बुधवार, 27 मार्च 2024

शिवयोगदीपिका

 

सदाशिवयोगीश्वरविरचिता शिवयोगदीपिका

मन्त्र -लय -हठ-राजाख्यचतुर्विधयोगानां विवरणं ॐ तत्सद्ब्रह्मणे नमः । श्रीदक्षिणामूर्तये नमः । अथ सदाशिवयोगीश्वरविरचिता शिवयोगदीपिका ।

तत्र प्रथमः पटलः ।

परमयोगिमनोम्बुजषट्पदं त्रिविधकारणकारणमव्ययम् । सगुणनिर्गुणतत्त्वमनामयं गुरुसदाशिवलिङ्गमहं भजे ॥ १॥ श्रीमद्गुरुप्रसादेन योगं ज्ञात्वा शिवात्मकम् । वक्ष्यामि सुप्रबोधाय शिवयोगप्रदीपिकाम् ॥ २॥ शिवतत्त्वविदां श्रेष्ठ वक्ष्यामि श‍ृणु तेऽधुना । शिवयोगं परं गुह्यमपि त्वद्भक्तिगौरवात् ॥ ३॥ मन्त्रो लयो हठो राजा चेति योगाश्चतुर्विधाः । तानाहुः पूर्वमुनयः सिद्धाः शम्भुप्रबोधितान् ॥ ४॥ एकाक्षरं द्व्यक्षरं वा षडक्षरमथापि वा । अष्टाक्षरं वा मोक्षाय मन्त्रयोगी सदा जपेत् ॥ ५॥ यस्य चित्तं निजं ध्यायेन्मनसा मरुता सह । लीनं भवति नादेन लपयोगी स एव हि ॥ ६॥ भवेदष्टाङ्गमार्गेण मुद्राकरणबन्धनैः । तथा केवलकुम्भेन हठयोगी वशानिलः ॥ ७॥ त्रिषु लक्ष्येषु यो ब्रह्मसाक्षात्कारं गमिष्यति । ज्ञानोपायमनोवृत्तिरहितो राजयोगवित् ॥ ८॥ उत्तरोत्तरवैशिष्ट्याद्योगाश्चत्वार एव हि । तेष्वेक एव मुख्योऽसौ राजयोगोत्तमोत्तमः ॥ ९॥ सोऽपि त्रिधा भवेत्साङ्ख्यस्तारकश्चामना इति । पञ्चविंशतितत्त्वानां ज्ञानं यत्साङ्ख्यमुच्यते ॥ १०॥ बहिर्मुद्रा परिज्ञानाद्योगस्तारक उच्यते । अन्तर्मुद्रापरिज्ञानादमनस्क इतीरितः ॥ ११॥ श्लाघ्यः साङ्ख्यात्तारकोऽयममनस्कोऽपि तारकात् । राजत्वात्सर्वयोगाणां राजयोग इति स्मृतः ॥ १२॥ नाभेदः शिवयोगस्य राजयोगस्य तत्त्वतः । शिवार्चिनां तथाऽप्येवमुक्तो बुद्धेः प्रवर्तते ॥ १३॥ प्रतिपाद्यस्तयोर्भेदस्तथा शिवरतात्मनाम् । तस्मान्मनीषिभिर्ग्राह्यः शिवयोगस्तु केवल ॥ १४॥ ज्ञानं शिवमयं भक्तिः शैवं ज्ञानं शिवात्मकम् । शैवं व्रतं शिवार्चेति शिवयोगो हि पञ्चधा ॥ १५॥ शिवाचारविहीनो यः पशुरेव न संशयः । स तु संसारचक्रेऽस्मिन्नजस्रं परिवर्तते ॥ १६॥ सत्यं वदामि तत्तत्त्वं निर्णीतं पूर्वसूरिभिः । सर्वदेवमयः साक्षात्सर्वभूतमयस्तथा ॥ १७॥ सर्वज्ञानसमः सम्यक्सर्वतत्वोत्तरोत्तरः । सर्वतेजोमयः साक्षात्सर्वानन्दस्वरूपवान् ॥ १८॥ मायासमेतः सकलो निष्कलः केवलः परः । अस्तिनास्तिद्वयातीतो वाङ्मनोगोचरात्मकः ॥ १९॥ अवर्णो वर्णसंयुक्तो नीरूपी विश्वरूपभृत् । परमात्मा परं ब्रह्म कश्चिद्देवोऽस्ति चिच्छिवः ॥ २०॥ शिवादुत्पद्यते शक्तिः शान्त्यतीता परात्मिका । अप्रतर्क्यगुणोपेता जृम्भते सा शिवाज्ञया ॥ २१॥ सा शक्तिः पञ्चधा भिन्ना भवति ब्रह्मरूपिणी । पञ्चभूतात्मिका नित्या तस्या आसीदिदं जगत् ॥ २२॥ आदौ व्योन्नि स्थितो भाति साक्षादेवः सदाशिवः । मदाशिवादीश्वरोऽपि सम्भूतः पवने स्थितः ॥ २३॥ ईश्वरादभवदुद्रो वह्नौ स्थित्वा प्रतापवान् । रुद्राद्विष्णुर्महातेजा वारितत्त्वे व्यवस्थितः ॥ २४॥ विष्णुतत्त्वोदितो ब्रह्मा पृथ्वीतत्त्वे व्यवस्थितः । एवं पराशक्तिजाता विश्वपाः पञ्च मूर्तयः ॥ २५॥ निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च । शान्त्यतीता कला ह्येताः स्थिता ब्रह्मादिमूर्तिषु ॥ २६॥ तथा शिवाज्ञया ह्येता वर्तन्ते सुमहोज्ज्वलाः । ब्रह्मणो देवता दैत्या मुनयो मानवास्तथा ॥ २७॥ स्वेदजा अण्डजाः सर्वे प्राणिनश्च जरायुजाः । तृणगुल्मलतावृक्षाद्यनेकोद्भिज्जकोटयः ॥ २८॥ गिरयः सरितश्चान्ये समुद्राश्च सरांसि च । सम्भवन्ति क्रमेणैव तस्माच्छिवमयं जगत् ॥ २९॥ यस्तं शिवं केवलचित्स्वरूपं सूर्येन्दुवैश्वानरमण्डलस्थम् । गुरुप्रसादात्त्रिमलं क्षयित्वा ध्यात्वा यजन्मोक्षसुखं प्रयाति ॥ ३०॥ शिवज्ञानं द्विधा ज्ञेयं सगुणं निर्गुणं तथा । आदौ सगुणमाश्रित्य पश्चान्निर्गुणमाचरेत् ॥ ३१॥ सगुणं बहुधा प्रोक्तं बाह्याभ्यन्तरगोचरम् । इन्द्रियादिभिरग्राह्यं निर्गुणं त्वन्तरिक्षवत् ॥ ३२॥ एवं तत्त्वपरिज्ञानं गुरुष्वेव व्यवस्थितम् । अत एव मुमुक्षूणां पूजनीयच सद्गुरुः ॥ ३३॥ सदायुरारोग्यमपारभूतिं विद्या यशः स्वर्गसुखं च मोक्षम् । कलानि सर्वाणि नरः समाप्तुं कथं समर्थो गुरुणा विहीनः ॥ ३४॥ उक्तलक्षणसम्पन्नमाचार्यं सर्ववेदिनम् । कर्मणा मनसा वाचा शिववत्पूजयेद्गुरुम् ॥ ३५॥ तस्माद्गुरूमुखेणैव दीक्षितो यः शिवार्चकः । चतुर्वर्गफलावाप्तिः सुखं तस्य करे स्थिता ॥ ३६॥ त्रिकालं वा द्विकालं वा एककालमथापि वा । भक्त्या गुरूक्तमार्गेण पूजयेच्चिन्मयं शिवम् ॥ ३७॥ अन्तर्यागो बहिर्यागो द्विविधं तच्छिवार्चनम् । मुख्या चाभ्यन्तरे पूजा सा च बाह्यार्चनोदिता ॥ ३८॥ आत्मस्थमत्यन्तरुचिप्रशान्त- मश्रान्तमीशं हि यजन्ति सन्तः । तं वाह्यनानाप्रतिमासु बाह्य- क्रियाभिरेवाल्पधियो यजन्ति ॥ ३९॥ हृत्पद्मं शिवधर्मकन्दसहितं सुज्ञाननालं तथा । नित्यैश्वर्यदलाष्टकं शशिनिभं वैराग्यसत्कर्णिकम् ॥ ४०॥ श्रीरुद्रेश्वरकेसराञ्चितमिदं सञ्चिन्त्य तन्मध्यमे । सूर्येन्दुज्वलवह्निमण्डलगतं ध्यायेच्छिवं चिन्मयम् ॥ ४१॥ प्रसन्नवदनं शान्तं द्व्यष्टवर्पीमुज्ज्वलं अनेककोटिकन्दर्पलावण्यसमविग्रहम् । चतुर्भुजं मृगीटङ्कवरदाभयधारिणं चन्द्ररेखाशिरोभूषं शरच्चन्द्रनिभद्युतिम् ॥ ४२॥ दिव्याम्बरधरं देवं दिव्यगन्धानुलेपनम् । दिव्याभरणशोभाढ्यं दिव्यपुष्पैरलङ्कृतम् ॥ ४३॥ त्रिनेत्रं त्रिगुणाधारं त्रिमलक्षयकारणम् । सर्वमङ्गलया देव्या निजवामाङ्कशोभितम् ॥ ४४॥ भास्वत्कल्पतरोर्मूले फलपुष्पसमन्विते । वेदिकायां समासीनं नवरत्नमयासनम् ॥ ४५॥ अद्वैतमच्युतं विष्णुं नित्यं निर्वाणगोचरम् । अचिन्त्यमजमव्यक्तमादिमध्यान्तवर्जितम् ॥ ४६॥ परं शिवं हृदि ध्यात्वा निश्चयीभूतमानसः । यजेदाभ्यन्तरद्रव्यैरवधानेन तद्यथा ॥ ४७॥ शमाम्बुपरिषेचनं सकलपूर्णभावाम्बरं त्रिशक्तिगुणसंयुतं विहितयज्ञसूत्रं तथा । स्वसंविदनुलेपनं समधिकानुकम्पाक्षतान् शिवाय विनिवेदयेत्प्रकटमक्तिपुष्पणि च ॥ ४८॥ धूपमान्तरचतुष्टयेन वै दीपमिन्द्रिगुणोत्तरेण तु । कल्पयेच्च सुखदुःखवर्जितं जीवरूपमुपहारमान्तरे ॥ ४९॥ रजस्तमःसत्त्वगुणत्रयं च ताम्बूलकं प्राणनमस्कृतिं च । इत्येवमाभ्यन्तर मुख्यपूजा- द्रव्याणि सम्पादय शङ्कराय ॥ ५०॥ अथवाऽऽवाहनाद्यैस्तमुपचारैश्च राजवत् । पूजयस्व शिवं भक्त्या परमात्मानमान्तरे ॥ ५१॥ अत एव सदा पूजाभिमामाभ्यन्तरीं कुरु । समस्तपापदलनीं सर्वदुःखविनाशिनीम् ॥ ५२॥ शिवभक्तिप्रदां साक्षान्मनोनैर्मल्यकारिणीम् । सर्वैश्वर्यकरीं सम्यग्योगज्ञानप्रदायिनीम् ॥ ५३॥ इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां प्रथमः पटलः ।

अथ द्वितीयः पटलः ।

अथ ते सम्प्रवक्ष्यामि शिवपूजाविधिं बुधैः । पुनःप्रकारमाख्यातं योगमार्गैकगोचरम् ॥ १॥ योगात्सञ्जायते ज्ञानं ज्ञानायोगः प्रवर्तते । द्वयोः संसिद्धये भूमौ शरीरं रक्षयेद्बुधः ॥ २॥ शरीरं कफनाशेन सुस्थैर्यं याति निश्चितम् । स कफो हठयोगेन विनश्यति शरीरिणाम् ॥ ३॥ शिवयोगः साधकानां साध्यस्तत्साधनं हठः । यमादिमिरथाष्टाङ्गैर्देवपूजां समाचरेत् ॥ ४॥ यमनियमगुणैश्च स्वात्मसिद्धिं विधाय स्ववशविविधपीठैरेव भूत्वा स्थितात्मा । असुनियमजलेन स्नापयेद्दिव्यलिङ्गं प्रकटितचतुरङ्गं बाह्यमेतद्विधानम् ॥ ५॥ शम्भोरपीन्द्रियनिवर्तनमेव गन्धो ध्यानं प्रसूननिचयो दृढधारणा सा । धूपः समाधिरिति शुद्ध महोपहार- माभ्यन्तरराख्यचतुरङ्गविधानमेतत् ॥ ६॥ एवमष्टाङ्गयोगेन सदाऽन्तःपद्मसद्मनि । पूजयेत्परमं देवं किं बाह्यैर्देवपूजनैः ॥ ७॥ स्वात्मन्येव सदाऽष्टाङ्गैः पूजयेच्छिवमव्ययम् । शैवः स एव विद्वांश्च स च योगविदां वरः ॥ ८॥ सुब्रह्मचर्यं नियताशनं च धृतिर्दया सूनुतमार्जवं च । शौचं क्षमाऽस्तेयमथो अहिंसा यमा दशैते मुनिभिः प्रणीताः ॥ ९॥ सन्तोष आस्तिक्यगुणो मतिश्च तपो व्रतं शङ्करपूजनं च । ह्रीर्योगशास्त्रश्रवणं जपश्च प्रदानमेते नियमा दश स्मृताः ॥ १०॥ यमैश्च नियमैः सम्यगेवं विंशतिसङ्ख्यया । स्थिरश्च नियतो भूत्वा स्वात्मशुद्धिं समाचरेत् ॥ ११॥ सिद्धाम्बुजं स्वस्तिकमुक्तवीर- भद्राहिभुक्केसरिगोमुखानि । सुखासनं चैव समङ्कितानि तथा दशैतानि वरासनानि ॥ १२॥ गृहिणामम्बुजं नित्यं सिद्धं त्वितरवर्त्मानाम् । सुखासनं च सर्वेषामित्येतत्रिविधं वरम् ॥ १३॥ यानि कानि प्रशस्तानि ह्यासनानि वशानि च तेष्वभीष्टासनासीनो विविक्तस्थानमाश्रयेत् ॥ १४॥ तत्र रम्यं मठं कुर्यान्सूक्ष्मद्वारं च निर्व्रणम् । प्राकारवेष्ठितं शुद्धं बहिःशालासमन्वितम् ॥ १५॥ सुगन्धकुसुमाकीर्णं वितानपरिशोभितम् । मृदूपधानशय्याद्यैरासनाद्यैः समाकुलम् ॥ १६॥ सुधूपवासितं नित्यं गोमयेन सुलेपितम् । समित्पुष्पफलोपेतं कन्दमूलफलान्वितम् ॥ १७॥ समग्रभस्मरुद्राक्षकुशाजिनविभूषितम् । शुद्धान्नपानसम्पन्नं सर्वौषधसमाश्रितम् ॥ १८॥ सदा मनोहरास्पन्दं मठे वासमुपेत्य च । सदाशिवं प्रपूजयेद्हृदि स्थिरसमाहितः ॥ १९॥ तद्यथा श‍ृणु हे विद्वान्नादौ केवलकुम्भके । प्राणायामजलेनैव स्नापयेच्चिन्मयं शिवम् ॥ २०॥ प्राणायामस्तथा प्रोक्तः प्राकृतो वैकृतस्तथा । ताभ्यां विना जृम्भतेऽसौ केवलः कुम्भकः स्वयम् ॥ २१॥ निश्वासोच्छ्वासरूपेण रेचपूरस्वभावतः । प्राणानिले वर्तमाने प्राकृतः स उदाहृतः ॥ २२॥ आगमोक्तविधानेन रेचपूरककुम्भकैः । यदि प्राणनिरोधः स्याद्वैकृतः स उदाहृतः ॥ २३॥ प्राकृतं वैकृतं चेति द्वयमेतन्महात्मनः । क्षणात्संस्तम्भयेद्यस्तु स हि केवलकुम्भकः ॥ २४॥ प्राकृतो मन्त्रयोगः स्याद्वैकृतो लय एव हि । हठः केवलकुम्भाख्यो राजयोगोऽमनाः स्मृतः ॥ २५॥ प्रथमस्त्वजपायोगो नादो वायोर्लयस्तथा । मनोनिलस्थिरं पश्चाद्वृत्तिशून्यं चतुर्थकम् ॥ २६॥ प्राणवायुनिरोधेन लभते च चतुष्टयम् । तस्माद्भ्यासशूरस्त्वं प्राणायामपरो भव ॥ २७॥ सकारान्तमिदं बीजं बहिर्याति सबिन्दुकम् । सविसर्गं सकारान्तं तद्बीजं प्रविशत्यधः ॥ २८॥ प्राणानिलश्च सर्वेषां प्रवर्तकनिवर्तकः । एवं जीवोऽजपानामगायत्रीं जपतेऽन्वहम् ॥ २९॥ एकविंशतिसहस्रसङ्ख्यया षट्शताधिकमहर्निशं नरः । श्रीगुरूक्तविधिनाऽरुणोदये संस्मरन्वहति सोऽजपाफलम् ॥ ३०॥ अजपां नाम सङ्कल्प्य नरः पापैः प्रमुच्यते । शिवयोगमवाप्नोति शीघ्रमेव न संशयः ॥ ३१॥ अजपानामगायत्रीमन्त्रं वर्णद्वयं यदा । त्रिवेणीसङ्गमे लीनं स शब्दः प्रणवो भवेत् ॥ ३२॥ सोऽहं कृत्वाऽऽत्ममन्त्रं स्वपदपरतरं व्यक्तवर्णद्वयं त- । द्व्यालुम्पेद्व्यञ्जने द्वे पुनरपि रचयेद्दिव्यमोङ्कारमन्त्रम् ॥ ३३॥ कृत्वाऽनुस्वारयुक्तं सकलमनुपरं ब्रह्मनाडीं नयेद्यः पूर्णानन्दः स कुण्डल्यनुभवविकलः कर्मणे सूतिमेति ॥ ३४॥ इला स्मृतेन्दुरिति सूर्यसुतेति योगात् सा पिङ्गलाऽर्क इति विष्णुपदीति तासाम् । सा मध्यमाऽग्निरिति गीरिति या त्रिवेणी योगस्थलं तदिदमेव हि यत्त्रिकूटम् ॥ ३५॥ तस्मात्त्रिकूटनामापि त्रिवेणीसङ्गमस्थलम् । श‍ृङ्गाटकचतुष्पीठनामान्येकस्थलस्य हि ॥ ३६॥ शब्दद्वारे गते यत्र गन्धद्वारे तथैव च । समायोगैश्चतुष्पीठश‍ृङ्गाटकसुसंज्ञिकम् ॥ ३७॥ उच्छासनिश्वासकृतासुवायुना त्रिकूटदेशे मनसा सहाङ्ग । स्थित्वा सुषुम्नाख्यतदूर्ध्वनाडिका- त्रिकोणमार्गे गमनं कुरुष्व ॥ ३८॥ प्राणानिलस्योद्गमने निरोध निपातिता चोर्ध्वसुसूक्ष्मशक्तिः । प्रत्याहते मध्यगता प्रबोधिता सा योगतो मूलनिकुञ्जनी स्यात् ॥ ३९॥ तस्मात्त्रिविधशक्तीनां पातेन प्रविबोधनात् । आकुञ्चनेन योगीन्द्रा यान्त्यमी परमं पदम् ॥ ४०॥ अत एव महाश्चर्य चन्द्रसूर्याग्निसद्मनि । सन्धानं कुरु तद्भक्त्या प्रणवध्वनिना सह ॥ ४१॥ त्रयो वेदास्त्रयो देवस्त्रयो लोकास्त्रयो गुणाः । ओमित्येकाक्षरे मन्त्रे परे ब्रह्मणि सन्ति वै ॥ ४२॥ इति सर्वे च संसिद्धा विदुः केवलकुम्भकम् । हठे ह्येकमिदं श्रेष्ठं गोपितं परमाद्भुतम् ॥ ४३॥ गमागमौ प्राणवायोर्विन्धानेन हि गच्छतः । यथा तस्य शरीरस्य गमागमविधिस्तथा ॥ ४४॥ सिद्धसम्मतशास्त्रेषु स्थितः केवलकुम्भकः । तथाऽप्यतिरहस्यत्वान्न विजानाति मूढधीः ॥ ४५॥ गुरोर्यस्य प्रसादाच्च सिध्येत्केवलकुम्भकः । यदि किं करणैर्मुद्राबन्धनैर्वा समाधिभिः ॥ ४६॥ निःशब्दे केवले कुम्भे प्राप्ते विष्णोः पदं महत् । तथा खलु तयोरैक्यं जीवात्मपरमात्मनोः ॥ ४७॥ निःशब्दं तत्त्वमित्याहुरनिर्वाच्यं परं पदम् । भूतेन्द्रियादिप्रकृतेस्तत्त्वानां च लयात्मकम् ॥ ४८॥ मूलोड्याणजलन्द्रबन्धनविधामभ्यस्पतो योगिनो वायोरुद्गमने निरङ्कुशविधेस्तव्द्योमसंरोधनात् । भूतानीन्द्रियवर्गतद्गुणमनोहञ्चित्तबुद्ध्यादयः सर्वं लीनमुपैति वृत्तिरहितं सौख्यं तदा किञ्चन ॥ ४९॥ योऽपानसूर्यमथ वायुनिरोधनेन प्राणेन्दुना सह तदूर्ध्वगतं प्रकृत्या । योगैकासिद्धिमनिशं कुरुते समस्तां प्रज्ञावतामपि स एव हि मूलबन्धः ॥ ५०॥ अधश्चोर्ध्वं च नाभेर्यो बन्धनं कुरुते बलात् । उड्डियानमसौ बन्धो रुग्जरामृत्युन्नाशनः ॥ ५१॥ कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । एष जालन्धरो बन्ध ऊर्ध्वामृतनिबन्धकः ॥ ५२॥ अथोर्ध्वमध्यस्थिरबन्धनाभ्या- माकुञ्चनादूर्ध्वमपानवायोः । घ्राणैकरन्ध्रे मरुतां प्रवेशा- च्छीघ्रं भवेत्केवलकुम्भसिद्धिः ॥ ५३॥ अयं केवलकुम्भाख्यो यस्याजस्रं वशो भवेत् । सदा भवति विख्यातः स एव प्राणसंयमी ॥ ५४॥ प्राणायामविधानं यो मासत्रयमपि समाचरेन्नियत । तनुलघुता दीपनता नाडीशुद्धिर्ध्वानश्वतस्य भवेत् ॥ ५५॥ गगनं पवने प्राप्ते तत्क्षणादुन्मनी भवेत् । केवलं कुम्भकं प्राप्तो तावदेव समभ्यसेत् ॥ ५६॥ नत्वा गुरुं ब्रह्मविदां वरेण्यं जित्वाऽन्तरस्थं षडमित्रवर्गम् । स्थित्वा सदैकान्तविशुद्धदेशे ध्यात्वा शिवं भ्रूयुगमध्यपद्मे ॥ ५७॥ अश्वा सदाऽनाहतदिव्यनादं धृत्वा विभिन्नामलबिन्दुरत्नम् । पीत्वा सुधां चन्द्रमसः पतन्तीं छित्त्वाऽथ सङ्कल्पविकल्पजालम् ॥ ५८॥ कृत्वा त्रिकूटे दृढबन्धनं ततो गत्वा त्रिकोणे मनसाऽनिलैः सह । भित्त्वा तथैवोपरि सूक्ष्मकुण्डलीं नीत्वा सखे विष्णुपदं सुखी भव ॥ ५९॥ इत्थं शिवं विष्णुषदस्वरूपं विष्णुं सदा भावितविष्णुमूर्तिम् । विष्णोः पदं केवलकुम्भशुद्धं प्राणाम्बुना स्नानविधौ भजस्व ॥ ६०॥ इति श्रीसदाशिवयोगीश्वरविराचितायां शिवयोगदीपिकायां द्वितीयः पटलः ।

अथ तृतीयः पटलः ।

इति यमादिचतुरङ्गविधानं बाह्यमुक्तमभिराञ्जतवाक्यैः । अथ शिवार्पितमनाः श‍ृणु वक्ष्ये अन्तरङ्गचतुरङ्गविधानम् ॥ १॥ सन्मनोमहित शोणतलेऽस्मिञ्श्रोत्रमुख्यविजितेन्द्रियवर्गात । जातघृष्टविमलामलगन्धैर्लेपनं गुरुसदाशिवलिङ्गे ॥ २॥ सङ्कोचभाचरति कूर्म इहाङ्गकाना- मङ्गे यथा भुवि तथा निखिलेन्द्रियाणि । प्रत्याहरस्व नियतात्मनि संयतात्मा मन्यामहे परमतत्त्वमिदं तदेव ॥ ३॥ आधारमुख्यनलिनौर्विविधै सुवर्णै स्तन्मध्यभासुरतरैः सुमनोभिरङ्ग । नानाविधैः सगुणनिर्गुणभापुष्पैः श्रीलिङ्गमूर्तिमनिशं हृदि पूजयस्व ॥ ४॥ आधारलिङ्गमणिपूरक हृद्विशुद्धि- भ्रूमध्यमस्तकनभोबिलसंज्ञकानि । एतानि तानि यमिनां सुखदायकानि ध्यानस्थलानि सुविचित्रतराणि नूनम् ॥ ५॥ अन्तश्चेतोनियमित बहिश्चक्षुरिष्ठासनं च कायावक्रत्वमनिशमहो ध्यानमुद्रेयमस्याम् । स्वात्मानन्दं समरसगतं शान्तमद्वैतरूपं शैवध्यानं कुरु हृदि सखे ह्यद्यमुक्तस्त्वमेव ॥ ६॥ ध्यानस्थलेषु सर्वेषु नव चक्रणि योगिभिः । श्रेष्ठानि तानि कथ्यन्ते वक्ष्यामि श‍ृणु तेऽधुना ॥ ७॥ मूलाधारे त्रिधा वृत्तं ब्रह्मचक्रं भगोपमम् । तत्कन्देऽग्निनिभां ध्यायेदथ शक्तिमभीष्टदाम् ॥ ८॥ स्वाधिष्ठानं ततश्चक्रं तत्र चातुर्दलाम्बुजम् । तदेवोड्यायनं ध्यायेत्पश्चिमाभिमुख शिवम् ॥ ९॥ पञ्चावर्ते नाभिचक्रं सर्पाकारं तडिन्निभम् । तत्र कुण्डलिनीं मध्ये शक्तिं सिद्धिप्रदां स्मरेत् ॥ १०॥ अधोमुखाष्टपत्राब्जयुतं हृच्चक्रमिष्टदम् । तन्मध्ये कर्णिकां ज्योतिर्लिंङ्गाकारमिमं स्मरेत् ॥ ११॥ पञ्चमं कण्ठचक्रं च तत्राङ्गुलिचतुष्टये । इडापिङ्गलयोर्मध्ये सुषुम्नां सुस्थितां स्मरेत् ॥ १२॥ षष्ठं च घण्टिकालिङ्गमूलं तद्राजदन्तकम् । ध्यायेत्तदूर्ध्वं तद्वारं तत्र शून्यं सुसिद्धये ॥ १३॥ भूचक्रं सप्तमं त्वेकं नालं कन्दं सुवाक्प्रदम् । ध्यायेद्दीपशिखाकारं तन्मध्ये ज्ञानलाञ्छनम् ॥ १४॥ ब्रह्मरन्ध्रेऽष्टमं चक्रं निर्वाणाख्यं सुसूक्ष्मकम् । तत्र जालन्धरं धूमशिखाभं मोक्षदं स्मरेत् ॥ १५॥ आकाशचक्रं नवमं प्रशस्तं त्रिकूटकं पूर्णगिरीशपीठम् । तत्रोर्ध्वशक्तिं शुभदां सुशून्यां ध्यायेद्द्वयाष्टरसरोजमध्ये ॥ १६॥ अथ ते षोडशाधारान्कथयामि विशेषतः । तेजोध्यानं पदाङ्गुष्ठे कुर्याद्दृष्टिःस्थिरा भवेत् ॥ १७॥ पादस्य पार्ष्णिकामूलं द्वितीयाधारसंज्ञिकम् । सम्पीड्य स्थापयेदग्निदीपनं भवति क्षणात् ॥ १८॥ आकुञ्चयेत्तथाऽऽधारं सदा सङ्कोचनेन तु । अपानमरुतस्थैर्य जायते तद्वितीयकम् ॥ १९॥ मेढ्रागारे दण्डसङ्कोचनेन ब्रह्मग्रन्थींस्त्रीन्समुत्पाट्य पश्चात् । चेतोवायूपस्थनाड्यां प्रवेशा- द्बिन्दुस्तम्भः सम्भवत्येव सिद्धम् ॥ २०॥ पञ्चमाधारमोड्यानं ध्यानं कृत्वा मुहुर्मुहुः । मलमूत्रकृमीणां च मारणं भवति ध्रुवम् ॥ २१॥ नाभ्याधारं ततः षष्ठे प्रणवं यो वदेद्बुधः । समाधिनैकाचत्तेन तस्य नादे लयो भवेत् ॥ २२॥ सप्तमं तु हृदाधारं तत्र प्राणान्निरोधयेत् । तदा तन्मध्यकमलं विकासं भजति क्षणात् ॥ २३॥ कण्ठाधारं कण्ठमूलं पडियेच्चिबुकेन तु । ईडापिङ्गलयोर्वायुप्रवाहः सुस्थिरो भवेत् ॥ २४॥ नवमं घण्टिकाधारं जिह्वाग्रं तत्र दापयेत् । सुधासारं स्रवत्येव सदा सन्तृप्तिकारणम् ॥ २५॥ या लम्बिका चालनदोहनाभ्यां दीर्घकृता तां विपरीतमार्गात । यस्तालुमूलान्तरगर्भदेशे प्रवेशयेत्तोन्मनितां प्रयाति ॥ २६॥ जिह्वादौ रसनाधारं कुर्याद्यो मथनं यदि । सिध्येत्तस्यामृतास्वादः कविता च स्फुटा भवेत् ॥ २७॥ द्वादशं दशनाधारमूर्ध्वं तद्राजदन्तकम् । षण्मासाद्दृश्यते ज्योतिरन्तजिह्वाग्रघट्टनात् ॥ २८॥ त्रयोदशं प्राणमूलं तत्र दृष्टिः स्थिरीकृता । यदि चेन्मनसा नित्यं वायुस्तत्र स्थिरो भवेत् ॥ २९॥ चतुर्दशं ललाटाख्यमाधारं तत्र योगवित् । मनसा वायुमारोप्य सर्वसिद्धिमवाप्नुयात् ॥ ३०॥ भ्रुवाधारं पञ्चदशं तदूर्ध्वं चक्षुषा बुधः । पश्येत्सङ्किरणाकारं शीघ्रमेव हि पश्यति ॥ ३१॥ नेत्राधारं षोडशं तु तदूर्ध्वं चालयेद्बुधः । ज्योतिष्पुञ्जमपाङ्गे तत्पश्यति क्षिप्रमेव हि ॥ ३२॥ बन्धत्रयेणाऽऽसनबन्धनेन मन्त्रेण नादश्रवणेन योगी । भवेत्तदा केवलकुम्भकेन ध्यानेन चित्ताष्टविधावधानी ॥ ३३॥ देहपात्रे ज्वलज्ज्ञानवह्नौ भूतगुणाधिकम् । क्षिप्त्वा दशाङ्गवल्लिङ्गं धूपयेद्धारणाद्बुधः ॥ ३४॥ ध्यानैकगोचरमतिस्थिरता भवेद्या सा धारणेति शिवयोगविदो वदन्ति । शैवक्रमेण रचितेह पुनः प्रकाराद् भूम्यादिभूतवरणेन पृथक्पृथक्च ॥ ३५॥ धारिणी वारुणी चैव आग्नेया मारुती तथा । नभोमयीति कथ्यन्ते सूरिभिः पञ्च धारणाः ॥ ३६॥ अत एव तथा प्रोक्ता धारणा योगवित्तमैः । सर्वसिद्धिप्रदास्ताश्च सदाभ्यासरतात्मनाम् ॥ ३७॥ पादादिजान्वन्तमहीतलेऽस्मिन्- वायुं लकारेण समाधिरोप्य । स्मरंश्चतुर्बाहुधरं चतुर्मुखं सन्धारयेद्भूमिजयं समाप्नुयात् ॥ ३८॥ वकारेणोपेतं सलिलनिलये जानुनाभ्यन्तदेशे स्थिरं कृत्वा वायुं मधुरिपुममुं संस्मरेत्पतिचेलम् । प्रसन्नास्यं शुद्धस्फटिकमणिनिभं शङ्खचक्राङ्कबाहुं जलादुत्पन्नोद्यद्वयजयमिदं त्वं भजे वारुणीयम् ॥ ३९॥ नाभेः कण्ठान्तदेशे वरशिखिनिलये वायुमारोप्य रेफा- त्र्यक्षं रुद्रस्वरूपं तरुणरविनिभं भस्मनोद्धूलिताङ्गम् । शान्तं शीघ्रप्रसन्नं वरदमभयदं संस्मरन्भावयेत्तं यस्तस्याभ्यासिनोऽग्नेर्भयहरणमिहा सम्भवेद्धारणायाः ॥ ४०॥ गलादिम्रुबोर्मध्यदेशे समीरस्थले मान्तवर्णेन देदीप्यमानम् । प्रकाशस्वरूपं स्मरेदीश्वरं यः सखे वायुवत्क्रीडतीशप्रभावात् ॥ ४१॥ अभ्रूमध्यादिकान्ते पवनमतिदृढं व्योमदेशे प्रकुर्व- न्सोमं सोमार्धमौलिं दशकरकमलं पञ्चवक्त्रं त्रिनेत्रम् । श्रीकण्ठं सायुधं तं समधिकवरदं सर्वतत्त्वादितत्त्वं बिन्दुं व्योमस्वरूपं शिवमभययुतं चिन्तयेद्यः स मुक्तः ॥ ४२॥ इत्येवं धारणाः पञ्च घटिकापञ्चकान्विताः । एकैकां धारयेत्ताभिर्देहासिद्धिं भजेन्नरः ॥ ४३॥ एतासु भूम्यादिकधारणासु नृणां सदा प्राणनिरोधनेन । ये दोषजाः सर्वपुराणरोगा नश्यन्ति शीघ्रं न हि संशयोऽत्र ॥ ४४॥ ज्ञानेन कर्मणा पञ्च धारणा योगिभिर्धृताः । समभ्यासरता यत्र तरन्ति भवसागरम् ॥ ४५॥ इयं धारणा । अथ समाधिः- सुज्ञानदीपं सुधियाऽवलम्ब्य हृदालये त्वं मनसाऽवलोक्य । स्वात्मोपहारं परमात्मलिङ्ग समाधिनाऽस्मिन्विनिवेदयस्व ॥ ४६॥ जलसैन्धवयोर्यथैक्ययोगो भवतीहापि तथैव सामरस्यम् । मनसश्च सदाऽऽत्मनश्च योगात्स समाधिरिति कथ्यते मुनीन्द्रैः ॥ ४७॥ यदा भवति चैकत्वं जीवात्मपरमात्मनोः । तदा समाध्यवस्थायां गमिष्यन्ति यमीश्वराः ॥ ४८॥ श्रोत्रादीने न चेन्द्रियाणि विषयाः शब्दादयोऽहं मनो वृत्तिर्नैव सुखासुखानि च तथा मानावमानावपि । शीतोष्णामितपुण्यपापसुमहासङ्कल्पजालान्यहो नैवानेव समाधिना सह मनालीने परब्रह्मणि ॥ ४९॥ युक्ताहारो मुनीन्द्रो निरशनपर एवाथवा युक्तनिद्रो निद्रात्यक्तो गुहायां वसति विचरति क्ष्मातले निस्पृहात्मा । नानाकर्मक्रियासु प्रथितकुशलयुक्तोऽपि वा निष्क्रियो वा नानाचेष्टास्वजस्रं विहरति च समाधौ समासक्तचेताः ॥ ५०॥ एवमष्टाङ्गथोगेन हठेनानेन नैष्ठिकैः । अनालस्यकृताभ्यासात्सिद्धयः श‍ृणु तस्य ताः ॥ ५१॥ प्रथमे हतरुग्वर्षे सर्वलोकप्रियो भव । वत्सरे च द्वितीयेऽथ कवितां कुरुते सुवाक् । भुजगाद्यैस्तथा दुष्टैस्तृतीये न प्रवाध्यते ॥ ५२॥ चतुर्थकेऽनातुरता विपासा निद्रादिशीतातपवर्जितः स्यात् । दूरश्रवाः पञ्चमवत्सरे वाक्- सिद्धिं परेषां तनुषु प्रवेशः ॥ ५३॥ षष्ठेन वज्रैरपि नैव भिद्यते ततोऽतिवेगी च स दूरदर्शनः । त्यजेद्भुवं सप्तमवत्सरेऽथ विभूतयस्तस्य भवेयुरष्टमे ॥ ५४॥ गगनचरो दिग्विचरो नवमेऽब्दे यस्तु वज्रकायः स्यात् । स मनोवेगी दशमे यत्रेच्छा तत्र गच्छति प्रमनाः ॥ ५५॥ एकादशके वर्षे सर्वज्ञः सिद्धिमान्भवेद्योगी । द्वादशके शिवतुल्यो कर्ता हर्ता स्वयं भवति ॥ ५६॥ द्वादशवर्षैरेवं सद्गुरुनाथस्य पादयोर्भक्त्या । निर्विघ्नेन धृतात्मा सिद्धो भवतीति संसिद्धम् ॥ ५७॥ अत एव महाश्वर्यं योगमष्टाङ्गमादरात् । शिवपूजाङ्गमेतद्धि त्वमेवाभ्यसनं कुरु ॥ ५८॥ निरन्तरकृताभ्यासाज्जरामरजवर्जितः । स जीवेदिच्छया लोके ततो मुक्तिमवाप्नुयात् ॥ ५९॥ यमेन नियमेनैव मन्ये भक्तिरिव स्वयम् । स्थिरासनसमायुक्तो महेश्वरपरान्वितः ॥ ६०॥ चराचरलयस्थानं लिङ्गमाकाशसंज्ञिकम् । प्राणेत व्योम्नि संलीने प्राणलिङ्गी भवेन्नरः ॥ ६१॥ प्रत्याहारेण संयुक्तः प्रसीदति न संशयः । ध्यानधारणसंयुक्तो चरणस्थलवान्सुधीः ॥ ६२॥ लिङ्गैक्याद्वैतभावात्मा निश्चलैक्यसमाधिना । एवमष्टाङ्गयोगेन वीरशैवो भवेन्नरः ॥ ६३॥ तस्मात्सर्वप्रयत्नेन कर्मणा ज्ञानतोऽपि वा । त्वमप्यष्टाङ्गयोगेन शिवयोगी भवानघ ॥ ६४॥ इति श्रीसदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां तृतीयः पटलः ।

अथ चतुर्थः पटलः ।

यत्सर्वगं श्रुतिशिरःपरमैकमाद्यं ज्योतिर्मयं दृढविरक्तजनाभिगम्यम् । गोसंस्थितं गुरुसदाशिव योगिनाथं लिङ्गस्वरूपमहमन्वहमाश्रयामि ॥ १॥ राजयोगः परिग्राह्यो विद्वद्भिस्तेन हेतुना । यस्य साधनमष्टाङ्गहठयोग इहोच्यते ॥ २॥ पूर्वोत्काष्टविधाङ्गगानि हठे तानि स्थितानि च । एकैकश्लोकरूपेण कृतानि च मया श‍ृणु ॥ ३॥ आहारनिद्रेन्द्रियदेहसर्व- व्यापारशीतातपसंज्ञितानाम् । जयश्च शान्तिश्च भवेद्यमाङ्गः- शनैः शनैः साधयितुं स योग्यः ॥ ४॥ भक्तिर्गुरौ परमतत्त्वपदेऽनुरक्ति- र्निःसङ्गता स्वयमुपागतलाभतुष्टिः । एकान्तवासपरता च मनोनिवृत्ति- र्वैराग्यभाव इति ये नियमास्त एव ॥ ५॥ स्वस्वरूपे सर्वकालमासनत्वं सुखासनम् । सर्ववस्तुन्युदासीनभावश्चाऽऽननमीरितम् ॥ ६॥ विदुर्बुधा रेचकपूरकुम्भ- सङ्घट्टनश्वासतया प्रयत्नात् । प्राणस्थिरत्वं जगतां च मिथ्या चित्तं स्थिरं प्राणनिरोधभावः ॥ ७॥ चित्तस्यान्तर्मुखेन प्रतिहतबहुचैतन्यकल्लोलजाल स्योत्पन्नस्यास्य नानाविपुलमतिविकारस्य संसक्तिरेव । तत्तन्नानाविकारग्रसनमिति तथा कथ्यते योगविद्भिः प्रत्याहारः स एवाविचलितसुमनास्तं कदाऽहं भजामि ॥ ८॥ सोऽहम्भावात्प्रकटितपदमद्वैतमुख्यस्वभावं यद्यल्लोके स्फुरति खलु तदात्मस्वरूपस्वभावम् । सम्यग्दृष्टिर्गुरुकरुणया सर्वभूतेषु याति स्वात्मारामः स भवति सखे ध्यानमार्गैकनिष्ठः ॥ ९॥ स्फुरति परमतत्त्वं तस्य बाह्यान्तरे यत् सततममलमत्या धारणं निश्चलेन । पुनरपि च वदामस्ते प्रकाशोऽयमास्ते चलनरहितचित्तं केवलं धारणा मा ॥ १०॥ निजानुभवशीलता निखिलतत्त्वसाम्यश्रुतेः स्मृतेरपि चलस्थितिस्थिरतया निदिध्यासता । सदैकपरिभावनासहजता ह्यनायासनात् । समाधिरिति कीर्तिता सततनिर्विकल्पात्मता ॥ ११॥ बाह्ये चाभ्यन्तरे ब्रह्म सर्वजन्तुषु भासते । तथाऽपि गुरुमज्ञात्वा ते न पश्यन्ति तत्पदम् ॥ १२॥ अथ श‍ृणु महाश्वर्यं राजयोगाभिधानकम् । इमं सद्गुरुणा याति सज्जनो नान्यकर्मभिः ॥ १३॥ दुष्कराभ्यासयोगेन महायासेन किं फलम् । क्षणेन लभ्यते ब्रह्म सद्गुरोरवलोकनात् ॥ १४॥ खण्डज्ञानवेतां च षट्समयसम्मोहान्धकारात्मनां नानावेदपुराणशास्त्रकवितावाग्वैखरीशालिनाम् । मूढानां चतुराश्रमैकनियमाद्गुर्वात्मकानां कथं योगज्ञानमिदं भवेद्गुरुमुखाभावेऽपरोक्षात्मकम् ॥ १५॥ क्षेत्रार्थरम्यगृहपुत्रकलत्रमित्रै- र्वादैर्महारसरसायनधातुवादः । तैः काममन्त्रलययोगहठादिभेदै- र्बन्द्धात्मनां कथमिहास्ति गुरुप्रसादः ॥ १६॥ आदौ वर्णाश्रमाचारगुरौ ब्रह्मज्ञताऽस्ति चेत् । भजेत्तमेव यत्नेन नोचेदन्यं गुरुं भजेत् ॥ १७॥ आत्मानमद्वन्द्वमनन्तमाद्यं निरञ्जनं निश्चलनित्यदीप्तम् । सच्चिन्मयानन्दपरामृतं यो वेत्ति स्वभावेन गुरुः स एव ॥ १८॥ ज्ञानवैराग्यलाभेन तृणीकृत्य जगत्त्रयम् । आदौ सद्गुरुमाश्रित्य तत्त्वज्ञानं समभ्यसेत् ॥ १९॥ ज्ञातृत्वमन्तरिक्षं च समानो वायुरेव च । श्रोत्रमग्निर्ध्वनिर्वारिवाग्भूः खे तत्त्वपञ्चकम् ॥ २०॥ मनश्चैव वियद्व्यानो वायुश्चर्म धनञ्जयः । स्पर्शाऽम्भश्च क्षमा पाणिर्मरुतस्तत्त्वपञ्चकम् ॥ २१॥ नमो बुद्धिरुदानं च मरुदूर्वाग्निरेव च । पायू रूपं धरा पादो वह्नेर्यत्तत्त्वपञ्चकम् ॥ २२॥ चित्तं विष्णुपदं वायुरपानो रसनानलः । रसो जलमुपस्थं भूरपां तत्त्वानि पञ्चकम् ॥ २३॥ अहङ्कारस्तथा प्राणो घ्राणो गन्धो गुदं च हि । भूमितत्त्वानि कीर्त्यन्ते पञ्चधा तत्त्ववेदिभिः ॥ २४॥ पञ्चविंशतित्त्वानि पञ्चभूतस्थितानि च । तानि यो वेत्ति तत्त्वज्ञः स शिवः स च मुक्तिभाक् ॥ २५॥ आध्यात्मिकाधिभूताघिदेवतानि यथाक्रमम् । दशेन्द्रियेषु विभजञ्जीवान्तःकरणेषु च ॥ २६॥ नाहं भूतगुणेन्द्रियाणि च मनोऽहञ्चित्तबुद्धिर्वपुः प्राणाश्वाऽऽश्रमधर्मकर्मनिरतो नैव प्रपञ्चोऽखिलम् । नित्यं निश्वलमेकमच्युतमजं शान्तं शिवं निर्गुणं शुद्धं बुद्धपदं तु यत्तदहमस्मीति स्मरञ्जीवति ॥ २७॥ देहत्रये प्रथितषोडशधाविकारान् लिङ्गानि सप्तदशधा नवधा पदार्थान् । आत्मानमष्टविधया प्रकृतेः स्वमावान् ज्ञात्वा तदन्य इति जीवति यो महात्मा ॥ २८॥ सत्यं ज्ञानमनन्तं यद्ब्रह्मेति वदति श्रुतिः । मुक्तानन्दस्वरूपं च ननु तत्त्वमिति स्थितः ॥ २९॥ नैतदहं नैतदहं चेति च यदन्यद्विभावयाऽऽत्मानम् । सोऽहमिति सोऽहमिति ननु भावय सर्वं त्वमात्मानम् ॥ ३०॥ हृदि ज्ञानादेव मोक्ष इत्येतद्वाक्यमादरात् । गृहीत्वा ज्ञानयोगेऽस्मिन्समाहितमना भव ॥ ३१॥ अतः परं तारकं गृह्यं दृष्टप्रत्ययसंयुतम् । ममानुभवसंसिद्धं योगं प्राणसखे श‍ृणु ॥ ३२॥ मन्त्रेण लययोगेन हठयोगेन सर्वदा । यावद्ब्रह्म न जानन्ति तावत्क्लिश्यन्ति पण्डिताः ॥ ३३॥ नेत्रे निमीलिते नित्यं किञ्चिदुन्मीलिते तदा । यो मनश्चक्षुषा ब्रह्म पश्यतीति स योगिराट् ॥ ३४॥ शशिभास्करयोर्मध्ये तारयो स्थिरतेजसः । बिन्दुद्वयं च संयोज्य ब्रह्मतारकमभ्यसेत् ॥ ३५॥ बाह्यान्तर्मध्यलक्ष्येषु ब्रह्मदर्शनतत्परः । दृष्टादृष्टस्वरूपाणि ननु तानि विलोकय ॥ ३६॥ मूलकन्दादण्डलग्नाद्ब्रह्मनाडी शशिप्रभा । तस्य मध्ये ताडत्कोटिनिभा तामूर्ध्वगामिनीम् ॥ ३७॥ मनसा लक्षयेन्मूर्ति सदृशीं बिसतन्तुना । आब्रह्मरन्ध्रपर्यन्तगतां सिद्धिप्रदां स्मरेत् ॥ ३८॥ ललाटोर्ध्वे तथा लक्ष्ये योगी गोल्लाटमण्डपे । विस्फुरत्तारकाकारं मनसा लक्षयेत्सदा ॥ ३९॥ अथवा कर्णयोर्द्वारे तर्जनीभ्यां निरोधयेत् । श्रीहट्टमस्तके नादं घुङ्घुङ्कारं श‍ृणोति च ॥ ४०॥ चक्षुर्मध्ये तथा नीलज्योतीरूपं विलोकयेत् । अन्तर्लक्ष्यामति ज्ञेयं बहिर्लक्ष्यमथ श‍ृणु ॥ ४१॥ नासाग्रदेशाच्चतुरः षडष्ट तथा दश द्वादश सङ्ख्ययाऽङ्गुलिः । बहिस्थनीलं च सुधूम्ररक्त- तरङ्गपीताद्भुततत्त्वपञ्चकम् ॥ ४२॥ अथवा सन्मुखाकाशं स्थिरदृष्ट्या विलोकयेत् । ज्योतिर्मयूखा दृश्यन्ते योगिभिर्धीरमानसैः ॥ ४३॥ दृष्ट्यग्रे वाऽप्यपाङ्गे वा तप्तकाञ्चनसन्निभाम् । भूमिं संलक्षयेद्दृष्टिः स्थिरा भवति योगिनः ॥ ४४॥ अथवा शिरसश्वोर्ध्वं द्वादशाङ्गुलसम्मिते । ज्योतिष्पुञ्जं निराकारं लक्षयेन्मुक्तिदं भवेत् ॥ ४५॥ यत्र यत्रार्थवान्योगी तत्र तत्र विलक्षयेत् । आकाशमेव यत्तस्य चित्तं भवति तादृशम् ॥ ४६॥ इत्येवं विविधाकारं बहिर्लक्ष्यमुदीरितम् । श‍ृणुष्व मध्यलक्ष्यं च कथितं पूर्वसूरिभिः ॥ ४७॥ श्वेतादिवर्णनवखण्डसुचन्द्रसूर्य- सौदामिनीवह्निशिखेन बिम्बात् । ज्वलन्नमो वा स्थलहीनमेकं विलक्षयेत्तत्खलु मध्यलक्ष्यम् ॥ ४८॥ निराकारं पश्येद्गुणरहितमाकाशमथवा तमोरूपं गाढं स्फुरदुरुपराकाशमथवा । महाकाशं कालानलनिभमथास्यन्तरुचिरं परं तत्त्वाकाशं रविशतनिभं सूर्यखमिति ॥ ४९॥ व्योमपञ्चकमेतद्धि तद्बाह्याभ्यन्तरस्थितम् । यः पश्यति नरो लक्ष्ये स व्योमसदृशो भवेत् ॥ ५०॥ तारणाच्च गुरुशिष्ययोर्द्वयोस्तारकोऽयामिति योगसंज्ञिकः । तारकं भवमहाब्धितारकं तत्त्वमेव परिशीलनं कुरु ॥ ५१॥ फलमेकं द्विधाऽऽचार्या यथार्थं साङ्ख्यतारयोः । उपाधिरहितः साङ्ख्यो योगः सोपाधिकः स्वयम् ॥ ५२॥ इति श्री सदाशिवयोगीश्वरविरचितायां शिवयोगदीपिकायां चतुर्थः पटलः ।

अथ पञ्चमः पटलः ।

पुनश्चातिरहस्यं यज्ज्योतिषां निलयं महत । दिव्यलिङ्गस्थलं दृष्टमन्तर्लक्ष्यात्मकं श‍ृणु ॥ १॥ नान्तस्थलं बहिर्व्याप्तमपरोक्षस्वरूपकम् । आकाशाभ्यन्तराकाशमन्तर्लक्ष्यं तदेव हि ॥ २॥ लक्ष्यलीनमनसाऽनिलेन यो वर्तते चलिततारको भवेत् । खेचरीयमथ सैव शाम्भवी मुद्रयाऽस्तु कृतया जगद्गुरुः ॥ ३॥ लोकेऽन्तःखेचरी मुद्रा अज्ञात्वा बाह्यखेचरीम् । अवलम्ब्य रता कोचज्जिह्वाछेदनकर्मणा ॥ ४॥ तालुमूलद्वादशान्तमध्यं प्रत्यक्कलात्मकम् । यत्तस्मिञ्ज्योतिषि मनो दत्त्वा निजहृदि क्रमात् ॥ ५॥ दृष्टिस्तु पूर्णिमा ज्ञेयं दृश्यमादौ तमोमयम् । तन्मध्ये मनसा पश्येज्ज्योतिर्लिंङ्ग सुनिश्चलम् ॥ ६॥ नासाग्रदत्तनिमिषोन्मिषबाह्यदृष्ट्या लक्ष्ये सदाशिवविमर्शकगूढदृष्ट्या । ज्योतिःस्वरूपमचलं परिणामहीनं पश्यन्ति ये त इह संयमिनः कृतार्थाः ॥ ७॥ पश्चिमाभिमुखं लिङ्गमभिन्नवलयाकृतिम् । त्वं पूर्वाभिमुखो भूत्वा पश्य पश्य महाद्भुतम् ॥ ८॥ यदा तज्ज्योतिरोङ्कारं ब्रह्माच्युतशिवात्मकम् । पश्यन्ति सूरयः शान्तं तद्विष्णोः परमं पदम् ॥ ९॥ पूर्णेन्दुबिम्ब इव सन्मणिदीपिकेव मध्याह्नसूर्य इव वह्निशिखेव नित्यम् । विद्युत्प्रभेव शिवलिङ्गमहो विचित्रं लक्ष्यान्तरे ज्वलति पश्यति चक्षुरग्रे ॥ १०॥ आत्मलिङ्गमिदं पश्य किमन्यैः कर्मविभ्रमैः । अहिंसाद्यष्टपुष्पैस्त मानसैरङ्ग पूजय ॥ ११॥ पुष्पाण्यहिंसेन्द्रियनिग्रहश्च दयाक्षमाज्ञानसमाह्वयानि । ध्यानं तपः सत्यममीभिरेवं प्रपूजयेदात्मानि सिद्धलिङ्गम् ॥ १२॥ यो निमीलदनिमीलदम्बको रेचपूरपरिवर्जितानिलः । सर्वसंशयविभिन्नमानसो राजयोगपदभाक्स एव हि ॥ १३॥ श‍ृङ्गाटके यस्तु मनो नियम्य त्रिकोणगामी शशिभास्कराभ्याम् । बाह्यान्तरङ्गप्रवणैकगोभि- रष्टावधानी हठराजयोगी ॥ १४॥ दृग्दृश्यमानसम्बन्धादुन्मन्यन्तं विचिन्तयेत् । शिवयोगमिदं गुह्यं जीवन्मुक्तिकरं मुने ॥ १५॥ रोचिस्तडिद्धूम्रकबिन्दुनादं कलाभखद्योतरवीन्दुदीप्ताः । तत्प्रत्ययानेकसुवर्णवर्णा किञ्जल्कदण्डा नवरन्नमुख्याः ॥ १६॥ वक्त्रेणाऽऽपूर्य वायुं हुतवहनिलयेऽपानमाकृष्य धृत्वा स्वाङ्गुष्ठाद्यङ्गुलीभिः स्वकरतलयोः षड्भिरेवं निरुध्य । श्रोत्रे नेत्रे च नासापुटयुगलमथानेन मार्गेण धीराः पश्यन्ति प्रत्ययांस्तान्प्रणवबहुविधध्यानसंलीनचित्ताः ॥ १७॥ दृष्टिर्वा रविसोमपावकयुतां चन्द्रार्कयोरागमे दीप्तानिश्चलगेहदीपनिकटे वानिर्मितीनामपि । दृश्यन्ते स्फुरिता स्फुटा नयनयोरग्रे च तत्प्रत्यया- स्तेषां तत्परचेतसां विगलिता तद्व्यावृतीनां मुने ॥ १८॥ प्रमाणप्रत्ययातीतं शान्तं तेजोमयात्मकम् । तदतीतं परब्रह्म चेति विद्वद्भिरीरितम् ॥ १९॥ भावयोगमसङ्कल्पविकल्पास्पदमद्भुतम् । सम्प्राप्तो यस्तस्य भवेदवस्था चोन्मनी हि सा ॥ २०॥ आधारमध्यहृद्व्याप्तं नादबिन्दुकलात्मकम् । तदतीतं स्वरूपं यत्तदेव परमं पदम् ॥ २१॥ यः समेति मनसा निराश्रयं निरवलम्बपदतत्त्वमव्ययम् । भावनाविरहितं निरामयं परशिवो हृदि स तन्मयो भवेत् ॥ २२॥ अणुमात्रं यदि भवेदस्तित्वं विदुषां भुवि । तदेव बन्धहेतुः स्याद्भावाभावावुभौ त्यजेत् ॥ २३॥ ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये भवाभवौ । ऊहापोहौ यो दृग्दृश्ये सर्व त्यक्त्वा जीवन्मुक्तः ॥ २४॥ सर्वास्ववस्थास्वकृतप्रयत्नो निश्चिन्तभावो मृतवत्स तिष्ठन् । कल्लोलहीनाम्बुधिवन्निवात- प्रदीपवत्तत्त्वमयः सुखी स्यात् ॥ २५॥ श‍ृणु चिच्छिवपूजायाः प्रकारं कथयाम्यहम् । रहस्यं सर्वशास्त्रार्थसारं सद्यो विमुक्तिदम् ॥ २६॥ निश्चिन्तैव शिवध्यानं निष्क्रिया तस्य पूजनम् । प्रदक्षिणं निश्चलत्वं सोऽहम्भावो नमस्क्रिया ॥ २७॥ मौनं सङ्कीर्तनं तस्य जपस्तु परिपूर्णता । कृत्याकृत्यज्ञता शीलं निर्वाणं समदर्शनम् ॥ २८॥ सर्वेन्द्रियगुणरहिता रूपातीता निरञ्जना शान्ता । भावाभावविदूरा सहजावस्थेति सा कथिता ॥ २९॥ जाग्रत्स्वमसुषुप्तिश्च तुरीयं च तथैव च । तुर्यातीतं च सहजं न किञ्चिच्चिन्तयेत्ततः ॥ ३०॥ विहाय कर्माण्यघसंयुतानि गृह्णाति कर्माणि शुभान्वितानि । स्वर्गोन्मुखो यः पुरुषः प्रवृत्तो- नैवाधिकारी स तु जागरेऽपि ॥ ३१॥ अलमलमखिलसुखैकपदश्चेति कदाचिभिवृत्तमनो यः । स तु जाग्रदवस्थायां तिष्ठन्मोक्षोन्मुखो भवति ॥ ३२॥ संसारोत्तरणं ममास्ति कथमित्याचार्यसंसेवनं विद्वत्सङ्गमकामविस्मृतिसदाचारैः समं मौनताम् । वैराग्यश्रुतिशास्त्रनिश्चयधिया कामाद्यरिध्वंसनं योगाभ्यासमुपैति दम्भरहितं जाग्रतयत्स्वभावान्वितः ॥ ३३॥ मृतो जाग्रदवस्थासु यदि चेदन्यजन्मानि । स्वनावस्थां गतो याति पूर्वाभ्यासवशाद्भुवि ॥ ३४॥ स्वप्ने यदखिलं लोकं पश्यञ्शरदभ्ररूप इव चित्ते । तिष्ठन्सत्तामात्रः स्वप्नावस्थान्वितश्चरति ॥ ३५॥ गते द्वैतभावे स्थिते शान्तिशेषे प्रकाशस्वभावे चिदानन्दमानौ । बहिर्वृत्तियुक्तोऽप्यहो हृत्प्रवृत्तः सुषुप्तिस्थितश्चित्रवद्भाति योगी ॥ ३६॥ अनमृतोऽप्यमृतक्षयमानसो विदितशान्ततनुर्निरहङ्कृतिः । गलितगन्धगुणः स तुर्यभाग्वहति जीवति मुक्तिमभावनः ॥ ३७॥ सम्पूर्णकुम्भ इव वारिनिधानमध्ये संशून्यकुम्भ इव विष्णुपदान्तराले । अन्तर्बहिः प्रथितपूर्णशून्यभावः सचित्रदीप इव भाति तुरीययुक्तः ॥ ३८॥ कैश्चिद्ब्रह्मेति कैश्चिद्धारिरिति शिव इत्यादि कैश्चित्स नाना- भेदैः प्रोक्तं सशून्यप्रकृतिपुरुषकालार्थरूपति कैश्चित् । कैश्विल्लोकैविकल्पात्मकबहुवचनैर्देहयुक्तोऽपि नित्यं मुक्तः स्याद्यस्तुरीयातीतसमाख्यामवस्थां समेत्य ॥ ३९॥ तस्मात्सर्वप्रयत्नेन क्रमाद्भ्यासयोगतः । तुर्यातीतां तामवस्थां समासाद्य सुखी भव ॥ ४०॥ सर्वावस्थां गतो वाऽपि सर्वावस्थां न संस्मर । त्यज सङ्गमशेषं च मनोऽन्तर्बहिरन्वितम् ॥ ४१॥ निवर्तमान्यकर्माणि शिवयोगं प्रवर्तय । सहजायमनस्कान्तां मुद्रां सच्चिन्मयीं भज ॥ ४२॥ आत्मानं गगनं कृत्वा बिन्दुं कृत्वा तथैव च । द्वयं समरसं कुर्यादमनस्ककला हि सा ॥ ४३॥ स्वप्नजागरणातीतं मृतजीवनवर्जितम् । स्वामिञ्शिवामनस्काख्यं गमिष्यामः कदा वयम् ॥ ४४॥ सचराचरजगदखिलं यत्किञ्चिदिदं भवेन्मनोदृश्यम् । मनसोऽप्युन्मानितां याति स तत्त्वं कथं न भवेत् ॥ ४५॥ अथवा यत्र मनः संयाति हि तत्रैव तन्मनः स्थाप्य । तत्कारणाल्लयः स्याद्वृद्धिः स्याद्वार्यमाणं तु ॥ ४६॥ यथेच्छया मनो गच्छेत्स्वयमेव निवर्तते । निरङ्कुशेन विधिना करटीव मदोत्कटः ॥ ४७॥ नाद एव लयश्रेष्ठो मुद्राणां खेचरी वरा । योगश्रेष्ठो निरालम्बो ह्यवस्थासु मनोन्मनी ॥ ४८॥ राजयोगस्य मुद्रां तामेत्य योगी मनोन्मनीम् । विचरत्याखिलांल्लोकान्बालोन्मत्तपिशाचवत् ॥ ४९॥ जीवन्मुक्तिप्रकारस्य योग एव न चान्यथा । स एव सिद्धिदः सम्यक्सर्वदर्शनसम्मतः ॥ ५०॥ मन्त्रलयावारम्भकघटसंज्ञौ परिचयो हठः स्यातत् । समनिष्पत्तिस्मृत एव महान्राजयोगस्तु ॥ ५१॥ तस्मात्संसेव्य एवंविध इह यमिना श्रेयसे योगमार्गो ह्यालस्यं धूर्तसङ्गं स्वजनकुपितशास्त्रान्धकारोरुरोगान् । जित्वा मन्वन्तरायान्पुनरपि च महायोगजैश्वर्यसिद्धि स्त्यक्त्वा स्थित्वा सुदेशे सजनपरिवृतेऽबाधिते धर्मराज्ये ॥ ५२॥ तापत्रयं नवविधं व्यवहारभावाः षट्कौशिकानि षडमित्रकपञ्चकोशा । षड्भावजा विकृतयश्च षडूर्मयश्च निष्पन्नयोगमहतां भुवि न स्युरेव ॥ ५३॥ महादीप्तवह्निर्दहेच्छुष्कमात्रं यथा पुण्यपापात्मकं सर्वकर्म । तथा निर्दहेत्क्षणाज्ज्ञानवह्नि- स्ततो मुक्तिमायाति निष्पन्न योगी ॥ ५४॥ अत्यल्पदीपः सुमहत्तमस्तु विनाशयेद्यो निबिडं हठाद्यथा । अल्पोऽप्यहो योगसमाधिरेष विनाशयेत्कर्म शुभाशुभं तथा ॥ ५५॥ यो यो योगसमुद्यतोऽवनितले यात्यन्तिकामापदं स्वर्लोकान्समुपेत्य शाश्वतसुखं तत्रानुभूय स्वयम् । सञ्जायेत ततः सतां श्रुतिमतां यस्मिन्कुले योगिनां तुष्टिं प्राप्य निवर्तयेदविभवं योगी शिवाख्यं परम् ॥ ५६॥ ब्रह्मणि परे हृदयमपि यस्य लीनं तस्य मातापितराविह परत्र चरितार्थौ । तस्य कुलजाः स्युरनघा जयन्ति सर्वे तस्य पदसङ्घटितभूरतिपवित्रा ॥ ५७॥ योगशास्त्रे रहस्यानि सिद्धसिद्धान्तपद्धतिः । सङ्क्षेपेण कृता बोध्या शिवयोगप्रदीपिका ॥ ५८॥ अभ्यासशूराय जितेन्द्रियाय शिवे गुरौ भक्तिसुनिश्चलाय । देयं रहस्यं शिवयोगशास्त्रं यो मूढदाता गुरुपातकी स्यात् ॥ ५९॥ पुरबाणानजसायकान्समुद्रऋतून्करेषूंस्तथा निधिबाणांश्च पञ्च पञ्चधा पटलिकास्वेवं शिवाङ्कं मया । परमित्यादिकशब्दजालविविधच्छन्दोभिरेस्तकृतं गिरिनागाम्बकसङ्ख्ययाऽपि सकलं वन्यैश्च योगान्बहून् ॥ ६०॥ इति श्रीसदाशिवयोगीश्वरविराचेतायां शिवयोगदीपिकायां योगशास्त्रे राजयोगप्रकारेऽमनस्कविधानो नाम पञ्चमः पटलः । सदाशिवब्रह्मेन्द्र समाप्तश्चायं ग्रन्थः ।

कोई टिप्पणी नहीं:

Dr. Balavant Singh