आर्यावर्तस्य परिचयः
॥ ज्ञानं परमं ध्येयम् ॥
आर्यावर्तः भारतीयज्ञानपरम्परायाः, संस्कृतभाषायाः, योगस्य, अध्यात्मविद्यायाश्च प्रचार-प्रसाराय समर्पितः एकः विनम्रः प्रयासः अस्ति। अस्मिन् ब्लोगे भारतस्य प्राचीनायाः समृद्धायाः च ज्ञानपरम्परायाः विविधाः विषयाः सरलया, सुबोधया, यथासम्भवं प्रमाणाधारितया च शैल्या प्रस्तुताः भवन्ति।
संस्कृतं भारतस्य प्राचीनतमा समृद्धा च भाषा अस्ति। वेदाः, उपनिषदः, पुराणानि, दर्शनशास्त्राणि, काव्यानि, नीतिग्रन्थाः तथा विविधाः ज्ञानपरम्पराः संस्कृतभाषायामेव संरक्षिताः सन्ति। अतः संस्कृतभाषायाः अध्ययनं केवलं भाषायाः अध्ययनं न, अपितु भारतीयज्ञानस्य मूलस्रोतसां परिचयः अपि अस्ति।
अस्मिन् ब्लोगे संस्कृतभाषा, संस्कृतसाहित्यं, वेदाः, उपनिषदः, भगवद्गीता, योगदर्शनम्, भारतीयदर्शनानि, स्तोत्राणि, सुभाषितानि, अध्यात्मचिन्तनम् तथा भारतीयसंस्कृतिः इत्यादयः विषयाः विविच्यन्ते।
योगः भारतीयसंस्कृतेः अमूल्यः उपहारः अस्ति। पतञ्जलिमुनिना प्रतिपादितं योगदर्शनं मानवजीवनस्य आन्तरिकपरिष्कारस्य मार्गं दर्शयति। तस्मात् योगस्य शारीरिकपक्षेन सह तस्य मानसिकः, नैतिकः, आध्यात्मिकश्च पक्षः अपि अत्र विवेच्यते।
अध्यात्मस्य क्षेत्रे आत्मा, ब्रह्म, कर्म, ज्ञानम्, ध्यानम्, साधना, मोक्षः इत्यादीनां विषयाणां भारतीयशास्त्रीयदृष्ट्या परिचयः प्रदीयते। प्राचीनज्ञानं केवलं इतिहासस्य विषयः न भवेत्, अपितु वर्तमानजीवने अपि तस्य प्रासङ्गिकता ज्ञायेत—इति अस्य प्रयासस्य प्रमुखः उद्देशः अस्ति।
अस्माकं प्रयत्नः
अस्माकं प्रयत्नः अस्ति यत्—
“प्राचीनं ज्ञानं सरलतया जनानां समीपं नयेम,
संस्कृतभाषां जनजीवने पुनः प्रतिष्ठापयेम,
योग-अध्यात्मयोः वास्तविकं स्वरूपं प्रकाशयेम,
भारतीयज्ञानपरम्परां च नूतनपीढ्यै परिचाययेम।”
एषः ब्लोगः जिज्ञासूनां, विद्यार्थिनां, संस्कृतप्रेमिणां, योग-अध्यात्मयोः साधकानां तथा भारतीयसंस्कृतेः विषये रुचिं वहतां सर्वेषां कृते समर्पितः अस्ति।
भवतु सर्वेषां कल्याणम्।
भवतु ज्ञानस्य प्रसारः।
भवतु संस्कृतस्य संरक्षणं संवर्धनं च।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें