समाचरेत् । षण्मासाद्रसनामूलं सिराबद्धं प्रणश्यति ॥ ३१॥ अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्टयेत् । शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् ॥ ३२॥ पुनः षण्मासमात्रेण नित्यं सङ्घर्षणान्मुने । भ्रूमध्यावधि चाप्येति तिर्यक्कणबिलावधिः ॥ ३३॥ अधश्च चुबुकं मूलं प्रयाति क्रमचारिता । पुनः संवत्सराणां तु तृतीयादेव लीलया ॥ ३४॥ केशान्तमूर्ध्वं क्रमति तिर्यक् शाखावधिर्मुने । अधस्तात्कण्ठकूपान्तं पुनर्वर्षत्रयेण तु ॥ ३५॥ ब्रह्मरन्ध्रं समावृत्य तिष्ठेदेव न संशयः । तिर्यक् चूलितलं याति अधः कण्ठबिलावधि ॥ ३६॥ शनैः शनैर्मस्तकाच्च महावज्रकपाटभित् । पूर्वं बीजयुता विद्या ह्याख्याता यतिदुर्लभा ॥ ३७॥ तस्याः षडङ्गं कुर्वीत तया षट्स्वरभिन्नया । कुर्यादेवं करन्यासं सर्वसिद्ध्यादिहेतवे ॥ ३८॥ शनैरेवं प्रकर्तव्यमभ्यासं युगपन्नहि । युगपद्वर्तते यस्य शरीरं विलयं व्रजेत् ॥ ३९॥ तस्माच्छनैः शनैः कार्यमभ्यासं मुनिपुङ्गव । यदा च बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् ॥ ४०॥ तदा ब्रह्मार्गलं ब्रह्मन्दुर्भेद्यं त्रिदशैरपि । अङ्गुल्यग्रेण संघृष्य जिह्वामात्रं निवेशयेत् ॥ ४१॥ एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं प्रविश्यति । ब्रह्मद्वारे प्रविष्टे तु सम्यङ्मथनमाचरेत् ॥ ४२॥ मथनेन विना केचित्साधयन्ति विपश्चितः । खेचरीमन्त्रसिद्धस्य सिध्यते मथनं विना ॥ ४३॥ जपं च मथनं चैव कृत्वा शीघ्रं फलं लभेत् । स्वर्णजां रौप्यजां वापि लोहजां वा शलाकिकाम् ॥ ४४॥ नियोज्य नासिकारन्ध्रं दुग्धसिक्तेन तन्तुना । प्राणान्निरुध्य हृदये सुखमासनमात्मनः ॥ ४५॥ शनैः सुमथनं कुर्याद्भ्रूमध्ये न्यस्य चक्षुषी । षण्मासं मथनावस्था भावेनैव प्रजायते ॥ ४६॥ यथा सुषुप्तिर्बालानां यथा भावस्तथा भवेत् । न सदा मथनं शस्तं मासे मासे समाचरेत् ॥ ४७॥ सदा रसनया योगी मार्गं न परिसंक्रमेत् । एवं द्वादशवर्षान्ते संसिद्धिर्भवति ध्रुवा ॥ ४८॥ शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः । ब्रह्माण्डोऽयं महामार्गो राजदन्तोर्ध्वकुण्डली ॥ ४९॥ इति॥ इति द्वितीयोऽध्यायः ॥ २॥ मेलनमनुः । ह्रीं भं सं पं फं सं क्षम् । पद्मज उवाच । अमावास्या च प्रतिपत्पौर्णमासी च शङ्कर । अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः ॥ १॥ प्रतिपद्दिनतोऽकाले अमावास्या तथैव च । पौर्णमास्यां स्थिरीकुर्यात्स च पन्था हि नान्यथा ॥ २॥ कामेन विषयाकाङ्क्षी विषयात्काममोहितः । द्वावेव सन्त्यजेन्नित्यं निरञ्जनमुपाश्रयेत् ॥ ३॥ अपरं सन्त्यजेत्सर्वं यदिच्छेदात्मनो हितम् । शक्तिमध्ये मनः कृत्वा मनः शक्तेश्च मध्यगम् ॥ ४॥ मनसा मन आलोक्य तत्त्यजेत्परमं पदम् । मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् ॥ ५॥ मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् । न च बन्धनमध्यस्थं तद्वै कारणमानसम् ॥ ६॥ चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्धनम् । ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा वायुं च मध्यगम् ॥ ७॥ स्थित्वासौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् । वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतिमेव च ॥ ८॥ षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् । मूलाधारं स्वाधिष्ठानं मणिपूरं तृतीयकम् ॥ ९॥ अनाहतं विशुद्धं च आज्ञाचक्रं च षष्ठकम् । आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्गिकम् ॥ १०॥ मणिपूरं नाभिदेशं हृदयस्थमनाहतम् । विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् ॥ ११॥ षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डले । प्रविशेद्वायुमाकृष्य तयैवोर्ध्वं नियोजयेत् ॥ १२॥ एवं समभ्यसेद्वायुं स ब्रह्माण्डमयो भवेत् । वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् ॥ १३॥ समाधिमेकेन समममृतं यान्ति योगिनः । यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना ॥ १४॥ विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि । घटमध्यगतो दीपो बाह्ये नैव प्रकाशते ॥ १५॥ भिन्ने तस्मिन्घटे चैव दीपज्वाला च भासते । स्वकायं घटमित्युक्तं यथा दीपो हि तत्पदम् ॥ १६॥ गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् । कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च ॥ १७॥ अभ्यासवासनाशक्त्या तरन्ति भवसागरम् । परायामङ्कुरीभूय पश्यन्तां द्विदलीकृता ॥ १८॥ मध्यमायां मुकुलिता वैखर्यां विकसीकृता । पूर्वं यथोदिता या वाग्विलोमेनास्तगा भवेत् ॥ १९॥ तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः । सोऽहमस्मीति निश्चित्य यः सदा वर्तते पुमान् ॥ २०॥ शब्दैरुच्चावचैर्नीचैर्भाषितोऽपि न लिप्यते । विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयः ॥ २१॥ विराड्ढिरण्यगर्भश्च ईश्वरश्चेति ते त्रयः । ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥ २२॥ स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि । अण्डं ज्ञानाग्निना तप्तं लीयते कारणैः सह ॥ २३॥ परमात्मनि लीनं तत्परं ब्रह्मैव जायते । ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ॥ २४॥ अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते । ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् ॥ २५॥ अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् । प्रकाशयन्तमन्तस्थं ध्यायेत्कूटस्थमव्ययम् ॥ २६॥ विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः । मायया मोहितः पश्चाद्बहुजन्मान्तरे पुनः ॥ २७॥ सत्कर्मपरिपाकात्तु स्वविकारं चिकीर्षति । कोऽहं कथमयं दोषः संसाराख्य उपागतः ॥ २८॥ जाग्रत्स्वप्ने व्यवहरन्त्सुषुप्तौ क्व गतिर्मम । इति चिन्तापरो भूत्वा स्वभासा च विशेषतः ॥ २९॥ अज्ञानात्तु चिदाभासो बहिस्तापेन तापितः । दग्धं भवत्येव तदा तूलपिण्डमिवाग्निना ॥ ३०॥ दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् । विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु ॥ ३१॥ मनोमयज्ञानमयान्सम्यग्दग्ध्वा क्रमेण तु । घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ३२॥ ध्यायन्नास्ते मुनिश्चैवमासुप्तेरामृतेस्तु यः । जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ॥ ३३॥ जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३४॥ अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं तदेव शिष्यत्यमलं निरामयम् ॥ ३५॥ इत्युपनिषत् ॥ ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति योगकुण्डलिन्युपनिषत्समाप्ता ॥

कोई टिप्पणी नहीं:

Dr. Balavant Singh