बुधवार, 27 मार्च 2024

योगराजोपनिषत्

 

योगराजोपनिषत्

योगराजं प्रवक्ष्यामि योगिनां योगसिद्धये । मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा ॥ १॥ योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः । आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ॥ २॥ एतच्चतुष्टयं विद्धि सर्वयोगेषु सम्मतम् । ब्रह्मीविष्णुशिवादीनां मन्त्रं जाप्यं विशारदैः ॥ ३॥ साध्यते मन्त्रयोगस्तु वत्सराजादिभिर्यथा । कृष्णद्वैपायनाद्यैस्तु साधितो लयसंज्ञितः ॥ ४॥ नवस्वेव हि चक्रेषु लयं कृत्वा महात्मभिः । प्रथमं ब्रह्मचक्रं स्यात् त्रिरावृत्तं भगाकृति ॥ ५॥ अपाने मूलकन्दारव्यं कामरूपं च तज्जगुः । तदेव वह्निकुण्डं स्यात् तत्त्वकुण्डलिनी तथा ॥ ६॥ तां जीवरूपिणीं ध्यायेज्ज्योतिष्ठं मुक्तिहेतवे । स्वाधिष्ठानं द्वितीयं स्याच्चक्रं तन्मध्यगं विदुः ॥ ७॥ पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसन्निभम् । तत्रोद्रीयाणपीठेषु तं ध्यात्वाकर्षयेज्जगत् ॥ ८॥ तृतीयं नाभिचक्रं स्यात्तन्मध्ये तु जगत् स्थितम् । पञ्चावर्ता मध्यशक्तिं चिन्तयेद्विद्युदाकृति ॥ ९॥ तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः । चतुर्थं हृदये चक्रं विज्ञेयं तदधोमुखम् ॥ १०॥ ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत् प्रयत्नतः । तं ध्यायतो जगत् सर्वं वश्यं स्यान्नात्र संशयः ॥ ११॥ पञ्चमं कण्ठचक्रं स्यात् तत्र वामे इडा भवेत् । दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यतः स्थता ॥ १२॥ तत्र ध्यात्वा शुचि ज्योतिः सिद्धीनां भाजनं भवेत् । षष्ठं च तालुकाचक्रं घण्टिकास्थानमुच्यते ॥ १३॥ दशमद्वारमार्गं तद्राजदन्तं च तज्जगुः । तत्र शून्ये लयं कृत्वा मुक्तो भवति निश्चितम् ॥ १४॥ भ्रूचक्रं सप्तमं विद्याद्बिन्दुस्थानं च तद्विदुः । भ्रुवोर्मध्ये वर्तुलं च ध्यात्वा ज्योतिः प्रमुच्यते ॥ १५॥ अष्टमं ब्रह्मरन्ध्रं स्यात् परं निर्वाणसूचकम् । तं ध्यात्वा सूतिकाग्रामं धूमाकारं विमुच्यते ॥ १६॥ तच्च जालन्धरं ज्ञेयं मोक्षदं नीलचेतसम् । नवमं व्योमचक्रं स्यादश्रैः षोडशभिर्युतम् ॥ १७॥ संविद्ब्रूयाच्च तन्मध्ये शक्तिरुद्धा स्थिता परा । तत्र पूर्णां गिरौ पीठे शक्तिं ध्यात्वा विमुच्यते ॥ १८॥ एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः । सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥ १९॥ एको दण्डद्वयं मध्ये पश्यति ज्ञानचक्षुषा । कदम्बगोलकाकारं ब्रह्मलोकं व्रजन्ति ते ॥ २०॥ ऊर्ध्वशक्तिनिपातेन अधःशक्तेर्निकुञ्चनात् । मध्यशक्तिप्रबोधेन जायते परमं सुखं जायते परमं सुखम् । इति ॥ २१॥ (योग-उपनिषदः) इति योगराजोपनिषत् समाप्ता ।
योगाचार्य
% Location              : वाराणसी

कोई टिप्पणी नहीं:

Dr. Balavant Singh