बुधवार, 27 मार्च 2024

योगवासिष्ठः

 

योगवासिष्ठः

वैराग्यप्रकरणं प्रथमम् । प्रथमः सर्गः । श्रीमहागणपतिचरणारविन्दाभ्यां नमः । ॥ श्रीः ॥ यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च । यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ॥ १॥ ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः । कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञप्त्यात्मने नमः ॥ २॥ स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ । सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥ ३॥ सुतीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः । अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥ ४॥ सुतीक्ष्ण उवाच । भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित । संशयोऽस्ति महानेकस्त्वमेतं कृपया वद ॥ ५॥ मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् । उभयं वा विनिश्चित्य एकं कथय कारणम् ॥ ६॥ अगस्ति उवाच । उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः । तथैव ज्ञानकर्मभ्यां जायते परमं पदम् ॥ ७॥ केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते । किन्तूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥ ८॥ अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते । कारुण्याख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ॥ ९॥ अग्निवेश्यस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः । गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥ १०॥ तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा । अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥ ११॥ प्राह एतद्वचो निन्द्यं गुरुः पुत्रं हिताय च । अग्निवेश्य उवाच । किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥ १२॥ अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद । कर्मणोऽस्मान्निवृतेः किं कारणं तन्निवेद्यताम् ॥ १३॥ कारुण्य उवाच । यावज्जिवमग्निहोत्रं नित्यं सन्ध्यामुपासयेत् । प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः ॥ १४॥ न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा । त्यागमात्रेण किन्त्वेते यतयोऽश्नन्ति चामृतम् ॥ १५॥ इति श्रुत्यार्द्वयोर्मध्ये किं कर्तव्यं मया गुरो । इति सन्धिग्धतां गत्वा तूष्णीं भूतोऽस्मि कर्मणि ॥ १६॥ अगस्ति उवाच । इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः । तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥ १७॥ अग्निवेश्य उवाच । श‍ृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् । मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥ १८॥ सुरुचिर्नाम काचित्स्त्री अप्सरोगणौत्तमा । उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥ १९॥ रमन्ते कामसन्तप्ताः किन्नर्यो यत्र किन्नरैः । स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ २०॥ दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा । तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥ २१॥ सुरुचिरुवाच । देवदूत महाभाग कुत आगम्यते त्वया । अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥ २२॥ देवदूत उवाच । साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते । अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ॥ २३॥ वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् । तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥ २४॥ कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना । गन्तास्मि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम् ॥ २५॥ अप्सरा उवाच । वृत्तान्तः कोअऽभवत्तत्र कथयस्व मम प्रभो । प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥ २६॥ देवदूत उवाच । श‍ृणु भद्रे यथावृत्तं विस्तरेण वदामि ते । तस्मिन्राज्ञि वने तत्र तपश्चरति दुस्तरम् ॥ २७॥ इत्यहं देवराजेन सुभ्रुराज्ञापितस्तदा । दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥ २८॥ अप्सरोगणसंयुक्तं नानावादित्रशोभितम् । गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ॥ २९॥ तालवेणुमृदङ्गादि पर्वते गन्धमादने । नानावृक्षसमाकीर्णे गत्वा तस्मिन्गिरौ शुभे ॥ ३०॥ अरिष्टनेमिं राजानं दूतारोप्य विमानके । आनय स्वर्गभोगाय नगरीममरावतीम् ॥ ३१॥ दूत उवाच । इत्याज्ञां प्राप्य शक्रस्य गृहित्वा तद्विमानकम् । सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥ ३२॥ आगत्य पर्वते तस्मिन्राज्ञो गत्वाऽऽश्रमं मया । निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ॥ ३३॥ इति मद्वचनं श्रुत्वा संशयानोऽवदच्छुभे । राजोवाच । प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि ॥ ३४॥ गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः । ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि ॥ ३५॥ दूत उवाच । स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम् । उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥ ३६॥ मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा । कनिष्ठेन तो पुण्येन स्वर्गो भवति तादृशः ॥ ३७॥ परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः । कनिष्ठेषु च सन्तोषो यावत्पुण्यक्षयो भवेत् ॥ ३८॥ क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः । इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥ ३९॥ इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत । राजोवाच । नेच्छामि देवदूताहं स्वर्गमीदृग्विधं फलम् ॥ ४०॥ अतः परं महोग्रं च तपः कृत्वा कलेवरम् । त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥ ४१॥ देवदूत विमानेदं गृहीत्वा त्वं यथागतः । तथा गच्छ महेन्द्रस्य सन्निधौ त्वं नमोऽस्तु ते ॥ ४२॥ देव्दूत उवाच । इत्युक्तोऽहं गतो भद्रे शक्रस्याग्रे निवेदितुम् । यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥ ४३॥ पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा । इन्द्र उवाच । दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् । । ४४॥ वाल्मीकेर्ज्ञाततत्त्वस्य स्वभोधार्थं विरागिणम् । सन्देशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥ ४५॥ महर्षे त्वं विनीताय राज्ञेऽस्मै वीतरागिणे । नस्वर्गमिच्छते तत्त्वं प्रबोधाय महामुने ॥ ४६॥ तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् । इत्युक्त्वा देवराजेन प्रेषितोऽहं तदन्तिके ॥ ४७॥ मयागत्य पुनस्तत्र राजा वल्मीकजन्मने । निवेदिता महेन्द्रस्य राज्ञा मोक्ष्यस्य साधनम् ॥ ४८॥ ततो वल्मीकजन्मासौ राजानं समपृच्छत । अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥ ४९॥ राजोवाच । भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर । कृतार्थोऽहं भवदृष्ट्या तदेव कुशलं मम ॥ ५०॥ भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद । संसारबन्धदुःखार्ते कथं मुञ्चामि तद्वद ॥ ५१॥ वाल्मीकिरुवाच । श‍ृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् । श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥ ५२॥ वसिष्टरामसंवादं मोक्षोपायकथां शुभाम् । ज्ञातस्वभावो राजेन्द्र वदामि श्रूयतां बुध ॥ ५३॥ राजोवच । को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा । एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥ ५४॥ वाल्मीकिरुवाच । शापव्याजवशादेव राजवेषधरो हरिः । आहृताज्ञानसम्पन्नः किञ्चिज्ज्ञोऽसौ भवत्प्रभुः ॥ ५५॥ राजोवच । चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे । शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥ ५६॥ वाल्मीकिरुवाच । सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि । वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः ॥ ५७॥ ब्रह्मणा पूजितस्त्र सत्यलोकनिवासिभिः । विना कुमारं तं दृष्ट्वा ह्युवाच प्रभुरीश्वरः ॥ ५८॥ सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया । अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ ५९॥ तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत् । किञ्चित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि ॥ ६०॥ भृगुर्भार्यां हतां दृष्ट्वा ह्युवाच क्रोधमूर्च्छितः । विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥ ६१॥ वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् । अतस्त्वं स्त्रीवियोगं तु वचनान्मम यास्यसि ॥ ६२॥ भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता । नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥ ६३॥ तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः । तवपि भार्यया सार्धं वियोगो हि भविष्यति ॥ ६४॥ भृगुणैवं कुमारेण शापितो देवशर्मणा । वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥ ६५॥ एतत्ते कथितं सर्वं शापव्याजस्य कारणम् । इदानीं वच्मि तत्सर्वं सावधानमतिः श‍ृणु ॥ ६६॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपाये द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे सूत्रपातनको नाम प्रथमः सर्गः ॥ १॥
द्वितीयः सर्गः दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः । यो विभात्यवभासात्मा तस्मै सर्वात्मने नमः ॥ १॥ वाल्मीकिरुवाच । अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः । नात्यन्तमज्ञो नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवान् ॥ २॥ कथोपायान्विचार्यादौ मोक्षोपायानिमानथ । यो विचारयति प्रज्ञो न स भूयोऽभिजायते ॥ ३॥ अस्मिन्रामायणे रामकथोपायान्महाबलान् । एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥ ४॥ शिष्यासास्मि विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने ॥ ५॥ तत एते कथोपाया भरद्वाजेन धीमता । कस्मिंश्चिन्मेरुगहने ब्रह्मणोऽग्र उदाहृताः ॥ ६॥ अथास्य तुष्टो भगवान्ब्रह्मा लोकपितामहः । वरं पुत्र गृहाणेति तमुवाच महाशयः ॥ ७॥ भरद्वाज उवाच । भगवन्भूतभव्येश वरोअयं मे/ऽद्य रोचते । येनेयं जनता दुःखान्मुच्यते तदुदाहर ॥ ८॥ श्रीब्रह्मोवाच । गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः । तेनेदं यत्समारब्धं रामायणमनिन्दितम् ॥ ९॥ तस्मिञ्छुते नरो मोहात्समग्रात्सन्तरिष्यति । सेतुनेवाम्बुधेः पारमपारगुणशालिना ॥ १०॥ श्रीवाल्मीकिरुवाच । इत्युक्त्वा स भरद्वाजं परमेष्ठी मदाश्रमम् । अभ्यासगच्छत्समं तेन भरद्वाजेन भूतकृत् ॥ ११॥ तूर्णं सम्पूजितो देवः सोऽर्घ्यपाद्यादिना मया । अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥ १२॥ रामस्वभावकथनादस्माद्वरमुने त्वया । नोद्वेगात्स परित्याज्य आसमाप्तेरनिन्दितात् ॥ १३॥ ग्रन्थेनानेन लोकोऽयमस्मात्संसारसङ्कटात् । समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् ॥ १४॥ वक्तुं तदेवमेवार्थमहमागतवानयम् । कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥ १५॥ मम पुण्याश्रमात्तस्मात्क्षणादन्तर्द्धिमागतः । मुहूर्ताभ्युत्थितः प्रोच्चैस्तरङ्ग इव वारिणः ॥ १६॥ तस्मिन्प्रयाते भवत्यहं विस्मयमागतः । पुनस्तत्र भरद्वाजंअपृच्छं स्वस्थया धिया ॥ १७॥ किमतेद्ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे । इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन तेन मे ॥ १८॥ भरद्वाज उवाच । एतदुक्तं भगवता यथा रामायणं कुरु । सर्वलोकहितार्थाय संसारार्णवतारकम् ॥ १९॥ मह्यं च भगवन्ब्रूहि कथं संसारसङ्कटे । रामो व्यवहृतो ह्यस्मिन्भरतश्च महामनाः ॥ २०॥ शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी । रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः ॥ २१॥ निर्दुःखितां यथैते नु प्राप्तास्तद्ब्रूहि मे स्फुटम् । तथैवाहं भविष्यामि ततो जनतया सह ॥ २२॥ भरद्वाजेन राजेन्द्र वदेत्युक्तोऽस्मि सादरम् । तदा कर्तुं विभोराज्ञामहं वक्तुं प्रवृत्तवान् ॥ २३॥ श‍ृणु वत्स भरद्वाज यथापृष्टं वदामि ते । श्रुतेन येन संमोहमलं दूरे करिष्यसि ॥ २४॥ तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी । सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ २५॥ लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः । कौसल्या च सुमित्रा च सीता दशरथस्तधा ॥ २६॥ कृतास्त्रश्चाऽविरोधश्च बोधपारमुपागताः । वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ २७॥ धृष्टिर्जयन्तो भासश्च सत्यो विजय एव हि । विभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥ २८॥ एतेऽष्टौ मन्त्रिण प्रोक्ताः समनीरागचेतसः । जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥ २९॥ एतैर्यथा हुतं दत्तं गृहीतमुषितं स्मृतम् । तथा चेद्वर्तसे पुत्र मुक्त एवासि सङ्कटात् ॥ ३०॥ अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिमुदारसत्त्वः । नशोकमायाति न दैन्यमेति गतज्वरस्तिष्ठति नित्यतृप्तः ॥ ३१॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे सूत्रपातनको नाम द्वितीयः सर्गः ॥ २॥
तृतीयः सर्गः भरद्वाज उवाच । जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वा राघवमादितः । क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥ १॥ श्रीवाल्मीकिरुवाच । भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ २॥ दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते । कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः ॥ ३॥ स चेह सम्भवत्येव तदर्थमिदमाततम् । शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥ ४॥ जगद्भ्रमोऽयं दृश्योऽपि नास्त्येवेत्यनुभूयते । वर्णो व्योम्न इवाखेदाद्विचारणामुनाऽनघ ॥ ५॥ दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । सम्पन्नं देत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥ ६॥ अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह । भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृतिः ॥ ७॥ अशेषेण परित्यागो वासनानां य उत्तमः । मोक्ष इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥ ८॥ क्षीणायां वासनायां तु चेतो गलति सत्वरम् । क्षीणायां शीतसन्तत्यां ब्रह्मन्हिमकणो यथा ॥ ९॥ अयं वासनया देहो ध्रियते भूतपञ्जरः । तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा ॥ १०॥ वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा । मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥ ११॥ अज्ञानसुघनाकारा घनाहङ्कारशालिनी । पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ १२॥ पुनर्जन्माङ्कुरं त्यक्त्वास्थिता सम्भृष्टबीजवत् । देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते ॥ १३॥ अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु । वासना विद्यते शुद्धा देहे चक्र एव भ्रमः ॥ १४॥ ये शुद्धवासना भूयो न जन्मानर्थभाजनम् । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ १५॥ जीवन्मुक्तिपदं प्राप्तो यथा रामो महामतिः । तत्तेऽहं श‍ृणु वक्ष्यामि जरामरणशान्तये ॥ १६॥ भरद्वाज महाबुद्धे रामक्रममिमं शुभम् । श‍ृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥ १७॥ विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः । दिवसान्यनयद्रेहे लीलाभिरकुतोभयः ॥ १८॥ अथ गच्छति काले तु पालयत्यवनिं नृपे । प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ १९॥ तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः । रामस्याभूद्भृशं तत्र कदाचित्गुणशालिनः ॥ २०॥ राघवचिन्तयित्वैवमुपेत्य चरणौ पितुः । हंसः पद्माविव नवौ जग्राह नखकेसरौ ॥ २१॥ श्रीराम उवाच । तीर्थानि देवसद्मानि वनान्यायतनानि च । द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥ २२॥ तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि । न सोऽस्ति भुवने नाथ त्वया योऽर्थी न मानितः ॥ २३॥ इति सं प्रार्थितो राजा वसिष्ठेन समं तदा । विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥ २४॥ शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः । मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ २५॥ वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः । स्निग्धै कतिपयैरेव राजपुत्रवरैः सह ॥ २६॥ अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः । निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥ २७॥ निर्गतः स्वपुरात्पौरेस्तूर्यघोषेण वादितः । पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥ २८॥ ग्रामीणललनालोलहस्तपद्मापनोदितैः । लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥ २९॥ आवर्जयन्विप्रगणान्परिश‍ृण्वन्प्रजाशिषः । आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान् ॥ ३०॥ अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डलात् । स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥ ३१॥ नदीतीराणि पुण्यानि वनान्यायतनानि च जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् ॥ ३२॥ मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् । सरस्वतीं शतद्रूं च चन्द्राभागामिरावतीम् ॥ ३३॥ वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा । चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥ ३४॥ प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा । वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥ ३५॥ मानसं च क्रमसरस्तथैवोत्तरमानसम् । वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥ ३६॥ अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा । सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥ ३७॥ स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा । स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥ ३८॥ नानाश्चर्यविचित्राणि चतुरब्धितटानि च । विन्ध्यमन्दरकुञ्जांश्च कुलशैलास्थलानि च ॥ ३९॥ राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च । देवानां ब्राह्मणानां च पावनानाश्रमाञ्छुभान् ॥ ४०॥ भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः । चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥ ४१॥ अमरकिन्नरमानवमानितः समवलोक्य महीमखिलामिमाम् । उपययौ स्वगृहं रघुनन्दनो विहृतदिक् शिवलोकमिवेश्वरः ॥ ४२॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तीर्थयात्राप्रकरणं नाम तृतीयः सर्गः ॥ ३॥
चतुर्थः सर्गः श्रीवाल्मीकिरुवाच । रामः पुष्पाञ्जलिव्रातैर्विकीर्णः पुरवासिभिः । प्रविवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा ॥ १॥ प्रणनामाथ पितरं वसिष्ठं भ्रातृबान्धवान् । ब्राह्मणान्कुलवृद्धांश्च राघवः प्रथमागतः ॥ २॥ सुहृद्भिर्भ्रातृभिश्चैव पित्रा द्विजगणेन च । मुहुरालिङ्गिताचारो राघवो न ममौ मुदा ॥ ३॥ तस्मिन्गृहे दाशरथेः प्रियप्रकथनैर्मिथः । जुघुर्णुर्मधुरैराशा मृदुवंशस्वनैरिव ॥ ४॥ बभूवाथ दिनान्यष्टौ रामागमन उत्सवः । सुखं मत्तजनोन्मुक्तकलकोलाहलाकुलः ॥ ५॥ उवास स सुखं गेहे ततः प्रभृति राघवः । वर्णयन्विविधाकारान्देशाचारानितस्ततः ॥ ६॥ प्रातरुत्थाय रामोऽसौ कृत्वा सन्ध्यां यथाविधि । सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तथा ॥ ७॥ कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह । स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः ॥ ८॥ जगाम पित्रानुज्ञातो महत्या सेनया वृतः । वराहमहिषाकीर्णं वनमाखेटकेच्छया ॥ ९॥ तत आगत्य सदने कृत्वा स्नानादिकं क्रमम् । समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् ॥ १०॥ एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघव । आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे ॥ ११॥ नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकयानया । परिनिनाय दिनानि स चेष्टया स्तुतसुधारसपेशलयाऽनघ ॥ १२॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दिवसव्यवहारनिरूपणं नाम चतुर्थः सर्गः ॥ ४॥
पन्ञ्चम सर्गः श्रीवाल्मीकिरुवाच । अथोनुषोडशे वर्षे वर्तमाने रघूद्वहे । रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥ १॥ भरते संस्थिते नित्यं मातामहगृहे सुखम् । पालयत्यवनिं राज्ञि यथावदखिलामिमाम् ॥ २॥ जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः । कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥ ३॥ कृतायां तीर्थयात्रायां रामो निजगृहे स्थितम् । जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥ ४॥ कुमारस्य विशालाक्षं पाण्डुतां मुखमाददे । पाकफुल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥ ५॥ कपोलतलसंलीनपाणिः पद्मासनस्थितः । चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह ॥ ६॥ कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः । नोवाच कस्यचित्किञ्चिल्लिपिकर्मार्पितोपमः ॥ ७॥ खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः । चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥ ८॥ एव्ङ्गुणविशिष्टं तं रामं गुणगणाकरम् । आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् ॥ ९॥ तथा तेषु तनुजेषुखेदवत्सु कृशेषु च । सपत्निको महीपालश्चिन्ताविवशतां ययौ ॥ १०॥ का ते पुत्र घना चिन्तेत्येवं रामं पुनः पुनः । अपृच्छत्स्निग्धया वाचा नैवाकथयदस्य सः ॥ ११॥ न किञ्चित्तात मे दुःखमित्युक्त्वा पितुरङ्कगः । रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति ॥ १२॥ ततो दशरथो राजा रामः किं खेदवानिति । अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥ १३॥ इत्युक्तश्चिन्तयित्वा स वसिष्ठमुनिना नृपः । अस्त्यत्र कारणं श्रीमन्मा राजन्दुःखमस्तु ते ॥ १४॥ कोपं विषादकलनां विततं च हर्षं नाल्पेन कारणवशेन वहन्ति सन्तः । सर्गेण संहृतिजवेन विना जगत्यां भूतानि भूप न महान्ति विकारवन्ति ॥ १५॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कार्श्यनिवेदनं नाम पञ्चमः सर्गः ॥ ५
षष्ठः सर्गः श्रीवाल्मीकिरुवाच । इत्युक्ते मुनिनाथेन सन्देहवति पार्थिवे । खेदवत्यास्थिते मौनं किञ्चित्कालप्रतीक्षणे ॥ १॥ परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु । स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ २॥ एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः । महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम् ॥ ३॥ तस्य यज्ञोऽथ रक्षोभिस्तथा विलुलुपे किल । मायावीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥ ४॥ रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् । नहि शक्नोत्यविघ्नेन समाप्तुं स मुनिः क्रतुम् ॥ ५॥ ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः । विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥ ६॥ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह । शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ ७॥ तस्य तद्वचनं श्रुत्वा द्वास्था राजगृहं ययुः । सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ ८॥ ते गत्वा राजसदनं विश्वामित्रमृषिं ततः । प्राप्तमावेदयामासुः प्रतीहाराः पतेस्तदा ॥ ९॥ अथास्थानगतं भूपं राजमण्डलमालिनम् । समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥ १०॥ देव द्वारि महातेजा बालभास्करभासुरः । ज्वालारुणजटाजूटः पुमाञ्छ्रीमानवस्थितः ॥ ११॥ सभासुरापताकान्तं साश्वेभपुरुषायुधम् । कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥ १२॥ वीक्ष्यमाणे तु याष्टिके निवेदयति राजनि । विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥ १३॥ इति याष्टीकवचनमाकर्ण्य नृपसत्तमः । स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टरात् ॥ १४॥ पदातिरेव सहसा राज्ञां वृन्देन मालितः । वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ १५॥ जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः । ददर्श मुनिशार्दूलं द्वारभूमाववस्थितम् ॥ १६॥ केनापि कारणेनोर्वीतलमर्कमुपागतम् । ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ १७॥ जराजरठया नित्यं तपःप्रसररूक्षया । जटावल्या वृतस्कन्धं ससन्ध्याभ्रमिवाचलम् ॥ १८॥ उपशान्तं च कान्तं च दीप्तमप्रतिघाति च । निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥ १९॥ पेशलेनातिभीमेन प्रसन्नेनाकुलेन च । गम्भीरेणातिपुर्णेन तेजसा रञ्जितप्रभम् ॥ २०॥ अनन्तजीवितदशासखीमेकामनिन्दिताम् । धारयन्तं करे श्लक्ष्णां कुण्डीमम्लानमानसम् ॥ २१॥ करुणाक्रान्तचेतस्त्वात्प्रसन्नैर्मधुराक्षरैः । वीक्षणैरमृतेनेव संसिऽचन्तमिमाः प्रजाः ॥ २२॥ युक्तोयज्ञोपवीताङ्गं धवलप्रोन्नतभ्रुवम् । अनन्तं विस्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥ २३॥ मुनिमालोक्य भूपालो दूरादेवानताकृतिः । प्रणनाम गलन्मौलिमणिमानितभूतलम् ॥ २४॥ मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् । तत्राभिवादयाञ्चक्रे मधुरोदारया गिरा ॥ २५॥ ततो वसिष्ठप्रमुखाः सर एव द्विजातयः । स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥ २६॥ दशरथ उवाच । अशङ्कितोपनीतेन भास्वता दर्शनेन ते । साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ २७॥ यदनादि यदक्षुण्णं यदपायविवर्जितम् । तदानन्दसुखं प्राप्तं मया त्वद्दर्शमान्मुने ॥ २८॥ अद्य वर्तामहे नूनं धन्यानां धुरि धर्मतः । भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥ २९॥ एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः । आसनेषु सभास्थानमासाद्य समुपाविशन् ॥ ३०॥ स दृष्ट्वा मालितं लक्ष्म्याभीतस्तमृषिसत्तमम् । प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥ ३१॥ स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा । प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥ ३२॥ स राजा पूजितस्तेन प्रहृष्टवदनस्तदा । कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ ३३॥ वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः । यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥ ३४॥ क्षणं यथार्हमन्योन्यं पूजयित्वा समेत्य च । ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ ३५॥ यतोचितासनगता मिथः संवृद्धतेजसः । परस्परेण पप्रच्छुः सर्वेऽनामयमादरात् ॥ ३६॥ उपविष्टाय तस्मै स विश्वामित्राय धीमते । पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत् ॥ ३७॥ अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत । प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमाना नृपः ॥ ३८॥ यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमवर्षके । यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ३९॥ यथेष्टदारसम्पर्कात्पुत्रजन्माऽप्रजावतः । स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ४०॥ यथेप्सितेन संयोग इष्टस्यागमनं यथा । प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ४१॥ यथा हर्षो नभोगत्या मृतस्य पुनरागमात् । थथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥ ४२॥ ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् । मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ४३॥ कश्च ते परमः कामः किं च ते करवाण्यहम् । पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ४४॥ पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः । ब्रह्मर्षित्वमनुप्राप्तः पूजोऽसि भगवन्मया ॥ ४५॥ गङ्गाजलभिषेकेण यथा प्रीतिर्भवेन्मम । तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ४६॥ विगतेच्छाभयक्रोधो वीतरागो निरामयः । इदमत्यद्भुतं ब्रह्मन्यद्वान्मामुपागतः । । ४७॥ शुभक्षेत्रगतं चाहमात्मानमपकल्मषम् । चन्द्रमिम्ब इवोन्मग्नं वेदवेद्य विदांवर ॥ ४८॥ साक्षादिव ब्रह्मणो मे तवाभागमनं मतम् । पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनां मुने ॥ ४९॥ त्वदागमनपुण्येन साधो यदनुरञ्जितम् । अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥ ५०॥ त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च । आत्मन्येव नमाम्यन्तर्दृष्ट्वेन्दुं जलधिर्यथा ॥ ५१॥ यत्कार्यं येन वार्थेन प्राप्तोऽसि मुनिपुङ्गव । कृतमित्येव तद्विद्धि मानोऽसीति सदा मम ॥ ५२॥ स्वकार्ये न विमर्शं त्वं कर्तुमर्हसि कौशिक । भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥ ५३॥ कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः । कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥ ५४॥ इदमतिमधुरं निशम्य वाक्यं श्रुतिसुखमात्मविदा विनीतमुक्तम् । प्रथितगुणयशा गुणैअर्विशिष्टं मुनिवृषभः परमं जगाम हर्षम् ॥ ५५॥ इत्यार्षे श्रीमदवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे विश्वामित्राभ्यागमनं नाम षष्ठः सर्गः ॥ ६
स्प्तमः सर्गः श्रीवाल्मीकिरुवाच । तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टमानो महातेजा विश्वामित्रोऽभ्यभाषत ॥ १॥ सदृशं राजशार्दूल तवैवैतन्महीतले । महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ २॥ यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् । कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ३॥ अहं धर्मं समातिष्ठे सिद्ध्यर्थं पुरुषर्षभ । तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ४॥ यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजान् । तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥ ५॥ बहुशो विहिते तस्मिन्मया राक्षसनायकाः । अकिरस्ते महीं यागे मांसेन रुधिरेण च ॥ ६॥ अवधूते तथाभूते तस्मिन्यागकदम्बके । कृतश्रमो निरुत्साहस्तस्माद्देशादुपागतः ॥ ७॥ न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव । तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ८॥ ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ । त्वत्प्रसादादविघ्नेनप्रापयेयं महाफलम् ॥ ९॥ त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् । अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥ १०॥ तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः । महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥ ११॥ तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् । काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ १२॥ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तजसा । राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ १३॥ श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् । त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ १४॥ न च ते राममासाद्य स्थातुं शक्ता निशाचराः । क्रुद्धं केसरिणं दृष्ट्वा वनरेण इवैणकाः ॥ १५॥ तेषां न चान्यः काकुस्थाद्योद्धुमुत्सहते पुमान् । ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ १६॥ वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे । खर्दूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ १७॥ रामस्य राजशार्दूल सहिष्यन्ते न सायकान् । अनारतगता धारा जलदस्येव पांसवः ॥ १८॥ न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव । न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् ॥ १९॥ हन्त नूनं विजानामि हतांस्तान्विद्धि राक्षसान् । नह्यस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ २०॥ अहं वेद्मि महात्मानं रामं राजीवलोचनम् । वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ २१॥ यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् । तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥ २२॥ दशरात्रश्च मे यज्ञो यस्मिन्रामेण राक्षसाः । हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ २३॥ अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः । वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ २४॥ नात्येति कालः कालज्ञ यथायं मम राघव । तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ २५॥ कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महदप्युपकारोऽपि रिक्ततामेत्यकालतः ॥ २६॥ इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः । विरराम महातेजा विश्वामित्रो मुनिश्वरः ॥ २७॥ श्रुत्वा वचो मुनिवरस्य महानुभाव- स्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् । नो युक्तियुक्तकथनेन विनैति तोषं धीमानपूरितमनोऽभिमतश्च लोकः ॥ २८॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे विश्वामित्रवाक्यं नाम सप्तमः सर्गः ॥ ७
अष्टमः सर्गः वाल्मीकिरुवाच तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमासीन्निश्चेष्टः सदेन्य चेतमब्रवीत् ॥ १॥ ऊनषोडशवर्षोऽयं रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २॥ इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो । तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥ ३॥ इमे हि शूरा विक्रान्ता भृत्या मन्त्रविशारदाः । अहं चैषां धनुष्पाणिर्गोप्ता समरमूर्धनि ॥ ४॥ एभिः सहैव वीराणां महेन्द्रमहतामपि । ददामि युद्धं मत्तानां करिणामिव केसरी ॥ ५॥ बालो रामस्त्वनीकेषु न जानाति बलाबलम् । अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः ॥ ६॥ न शस्त्रैः परमैर्युक्तो न च युद्धविशारदः । नवास्त्रैः शूतकोटिनां तज्ज्ञः समरभूमिषु ॥ ७॥ केवलं पुष्पखण्डेषु नगरोपवनेषु च । उद्यानवनकुञ्जेषु सदैव परिशीलनम् ॥ ८॥ विवर्तुमेष जानाति सह राजकुमारकैः । कीर्णपुष्पोपहारासु स्वकास्वजिरभूमिषु ॥ ९॥ अद्य त्वतितरां ब्रह्मन्मम भाग्यविपर्ययात् । हिमेनेव हि पद्माभः सम्पन्नो हरिणः कृशः ॥ १०॥ नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनिम् । अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ॥ ११॥ सदारः सहभृत्योऽहं तत्कृते मुनिनायक । शरदीव पयोवाहो नूनं निःसारतां गतः ॥ १२॥ ईदृशोऽसौ सुतो बाल आधिनाऽथ वशीकृतः । कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥ १३॥ अपि बालाङ्गनासङ्गादपि साधो सुधारसात् । राज्यादपि सुखायैव पुत्रस्नेहो महामते ॥ १४॥ ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः । पुत्रस्नेहेन सन्तोऽपि कुर्वते तानसंशयम् ॥ १५॥ असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम् । न पुत्रो मुनिशार्दूल स्वभावो ह्येष जन्तुषु ॥ १६॥ राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः । रामस्तान्योधयत्वित्थं युक्तिरेवातिदुःसहा ॥ १७॥ विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे । जीवितुं जीविताकाङ्क्षी न रामं नेतुर्मर्हसि ॥ १८॥ नववर्षसहस्राणि मम जातस्य कौशिक । दुःखेनोत्पादितास्त्येते चत्वारः पुत्रका मया ॥ १९॥ प्रधानभूतस्तेष्वेव रामः कमललोचनः । तं विनेह त्रयोऽप्यन्ये धारयन्ति न जीवितम् ॥ २०॥ स एव रामो भवता नीयते राक्षसान्प्रति । यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ॥ २१॥ चतुर्णामात्मजानां हि प्रीतिरत्रैव मे परा । ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ॥ २२॥ निशाचरबलं हन्तुं मुने यदि तवेप्सितम् । चतुरङ्गसमायुक्तं मया सह बलं नय ॥ २३॥ किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते । कियत्प्रमाणाः के चैव इति वर्णय मे स्फुटम् ॥ २४॥ कथं तेन प्रकर्तव्यं तेषां रामेण रक्षसाम् । मामकैर्बालकैर्ब्रह्मन्मया वा कूटयोधिनाम् ॥ २५॥ सर्वं मे शंस भगवन्यथा तेषां महारणे । स्थातव्यं दुष्टभाग्यानां वीर्योत्सिक्ता हि राक्षसाः ॥ २६॥ श्रूयते हि महावीर्यो रावणो नाम राक्षसः । साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ २७॥ स चेत्तव मखे विघ्नं करोति किल दुर्मतिः । तत्सङ्ग्रामे न शक्ताः स्मो वयं तस्य दुरात्मनः ॥ २८॥ काले काले पृथब्रह्मन्भूरिवीर्यविभूतयः । भूतेष्वभ्युदयं यान्ति प्रलीयते च कालतः ॥ २९॥ अद्यास्मिंस्तु वयं काल रावणादिषु शत्रुषु । न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः ॥ ३०॥ तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके । मम चैवाल्पभाग्यस्य भवान्हि परदैवतम् ॥ ३१॥ देवदानवगन्धर्वा यक्षाः पतगपन्नगाः । नशक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥ ३२॥ महावीर्यवतां वीर्यमादत्ते युधि राक्षसः । तेन सार्धं न शक्ताः स्म संयुगे तस्य बालकैः ॥ ३३॥ अयमन्यतमः कालः पेलवीकृतसज्जनः । राघवोऽपि गतो दैन्यं यतो वार्धकजर्जरः ॥ ३४॥ अथवा लवणं ब्रह्मन्यज्ञघ्नं तं मधोः सुतम् । कथयत्वसुरप्रख्यं नैव मोक्ष्यामि पुत्रकम् ॥ ३५॥ सुन्दोपसुन्दयोश्चैव पुत्रै वैवस्वतोपमौ । यज्ञविघ्नकरौ ब्रूहि न ते दास्यामि पुत्रकम् ॥ ३६॥ अथ नेष्यसि चेत्ब्रह्मंस्तद्धतोऽस्म्यहमेव ते । अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ॥ ३७॥ इत्युक्त्वा मृदु वचनं रघूद्वहोऽसौ कल्लोले मुनिमतसंशये निमग्नः । नाज्ञासीत्क्षणमपि निश्चयं महात्मा प्रोद्वीचाविव जलधौ स मुह्यमानः ॥ ३८॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे दशरथवाक्यं नाम अष्टमः सर्गः ॥ ८॥
नवमः सर्गः वाल्मीकिरुवाच तच्छुत्वा वचनं तस्य स्नेहपर्याकुलेक्षणम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ १॥ करिष्यामिति संश्रुत्य प्रतिज्ञां हातुमर्हसि । स भवान्केसरी भूत्वा मृगतामिव वाञ्छसि ॥ २॥ राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः । न कदाचन जायन्ते शीतांशोरुष्णरश्मयः ॥ ३॥ यदि त्वं न क्षमो राजन्गमिष्यामि यथागतम् । हीनप्रतिज्ञ काकुत्स्थ सुखी भव सबान्धवः ॥ ४॥ वाल्मीकिरुवाच तस्मिन्कोपपरीतेऽथ विश्वामित्रे महात्मनि । चचाल वसुधा कृत्स्ना सुरांश्च भयमाविशत् ॥ ५॥ क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् । धृतिमान्सुव्रतो धीमान्वसिष्ठो वाक्यमब्रवीत् ॥ ६॥ वसिष्ठ उवाच । इक्ष्कवाकूणां कुले जातः साक्षाद्धर्म इवापरः । भवान्दशरथः श्रीमांस्त्रैलोक्यगुणभूषितः ॥ ७॥ धृतिमान्सुव्रतो भूत्वा न धर्मं हातुमर्हसि । त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः ॥ ८॥ स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि । मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ॥ ९॥ करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः । इष्टापूर्तं हरेद्धर्मं तस्माद्रामं विसर्जय ॥ १०॥ इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् । न पालयसि देद्वाक्यं कोऽपरः पालयिष्यति ॥ ११॥ युष्मदादिप्रणीतेन व्यवहारेण जन्तवः । मर्यादां न विमुञ्चन्ति तां न हातुं त्वमर्हसि ॥ १२॥ गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा । कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ॥ १३॥ एष विग्रहवान्धर्म एष वीर्यवतां वरः । एष बुद्ध्याऽधिको लोके तपसां च परायणम् ॥ १४॥ एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे । नैतदन्यः पुमान्वेत्ति न च वेत्स्यति कश्चन ॥ १५॥ न देवा नर्षयः केचिन्नासुरा न च राक्षसाः । न नागा यक्षगन्धर्वाः समेताः सदृशा मुनेः ॥ १६॥ अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् । कौशिकाय पुरा दत्तं यदा राज्यं समन्वगात् ॥ १७॥ ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः । एनमन्वचरन्वीरा दीप्तिमन्तो महौजसः ॥ १८॥ जया च सुप्रभ चैव दाक्षायण्यौ सुमध्यमे । तथोस्तु यान्यपत्यानि शतं परमदुर्जयम् ॥ १९॥ पञ्चाशतं सुताञ्जज्ञे जया लब्धवरा पुरा । वधार्थं सुरसैन्यानां ते क्षमाः कामचारिणः ॥ २०॥ सुप्रभा जनयामास पुत्रान्पञ्चाशतं परान् । सङ्घर्षान्नाम दुर्धर्वान्दुराकारान्बलीयसः ॥ २१॥ एवंवीर्यो महातेजा विश्वामित्रो जगन्मुनिः । न रामगमने बुद्धिं विक्लवां कर्तुमर्हसि ॥ २२॥ अस्मिन्महासत्त्वतमे मुनीन्द्रे स्थिते समीपे पुरुषस्य साधो । प्राप्तेऽपि मृत्यावमरत्वमेति मा दीनतां गच्छ यथा विमूढः ॥ २३॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वसिष्ठसमाश्वासनं नाम नवमः सर्गः ॥ ९॥
दशमः सर्गः वाल्मीकिरुवाच तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् । सम्प्रहृष्टमना राममाजुहाव सलक्ष्मणम् ॥ १॥ दशरथ उवाच । प्रतिहार महाबाहुं रामं सत्यपराक्रमम् । सलक्ष्मणमविघ्नेन पुण्यार्थं शीघ्रमानय ॥ २॥ इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् । मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥ ३॥ देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे । विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥ ४॥ आगच्छामि क्षणेनेति वक्ति ध्यायति चैकतः । न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥ ५॥ इत्युक्तस्तेन भूपालस्तं रामानुचरं जनम् । सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥ ६॥ कथं कीदृग्विधो राम इति पृष्टो महीभृता । रामभृत्यजनः खिन्नो वाक्यमाह पहीपतिम् ॥ ७॥ देहयष्टिमिमां देव धारयन्त इमे वयम् । खिन्नाः खेदे परिम्लानतनौ रामे सुते तव ॥ ८॥ रामो राजीवपत्राक्षो यतःप्रभृति चागतः । सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः ॥ ९॥ यत्नप्रार्थनयामास्कं निजव्यापारमाह्निकम् । सोऽयमाम्लानवदनः करोति न करोति वा ॥ १०॥ स्नानदेवार्चनादानभोजनादिषु दुर्मनाः । प्रार्थितोऽपि हि नातृप्तेरश्रात्यशनमीश्वरः ॥ ११॥ लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गणे । नच क्रीडति लीलाभिर्धाराभिरिव चातकः ॥ १२॥ माणिक्यमुकुलप्रोता केयूरकटकावलिः । नानन्दयतिउ तं राजन्द्यौः पातविषयं यथा ॥ १३॥ क्रीडद्वधूविलोकेषु वहत्कुसुमवायुषु । लतावलयगेहेषु भवत्यति विषादवान् ॥ १४॥ यद्द्रव्यमुचितं स्वादु पेशलं चित्तहारि च । बाष्पपूर्णेक्षण एव तेनैव परिखिद्यते ॥ १५॥ किमिमा दुःखदायिन्यं प्रस्फुरन्तीः पुराङ्गनाः । इति नृत्तविलासेषु कामिनीः परिनिन्दति । १६॥ भोजनं शयनं यानं विलासं स्नानमासनम् । उन्मात्तचेष्टित इव नाभिनन्दत्यनिन्दितम् ॥ १७॥ किं सम्पदा किं विपदा किं गेहेन किमिङ्गितैः । सर्वमेवासदित्युक्त्वा तूष्णीमेकोऽवतिष्ठते ॥ १८॥ नोदेति परिहासेषु न भोगेषु निमज्जति । न च तिष्ठति कार्येषु मौनमेवावलम्बते ॥ १९॥ विलोलालकवल्लर्यो हेलावलितलोचनाः । नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥ २०॥ एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च । रतिमायात्यरण्येषु विक्रीत इव जन्तुषु ॥ २१॥ वस्त्रपानाशनादानपराङ्मुखतया तया । परिव्राड्धर्मिणं भूप सोऽनुयाति तपस्विनम् ॥ २२॥ एक एव वसन्देशे जनशून्ये जनेश्वर । न हसत्येकया बुद्ध्या न गायति न रोदिति ॥ २३॥ बद्धपद्मासनः शून्यमना वामकरस्थले । कपोलतलमाधाय केवलं परितिष्ठति ॥ २४॥ नाभिमानमुपादत्ते नच वाञ्छति राजताम् । नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥ २५॥ न विद्मः किमसौ याति किं करोति किमीहते । किं ध्यायति किमायाति कथं किमनुधावति ॥ २६॥ प्रत्यहं कृशतामेति प्रत्यहं याति पाण्डुताम् । विरागं प्रत्यहं याति शरदन्त एव द्रुमः ॥ २७॥ अनुयातौ तथैवैतौ राजच्छत्रुघ्नलक्ष्मणौ । तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥ २८॥ भृत्यै राजभिरम्बाभिः सम्पृष्टोऽपि पुनः पुनः । उक्त्वा न किञ्चिदेवेति तूष्णीमास्ते निरीहितः ॥ २९॥ आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः । इति पार्श्वगतं भव्यामनुशास्ति सुहृज्जनम् ॥ ३०॥ नानाविभवरम्यासु स्त्रीषु गोष्ठीगतासु च । पुरस्थितमिवास्नेहो नाशमेवानुपश्यति ॥ ३१॥ नीतमायुरनायासपदप्राप्तिविवर्जितैः । चेष्टितैरिति काकल्या भूयोभूयः प्रगायति ॥ ३२॥ सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् । प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥ ३३॥ न प्रोक्तमाकर्णयति ईक्षते न पुरोगतम् । करोत्यवज्ञां सर्वत्र सुसमेत्यापि वस्तुनि ॥ ३४॥ अप्याकाशसरोजिन्या अप्याकाशमहावने । इत्थमेतन्मन इति विस्मयोऽस्य न जायते ॥ ३५॥ कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः । न भेदयन्ति दुर्भेद्यं धारा इव महोपलम् ॥ ३६॥ आपदामेकमावासमभिवाञ्छसि किं धनम् । अनुशिष्येति सर्वस्वमर्थिने सम्प्रयच्छति ॥ ३७॥ इयामापदियं सम्पदित्येवं कल्पनामयः । मनसोऽभुदितो मोह इति श्लोकान्प्रगायति ॥ ३८॥ हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् । न् जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ ॥ ३९॥ रघुकाननशालेन रामेण रिपुघातिना । भृशमित्थं स्थितेनैव वयं खेदमुपागताः ॥ ४०॥ न विद्मः किं महाबाहो तस्य तादृशचेतसः । कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥ ४१॥ राजानमथवा विप्रमुपदेष्टारमग्रतः । हसत्यज्ञमिवाव्यग्रः सोऽवधीरयति प्रभो ॥ ४२॥ यदेवेदमिदं स्फारं जगन्नाम यदुत्थितम् । नैतद्वस्तु नचैवाहमिति निर्णीय संस्थितः ॥ ४३॥ नारौ नात्मनि नो मित्रे न राज्ये न च मातरि । न सम्पदा न विपदा तस्यास्था न विभो बहिः ॥ ४४॥ निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः । न मूढो न च मुक्तोऽसौ तेन तप्यामहे भृशम् ॥ ४५॥ किं धनेन किमम्बाभिः किं राज्येन किमीहया । इति निश्चयवानन्तः प्राणत्यागपरः स्थितः । ॥ ४६॥ भोगेऽप्यायुषि राज्येषु मित्रे पितरि मातरि । परमुद्वेगमायातश्चातकोऽवग्रहे यथा ॥ ४७॥ इति तोके समायातां शाखाप्रसरशालिनीम् । आपत्तामलमुद्धर्तुं समुदेतु दयापरः ॥ ४८॥ तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् । संसारजालमाभोगि प्रभो प्रतिविषायते ॥ ४९॥ ईदृशः स्यान्महासत्त्वः क इवस्मिन्महीतले । प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥ ५०॥ मनसि मोहमपास्य महामनाः सकलमार्तितमः किल साधुताम् । सफलतां नयतीह तमो हरन् दिनकरो भुवि भास्करतामिव ॥ ५१॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवविषादो नाम दशमः सर्गः ॥ १०॥
एकादशः सर्गः विश्वामित्र उवाच । एवं चेत्तन्महाप्राज्ञा भवन्तो रघुनन्दनम् । इहानयन्तु त्वरिता हरिणं हरिणा इव ॥ १॥ एष मोहो रघुपतेर्नापद्भ्यो न च रागतः । विवेकवैराग्यवतो बोध एव महोदयः ॥ २॥ इहयातु क्षणाद्राम इह चैव वयं क्षणात् । मोहं तस्यापनेष्यामो मारुतोऽद्रेर्घनं यथा ॥ ३॥ एतस्मिन्मार्जिते युक्त्या मोहे स रघुनन्दनः । विश्रान्तिमेष्यति पदे तस्मिन्वयमिवोत्तमे ॥ ४॥ सत्यतां मुदितां प्रज्ञां विश्रान्तिमपतापताम् । पीनतां वरवर्णत्व पीतामृत इवैष्यति ॥ ५॥ निजां च प्रकृतामेव व्यवहारपरम्पराम् । परिपूर्णमना मान्य आचरिष्यत्यखण्डितम् ॥ ६॥ भविष्यति महासत्त्वो ज्ञातलोकपरावरः । सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः ॥ ७॥ इत्युक्ते मुनिनाथेन राजा सम्पूर्णमानसः । प्राहिणोद्राममानेतुं भूयो दूतपरम्पराम् ॥ ८॥ एतावताथ कालेन रामो निजगृहासनात् । पितुः सकाशमागन्तुमुत्थितोऽर्क इवाचलात् ॥ ९॥ वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां च जगाम ह । तत्पुण्यं स्वपितुः स्थानं स्वर्गं सुरपतेरिव ॥ १०॥ दूरादेव ददर्शासौ रामो दशरथं तदा । वृतं राजसमूहेन देवौघेनेव वासवम् ॥ ११॥ वसिष्ठविश्वमित्राभ्यां सेवितं पार्श्वयोर्द्वयोः । सवशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन मालितम् ॥ १२॥ चारुचामरहस्ताभिः कान्ताभिः समुपासितम् । ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् ॥ १३॥ वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः । ददृशू राघवं दुरादुपायान्तं गुहोपमम् ॥ १४॥ सत्त्वावष्टब्धगर्भेण शैत्येनेव हिमाचलम् । श्रितं सकलसेव्येन गम्भीरेण स्फुटेन च । ॥ १५॥ सौम्यं समं शुभाकारं विनयोदारमानसम् । कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् ॥ १६॥ समुद्यद्यौवनारम्भं वृद्धोपशमशोभनम् । अनुद्विग्नमनानन्दं पूर्णप्रायमनोरथम् ॥ १७॥ विचारितजगद्यात्रं पवित्रगुणगोचरम् । महासत्त्वैकलोभेन गुणैरिव समाश्रितम् ॥ १८॥ उदारमार्यमापूर्णमन्तः करणकोटरम् । अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम् ॥ १९॥ एवङ्गुणगणाकीर्णो दूरादेव रघूद्वहः । परिमेयस्मिताच्छाच्छस्वहाराम्बरपल्लवः ॥ २०॥ प्रणनाम चलच्चारुचूडामणिमरीचिना । शिरसा वसुधाकम्पलोलदेवाचलश्रिया ॥ २१॥ एवं मुनीन्द्रे ब्रुवति पितुः पादाभिवन्दनम् । कर्तुमभुआजगामाथ रामः कमललोचनः ॥ २२॥ प्रथमं पितरं पश्चान्मुनी मान्यैकमानितौ । ततो विप्रांस्ततो बन्धुंस्ततो गुरुगणान्सुहृत् ॥ २३॥ जग्राह च ततो दृष्ट्या मनाङ्मूर्ध्ना तथा गिरा । राजलोकेन विहितां तां प्रणामपरम्पराम् ॥ २४॥ विहिताशीर्मुनिभ्यां तु रामः सुसममानसः । आससाद पितुः पुण्यं समीपं सुरसुन्दरः ॥ २५॥ पादाभिवन्दनपरं तमथासौ महीपतिः । शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः ॥ २६॥ शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा । आलिलिङ्ग घनस्नेहो राजहंसोऽम्बुजे यथा ॥ २७॥ उत्सङ्गे पुत्र तिष्ठेति वदत्यथ महीपतौ । भूमौ परिजनास्तीर्णे सोंऽशुकेऽथ न्यविक्षत ॥ २८॥ राजोवाच । पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् । जडवज्जिर्णया बुद्ध्या खेदायात्मा न दीयताम् ॥ २९॥ वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता । पदमासाद्यते पुण्यं न मोहमनुधावता ॥ ३०॥ तावदेवाऽऽपदो दूरे तिष्ठन्ति परिपेलवाः । यावदेव न मोहस्य प्रसरः पुत्र दीयते ॥ ३१॥ श्रीवसिष्ठ उवाच । राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया । दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः ॥ ३२॥ किमतज्ज्ञ इवाज्ञानां योग्ये व्यामोहसागरे । विनिमज्जसि कल्लोलबहुले जाड्यशालिनि ॥ ३३॥ विश्वामित्र उवाच । चलन्नीलोत्पलाव्यूहसमलोचनलोलताम् । ब्रूहि चेतःकृतां त्यक्वा हेतुना केन मुह्यसि ॥ ३४॥ किंनिष्ठाः के च ते केन कियन्तः कारणेन ते । आधयः प्रविलुम्पन्ति मनो गेहमिवाखवः ॥ ३५॥ मन्ये नानुचितानां त्वमाधीनां पदमुत्तमम् । आपत्सु चाऽप्रयोज्यं ते निहीना अपि चाधयः ॥ ३६॥ यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघ । सर्वमेव पुनर्येन भेत्स्यन्ते त्वां तु नाधयः ॥ ३७॥ इत्युक्तमस्य सुमते रघुवंशकेतु- राकण्यं वाक्यमुचितार्थविलासगर्भम् । तत्याज खेदमभिगर्जति वारिवाहे बर्ही यथा त्वनुमिताभिमतार्थसिद्धिः ॥ ३८॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे राघवसमाश्वासनं नामैकादशः सर्गः॥ ११॥
द्वादशः सर्गः वाल्मीकिरुवाच । इति पृष्टो मुनीन्द्रेण समाश्वस्य च राघवः । उवाच वचनं चारु परिपूर्णार्थमन्थरम् ॥ १॥ श्रीराम उवाच । भगवन्भवता पृष्टो यथावदधुनाऽखिलम् । कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ॥ २॥ अहं तावदयं जातो निजेऽस्मिन्पितृसद्मनि । क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश्च संस्थितः ॥ ३॥ ततः सदाचारपरो भूत्वाहं मुनिनायक । विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥ ४॥ एतावताथ कालेन संसारास्थामिमां हरन् । समुद्भूतो मनसि मे विचारः सोऽयमीदृशः ॥ ५॥ विवेकेन परीतात्मा तेनाहं तदनु स्वयम् । भोगनीरसया बुद्ध्या प्रविचारितवादिनम् ॥ ६॥ किंनामेदं बत सुखं येयं संसारसन्ततिः । जायते मृतये लोको म्रियते जननाय च । ॥ ७॥ अस्थिराः सर्व एवेमे सचराचरचेष्टिताः । आपदां पतयः पापा भावा विभवभूमयः ॥ ८॥ अयःशलाकासदृशाः परस्परमसङ्गिनः । श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥ ९॥ मनःसमायत्तमिदं जगदाभोगि दृश्यते । मनश्चासदिवाभाति केन स्म परिमोहिताः ॥ १०॥ असतैव वयं कष्टं विकृष्टा मूढबुद्धयः । मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥ ११॥ न केनचिच्च विक्रीता विक्रीता एव संस्थिताः । बत मूढा वयं सर्वे जानाना अपि शाम्बरम् ॥ १२॥ किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः । मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥ १३॥ आ ज्ञातं बहुकालेन व्यर्थमेव वयं वने । मोहे निपतिता मुग्धाः श्वभ्रे मुग्धा मृगा इव ॥ १४॥ किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् । यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥ १५॥ एवं विमृशतो ब्रह्मन्सर्वेष्वेव ततो मम । भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥ १६॥ तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति । किमिदं जायते भूयः किमिदं परिवर्धते ॥ १७॥ जरामरणमापच्च जननं सम्पदस्तथा । आविर्भावतिरोभावैर्विवर्धन्ते पुनः पुनः ॥ १८॥ भोगैस्तैरेव तैरेव तुच्छाइर्वयममी किल । पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥ १९॥ अचेतना इव जनाः पवनैः प्राणनामभिः । ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥ २०॥ शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया । जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥ २१॥ संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् । निजलोकभयादेव गलद्बाष्पं न रोदिमि ॥ २२॥ शून्या मन्मुखवृत्तीस्तां शुष्करोदननीरसाः । विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥ २३॥ भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् । दारिद्र्येणेव सुभगो दूरे संसारचेष्टया ॥ २४॥ मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणावलिम् । दुःखजाल प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥ २५॥ चिन्तानिचयचक्राणि नानन्दाय धनानि मे । सम्प्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥ २६॥ विविधदोषदशापरिचिन्तनै- र्विततभङ्गुरकारणकल्पितैः । मम न निर्वृतिमेति मनो मुने निगडितस्य यथा वनदन्तिनः ॥ २७॥ खलाः कालेकाले निशि निशितमोहैकमिहिका - गतालोके लोके विषयशतचौराः सुचतुराः । प्रवृताः प्रोद्युक्ता दिशिदिशि विवेकैकहरणे रणे शक्तास्तेषां क इव विदुषः प्रोज्झ्यसुभटाः ॥ २८॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे प्रथमपरितापो नाम द्वादशः सर्गः ॥ १२॥
त्रयोदशः सर्गः श्रीराम उवाच । इयमस्मिन्स्थितोदारा संसारे परिकल्पिता । श्रीर्मुने परिमोहाय सापि नूनं कदर्थदा ॥ १॥ उल्लासबहुलानन्तकल्लोलानलमाकुलान् । जडान्प्रवहति स्फारान्प्रावृषीव तरङ्गिणी ॥ २॥ चिन्तादुहितरो बह्व्यो भूरिदुर्ललितैधिताः । चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥ ३॥ एषा हि पदमेकत्र न निबध्नाति दुर्भगा । दग्धेवानियताचारमितश्चेतश्च धावति ॥ ४॥ जनयन्ती परं दाहं परामृष्टाङ्गिका सती । विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् ॥ ५॥ गुणागुणविचारेण विनैव किल पार्श्वगम् । राजप्रकृतिवन्मूढा दुरारूढाऽवलम्बते ॥ ६॥ कर्मणा तेनतेनैषा विस्तारमनुगच्छति । दोषाशीविषवेगस्य यत्क्षीरं विस्तरायते ॥ ७॥ तावच्छीतमृदुस्पर्शाः परे स्वे च जने जनाः । वात्ययेव हिमं यावच्छ्रिया न परुषीकृताः ॥ ८॥ प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये । पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥ ९॥ न श्रीः सुखाय भगवन्दुःखायैव हि वर्धते । गुप्ता विम्=नाशनं धत्ते मृतिं विषलता यथा ॥ १०॥ श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः । समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ ११॥ एषा हि विषमा दुःखभोगिनां गहना गुहा । घनमोहगजेन्द्राणां विन्ध्यशैलमहातटी ॥ १२॥ सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका । सुदृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥ १३॥ सम्भ्रमाभ्रादिपदवी विषादविषवर्धिनी । केदारिका विकल्पानां खेदायभयभोगिनी ॥ १४॥ हिमं वैराग्यवल्लीनां विकारोलूकयामिनी । राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥ १५॥ इन्द्रायुधवदालोलनानारागमनोहरा । लोला तडिदिवोत्पन्नध्वंसिनी च जडाश्रया ॥ १६॥ चापलावजितारण्यनकुली नकुलीनजा । विप्रलम्भनतात्पर्यजितोग्रमृगतृष्णिका ॥ १७॥ लहरीवैकरूपेण पदं क्षणमकुर्वती । चला दीपशिखेवातिदुर्ज्ञेयगतिगोचरा ॥ १८॥ सिंहीव विग्रहव्यग्रकरीन्द्रकुलपोथिनी । खड्गधारेव शिशिरा तीक्ष्णतीक्ष्णाशयाश्रया ॥ १९॥ नानयापहृतार्थिन्या दुराधिपरिलीनया । पश्याम्यभव्यया लक्ष्म्या किञ्चिद्दुःखादृते सुखम् ॥ २०॥ दूरेणोत्सारिताऽलक्ष्म्या पुनरेव तमादरात् । अहो बताश्लिष्यतीव निर्लज्ज दुर्जना सदा ॥ २१॥ मनोरमा कर्षति चित्तवृत्तिं कदर्थसाध्या क्षणभङ्गुरा च । व्यालावलीगात्रविवृत्तदेहा श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥ २२॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे लक्ष्मीनिराकरणं नाम त्रयोदशः सर्गः ॥ १३॥
चतुर्दशः सर्गः श्रीराम उवाच । आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् । उन्मत्तमिव सन्त्यज्य यात्यकाण्डे शरीरकम् ॥ १॥ विषयाशीविषासङ्गपरिजर्जरचेतसाम् । अप्रौढात्मविवेकानामायुरायासकारणम् ॥ २॥ ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे । भावाभावसमाश्वासमायुस्तेषां सुखायते ॥ ३॥ वयं परिमिताकारपरिनिष्ठितनिश्चयाः । संसारभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥ ४॥ युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् । ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥ ५॥ पेलवं शरदीवाभ्रमस्नेह इव दीपकः । तरङ्गक इवालोलं गतमेवोपलक्ष्यते ॥ ६॥ तरङ्गं प्रतिबिम्बेन्दुं तडित्पुञ्जं नभोम्बुजम् । ग्रहीतुमास्थां बध्नामि न त्वायुषि हतस्थितौ ॥ ७॥ अविश्रान्तमनाः शून्यमायुराततमीहते । दुःखायैव विमूढाऽन्तर्गर्भमश्वतरी यथा ॥ ८॥ संसारसंसृतावस्यां फेनोऽस्मिन्सर्गसागरे । कायवल्ल्याम्भसो ब्रह्मञ्जीवितं मे न रोचते ॥ ९॥ प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते । पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ १०॥ तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेन न जीवति ॥ ११॥ जातास्त एव जगति जन्तवः साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥ १२॥ भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः । अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः ॥ १३॥ रूपमायुर्मनो बुद्धिरहङ्कारस्तथेहितम् । भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥ १४॥ अविश्रान्तमनापुर्णमापदां परमास्पदम् । नीडं रोगविहङ्गानामायुरायासनं दृढम् ॥ १५॥ प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् । आख्रुनेव जरच्छ्वभ्रं कालेन विनिहन्यते ॥ १६॥ शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः । रोगैरापीयते रौद्रैर्व्यालैरिव वनानिलः ॥ १७॥ प्रस्नुवानैरविच्छेदं तुच्छैरन्तरवाशिभिः । दुःखैरावृश्च्यते क्रूरैर्घुणैरिव जरद्द्रुमः ॥ १८॥ नूनं निगरणायाशु घनगर्धमनारतम् । आख्रुर्मार्जारकेणेव मरणेनावलोक्यते ॥ १९॥ गन्धादिगुणगर्भिण्या शून्ययाऽशक्तिवेश्यया । अन्नं महाशनेनेव जरया परिजीर्यते ॥ २०॥ दिनैः कतिपयैरेव परिज्ञाय गतादरम् । दुर्जनः सुजनेनेव यौवनेनावमुच्यते ॥ २१॥ विनाशसुहृदा नित्यं जरामरणबन्धुना । रूपं खिङ्गवरेणेव कृतान्तेनाभिलष्यते ॥ २२॥ स्थिरतया सुखभासितया तया सततमुज्झितमुत्तमफल्गु च । जगति नास्ति तथा गुणवर्जितं मरणभाजनमायुरिदं यथा ॥ २३॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे जीवितगर्हा नाम चतुर्दशः सर्गः ॥ १४॥
पञ्चदशः सर्गः श्रीराम उवाच । मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते । मिथ्यामयेन भीतोऽस्मि दुरहङ्कारशत्रुणा ॥ १॥ अहङ्कारवशादेव दोषकोशकदर्थताम् । ददाति दीनदीनानां संसारो विविधाकृतिः ॥ २॥ अहङ्कारवशादापदहङ्काराद्दुराधयः । अहङ्कारवशादीहा त्वहङ्कारो ममामयः ॥ ३॥ तमहङ्कारमाश्रित्य परमं चिरवैरिणम् । न भुजे न पिबाम्यम्भः किमु भोगान्भुजे मुने ॥ ४॥ संसाररजनी दीर्घा माया मनसि मोहिनी । ततोऽहङ्कारदोषेण किरातेनेव वागुरा ॥ ५॥ यानि दुःखानि दीर्घाणि विषमाणि महान्ति च । अहङ्कारात्प्रसूतानि तान्यगात्खदिरा इव ॥ ६॥ शमेन्दुसैंहिकेयास्यं गुणपद्महिमाशनिम् । साम्यमेघशरत्कालमहङ्कारं त्यजाम्यहम् ॥ ७॥ नाहं रामो न मे वाञ्छा भावेषु न च मे मनः । शान्त आसितुमिच्छामि स्वात्मनीव जिनो यथा ॥ ८॥ अहङ्कारवशाद्यद्यन्मया भुक्तं हुतं कृतम् । सर्वं तत्तदवस्त्वेव वस्त्वहङ्काररिक्तता ॥ ९॥ अहमित्यस्ति देद्ब्रह्मन्नहमापदि दुःखितः । नास्ति देत्सुखितस्तस्मादनहङ्कारिता वरम् ॥ १०॥ अहङ्कारपरित्यज्य मुने शान्तमनस्तया । अवतिष्ठे गतोद्वेगो भोगौघो भङ्गुरास्पदः ॥ ११॥ ब्रह्मन्यावदहङ्कारवारिदः परिजृम्भते । तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥ १२॥ अहङ्कारघने शान्ते तृष्णा नवतडिल्लता । शान्तदीपशिखावृत्त्या क्वापि यात्यतिसत्वरम् ॥ १३॥ अहङ्कारमहाविन्ध्ये मनोमत्तमहागजः । विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥ १४॥ इह देहमहारण्ये घनाहङ्कारकेसरी । योऽयमुल्लसति स्फारस्तेनेदं जगदाततम् ॥ १५॥ तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा । अहङ्कारोग्रखिङ्गेन कण्ठे मुक्तावली कृता ॥ १६॥ पुत्रमित्रकलत्रादितन्त्रमन्त्रविवर्जितम् । प्रसारितमनेनेह मुनेऽहङ्कारवैरिणा ॥ १७॥ प्रमार्जितेऽहमित्यस्मिन्पदे स्वयमपि द्रुतम् । प्रमार्जिता भवन्त्येते सर्व एव दुराधयः ॥ १८॥ अहमित्यम्बुदे शान्ते शनैश्च शमशातिनी । मनोगगनसंमोहमिहिका क्वापि गच्छति ॥ १९॥ निरहङ्कारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः । यत्किञ्चिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥ २०॥ सर्वापदां निलयमध्रुवमन्तरस्थ- मुन्मुक्तमुत्तमगुणेन न संश्रयामि । यत्नादङ्कृतिपदं परितोऽतिदुःखं शेषेण मां समनुशाधि महानुभाव ॥ २१॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे अहङ्कारजुगुप्सा नाम पञ्चदशः सर्गः ॥ १५॥
षोडशः सर्गः श्रीराम उवाच । दोषैर्जर्जरतां याति सत्कार्यादार्यसेवनात् । वातान्तःपिच्छलववच्चेतश्चलति चञ्चलम् ॥ १॥ इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति दूराद्दूरतरं दीनं ग्रामे कौलेयको यथा ॥ २॥ न प्राप्नोति क्वचित्किञ्चितप्रप्तैरपि महाधनैः । नान्तः सम्पूर्णतामेति करण्डक इवाम्बुभिः ॥ ३॥ नित्यमेव मुने शून्यं कदाशावागुरावृतम् । न मनो निर्वृतिं याति मृगो यूथादिव च्युतः ॥ ४॥ तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् । परित्यज्य क्षणामपि हृदये याति न स्थितिम् ॥ ५॥ मनो श्चननविक्षुब्धं दिशो दश विधावति । मन्दराहननोद्धूतं क्षीरार्णवपयो यथा ॥ ६॥ कल्लोलकलितावर्तं मायामकरमालितम् । न निरोद्धुं समर्थोऽस्मि मनोमयमहार्णवम् ॥ ७॥ भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् । मनोहरिणको ब्रह्मन्दूरं विपरिधावति ॥ ८॥ न कदाचन मे चेतः स्वामालूनविशिर्णताम् । त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ॥ ९॥ चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् । धृतिं बध्नाति नैकत्र पञ्जरे केसरी यथा ॥ १०॥ मनो मोहरथारूढं शरीरात्समतासुखम् । हरत्यपहतोद्वेगं हंसः क्षीरमिवाम्भसः ॥ ११॥ अनल्पकल्पनातल्पे विलीनाश्चित्तवृत्तयः । मुनीन्द्र न प्रबुध्यन्ते तेन तप्येऽहमाकुलः ॥ १२॥ क्रोडीकृतदृढग्रन्थितृष्णासूत्रे स्थितात्मना । विहगो जालकेनेव ब्रह्मन्बद्धोऽस्मि चेतसा ॥ १३॥ सन्ततामर्षधूमेन चिन्ताज्वालाकुलेन च । वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ॥ १४॥ क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना । शवं कौलेयकेनेव ब्रह्मन्भुक्तोऽस्मि चेतसा ॥ १५॥ तरङ्गतरलास्फालवृत्तिना जडरूपिणा । तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ॥ १६॥ अवान्तरनिपाताय शून्ये वा भ्रमणाय च । तृणं दण्डनिलेनेव दूरे नीतोऽस्मि चेतसा ॥ १७॥ संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः । सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥ १८॥ पातालाद्गच्छतां पृथ्वीं पृथ्व्याः पातालगामिना । कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥ ९॥ मिथ्यैव स्फाररूपेण विचाराद्विशरारुणा । बालो वेतालकेनेव गृहीतोऽस्मि कुचेतसा ॥ २०॥ वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः । वज्रादपि दृढो ब्रह्मन्दुर्निग्रहमनोग्रहः ॥ २१॥ चेतः पतति कार्येषु विहगः स्वामिषेष्विव । क्षणेन विरतिं याति बालः क्रीडनकादिव ॥ २२॥ जडप्रकृतिरालोलो विततावर्तवृत्तिमान् । मनोऽब्धिरहितव्यालो दूरं नयति तात माम् ॥ २३॥ अप्यब्धिपानान्महतः सुमेरून्मूलनादपि । अपि वह्न्यशनात्साधो विषमश्च्चित्तनिग्रहः ॥ २४॥ चित्तं मारणमर्थानां तस्मिन्सति जगत्त्रयम् । तस्मिन्क्षीणे जगन्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ २५॥ चितादिमानि सुखदुःखशतानि नून- मभ्यागतान्यगवरादिव काननानि । तस्मिन्विवेकवशस्तनुतां प्रयाते मन्ये मुने निपुणमेव गलन्ति तानि ॥ २६॥ सकलगुणजयाशा यत्र बद्धा महद्भि- स्तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् । विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं जडमलिनविलासां मेघलेखामिवेन्दुः ॥ २७॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे वैराग्यचित्तदौरात्म्यं नाम षोडशः सर्गः ॥ १६॥
सप्तदशः सर्गः श्रीराम उवाच । हार्दान्धकारशर्वर्या तृष्णयेह दुरन्त्यया । स्फुरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः ॥ १॥ अन्तर्दाहप्रदायिन्या समूढरसमार्दवः । पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ॥ २॥ मम चित्तमहारण्ये व्यामोहतिमिराकुले । शून्ये ताण्डविनी जाता भृशमाशापिशाचिका ॥ ३॥ वचोरचितनीहारा कञ्चनोपवनोज्ज्वला । नूनं विकासमायाति चिन्ताकणकमञ्जरी ॥ ४॥ अलमन्तर्भ्रमायैव तृष्णातरलिताशया । आयाता विषमोल्लासमूर्मिरम्बुनिधाविव ॥ ५॥ उद्दामकल्लोलरवा देहार्द्रौ वहतीह मे । तरङ्गतरलाकारा तरतृष्णातरङ्गिणी ॥ ६॥ वेगं संरोद्धुमुदितो वात्ययेव जरत्तृणम् । नीतः कलुषया क्वापि तृष्णया चित्तचातकः ॥ ७॥ यां यामहमतीवास्थां संश्रयामि गुणश्रियाम् । तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ ८॥ पयसीव जरत्पर्णं वायाविव जरत्तृणं। नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥ ९॥ गन्तुमास्पदमात्मीयमसमर्थधियो वयम् । चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥ १०॥ तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा । यथा दाहोपशमनमाशङ्के नामृतैरपि ॥ ११॥ दूरं दूरमितो गत्वा समेत्य च पुनः पुनः । भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्त तुरङ्गमी ॥ १२॥ जडसंसर्गिणी तृष्णा कृतोर्ध्वाधोगमागमा । क्षुब्धा ग्रन्थिमती नित्यमारघट्टाग्ररज्जुवत् ॥ १३॥ अन्तर्ग्रथितया देहे सर्वदुश्छेदयाऽनया । रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥ १४॥ पुत्रमित्रकलत्रादितृष्णया नित्यकृष्टया । खगेष्विव किरात्येदं जालं लोकेषु रच्यते ॥ १५॥ भीषयत्यपि धीरं मामन्धयत्यपि सेक्षणम् । खेदयत्यपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥ १६॥ कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी । दशत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥ १७॥ भिन्दती हृदयं पुंसां मायामयविधायिनी । दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥ १८॥ तन्द्रीतन्त्रीगणैः कोशं दधाना परिवेष्टितम् । नानन्दे राजते ब्रह्मंस्तृष्णा जर्जरवल्लकी ॥ १९॥ नित्यमेवातिमलिना कटुकोन्माददायिनी । दीर्घतन्त्री घनस्नेहा तृष्णागह्वरवल्लरी ॥ २०॥ अनानन्दकरी शून्या निष्फला व्यर्थमुन्नता । अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥ २१॥ अनावर्जितचित्तापि सर्वमेवानुधावति । न चाप्नोति फलं किञ्चित्तृष्णा जीर्णेव कामिनी ॥ २२॥ संसारवृन्दे महति नानारससमाकुले । भुवनाभोगरङ्गेषु तृष्णा जरठनर्तकी ॥ २३॥ जराकुसुमितारूढा पातोत्पातफलावलिः । संसारजङ्गले दीर्घे तृष्णा विषलता तता ॥ २४॥ यन्न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् । नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ॥ २५॥ भृशं स्फुरति नीहारे शाम्यत्यालोक आगते । दुर्लङ्घ्येषु पदं धत्ते चिन्ता चपलबर्हिणी ॥ २६॥ जडकल्लोलबहुला चिरं शून्यान्तरान्तरा । क्षणमुल्लासमायाति तृष्णा प्रावृट्तरङ्गिणी ॥ २७॥ नष्टमुत्सृज्य तिष्ठन्तं तृष्णा वृक्षमिवापरम् । पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥ २८॥ पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते । चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी॥ इदं कृत्वेदमायाति सर्वमेवासमञ्जसम् । अनारतं च यतते तृष्णा चेष्टेव चैविकी ॥ ३०॥ क्षणमायाति पातालं क्षणं याति नभस्थलम् । क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥ ३१॥ सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा । अन्तःपुरस्थमपि या योजयत्यतिसङ्कटे ॥ ३२॥ प्रयच्छति परं जाड्यं परमालोकरोधिनी । मोहनीहारगहना तृष्णा जलदमालिका ॥ ३३॥ सर्वेषां जन्तुजातानां संसारव्यवहारिणाम् । परिप्रोतमनोमाला तृष्णा बन्धनरज्जुवत् ॥ ३४॥ विचित्रवर्णा विगुणा दीर्घा मलिनसऽन्स्थितिः । शून्या शून्यपदा तृष्णा शक्रकार्मुकधर्मिणी ॥ ३५॥ अशनिर्गुणसस्यानां फलिता शरदापदाम् । हिमं संवित्सरोजानां तमसां दीर्घयामिनी ॥ ३६॥ संसारनाटकनटी कार्यालयविहङ्गमी । मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥ ३७॥ व्यवहाराब्धिलहरी मोहमातङ्गश‍ृङ्खला । सर्गन्यग्रोधसुलभा दुःखकैरवचन्द्रिका ॥ ३८॥ जरामरणदुःखानामेका रत्नसमुद्रिका । आधिव्याधिविलासानां नित्यं मत्ता विलासिनी ॥ ३९॥ क्षणमालोकविमला सान्धकारलवा क्षणम् । व्योमवीथ्युपमा तृष्णा नीहारगहना क्षणम् ॥ ४०॥ गच्छत्युपशमं तृष्णा कायव्यायामशान्तये । तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥ ४१॥ तावन्मुह्यत्ययं मूको लोको विलुलिताशयः । यावदेवानुसन्धत्ते तृष्णा विषविषूचिका ॥ ४२॥ लोकोऽयमखिलं दुःखं चिन्तयोज्झितयोज्झति । तृष्णाविषूचिकामन्त्रचिन्तात्यागो हि कथ्यते ॥ ४३॥ तृणपाषाणकाष्ठादिसर्वमामिषशङ्कया । आददाना स्फुरत्यन्ते तृष्णा मत्स्यी ह्रदे यथा ॥ ४४॥ रोगार्तिरङ्गनातृष्णा गम्भीरमपि मानवम् । उत्तानतां नयन्त्याशु सूर्यांशव इवाम्बुजम् ॥ ४५॥ अन्तःशून्या ग्रन्थिमत्यो दीर्घस्वाङ्कुरकण्टकाः । मुक्तामणिप्रिया नित्यं तृष्णा वेणुलता इव ॥ ४६॥ अहो बत महच्चित्रं तृष्णामपि महाधियः । दुश्छेदामपि कृन्तन्ति विवेकेनामलासिना ॥ ४७॥ नासिधारा न वज्रार्चिर्न तप्तायःकणार्चिषः । तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता ॥ ४८॥ उज्ज्वलाऽसिततीक्ष्णाग्रा स्नेहदीर्घदशा परा । प्रकाशा दाहदुःस्पर्शा तृष्णा दीपशिखा इव ॥ ४९॥ अपि मेरुसमं प्राज्ञमपि शूरमपि स्थिरम् । तृणीकरोति तृष्नैका निमेषेण नरोत्तमम् ॥ ५०॥ संस्तीर्णगहना भीमा घनजालरजोमयी । सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहातटी ॥ ५१॥ एकैक सर्वभुवनान्तरलब्धलक्ष्या दुर्लक्ष्यतामुपगतैव वपुःस्थितैव । तृष्णा स्थिता जगति चञ्चलवीचिमले क्षीरोदकाम्बुतरले मधुरेव शक्तिः ॥ ५२॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे तृष्णाभङ्गो नाम सप्तदशः सर्गः ॥ १७॥
अष्टादशः सर्गः श्रीराम उवाच । आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् । देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥ १॥ अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः । युक्त्या भव्योऽप्यभव्योऽपि न जडो नापि चेतनः ॥ २॥ जडाजडदृशोर्मध्ये दोलायितदुराशयः । अविवेकी विमूढात्मा मोहमेव प्रयच्छति ॥ ३॥ स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् । नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥ ४॥ आगमापायिना नित्यं दन्तकेसरशालिना । विकासस्मितपुष्पेण प्रतिक्षणमलङ्कृतः ॥ ५॥ भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः । लोचनालिबिलाक्रान्तः शिरःपीठबृहत्फलः ॥ ६॥ श्रवदन्तरसग्रस्तो हस्तपादसुपल्लवः । गुल्मवान्कार्यसङ्घातो विहङ्गमकृतास्पदः ॥ ७॥ सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदः । कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥ ८॥ तात सन्तरणार्थेन गृहीतायां पुनः पुनः । नावि देहलतायां च कस्य स्यादात्मभावना ॥ ९॥ देहनाम्नि वने शून्ये बहुगर्तसमाकुले । तनूरुहासङ्ख्यतरौ विश्वासं कोऽधिगच्छति ॥ १०॥ मांसस्नाय्वस्थिवलिते शरीरपटहेऽदृढे । मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ॥ ११॥ संसारारण्यसंरूढो विलसच्चित्तमर्कटः । चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ॥ १२॥ तृष्णाभुजङ्गमीगेहं कोपकाककृतालयः । स्मितपुण्योद्गमः श्रीमाञ्छुभाशुभमहाफलः ॥ १३॥ सुस्कन्धौघलताजालो हस्तस्तबकसुन्दरः । पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥ १४॥ सर्वेन्द्रियखगधारः सुजानुस्तम्भ उन्नतः । सरसच्छायया युक्तः कामपान्थनिषेवितः ॥ १५॥ मूर्धसञ्जनिताऽऽदीर्घशिरोरुहतृणावलिः । अहङ्कारगृध्रकृतकुलायः सुषिरोदरः ॥ १६॥ विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः । व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे ॥ १७॥ कलेवरमहङ्कारगृहस्थस्य महागृहम् । लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ॥ १८॥ पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् । रागरञ्जितसर्वाङ्गं नेष्ठं देहगृहं मम ॥ १९॥ पृष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् । आन्त्ररज्जुभिराबद्धं नेष्ठं देहगृहं मम ॥ २०॥ प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् । जरामङ्कोलधवलं नेष्ठं देहगृहं मम ॥ २१॥ चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति । मिथामोहमहास्थूणं नेष्ठं देहगृहं मम ॥ २२॥ दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् । दुरीहादग्धदासीकं नेष्ठं देहगृहं मम ॥ २३॥ मलाढ्यविषयव्यूहभाण्डोपस्करसङ्कटम् । अज्ञानक्षारवलितं नेष्ठं देहगृहं मम ॥ २४॥ गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् । दीर्घदोर्दारुसुदृढं नेष्ठं देहगृहं मम ॥ २५॥ प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् । चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥ २६॥ मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् । आदीर्घाङ्गुलिनिर्व्यूहं नेष्ठं देहगृहं मम ॥ २७॥ सर्वाङ्गकुड्यसङ्घातघनरोमयवाङ्कुरम् । संशून्यपेटविवरं नेष्ठं देहगृहं मम ॥ २८॥ नखोर्णनाभिनिलयं सरमारणितान्तरम् । भाङ्कारकारिपवनं नेष्ठं देहगृहं मम ॥ २९॥ प्रवेशनिर्गमव्यग्रवातवेगमनारतम् । वितताक्षगवाक्षं तन्नेष्ठं देहगृहं मम ॥ ३०॥ जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिशकलं नेष्ठं देहगृहं मम ॥ ३१॥ त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् । मनः सदारवुनोत्खातं नेष्ठं देहगृहं मम ॥ ३२॥ स्मितदीपप्रभोद्भासि क्षणमानन्दसुन्दरम् । क्षणं व्याप्तं तमःपूरैर्नेष्ठं देहगृहं मम ॥ ३३॥ समस्तरोगायतनं वलीपलितपत्तनम् । सर्वाधिसारगहनं नेष्ठं देहगृहं मम ॥ ३४॥ अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा । तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ॥ ३५॥ देहालयं धारयितुं न शक्नोमि मुनीश्वरः । पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥ ३६॥ किं श्रिया किं च राज्येन किं कायेन किमीहितैः । दिनैः कपितयैरेव कालः सर्व निकृन्तति ॥ ३७॥ रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने । नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥ ३८॥ मरणावसरे काया जीवं नानुसरन्ति ये । तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ॥ ३९॥ मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः । न सन्त्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥ ४०॥ पवनस्पन्दतरलं पेलवः कायपल्लवः । जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ॥ ४१॥ भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् । तनुतामेत्य यत्नेन विनाशमनुधावति ॥ ४२॥ तान्येव सुखदुःखानि भावाभावमयान्यसौ । भूयोऽप्यनुभवन्कायः प्राकृतो हि न लज्जते ॥ ४३॥ सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् । नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥ ४४॥ जराकाले जरामेति मृत्युकाले तथा मृतिम् । सम एवाविशेषज्ञः कायो भोगिदरिद्रयोः ॥ ४५॥ संसारम्भोधिजठरे तृष्णाकुहरकान्तरे । सुप्तस्तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥ ४६॥ दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः । संसाराब्धाविहोह्यन्ते कञ्चित्तेषु नरं विदुः ॥ ४७॥ दीर्घदौरात्म्यवलया निपातफलपातया । न देहलतया कार्यं किञ्चिदस्ति विवेकिनः ॥ ४८॥ मज्जन्कर्दमकोशेषु झटित्येव जरां गतः । न ज्ञायतेयात्यचिरात्कः कथं देहदर्दुरः ॥ ४९॥ निःसारसकलारम्भाः कायाश्चपलवायवः । रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥ ५०॥ वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः । आगच्छतश्च भगवञ्छरीरस्य कदाचन ॥ ५१॥ बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ । तान्मोहमदिरोन्मत्तान्धिग्धिगस्तु पुनः पुनः ॥ ५२॥ नाहं देहस्य नो देहो मम नायमहं तथा । इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥ ५३॥ मानावमानबहुला बहुलाभमनोरमाः । शरीरमात्रबद्धास्थं ग्नन्ति दोषदृशो नरम् ॥ ५४॥ शरीरश्वभ्रशायिन्या पिशाच्या पशलाङ्गया । अहङ्कारचमत्कृत्या छलेन छलिता वयम् ॥ ५५॥ प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया । मिथ्याद्यानकुराक्षस्या छलिता कष्टमेकिका ॥ ५६॥ न किञ्चिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना । चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥ ५७॥ दिनैः कतिपयैरेव निर्झराम्बुकणो यथा । पतत्ययमयत्नेन जरठः कायपल्लवः ॥ ५८॥ कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव । व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥ ५९॥ मिथाज्ञानविकारेऽस्मिन्स्वप्नसम्भ्रमपत्तने । काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥ ६०॥ तडित्षु शरदभ्रेषु गन्धर्वनगरेषु च स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ६१॥ सततभङ्गुरकार्यपरम्परा विजयिजातजयं हठवृत्तिषु । प्रबलदोषमिदं तु कलेवरम् तृणमिवाहमपोह्य सुखं स्थितः ॥ ६२॥ इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कायजुगुप्सा नामाष्टादशः सर्गः ॥ १८॥

कोई टिप्पणी नहीं:

Dr. Balavant Singh