बुधवार, 27 मार्च 2024

शिवयोगदर्पणम्

 

शिवयोगदर्पणम्

भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते । ज्ञातव्यं तद् पदं दिव्यं तत्र कालो न विद्यते ॥ १॥ सूर्याचन्द्रमसोर्मध्ये मुद्रां दद्याच्च खेचरीम् । निरालम्बे महाशून्ये ब्रह्मचक्रं व्यवस्थितम् ॥ २॥ तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः । उन्मनी कल्पलतिका सद्य एवोद्भविष्यति ॥ ३॥ अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः । जनसङ्गश्च लौल्यञ्च षड्भिर्योगो विनश्यति ॥ ४॥ उत्साहो निश्चयं धैर्यं तत्त्वज्ञानार्थदर्शनम् । जनसङ्गपरित्यागः षड्भिर्योगः प्रसिद्ध्यति ॥ ५॥ हठं विना राजयोगो राजयोगं विना हठः । न सिद्ध्यति ततो युग्मं मनीषी तत् समभ्यसेत् ॥ ६॥ न दृष्टिलक्षाणि न चित्तबन्धो न देशकालौ न च वायुरोधः । न धारणा ध्यान परिश्रमो वा समेधमानेसति राजयोगे ॥ ७॥ तारकाग्रस्थितं तेजस्तद्बिन्दुस्यूतिर्ते यदि । योगं तारकमित्याहुर्योगिनो ब्रह्मवादिनः ॥ ८॥ भालोर्ध्वगोल्लाटविशेषमण्डले निरन्तरं चिद्गगने महामनाः । सतारकं विस्फुरदीक्षणेन विलोकयेच्चेत् स तु सिद्धिमाप्नुयात् ॥ ९॥ द्वादशाङ्गुलदूरेऽस्मिन् शिरोदेशे महाप्रभे । प्रादेशमात्रव्यायामं ज्योतिःपुञ्जं महाद्भुतम् ॥ १०॥ तद्दर्शनेन सततममृतत्त्वं भविष्यति । तारकं दुर्भराम्भोधेस्तारकं मोक्षकारकम् ॥ ११॥ अमनस्कात् सिद्धिरस्मादभ्यासेन भवत्यलम् । अतिमूढमतिव्यक्तमतिरम्यमनामयम् ॥ १२॥ आत्मस्थानं परं गुप्तं ज्ञायते गुरुवाक्यतः । उन्मेषः प्रतिपच्चक्षुरमावास्यास्तलोचनम् ॥ १३॥ अर्धावलोकनं यत् स्यात् पौर्णमासीं वदन्ति ताम् । आदिद्वयं परित्यज्य तृतीयन्तु समभ्यसेत् ॥ १४॥ पौर्णिमादृष्टियोगेन स्थित्वा तारकलक्षणे । सावधानेन योगीन्द्रस्तिष्ठच्चेत् स सुखी भुवि ॥ १५॥ तालुमूले द्वादशाङ्गुल्यग्रभागस्य मध्यमे । पुरतो बाह्यहीनं चेत् तमोरूपं प्रकाशते ॥ १६॥ तन्मध्यभागे चिद्योनिमनोदृष्ट्या निरन्तरम् । विलोकयेच्चेत् तत्काले ज्योतिःपुञ्जं महाद्भुतम् ॥ १७॥ अखण्डेन्दुसमाकारं परं चिन्मयात्मकम् । ? सत्यज्ञानानन्दरूपं महालिङ्गं प्रकाशते ॥ १८॥ जपयोगानभिज्ञस्य मनःस्थैर्यं न जायते । गुरूणा शाम्भवी मुद्रा दत्ता चेल्लभते ध्रुवम् ॥ १९॥ वक्त्रे प्राणानिलं पूर्यं वह्निस्थानानिलं तथा । आकुञ्चयेद् गलं किञ्चिन्नादो व्यक्तो भविष्यति ॥ २०॥ निस्संशयेन मनसा वर्तते यदि निश्चलः । राजयोगीति विख्यातो योगनिद्रासमाश्रितः ॥ २१॥ अश्रुसम्पातपर्यन्तमाचार्यैस्त्राटकं स्मृतम् । व्यापारशून्ये मनसि स्थिरयोस्तारयोर्बहिः ॥ २२॥ चान्द्री कला चिदाकाशादाविर्भवति योगिनः । समदृष्टिरवाग्दृष्टिरिति ?? त्रिधा ॥ २३॥ ?? काकाक्षिन्यायतस्तत्र सम्यक् स्याद् बिन्दुदर्शनम् । मनः पवनयोगेन यावच्छक्तिप्रधानकम् ॥ २४॥ तावन्मात्रन्तु विश्राम्य चिदाकाशं तु लक्षयेत् । आकाशे तिष्ठते सूर्यः सर्वयोगेषु गोपितः ॥ २५॥ लक्षैकलग्ने मनसि ह्यमनस्कं प्रजायते । समनस्के तु सञ्जाते स्वरूपं सम्प्रजायते ॥ २६॥ ॥ इति शिवगोरक्षकृत शिवयोगदर्पणं सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

Dr. Balavant Singh